TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

तत्त्वचिन्तामणी - तात्पर्यवादः

तत्त्वचिन्तामणी शब्दाप्रामाण्यवादावरील एक असामान्य ग्रंथ आहे.


तात्पर्यवादः
तात्पर्यधीनं शब्दप्रमाण्यं तत्र तत्परत्वं न तत्साध्यकत्वं पदार्थ-तत्संसर्गयोः शब्दासाध्यत्वात् ।

अथ तङ्गोचरप्रवृत्तिनिवृत्तिसाध्यकत्वं तत्परत्वं, तच्च भाव्यार्थस्य साक्षात् भूतार्थस्य तु प्रशंसा-निन्दावाक्यस्य प्रशस्तनिन्दितार्थप्रतिपादनद्वारा लाक्षणिकस्य लक्षणीयविषयप्रवृत्ति-निवृत्तिजनकत्वं तत्परत्वमिति चेत्, न, तत्परत्वे तज्ज्ञानं जनयित्वा तत्र प्रवर्त्तकत्वं तत्प्रवर्त्तकत्वञ्च तत्परत्वमिति परस्पराश्रयात् ।

लाक्षणिकस्याननुभावकत्वेऽपि लक्षणीयपरत्वात् काव्यादेः स्वरूपाख्यानमात्रपरत्वेनापि पर्यवसानाञ्च ।

ननु तत्बुद्धिजनकत्वं तत्परत्वं प्रशंसा-निन्दावाक्यमपि प्रशस्त-निन्दितस्वार्थधीहेतुत्वेन तत्परमेव, तच्च ज्ञानं प्रशस्ते सर्वः प्रवर्तते निन्दिताञ्च निवर्तते इति स्वविषये प्रवृत्तिनिवृत्तौ जनयतीति तत्परमुच्यत इति चेत् ।

न ।

गौण-लाक्षणिकयोरनुभावकत्वात् तद्बुद्धिजनने तत्परत्वमित्यन्योन्याश्रयाच्च ।

तज्जननयोग्यत्वमिति चेत्, तर्ह्येकत्रोच्चारणे नानार्थे नानार्थपरत्वं लक्षणायाञ्च मुख्यार्थपरत्वं स्यात् योग्यतायाः सत्त्वात् ।

नापि तत्प्रतिपाद्यकत्वं, तात्पर्यं विना न तथेत्यन्योन्याश्रयात् ।

प्रशंसा-निन्दावाक्यस्य प्रवृत्त्याद्यप्रतिपादकत्वात् लाक्षणिकस्याप्रतिपादकत्वाच्च ।

अथ गङ्गापदं स्वार्थाविनाभावि तीरं प्रतिपादयत्तत्परमिति चेत् ।

न ।

मञ्चाः क्रोशन्तीत्यत्र तेन विनापि पुरुषे तात्पर्यात् गङ्गादिपदं मत्स्यादिपरं मुख्ये तीरपरञ्च स्यात् अविनाभावस्य तादवस्थ्यात् ।

मुख्ये बाधके सतीति चेत्, तर्हि मुख्यार्थपरतैव न स्यात् न स्याच्च गच्छ गच्छसीत्यत्र गमनाभावपरत्वं ।

उच्यते ।

तत्प्रयोजनकत्वं तत्परत्वं तदर्थश्च प्रतीतिः प्रवृत्ति-निवृत्ती च, प्रयोजनत्वञ्च न साध्यत्वंअन्योन्याश्रयात् ।

नापि प्रतिपाद्येच्छाविषयत्वं, यस्य यदिच्छाविषयः तं प्रतितत्परत्वापत्तेः ।

तदर्थसाथ्यत्वेन इच्छानियम इति चेत् ।

न ।

इह धूम इत्यत्र जन्य-ज्ञाप्यभेदेन साध्यस्य बहु विधतया वाक्यभेदप्रसङ्गात् पुमिच्छया नियन्तुमशक्यत्वात्, किन्तु प्रतिपादकेच्छाविषयत्वं तत्परत्वं, यः शब्दः वक्ता यदिच्छया प्रयुक्तः स तत्परः, सा चेच्छा

प्रतिपाद्यधी-प्रवृत्ति-निवृत्तिविषयेति तत्परत्वं ।

नानार्थात् श्र्लिष्टादनेकपदार्थान्वितैकक्रियापदात् मुख्यलाक्षणिकपराच्चावृत्त्या क्रमेणानेकपदार्थज्ञानं न त्वेकदैव, सकृदुच्चरितस्य सकृदर्थपरत्वनियमेनैकत्रोच्चरणे अनेकार्थपरत्वाभावादिति सकलतान्त्रिकैकवाक्यतया वदन्ति ।

वयन्तु ब्रूमः ।

अनाकपदार्थप्रतीतीच्छया एकमुच्चारणं भवत्येव पुमिच्छायानियन्तुमशक्यत्वात् ।

यदि च तदुच्चारणं नानेकार्थपरं तदावृत्तिरपि न स्यात् तात्पर्यनिर्वाहार्थमात्रवृत्तिकल्पनात् ।

अन्यथैकपरेऽपि तदापत्तेः ।

अत एव तदुच्चारणस्य उभयपरतायां नावृत्तिकल्पणं तस्मात्तुल्यवदनेकार्थोपस्थितौ तात्पर्यादिज्ञाने युगपदनेकान्वयबोधो भवति सामग्रयास्तुल्यत्वात् प्रथममेकस्यान्वयबोधो न तदन्यस्येति नियन्तुमशक्यत्वच्च ।

अथ विवादध्यासितमक्षपदोच्चारणं एकपदैकशक्तिविषयमेकमेवानुभावति एकत्रोच्चारणे नानाशक्त्या नानार्थाननुभावकं नानार्थत्वात् एकपरनानार्थपदवदिति चेत् ।

न ।

अनेकार्थानुभवसामर्ग्रीवसत्त्वेन बाधितत्वात् सामग्रीरहस्योपाधित्वाच्च ।

अत एवाक्षमानयेत्युक्ते भिन्नप्रकरणादिना भिन्ने तात्पर्यप्रमायां भ्रमे वा प्रतिपाद्ययोरेकदैवावृत्तिं विनानेकार्थप्रतीतिर्न तु तत्रैको विलम्बते, एवं घटं पटं वा आनयेत्यत्रानयनस्योभयपरत्वे एकदैवान्वयबोधो नत्वावृत्तिः वाक्यभेदस्त्वर्थभेदात् न ज्ञानभेदात् ।

गङ्गायां जलं घोषश्च प्रतिवसतीत्यत्र गङ्गापदस्य युगपत्प्रवाह-तीरयोस्तात्पर्यग्रहे तयोर्द्वयोरप्येकदोपेस्थितौ जल-घोषयोरेकदैवान्वयबोधः ।

न च युगपद्वृत्तिद्वयापत्तिः, इष्टत्वात्, तात्पर्याद्वि वृत्तिः, न तु वृत्त्यनुरोधात् तात्पर्यं, गौणलाक्षणिकयोरुच्छेदापत्तेः तात्पर्यनिर्वाहर्थं वृत्तित्वेन तयोः कल्पनात् ।

मुख्य-लाक्षिणिकयोरेकैकमात्रपरत्वे तु युगपद्वृत्तिद्वयविरोधः ।

अनेकान्वयबोधपरत्वे वृत्तिद्वयविरोधस्य दोषत्वे परिभाषापत्तेः, यत्र मुख्यार्थे शीघ्रत्वेन प्रथममन्वयबोधः अनन्तरं लाक्षणिकान्वयबोधः तत्रावृत्तिरेव तस्मात् युगपत्तात्पर्यग्रहे सति नावृत्तिः किन्त्वनेकार्थपरत्वे सत्येव यत्र तात्पर्यग्रहकमादन्वयबोधक्रमः तत्रावृत्तिः प्रथमोच्चारणस्य पर्यवसितत्वादिति ।

एवञ्च लोके क्प्तत्वात् वेदेऽपोदं तात्पर्यमिति तस्य पौरुषेयत्वम् ।

अत्र मीमांसकाः यथोच्चारणपूर्वत्वात् उच्चारणं वेदे परतन्त्रं तथा तात्पर्यमपि तात्पर्यपूर्वकमेवेति परतन्त्रं न तु कस्यापि प्रथमं तात्पर्यं अनादित्वात् पूर्वपूर्ववाक्यार्थज्ञानेच्छयोच्चारणमुपजीव्याग्रिमस्य तदिच्छयोच्चारणात् तदिच्छया तदुच्चारणमेव हि तत्परत्वं लोक-वेदसाधारणं, सा चेच्छा स्वतन्त्रा परतन्त्रा वेति न कश्चिद्विशेषः, तदवधारणाञ्चानादिमीमांसापरिशोधितन्यायाद्वेद इत्युभयवादिसिद्धं, अतस्तात्पर्यानुरोधेन वेदस्य न पौरुषेयत्वम् ।

नन्वर्थज्ञानं विनोच्चरितवेदात् कथमर्थयोः वाक्यार्थज्ञानं विना तदिच्छयोच्चारणाभावात्, प्रतिपुरुषमुच्चारणभेदादिति चेत्, तर्हि पठ्यमानभारतादपि तथाभूतादर्थधीर्न स्यात् व्यासेन यत्प्रतीतीच्छया उच्चारणं कृतं तज्जातीयत्वात् अर्थज्ञानं विनापि पठ्यमानभारतार्थधीरिति चेत्, तर्हि वेदेऽपि तुल्य, तत्तात्पर्यकजातीयत्वस्य नियामकत्वात् अन्यथा पठ्यमानवेदात्तवाप्यर्थधीर्न स्यात् ईश्वराप्रणीतत्वात् ।

अथ वेदः पौरुषेयः वाक्यत्वात् भारतादिवत् इति चेत्, को वेदः, अनुगतधर्माभावेन तस्य शाखासु नानार्थत्वात्, तथाहि न मुख्यवेदपप्रयोगविषयोवेदः मुख्यार्थाकथनात् ।

नापि शाखासमुदायः, तस्य वेदनिरूप्यत्वात् समुदायस्याप्रतिपादकत्वेन वाक्यत्वासिद्धेश्च ।

नापि स्वर्गकामादिवाक्यं, स्मृति-भारतादेरपि तथात्वात् ।

नापि सन्दिग्धकर्तृकवाक्यं, वादिनोर्निश्चयात्, ।

वाद्यनुमानयोस्तुल्यत्वेन मध्यस्थस्य संशय इति चेत्, तर्ह्यनुमानाभ्यां तस्य संशयोमध्यस्थसंशयप्रश्र्नानन्तरञ्चानुमानमित्यन्योन्याश्रयः ।

नापि विवादाध्यासितं वाक्यं, अनुगतधर्मं विना विवादस्याप्यभावात् भारतादावपि तत्समावाञ्च ।

नापि महानजनानां वेदाकारानुगतव्यवहारात् वेदत्वं जातिः, देवदत्तीयत्वाद्यनुमापकशब्दवृत्तिजातिभिः सङ्करप्रसङ्गात् ।

किञ्च पौरुषेयत्वं न तदर्थधीजन्यत्वं तदुच्चारणधीप्रभवत्वं वा, अध्यापक-तदुभयधीजन्यत्वेन सिद्धसाधनात् ।

नाप्युच्चारणस्य सादित्वं, प्रत्युच्चारणस्य सादित्वात् ।

नापि स्वतन्त्रपुरुषप्रणीतत्वं, पठ्यमानवेदभारतयोस्तदभावात् ।

तज्जातीयः स्वतन्त्रपुरुषप्रणीत इति चेत्, तर्हि पठ्यमानभारतं व्यासस्य न ममेति कथं स्यात्, स्वातन्त्र्यञ्च यद्युच्चारणव्यक्तौ तदा ममाप्युच्चारणसमान्ये न व्यासस्यापि ।

किञ्च स्वतन्त्रपुरुषप्रणीतजातीयत्वं यदि साध्यते तदाद्यभारते स्मृतौ च वाक्यत्वमनैकान्तिकं, न हि तज्जातीयं स्वतन्त्रपुरुषप्रणीतमिति साध्यमनिर्धारितविशेषं जीवी क्वचिदस्तीति वदिति चेत् ।

न ।

पठ्यमानभारते व्यभिचारात् ।

अथार्थं प्रतीत्य तदर्थपरतया प्रतिसन्धीयमानपदत्वं पौरुषेयत्वं तस्य प्रथममावश्यकत्वात्, अत एवानुच्चारितोऽपि सौ मौनिश्र्लोकः पौरुषेय इति चेत् ।

न ।

अर्थज्ञानवताध्यपकेन सिद्धसाधनात्, अन्यथा पठ्यमानवेद-भारताभ्यां व्यभिचारात् ।

अत एव वेदत्वं स्वतन्त्रपुरुषप्रणीतवृत्ति वाक्यवृत्तिधर्मत्वात् भारतत्ववदिति निरस्तम् ।

स्वतन्त्रप्रणीतत्वं हि वाक्यार्थगोचरयथार्थज्ञानचिख्यापयिषयोच्चरणं तथा च

तथाविधाध्यापकेन सिद्धसाधनम् ।

एतेन वक्तृत्वानुवक्तृत्वयोर्भेदस्य लोकसिद्धत्वात् सवक्तृकत्वं साध्यमिति निरस्तं ।

नापि सजातीययोच्चाणानपेक्षोच्चारणं पौरुषेयत्वं पठ्यमानवेदे बाधात् भारते व्यभिचारात् ।

उच्यते, शब्द-तदुपजीविप्रमाणातिरिकप्रमाणजन्यप्रमित्यविषयार्थकत्वे सति शब्दजन्यवाक्यार्थज्ञानजन्यप्रमाणशब्दत्वं वेदत्वम्, ईश्वरीयप्रमायाः अजन्यत्वात्, वेदार्थस्यानुमानादिविषयत्वेऽपि अनुमानादेर्वेदोपजीवकत्वात् ।

स्मृतीनां भारतादिभागस्य च वेदसमानार्थकत्वेऽपि शब्दजन्यधीजन्यत्वात् वेदार्थं प्रतीत्य तत् प्रणयनात् ।

सजातीयोच्चारणनपेक्षोच्चारितजातीयत्वं पौरुषेयत्वं, आद्यभारतेऽपि तज्जतीयत्वान्न व्यभिचारः ।

अथवा वेदत्वं सजीतीयोच्चाणानपेक्षोच्चरितवृत्ति प्रमाणतावच्छेदकवाक्यवृत्तिधर्मत्वात् स्मृतित्ववत् ।

यद्वा वेदाः शब्दाजन्यवाक्यार्थगोचरयथार्थज्ञानजन्याः प्रमाणशब्दत्वात् भारतवत् ।

न च पठ्यमाने वेदे बाधः भारते मन्वादिस्मृतौ च व्यभिचारः तेषां द्विकर्तृकत्वात् तादृशज्ञानजन्यजातीयत्वं वा साध्यं, तवाप्येतदभावादेव वेदेऽपौरुषेयत्वव्यवहारः ।

नन्वप्रयोजकमिदं वाक्यार्थगोचरयथार्थज्ञानपूर्वकत्वमेव शब्दप्रमाण्ये तन्त्रं न तु तादृशज्ञानस्य शब्दाजन्यत्वमपि गौरवात् , अन्यथा वेदेऽपि तव द्विकर्तृकत्वेन प्रमाण्यं स्यात् लोके तथा दर्शनात्, एवञ्च अनादिमीमांसासिद्धन्यायेनावगततात्पर्यात् वेदार्थं प्रतीत्य पूर्वपूर्वाध्यपकेन उच्चरिताद्वेददुत्तरोत्तरस्याप्यध्ययनतदर्थप्रतीतिरित्यनादितैवातः किं स्वतन्त्रपुरुषेण तत्प्रयोजनस्य परतन्त्रादेव सिद्धेः ।

किञ्च पूर्वकलो न वेदशून्य इत्युद्देश्यप्रतीतेरसिद्धेः नांशतः सिद्धसाधनं, तथा पूर्वकालीनं वेदाध्ययनं गुर्वध्ययनपूर्वकं अध्ययनत्वात् इदानीन्तनाध्यायनवत् ।

न च लिप्यनुमितवेदाध्ययनेन व्यभिचारः, लिपेरध्ययनपूर्वकत्वात् ।

न चैवं भारताध्ययनमपि तथा स्यात्, तस्य भारतादावेव व्यासादिकर्तृकत्वेन कथनादिति ।

उच्यते ।

वेदप्रामाण्याधीनं तत्प्रामाण्यमित्यत्माश्रयः ।

न च पूर्ववेदप्रामाण्याधीनमुत्तरवेदप्रमाण्यमिति व्यक्तिभेदमादाय नात्माश्रय इति वाच्यम् ।

एवं तत्पूर्वस्यापि तत्पूर्वप्रामाण्यात् प्रामाण्यमित्यनवस्थानात् ।

अनादित्वादयमदोष इति चेत् ।

न ।

मूलभूतप्रमाणान्तराभावात् अन्धपरम्परापातात् ।

स्वतः प्रमाणं वेद एव सर्वत्र वेदे मूलमिति चेत् ।

न ।

सर्वेषामेव परवेदापेक्षत्वेन स्वतः प्रमाणत्वाभावात् ।

अत एवाचारात् स्मृतिः स्मृतेराचार इत्यत्र विश्वासवीजपरानपेक्षमूलभूतप्रमाणाभावादन्धपरम्पराभयेन तत्र वेदमूलकत्वकल्पना ।

अनादिमहाजनपरिग्रहादनादिवेदप्रवाहप्रामाण्यावधारणेऽपि तन्निर्वाहकेतरानपेक्षमूलभूतप्रमाणाभावेनानाश्वास एव अन्यथा स्मृत्याचारयोरप्येवं प्रमाणण्यावधारणे प्रमाणमूलकत्वकल्पना न स्यात् ।

तस्मादाश्वासवीजपरानपेक्षेश्वरप्रत्यक्षमूलकत्वादेव वेदस्य प्रामाण्यं महाजनप्ररिग्रहादवधर्यते ।

एतेनानुमानमपि निरस्तम् ।

मूलभूतप्रत्यक्षं विना वेदप्रामाण्यानुपपत्त्या साध्याभावसिद्धौ बाधात् ।

ननु वेदो न पौरुषेयः अस्मर्यमाणकर्तृकत्वादिति बाधकमस्त्विति चेत् ।

न ।

कपिल-कणाद-गौतमैस्तच्छिष्यैश्चाद्यपर्यन्तं वेदे सकर्तृकत्वस्मरणस्य प्रतीयमानत्वात् ।

न च मूलभूतानुभवाभावात् स्मरणानुपपत्तिः, पौरुषेयत्वानुमानादेवानुभवात् ।

अस्मरणमेव तत्र बाधकमिति चेत् ।

न ।

एवं सत्यस्मरणाननुभवयोरन्योन्याश्रयात् ।

अग्रे तदर्थस्मरणाभावेऽपि प्रमाणस्यानुभावकम् ।

&&तस्मात्तपस्तेपानाच्चत्वारो वेदा अजायन्त ऋचः सामानि जज्ञिरे&& इति कर्तृश्रवणात् प्रतिमन्वन्तरञ्चैषा श्रुतिरन्या विधीयते&& इत्यादिकर्तृस्मरणाच्च ।

पौरुषेयत्वे बाधकं विना अर्थवादमात्रत्वस्य वक्तृमशक्यत्वात् ।

&&स्वयम्भूरेष भगवान् वेदो गीतस्त्वया पुरा ।

शिवाद्या ऋषिपर्यन्ताः स्मर्त्तारोऽस्य न कारकाः&& इति महाभागवतपुराणीयवाक्यस्य श्रुतिविरोधेनान्यच्च तात्पर्यात् ।

न च कार्यपरमेव प्रमाणं, कर्तृस्मरणस्य सर्वत्राविध्यर्थत्वात् सकर्तृकत्वार्थवादस्य स्वर्ग-नरकार्थवादस्येव ीश्वरमुपासीत&& इति विधिशेषत्वाच्च ।

साधयिष्यते सिद्धार्थस्य प्रामाण्यम् ।

न चैवमानन्दोऽपीश्वरे स्यादिति वाच्यम् ।

तत्र मानान्तरविरोधात् ।

पुरुषस्य भ्रम-प्रमादादिभूयिष्ठत्वेन वेदे नाश्वास इति चेत् ।

न । धर्मिग्राहकमानेन नित्यसर्वज्ञत्वेन सिद्धे तत्र दोषाभावादिति ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:06.7870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

analytical statistic

  • विश्लेषमात्मक आकडेवारी 
RANDOM WORD

Did you know?

समुद्रस्नान केव्हा करावे व केव्हा करू नये ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.