संस्कृत सूची|शास्त्रः|योग शास्त्रः|योगयात्रा| प्रोत्साहनाध्याय योगयात्रा दैवपुरुषाकाराध्याय आचाराध्याय अभियोगाध्याय योगाध्याय बल्युपहाराध्याये नक्षत्रविजयस्नानप्राशन् अग्निनिमिताध्याय नक्षत्रकेन्दुभाध्याय हस्तिलक्षणाध्याय अश्वेङ्गिताध्याय खड्गलक्षणाद्याय प्रस्थानिकाध्याय शकुनाध्याय प्रोत्साहनाध्याय उपसंहाराध्याय योगयात्रा - प्रोत्साहनाध्याय योग शास्त्र ऋषी मुनींनी जगाला शिकविले. Tags : astrologyhoroscopevarahamihiryogayogayatraयोगयोगयात्रावराहमिहिर प्रोत्साहनाध्याय Translation - भाषांतर शूरकृतास्रमहाकुलजाताः स्वामिहिता बलिनः कृतयोग्याः ।दृष्टगुणा बहुबान्धवमित्रा नागकरोरुभुजाः कठिनाङ्गाः ॥व्याघ्रमृगेश्वरगोवृषनादाः श्येनदृशः शुकसन्निभनासाः ।केकरजिह्मनिमीलितनेत्राः पुण्यकृतां समरेषु सहायाः ॥देशगुणैः प्रथिताश् च पुरोगास् ते बहवो गुणलक्षणलक्ष्याः ।कालभृतो भृकुटीकृतवक्रावमभृतो विविधायुधहस्ताः ॥दण्डोरगौ रविसुतस्य रवेस् तु चक्रं शुक्रस्य पद्मशकटौ गरुडो बुधस्य ।व्यूहौ तु सूचिमकरौ धरणीसुतस्य श्येनो गुरोः शिशिरगोर् अपि मण्डलाख्यः ॥व्यूहम् आत्मशुभदग्रहस्य यद् विद्विषाम् अशुभसंस्थितस्य वा ।तत्प्रयोज्यम् अरियोजितस्य वा घातनं तदरिभिर् बलोत्तरैः ॥रणे प्रत्यासन्ने सदसि नृपतिर् मन्त्रिविदितंबलोत्साहं कुर्याद् अहितवलविद्रावणकरम् ।जयं नो दैवज्ञः कथयति जनः सत्यवचनोनिमित्तानीष्टानि द्विपतुरगयोधादिषु च मे ॥अभिजनयुता यूयं सौर्यं जनाः कथयन्ति वोधनुषि कणये चक्रे शक्त्याम् असौ च कृतश्रमाः ।मयि च भवताम् अस्ति स्नेहः कथन् न जयो ममद्विरदतुरगं स्याद् आक्रान्तं भवद्भिर् इदं यदा ॥बृंहन्ति हेषन्ति शिवं ब्रुवन्ति दीप्यन्ति शोचन्ति मुदान्विताश् च ।नागाश्वविप्रानलशत्रुयोधाः कः संशयश् चात्र रणे जयस्य ॥द्वेषायनेन मुनिना मनुना च धर्मा युद्धेषु ये निगदिता विदितास् तु ते वः ।स्वाम्यर्थगोद्विजहिते त्यजतां शरीरं लोका भवन्ति सुलभा विपुलं जयश् च ॥तपस्विभिर् या सुचिरेण लभ्यते प्रयत्नतः सत्रिभिर् इज्यया च या ।व्रजन्ति ताम् आशु गतिं मनस्विनो रणाश्वमेधे पशुताम् उपागतः ॥यस्य तपो न जनाः कथयन्ति नो मरणं समरे विजयञ् च ।न श्रुतदानमहाधनतां वा तस्य भवः कृमिकीटसमानः ॥सरक्ष्यमाणम् अपि नाशम् उपैत्य् अवश्यम् एतच् छरीरम् अपहाय सुहृत्सुतार्थान् ।तत् किं वरं प्रलपतां सुहृदां समक्षं किं निध्नतः परबलं भृकुटीमुखस्य ॥हा तात मातेति च वेदनार्त्थाः धवणञ् छकृन्मूत्रकफानुलिप्तः ।वरं मृतः किं भवने किम् आजौ सन्दष्टदन्तच्छदभीमवक्त्रः ॥लोकः शुभस् तिष्ठतु तावद् अन्यः पराङ्मुखानां समरेषु पुंसाम् ।पत्न्यो ऽपि तेषां न ह्रिया मुखानि पुरः सखीनाम् अवलोकयन्ति ॥शत्रुसैन्यम् अवदार्य वर्त्ततां यत् सुखन्तु कथयामि तादृशम् ।शृण्वतां स्वयशसोग्रपल्लवान् दिग्बधूवदनकर्णपूरकान् ॥निपतति शिरसि द्विपस्य सिंहः स्वतनुशताधिकमांसराशिमूर्त्तेः ।पिबति च तदसृग्मदेष्टगन्धं वदनगतांश् च शनैः प्रसृज्य मुक्तान् ॥मणिकनकविभूषिता युवत्यो द्विपतुरगं वसु चामरानिलश् च ।अविरलशशिकान्ति चातपत्रं भवति न मातृमुखस्य युद्धभीरोः ॥रुचिमत्कु बाहुपञ्जरे हरिनाक्ष्यः प्रवरोरुपीडनम् ।रमयन्ति विमानसंस्थिताः सुरबध्वो ऽतिमुदा रणार्जिताः ॥एकतो ऽस्य सुरसुन्दरीजनः श्रीः प्रतीच्छति युयुत्सुतो ऽन्यः ।पद्मया सह पलायते यशश् चैकतः कुलकलङ्ककारकम् ॥आरामदेवकुलकूपतडागयज्ञा ये वः कृता बिलसितञ् च नृपप्रसादात् ।तद् वो वृथो यदि न निश्छलमाजिमध्ये विद्युल्लताविकसितानि करोति वो ऽसिः ॥चित्रं किम् अस्मिन् वद साहसं वा यत् स्वामिनो ऽर्थे गनयन्ति नासून् ।युद्धात् प्रनष्टो विदितो ऽरिमध्ये यद्वालिश स्तष्ठति साहसं तत् ॥न केवलं गात्रविभूषणानि क्षतानि शूरस्य रणे कृतानि ।यशस्तरोर् मूलकृषिक्षतानि तान्य् एव वंशस्य विभूषणानि ॥भग्नेषु योधेष्व् अवपूर्य शस्त्राण्य् आजौ प्रवृत्ता व्यसवः कृता ये ।ऊर्ध्वानना वाजिमखाप्तलोकास् तेषां विमानान्य् अवलोकयन्ति ॥यैर् श्वमेधे ऽभिहितं फलं वा देवैर् द्विजैर् वा श्रुतिशास्त्रकारैः ।तैर् एव भङ्गे प्रतिलोमगस्य पदे पदे वाजिमखः प्रदिष्टः ॥स्वर्गस्य मार्गा बहवः प्रदिष्टास् ते कृच्छ्रसाध्याः कुटिलाः सविघ्नाः ।निमेषमात्रेण महाफलो ऽयम् ऋजुश् च पन्थाः समरे व्यासुत्वम् ॥दृष्टाइश्वर्यं स्वामिगोब्राह्मणार्थे त्यक्तासूनां सङ्गरे सङ्गतानाम् ।कृच्छ्रोपायैर् अर्जितस्वर्गलोकाः जन्मेच्छन्ति क्षिप्रम् एवाजिलोभात् ॥संमूर्च्छितं संयुगसंप्रहारैः पश्यन्ति सुप्तप्रतिबुद्धतुल्यम् ।आत्मानम् अङ्केषु सुराङ्गनानां मन्दाकिनीमारुतबीजिताङ्गाः ॥जीवितो ऽपि निहतस्य वा रणे धर्म एव हि नरस्य युध्यतः ।निश्चयान् न मरणां हि सङ्गरे नैव भीरुजरामरः क्वचित् ॥मानमात्रम् अवलम्ब्य युध्यते कीटको ऽपि विहगो ऽथ वा पशुः ।को हि नाम पुरुषस् त्यजेद् रणं स्वगमानसुखकीर्त्तिवित्तदम् ॥यद् अभावि न मे ऽस्ति तत् क्वचित् सदसद्भावि न मे क्व यास्यति ।इति संपरिचिन्त्य पण्डिताः परसैन्यानि विशन्त्य् अविक्लवाः ॥उरः कृत्वा वेद्यां मणिफलकगाढस्थितकुचं भुजा वालम्ब्यैर् हीत्यमरवनिता व्योमगृहगाः ।अपद्वारेणैवं त्वरितपदम् अत्याहुर् अपरा हतं हस्तालघ्वैर् हरति सुरलोको रणमुखात् ॥हंसाढयं मणिवेदिकाकुहरकव्यालं बिहाराम्बरंनिर्व्यूहस्थितरत्नचित्रकनकं स्तम्भाश्रितं व्यालकम् ।घण्टाकिङ्किणिचारुचामरयुतस्त्रीगीतनृत्यान्वितंबालार्कोपमम् आविशन्त्य् अभिमुखा युद्धे विमानं हताः ॥ N/A References : N/A Last Updated : November 14, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP