TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

तत्त्वचिन्तामणी - उच्छन्न-प्रच्छन्नवादः

तत्त्वचिन्तामणी शब्दाप्रामाण्यवादावरील एक असामान्य ग्रंथ आहे.


उच्छन्न-प्रच्छन्नवादः
तथापि परतन्त्रपुरषपरम्पराधीनतया प्रवाहाविच्छेदमेव नित्यत्वं ब्रूमः इति चेत्, न, स्मृत्याचारानुमितानां शाखानामुच्छेददर्शनात् ।

स्यादेतत्, विवादपदमपूर्ववोधिका स्मृतिः स्मृत्यर्थानुभवजनकवेदमूला अविगीत-महाजनपरिगृहीतस्मृतित्वात् प्रत्यक्षवेदमूलकस्मृतिवत्, वेदमूलकत्वञ्च वेदजन्यानुभवजन्यत्वं ज्ञानाद्वारा ज्ञायमानस्यैव वेदस्य स्मृतिहेतुतयानुमानं, कुविन्दस्येव ज्ञानादिव्यवहितस्य पटे, न तु कारणाकारणता, वेदे सत्येव तत्प्रतिसन्धाने स्मृतिप्रणयनात्, वेदार्थस्मृतिता च प्रसिद्धिसिद्धा, स्मृत्यर्थश्च स्मृतित एव उपस्थितः ।

न च स्मृत्यर्थबोधकवेदानुमाने स्मृत्यर्थरूपवेदार्थस्य विषयत्वात् वेदोऽनुवादकः ज्ञानान्तरोपनीतस्य विशेषणत्वेन विशिष्टबुद्धिसम्भवात्, पाककृतौ मानसप्रत्यक्षायां पाकस्य

संज्ञासंज्ञिज्ञाने संज्ञायाज्ञानयथार्थत्वे तदनुव्यवसाये भ्रमविषयस्येव, अन्यथा भ्रान्त-भ्रान्तिज्ञसङ्करापत्तिः न तु शब्दार्थोऽनुमानस्य विषयः तस्यासिद्धत्वेनाजनकता स्मृत्यव्यापकत्वात् ।

स च वेदो नित्यमनुमेय एवानुमितादेवार्थमवधार्य स्मृतिप्रणयनसम्भवात् ।

नन्वासंसारमपठितस्य न वेदत्वं उत्पत्तितोऽभिव्यक्तितो मौनिश्र्लोकवदभिप्रायतो वानुपूर्वीहीनवर्णमात्रस्य निरर्थकत्वात् । ज्ञानजनकसमभिव्याहारस्यानेकत्वे विशेषाननुमानाञ्चेति चेत् ।

न ।

स्मृत्यर्थज्ञापकत्वेनैव ज्ञातस्य वेदस्य स्मृत्यर्थानुभावकत्वात् ।

न हि शाब्दबोधे नियतपदानुपूर्वी हेतुः, व्यभिचारात् ।

पदस्य वर्णाविशेषानुपूर्वीनियमेऽपि तत्तद्वर्णानुपूर्वीकपदविशेषत्वेन हेतुत्वं हस्त-करादिपदानां प्रत्येकं व्यभिचारात् ।

किन्त्वव्यभिचारितदर्थज्ञापकत्वेन ज्ञातस्य लाघवादावश्यकत्वाच्च, तदर्थज्ञापकत्वज्ञानार्थमेव क्वचिद्वर्णक्रमस्वरविशेषाणामुपयोगः ।

अत एव वर्णलोपादौ कुशमानयेति सकारसन्देहे लिपावुच्चारणे वा हस्त-करसन्देहेऽपि वाक्यार्थबोधः ।

ननु क्रमिकपदवत्त्वं वाक्यत्वम् ।

न चात्र पदक्रमः, अनुच्चार्यमाणतयोच्चारणाधीनस्य युगपदनुमीयमानतया बुद्यधीनस्य वा तस्याभावादिति चेत्, न हि क्रमिकपदवत्त्वं वाक्यत्वं, गौरव इत्यादावभावात् किन्तु विशिष्टार्थपरशब्दत्वं तच्चात्राप्यस्त्येव ।

अथानुच्चार्यमाणस्य न वाक्यत्वं न वा अर्थानुभावकत्वमिति चेत्, न, लिप्यनुमितानामपि वाक्यत्वात् अर्थबोधकत्वाच्च, लिपितुल्या च स्मृतिः ।

किञ्च वाक्यमुच्चार्यते न तूच्चारणाद्वाक्यत्वं, अन्यथा वाक्यमुच्चारयेत्यत्रानन्वयापत्तिः, अनुच्चारितमौनिश्र्लोकश्च वाक्यं न स्यादुच्चारणदशायाञ्च वाक्यत्वे वाक्यस्यासत्त्वमेव स्यात् एकदा तावत्पदानां उच्चारणाभावात् ।

न च कृत-क्रियमाण-करिष्यमाणोच्चारणस्य वाक्यत्वं, समुदाये प्रत्येकस्याभावात् ।

तस्मादर्थविशेषज्ञापकत्वेनैव ज्ञातादर्थविशेषधीः ।

अत एवास्ति वह्निलिङ्गमितिशब्दात् प्रतीतेः धूमे वह्नेरनुमानं, न तु तदर्थज्ञापकत्वेन ज्ञातात् पदादर्थज्ञानमात्रं स्यात् न तु संसर्गधीः, घटः कर्मत्वमानयनं भावना तद्बोधकमिति ज्ञानेऽपि घटमानयेतिवाक्यादिवान्वयबोधाभावात् ।

एवञ्चान्वयप्रकारकर्मत्वाद्युपस्थापकविभक्त्यादिमत्पदविशेषस्य तदुत्थापिताकाङ्क्षादेश्च ज्ञानं वाक्यार्थदीहेतुरतो न तैर्विना ज्ञापकत्वमात्रेण ज्ञातादर्थधीः, हस्त-करादिसन्देहे कुशमानयेत्यादौ विभक्त्यादिज्ञानादेव वाक्यार्थानुभव इति, मैवं, न हि तत्तद्विभक्त्यादिमत्पदविशेषत्वेन वाक्यार्थधीहेतुत्वं, अननुगमात्, किन्तु घटः कर्मत्वमित्याद्यन्वयविरोधिपदाजन्यपदार्थोपस्थितिस्तथा सा चेहाप्यस्ति ।

वस्तुतस्तु नानापदात् पदार्थोपस्थित्यनन्तरं वाक्यार्थबोधे तथैव सामाग्री अनुमितवेदाद्वाक्यार्थानुभवे विलक्षणैव सा स्मृत्यर्थज्ञापकत्वेनैव ज्ञातस्य स्मृत्यर्थानुभावकत्वात् धर्मिग्राहकप्रमाणेन तस्य तथैव सिद्धत्वात् ।

तवेश्वरस्येवाशरीरस्य कर्तृत्वे ।

अत एव वर्णपद विभक्त्यादिविशेषघटितत्वेनाज्ञातस्याखण्डस्य सखण्डस्य वा वाक्यार्थानुभावकत्वात् पदार्थस्थनीयस्तस्य वाक्यार्थस्तत्र वर्णसमूहः पदं पदसमूहोवाक्यमित्यत्रापि ततो ग्रहः प्रमाणशब्दत्वमात्रेण तस्य सिद्धेः अन्यथा क्प्तहेतुं विना सोऽनुभावक इत्यादौ तदसिद्धावाश्रयासिद्धिः सिद्धौ वा बाधः तेन विनैव सर्वानुपपत्तिं परिभूय तदनुभावकत्वस्य धर्मिग्राहकमानसिद्धत्वात् ।

अत एव क्वचित् स्तुति-निन्दाभ्यां कल्पितविधि-निषेधकवेदार्थमधिगत्य प्रवृत्ति-निवृत्ती ।

अन्यथा विधि-निषेदकानां नानाप्रकारकत्वेन विभक्त्यादिविशेषवत् पदस्यानुमातुमशक्यत्वात् न ततोर्&थधीः स्यात् ।

तथापि वक्तृज्ञानानुमानानन्तरमिवानुमितानुमानादेव वाक्यार्थसिद्धलौकिकवाक्यवद्वेदस्यानुवादकत्वं स्यादिति चेत्, न, धर्मिग्राहकमानेन स्मृत्यर्थज्ञापकतया ज्ञातात् सम्भूतसामग्रीकत्वेनाभावात्, अनुमानस्य व्याप्त्यादिज्ञानापेक्षितत्वेन विलम्बितत्वात् ।

न च वेदस्यापि योग्यतादिज्ञानापेक्षिततया विलम्बः, तन्निरपेक्षबोधकस्यैव धर्मिग्राहकमानसिद्धत्वात् योग्यतादि विशिष्टस्यैवानुमानाद्वा, एवं मङ्गलाचारस्याविगीतशिष्टाचारत्वेन कर्तव्यतामनुमाय सा कर्तव्यता वेदबोधिता अलौकिकाविगीतशिष्टाचारकर्तव्यतात्वादिति तद्बोधकत्वेनानुमितवेदात् कर्तव्यताधीस्ततः प्रवृत्तिः ।

ननु स आचारोवेदबोधितकर्तव्यताकः तादृशाचारत्वादित्यनुमितवेदात् तत्कर्तव्यताधीः, विभक्त्यादिकविनानुमितवेदात् तत्कर्तव्यताज्ञानाभावात् मङ्गलमाचरेदित्येवंरूपस्य च वेदस्य नानुमानं तथा व्याप्त्यभावात्, तस्मात् तस्य कर्तव्यतामनुमानय तद्बोधकवेदानुमानं, प्रथमं कर्तव्यताज्ञानेऽपि वेदानुमानं अविनाभावात् ।

न च तत एव प्रत्यक्षवेदानुमानं, प्रत्यक्षत्वे उच्छेदानुपपत्तेः शाखान्तरवत् ।

यत्तु अष्टकाः कर्तव्याः कार्या अष्टका इत्येवं रूपमेव वाक्यमनुमेयं उपस्थितत्वात्, एवञ्च तत्रैवार्थे प्रतिपुरुषमन्यान्यवेदानुमानं, प्रत्यक्षत्वे उच्छेदनुपपत्तेः शाखान्तरवत् ।

यत्तु अष्टकाः कर्तव्याः कार्या अष्टका इत्येवं रूपमेव वाक्यमनुमेयं उपस्थितत्वात्, तत्रैवार्थे प्रतिपुरुषमन्यान्यवेदानुमानं न दोषाय एकार्थानेकपदोपस्थितौ वानेकवाक्यानुमानमेवेति, तन्न, आचारतो वेदानुमाने मङ्गलमाचरेदित्याद्यन्यतरोपस्थितौ नियमाभावात् ।

अनेकवेदकल्पने च स्वानुभवविरोधः, मनुस्मृतिमूलञ्चानेकं वाक्यं नावश्यकमिति कथमाधुनिकोऽनेकमनुमिनुयात् ।

न च स्मृत्यर्थबोधकोवेदः स्मृतिसदृश एवानुमेयः नियमतः स्मृतेरुपस्थितत्वात् इति वाच्यम् ।

तदर्थस्मृतेरपि नानाप्रकारकत्वात् तस्य च प्रदोषादौ अनुच्चरितवेदस्येव वेदत्वं श्रोत्रग्रहाणार्हतया च शब्दत्वं वाक्यत्वमर्थबोधकत्वादित्येतदेव युक्तं स्मृत्याचारेण चानुमितौ वेदोर्&थं बोधयतीति पूर्वपूर्वेणानुमितवेदात् उत्तरोत्तरस्मृत्याचाराविति नान्धपरम्परा शब्दार्थशक्तिग्रहवत् स्वतः प्रमाणमूलकत्वात् ।

तस्मान्नित्यानुमेयत्वं वेदस्य न तूच्छेद इति । अत्रोच्यते ।

उच्छिन्नवेदादर्थं प्रतीत्य स्मृत्याचारयोरुपपत्तेः न सामग्षन्तरकल्पनं अत एव नाश्रयासिद्धिबोधो वा स्मृत्याचारानुमितवेदस्यास्माभिरभ्युपगमात् ।

इदानीञ्च स्मृतेरर्थं प्रतीत्याचाराञ्च कर्तव्यतामनुमाय प्रवृत्तिः ।

न चैवं किं वेदेनेति वाच्यम् ।

तुल्यत्वात् अविनाभावाच्च तत्कल्पनं तुल्यं तथाच स्मृत्याचारयोर्वेदजन्यानुभवमूलकत्वानुमानादेव पक्षधर्मताबलात् प्रत्यक्षवेदमूलकत्वसिद्धिः ।

अन्यथा तस्यानुभावकत्वाभावेन मूलत्वानुपपत्तेः ।

तस्मात् स्मृत्याचारानुमितो वेदः प्रत्यक्षोऽध्ययनविषयश्च वेदत्वात् संमतवत्, अन्यथा सामग्रयन्तरकल्पने गौरवप्रसङ्गः ।

ननु स्तुति-निन्दार्थवादेन कल्पितात् विधि-निषेधकवाक्यात् कथमर्थमवगम्य प्रवृत्ति-निवृत्ती, न हि तत्र वर्ण-पद-विभक्ति-विधिप्रत्ययक्रमविशेषाणामनुमानं सम्भवति, व्यभिचारादिति चेत्, न, स्तुति-निन्दावाक्याभ्यां प्रवृत्ति-निवृत्तिहेतुरर्थ एव कल्पते ।

लाघावात् ।

न तु विधायक-निषेधकवाक्यं गौरवात् उक्तदोषाच्च, यत्र चार्थवादादेव तदर्थावगमः तरति मृत्युमि&&त्यादौ तत्र न कल्पनापि ।

अथ तस्याध्ययनविषयत्वे शाखान्तरवत् बहुभिर्मेघाविभिराध्यात्मिकशक्तिसम्पन्नैर्घियमाणशाखाया उच्छेदासम्भव इति चेत्, न, एकस्य न सकलशाखाध्ययने शक्तिरित्येकेनेवापरैरपि तदनध्ययने शाखोच्छेदसम्भवादेकानाधीताया अपराध्ययनविषयत्वनियमे मानाभावात् ।

यद्यपि वेदसहस्रशाखाविदो व्यसादयः सन्त्येव, तथाप्यध्ययनाभाव एव शाखोच्चेदः ।

ननु शाखोच्छेदे वर्ण-पदवाक्यहानिशङ्कया प्रत्यक्षवेदादपि वाक्यार्थ-प्रयोगयोरनिश्चये वैदिकव्यवहारमात्रं लुप्येतेति चेत्, न, श्रूयमाणमात्रस्यैव महानजपरिगृहीतत्वात् तन्मात्रबोधिताङ्गतिकर्तव्यतयैव शिष्टैरनुष्ठीयमानत्वाच्च तदर्थनिश्चयात् ।

न च उच्छिन्नशाखाबोधितेकर्तव्यताशङ्कया एकस्मिन्नपि कर्मण्यनाश्वसप्रसङ्गः, नानाशाखेतिकर्तव्यतापूरणीयत्वात् तस्येति साम्प्रतं, सन्ति हि तत्तत्कर्मणि नानाशाखाबोधितसकलेतिकर्तव्यताबोधनायैनमेव कालक्रमभाविनमनाश्वासमशङ्कमानैर्मर्षिभिः प्रणीता महाजनपरिग्रहीताः स्मृतयैति नानाश्वासः ।

अन्यथा एकस्य सकलशाखानवगमात् शाखान्तरबोधितेतिकर्तव्यतासंशयेनैकशाखातो नार्थनिश्चयः स्यात् ।

यत्तु विभक्त्यादिमत्तत्पदानां तत्समुदायानाञ्च प्रत्यक्षत्वन्तेष्ठपि कश्चिद्वेदः तत्रायं समुदायो वेद इत्यनिश्चय एव नित्यानुमेयार्थः, वेदत्वं वा तत्रानुमेयमिति, तन्न प्रत्यक्षवेदातिरिक्तवाक्ये तदभियुक्तानां महाजनानां वेदत्वाभावनिश्चयात् ।

अत एव वेदत्वं तत्रनानुमेयं बाधात् विशिष्य पक्षाज्ञानाञ्च धर्मवेदनाजनकत्वञ्च वेदत्वं नानुमेयं तज्जनकत्वस्य प्रत्यक्षत्वात्, नाध्ययनविषयत्वं तदभावात्, नजातिरनभ्युगमादिति ।

स्यादेतत् ।

स्मृत्याचारयोर्वेदमूलत्वे तत्रोच्छेदादिविवादस्तदेव त्वसिद्धं, तथा हि वेदसमानार्था महाजनपरिगृहीता च स्मृतिः स्वार्थोस्थित्यनन्तरं स्मृत्यर्थानुभावकवेदानुमाने लिङ्गं तथाच प्राथम्यात् साध्यप्रसिध्यर्थसुपजीव्यत्वाञ्च स्मृतेरेवापूर्वादिवाक्यार्थज्ञानमस्तु किं वेदन तदर्थस्य स्मृतित एव सिद्धेः अपूर्वस्यापि शब्दैकगम्यत्वेन स्मृतितोज्ञातस्य ज्ञापकत्वेनानुवादकतापत्तेश्च, सा च स्मृत्यन्तरादित्यनादिरेव स्मृतिधारावश्यिकी ।

अन्यथा मनुस्मृतेः पूर्वन्तवापि वेदानुमानं न स्यात् ।

सर्वा च स्मृतिः स्मृतिजन्यवाक्यार्थप्रमाजन्यत्वेन महाजनपरिग्रहीतत्वेन च प्रमाणमिति नान्धपरम्परा, प्रत्यक्षा च स्मृतिः स्मृतिमूलं नानुमिता अनुमितवेदवत्तस्याननुभावकत्वात् ।

वेदार्थस्मृतिताप्रसिद्धिस्तु प्रत्यक्षवेदमूलस्मृतिसाहचर्येण भ्रमात् प्रत्यक्षवेदाबोधितलोभ-न्यायमूलस्मृताविव तान्त्रिकाणां लिङ्गाभासजन्यवेदमूलकत्वं कल्पयति ।

अथ स्मृतिरिव तद्वेदमूलकत्वप्रसिद्धिरपि महाजनपरिग्रहीता एवञ्च सा वेदमूलत्वनिबन्धना अविगीतमहाजनपरिगृहीतवेदमूलत्वप्रसिद्धित्वात् प्रत्यक्षवेदमूलस्मृतौ तत्प्रसिद्धिवत्, एवं वेदार्थताप्रसिद्धिरपि ।

अन्यथा महाजनपरिगृहीतानादरे वेद-स्मृत्योरपि प्रामाण्यं न स्यादिति चेत्, न, यूपहस्त्यादिस्मृतेस्तत्प्रसिद्धौ व्यभिचारात्, क्प्तलोभादित एव तत्सम्भवात् विचारकाणां विप्रतिपत्तेश्च तत्र तत्प्रसिद्धौ विगानं महाजनानामिति चेत्, न, अत्रापि मूलान्तरसम्भवाद्विप्रत्तिपत्तेश्च

विगानमेव तेषां ।

अत एव स्मृतीनां न्यायमूलत्वे सम्भवति वेदमूलत्वप्रसिद्धावपि न वेदमूलत्वं ।

न च वेदमूलेऽयमिति कृत्वा स्मृतेर्महाजनपरिग्रहात् तन्मूलत्वं, वेदमूलेयमिति प्रथमं ज्ञातुमशक्यत्वात् शक्यत्वे वा किमनुमानेन ।

न च वेदमूलत्वेन प्रकारेण महाजनपरिग्रहः, असिद्धेः मन्वादिस्मृतित्वेन पूर्वमहाजनपरिग्रहेणोत्तरोत्तरेषां परिग्रहादनुष्ठानाद्युपपत्तेः, एवं होलाकाद्याचारेऽपि वेदलिङ्गेनैव कर्तव्यताज्ञानोपपत्तेः किं वेदेन, तदर्थस्य लिङ्गादेवोपपत्तेः ।

अविगीतालौकिकविषयकशिष्टाचारस्य वेदमूलत्वदर्शनात् वेदानुमाने चाविगीतशिष्टाचारत्वेन भोजनाद्याचारोऽपि वेदमूलः स्यात्, वेदं विनापि तत्कर्तव्यताधीसम्भवात् न तदर्थं वेद इति इहापि तुल्यम् ।

अचार-कर्तव्यतानुमानयोरनादित्वेनाचाराणां कर्तव्यत्वानुमानमूलकत्वात् नान्धपरम्परा ।

न च पूर्वानुमानसापेक्षमुत्तरानुमानमिति स्वतन्त्रप्रमाणमूलकत्वाभावात् सा, व्याप्ति -पक्षधर्मतावत्त्वेन सर्वेषां स्वतन्त्रप्रमाणत्वात् ।

नापीतरप्रामान्याधीनं सर्वस्य प्रामाण्यमिति न निरपेक्षत्वं, प्रत्यक्षादेरपि तथात्वापत्तेः ।

एतेन विवादपदमाचारो निरपेक्षप्रमाणमूलकः अविगीतमहाजनाजारत्वात् प्रत्यक्षवेदमूलाचारवदिति निरस्तं ।

अनुमानस्य निरपेक्षप्रमणत्वात् प्रमाणमूलत्वनैव हेतोरुपपत्तेः निरपेक्षत्वस्य गौरवेणाप्रयोजकत्वाच्च ।

न च सापेक्षत्वेन न प्रमाणता, व्याप्त्यादिसत्त्वात् ।

न च सापेक्षत्वेन न प्रमाणता, व्याप्त्यादिसत्त्वात् , ।

अन्यथा प्रमाणे नैरपेक्षस्य वैयर्थ्यात् ।

न चाचारे वेदमूलत्वप्रसिद्धेस्तदनुमानं, असिद्धेः व्यभिचारादन्यथोपपत्तेश्च ।

न च वेदमूलत्वेनैव महाजनपरिग्रहात्तथा, न हि वेदमूलोऽयमिति कृत्वा महाजनानां तत्परिग्रहः, वेदमूलत्वस्य प्रथमं ज्ञातुमशक्यत्वाच्छक्यत्वे वा किमनुमानेन ।

न च वेदमूलत्वेनैव महाजनपरिगृहीतोऽयमाचार इति ज्ञात्वा तत्र महाजनपरिग्रहः, गौरवादसिद्धेश्च ।

पूर्वमहाजनपरिग्रहादेवोत्तरोत्तरेषां परिग्रहादनुष्ठानोपपत्तेः । तादृशस्मृत्याचारयोर्वेदमलत्वेन व्याप्तेर्वेदसिद्धिरिति चेत्, न, असम्भवन्मूलान्तरत्वस्योपाधित्वात् ।

अन्यथा लोभ-न्यायमूलस्मृतेरपि वेदमूलत्वप्रसङ्गः ।

अस्तु वा स्मृत्याचारयोरनादित्वं ।

न चाचारात् स्मृतिः स्मृतेराचार इत्यन्धपरम्परा मूलभूतप्रमाणाभावात् इति वच्यम् ।

स्मृत्याचारयोरुभयोरपि प्रमाणत्वात् ।

अन्यथा न ततो वेदानुमानमपीति ।

उच्यते ।

प्रलये पूर्वस्मृत्याचारयोरुच्छेदात् सर्गादौ नित्यसर्वज्ञेश्वरप्रणीतवेदमूलत्वं स्मृत्याचारयोः ।

अन्यथा मूलाभावेनान्ध-परम्पराप्रसङ्गः ।

न च मन्वादीनामतीन्द्रियार्थदर्शित्वं, तदुपायश्रवणादेस्तदानीमभवात् ।

पूर्वसर्गसिद्धसर्वज्ञमन्वादय एव ते इति चेत्, न प्रमाणाभावात् ।

स्मृत्याचारयोः प्रमाणमूलत्वमेव तत्कल्पनमिति चेत्, न, प्रतिसर्गं तेषामन्योन्यत्वकल्पने गौरवमित्येकस्यैव नित्यसर्वज्ञस्य कल्पनात् । न च स्मृतय एव तत्प्रणीताः, तासां मन्वादिकर्तृकत्वेन स्मृतौ बोधनात् स्मृतावेव स्मृतीनां वेदमूलत्वस्मरणाञ्च ।

एवञ्च स्मृत्याचारयोर्महाजनपरिग्रहाद्वेदमूलत्वसाधकमपि भगवति प्रमाणम् ।

अत एव प्रतिमन्वन्तरञ्चैषा श्रुतिरन्या विधीयते&& इत्यागमोऽपि ।

एवञ्च पूर्वं प्रत्यक्षमूलावेव स्मृत्याचारौ, अग्रे च कालक्रमेणायुरारोग्य-बल-श्रद्धा-ग्रहण-धारणादिशक्तेरहरपचीयमानत्वात् तदध्ययनविच्छेदन शाखोच्छेदात् स्मृत्याचारभ्यामेव कर्तव्यतामधिगत्य प्रवृत्तिः ।

नन्वेवं स्मृतिरस्तु वेदमूलामङ्गलाद्याचारस्त्वीश्वरादेव भविष्यति घट-लिप्यादिसम्प्रादयवदिति चेत्, न, बहुव्यापारघटितस्य तत्तदाचारस्य गुरुत्वेन मङ्गलमाचरेदित्यादिवाक्यस्यैव लाघवेन कल्पनात् ।

न च मङ्गलादिपदशक्तिग्रहार्थे तदुपपत्तेः ।

अत एव यत्र वचनमात्रात् परप्रतिपत्तिस्तत्र नाचारः परीक्षकाणां, तस्य च वेदत्वं नेश्वरप्रणीतत्वेन शक्तिग्रहणार्थतद्वचने व्यभिचारात्, किन्तु तादृशाचारास्य वेदमूलत्वनियमादिति ।

स्यादेत्, प्रलये सत्येवमेव तत् स एव तु नास्ति प्रमाणाभावत् इति चेत्, न, काल-कपालान्यावृत्तिघटप्रागभावः कार्यद्रव्यानाधाराधारः कार्यद्रव्यानधिकरणकार्याधिकरणवृत्तिर्वा अभावत्वात् आकाशवृत्त्यन्योन्याभाववदिति वृत्तप्रलयसाधनात् ।

एवमेव घटध्वंसं पक्षीकृत्यागामिप्रलयसाधनम् ।

यद्वा घटः कार्यद्रव्यानधिकरणकार्याधिकरणवृत्तिध्वंसप्रतियोगी कार्यत्वाच्छब्दवत् ।

यद्वा कार्यद्रव्यत्वं कार्यद्रव्यानधिकरणकार्याधिकरणवृत्तिध्वंसप्रतियोगिवृत्ति कार्यमात्रवृत्तित्वात् शब्दत्ववत् ।

यद्वा एककालीनाः सर्वे परमाणवः समग्रीपादेयप्रबन्धशून्या आरम्भकत्वात् नष्टपवनारम्भकपरमाणुवत् ।

सर्वत्र पक्षतावच्छेदकावच्छिन्नं साध्यं प्रतीयते इति एककाले शून्यते लभ्यते ।

न च पवनपरमाणूनामपि पक्षत्वेनांशतः सिद्धसाधनं, पक्षधर्मताबललभ्यसाध्याप्रतीतेः, अभेदानुमानवच्च पक्षस्य दृष्टान्तत्वाविरोधः ।

यद्वा परमाणवः कार्यद्रव्यानधिकरणवृत्तिकार्यवन्तः नित्यद्रव्यत्वात् आकाशवत्, भूगोलकसन्तानोऽयं भूगोलकसन्तानानधिकरणवृत्तिध्वंसप्रतियोगी कार्यत्वात् घटवत् । यद्वा एतत्कर्मातिक्तानि कर्माणि एतत्प्रतिबन्धकप्रतिबध्यानि कर्मत्वात् एतत्कर्मवत् ।

न चात्र व्यभिचारशङ्का, सर्वेषामेवंरूपत्वादनेवम्भावे च स्वभावप्रच्यवात् ।

अन्यथा नियमेऽपि नियमान्तरापेक्षायामनवस्थितेः ।

आगमोऽप्यमुमेवार्थं संवतदीति कृतं प्रसक्तानुप्रसक्त्या ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:06.9430000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

वैजवापायन

  • n. वैजवापायन नामक आचार्य का नामान्तर। 
RANDOM WORD

Did you know?

pl. kartiksnanache ani kakadariche mahatva sangave ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site