संस्कृत सूची|शास्त्रः|योग शास्त्रः|योगयात्रा| नक्षत्रविजयस्नानप्राशन् योगयात्रा दैवपुरुषाकाराध्याय आचाराध्याय अभियोगाध्याय योगाध्याय बल्युपहाराध्याये नक्षत्रविजयस्नानप्राशन् अग्निनिमिताध्याय नक्षत्रकेन्दुभाध्याय हस्तिलक्षणाध्याय अश्वेङ्गिताध्याय खड्गलक्षणाद्याय प्रस्थानिकाध्याय शकुनाध्याय प्रोत्साहनाध्याय उपसंहाराध्याय योगयात्रा - नक्षत्रविजयस्नानप्राशन् योग शास्त्र ऋषी मुनींनी जगाला शिकविले. Tags : astrologyhoroscopevarahamihiryogayogayatraयोगयोगयात्रावराहमिहिर नक्षत्रविजयस्नानप्राशन् Translation - भाषांतर मदयन्तिका ऽश्वगन्धा मदनफलवचामधूनि शस्यन्ते ।प्रथमर्क्षे भरणीषु च(तु) सिद्धार्थकभद्रदारुवचाः ॥न्यग्रोधशिरीषाश्वत्थपत्रगन्धाश् च कृत्तिकास्नाने ।बहुबीजप्रशस्ततोयैर् जयार्थिनो रोहिणीस्नानम् ॥मुक्ताकाञ्चनमणिसंयुक्तेन ऽम्भसा मृइगाङ्कर्क्षे ।रौद्रे वचाश्वगन्धाप्रियंगुमिश्रैर् जलैः कथितम् ॥आदित्ये गोमयगोष्ठमृद्भिर् अथ गौरशालिभिः पुष्ये ।सिद्धार्थसहस्रद्वय(सिद्धार्थद्विसहस्रैः)प्रियंगुमदयन्तिकाभिश् च ॥वल्मीकशतान् मृद्भिः नागे(सार्पे) पित्र्ये च देवनिर्माल्यैः ।पूर्वासु फल्गुनीषु च सलवणघृतशाड्वलैः प्रोक्तम् ॥शतपुष्पया प्रियंग्वा मुस्ताभिश् चोत्तरासु क्रुवीत ।हस्ते सरोगिरिमृदा चित्रायां देवनिर्माल्यैः ॥स्वातौ जलरुहकुसुमैर् ऐन्द्राग्न्ये(ऐन्द्राग्ने) मत्स्य(मुस्त)पद्मकक्षौद्रैः ।मैत्रे सरिदुभयमृदा हरितालमृदा च माहेन्द्रे ॥भद्रासने शमीमयपत्रसहस्रद्वयाम्बुभिर् मूले ॥समधूकपद्ममत्स्यैः स्नानम् अषाढासु पूर्वासु ॥कुर्याद् उशीरचन्दनपद्मकमिश्रेण वारिणा वैश्वे ।नद्युभयकूलसंगममृत्कनकैः कीर्त्यते श्रवणे ॥घृतभद्रदारुमधुभिश् च वासवे वारुने घृतक्षौद्रैः ।समदनफल(समदनफलैः)सहदेवाम्बुशूकमदयन्तिकामिश्रैः ॥श्रीवासकः प्रियंगुश् च ऽऽजे स्याद् उत्तरास्व् अगुरुगन्धाः ।शस्ताः सपद्मकोशीरचन्दना मानवेन्द्राणाम् ॥रेवत्यां वृषभद्विपविषाणकोशैः च सर्पिमधुपूर्णैः(ससर्पिमधुपूर्णैः) ।गोरोचनाञ्जनयुतैः सलिलैश् च यियासतः पुंसः(यियासताम् पुंसाम्) ॥गिरिवल्मीकनदीमुखकूलद्वयशक्रपादमृद्भिर् अतः ।द्विपवृषविषाणपार्थिवगणिकाद्वाराहृताभिश् च ॥गिरिशिखरान् मूर्धानं वल्मीकमृदा च शोधयेत्(शोचयेत्) कर्णौ ।नद्युभयकूलसंगममृद्भिः प्रक्षालयेत् पार्श्वे ॥इन्द्रस्थानाद् ग्रीवां बाहू करिवृषभयोर् विस्हाणात्(विस्हाणाग्रात्) ।हृदयं च(ओमित्तेद्) नृपद्वारात्(नृपतिद्वारात्) कटिम् अपि वेश्याघृहद्वारात् ॥अक्षतमाषाः स्विन्नास्तिलसहितास् तण्दुला दधि च गव्यम्(अक्षतमाषा आद्यं तिलसहितस् तण्डुलश् च दधिगव्यम्) ।वृषत(वृषभ)पिशितं मृगस्य च पञ्चानाम् आश्विनादीनाम् ॥ रुधिरविलापनपायसविहग(भुजंग)मांसानि शांकरादीनाम् ।पित्र्ये तिलौदनं षष्टिकान्नम् ऋक्षद्वये परतः(च तत्परतः) ॥प्राश्याः प्रियंगुचित्राण्डजफलं(प्रियंगुचित्राण्डजाः पलं) यावकं कुलत्थाश् च ।मधुससर्पिषी(मधुसर्पिषी) च हस्तान् मूलान्य् आपः (मूलाम्भः) सक्तवो ऽपि(ओमित्तेद्) मूलात् ॥श्रवणादीनां अद्यात्(भक्ष्याः) शालिशाकं(शालिः शाकं) बिडालमांसं च ।आजं यथेष्टमांसं च शक्तवो(सुसक्तवो) माषसंपृक्ताः ॥प्राचीं गजेन यायाद् रथेन याम्यां हयेन वारुण्याम् ।नरयानेनोदीचीं सर्वं दत्वा दिगीशाय ॥प्राच्यादि घृतं तिलौदनं मत्स्याण् क्षीरं इति प्रदक्षिणम् ।अद्यान् न्र्पतिर् यथादिशं नक्षत्राभिहितं च सिद्धये ॥अस्वादु च्युतमक्षिकानुविद्धं(च्युतकचमक्षिकानुविद्धं)दुर्गन्धि क्षयकृद् अभूरि यच् च दघ्दम् ।सुस्विन्नं शुचि(मृदु) रुचिरं मनो ऽनुकूलंस्वाद्व् अन्नं बहु विजाय(च जयाय) यानकाले ॥ N/A References : N/A Last Updated : November 14, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP