संस्कृत सूची|शास्त्रः|योग शास्त्रः|योगयात्रा| योगाध्याय योगयात्रा दैवपुरुषाकाराध्याय आचाराध्याय अभियोगाध्याय योगाध्याय बल्युपहाराध्याये नक्षत्रविजयस्नानप्राशन् अग्निनिमिताध्याय नक्षत्रकेन्दुभाध्याय हस्तिलक्षणाध्याय अश्वेङ्गिताध्याय खड्गलक्षणाद्याय प्रस्थानिकाध्याय शकुनाध्याय प्रोत्साहनाध्याय उपसंहाराध्याय योगयात्रा - योगाध्याय योग शास्त्र ऋषी मुनींनी जगाला शिकविले. Tags : astrologyhoroscopevarahamihiryogayogayatraयोगयोगयात्रावराहमिहिर योगाध्याय Translation - भाषांतर तिथ्युद्गमेन्दुकरणर्क्षदिनक्षणेषु शुद्धेष्व्(पापेष्व्) अभीष्टफलदा नृपतेर् यथा स्यात् ।यात्रा तथा परम् इदं कथयामि गुह्यं शिष्याय नै ऽतद् अचिराद् ह्य् उषिताय दद्यात् ॥योगैः क्षितिपा विनिर्गताः शकुनैस् तस्करचारणादयः ।नक्षत्रबलैर्(नक्षत्रगुणैर्) द्विजातयः क्षणवीर्याद् इतरो जनो ऽर्थभाक् ॥यद् यद् योगवशाद् व्रजत्य् अगदतां द्रव्यैर् विषं योजितम्संयुक्तं मधुना घृतं च विषतां गच्छेद्(गच्छद्) यथा दृश्यते ।तद्वद् योगसमुद्भवं प्रकुरुते हित्वा ग्रहः स्वं फलंदेहः कोशो योद्धा वाह्यं मन्त्रः शत्रुर् मार्गो ऽप्य् आयुः ।चित्तं कर्म प्राप्तिर् मन्त्री प्राग्लग्नाद्या भावाश् चिन्त्याः ॥त्रिलाभवर्जं रविसौरिभौमा(रविसौरभौमा) निघ्नन्ति नो कर्मणि सूर्यभौमौ(सूर्यभौमाः) ।पुष्णन्ति सौम्या रिपुराशिवर्ज्यम् अस्तं(रिपुराशिवर्जम् न ऽस्तं) भृगुर् मृत्युविलग्नम् इन्दुः ॥यस्मात् तेन समुद्यतो ऽस्मि गदितुं योगान् विचित्रान् इमान् ॥लग्ने गुरुर् बुधभृगू हिबुकात्मजस्थौ षष्ठौ कुजार्कतनयौ दिनकृत् तृतीयः ।चन्द्रश् च यस्य दशमो भवति प्रयाणे तस्य ऽभिवाञ्छितफलाप्तिर् अलं नृपस्य ॥होरातृतीयरिपुलाभगतैः क्रमेण जीवार्किभौमरविभिर् भृगुजे ऽनुकूले ।यातो ऽतिदृप्तम् अपि शत्रुबलं निहन्ति नैशं तमिस्रम् इव तिग्मम् अयूखकाली(अयूखमाली) ॥उदयारिनभः स्थलगैर्(उदयारिनभस्थलगैर्) दिनकृद्यमशीतकरैः ।न भवन्त्य् अरयो ऽभिमुखा हरिणा इव केशरिणः ॥गुरुर् उदये रिपुराशिगतो ऽर्को यदि निधने न च(च न) शीतमयूखः ।भवति गतो ऽत्र शशी ऽव नरेन्द्रो रिपुवनिताननतामरसानाम् ॥शुकवाक्पतिबुधैर् धनसंस्थैः सप्तमे शशिनि लग्नगते ऽर्के ।निर्गतो नृपतिर् एति कृतार्थो वैनतेयवद् अहिं(अरीन्) विनिगृह्य ॥मूर्त्तिवित्तसहजेषु संस्थिताः शुक्रचन्द्रसुततिग्मरश्मयः ।यस्य यानसमये रणानले तस्य यान्ति शलभा इव ऽरयः ॥सूर्येन्दू वलवर्जितौ वलयुतौ जन्मेशलग्नेश्वरौपाताले दशमे ऽपि वा शशिसुतो लग्नस्थितो वाक्पतिः ।षट्सप्ताष्टमवर्जितेषु भृगुजः स्थानेषु यस्य स्थितोयातुस् तस्य न विद्विषो रणमुखे तिष्ठन्ति योषा इव ॥सौरे भौमे(वा) लग्नगे ऽर्फे(ऽर्के) खमध्ये कर्मण्य् आये(वा) भार्गवे चन्द्रजे च ।यायाद् भूपः(भूपालः) शत्रुदेशं निहन्तुं दृप्तं शत्रुं(वा) कालवत्(कालयत्) क्रूरचेष्टः ॥लाभशत्रुसहजेषु यमारौ सौम्यशुक्रगुरवो बलयुक्ताः ।गच्छतो यदि ततो ऽस्य धरित्री सागराम्बुरसना वशम् एति ॥पापास् तृतीये हिबुके ? जीवो बिलग्ने शशलाञ्छनो ऽस्ते ।यस्योद्यमे तस्य बलं रिपूणां कृतं कृतघ्नेस्व् इव यात् नाशम् ॥चन्द्रे ऽस्तगे देवगुरौ विलग्ने ज्ञशुक्रयोः कर्मणि लाभगे ऽर्के ।सौरारयोर् भ्रातृगयोश् च यातो नृपः स्वभृत्यान् इव शास्ति शत्रून् ॥गुरौ विलग्ने यदि वा शशाङ्के षष्ठे रवौ कर्मगते ऽर्कपुत्रे ।सितज्ञयोर् बन्धुसुतस्थयोश् च यात्रा जनित्री ऽव हितानि धत्ते ॥पत्यौ गिरां लग्नगते ऽवशेषैर् एकादशार्थोपगतैर् यियासोः ।विदार्यते शत्रुबलं समन्ताद् धर्मो यथा हेतुशतैर् युगान्ते ॥त्रिषण्णवान्त्येष्व् अबलः शशाङ्कश् चान्द्रिर् बली यस्य गुरुश् च केन्द्रे ।तस्य ऽरियोषाभरणैः प्रियाणि प्रियाः प्रियाणां जनयन्ति सैन्ये ॥केन्द्रोपगतेन वीक्षिते गुरुणा त्रयायचतुर्थगे सिते ।पापैर् अनवाष्टसप्तमैर्(अनवाष्टसप्तगैर्) वसु किं तन् न यद् आप्नुयाद् गतः ॥लग्नारिकर्महिबुकेषु शुभेक्षिते ज्ञे द्यूनान्त्यलग्नरहितेष्व् अशुभग्रहेषु ।यातुर् भयं न भवति प्रतरेत् समुद्रं यद्य् अश्मना(ऽपि) किम् उत शत्रुसमागमेषु(उत ऽरिसमागमेषु) ॥यस्यो ऽदयास्तारिचतुस्त्रिसंस्थाः शुक्राङ्गिरो ऽङ्गारक --- सौम्यसौराः ।द्विषद्बलस्त्रीवदनानि तस्य क्लान्तानि कान्तान् अवलोकयन्ति ॥पूर्वोक्तयोगे धनगो बुधश् चेच् छशाङ्कसूर्यौ च दशायसंस्थौ ।अस्मिन् गतस्य ऽलिकुलोपगीता नानावनोत्था द्विरदा भवन्ति ॥सूर्यादयो ऽरिसहजाम्बरशत्रुलग्नबन्ध्वायगाः सुरगुरोर् दिवसश् च(दिवसो ऽपि) यस्य ।याने ऽरिसैन्यम् उपगच्छति तस्य नाशं म मांसकश्रवणकेष्व्(मीमांसकश्रवणकेष्व्) इव तीर्थपुण्यम् ॥त्रिनिधनतनुसप्तमारिसंस्थाः कुजसितजीवबुधा रविश् च यस्य ।खलजनजनिते ऽव लोकयात्रा न भवति यस्य चिराय शत्रुसेना ॥कुजरविजयुते ऽरिभे(ऽतिभे) गतानां सुखसहजोपगतिः सितार्कजीवैः ।रिपुबलम्(परबलम्) उपयाति नाशम् आशु श्रुतम् अधनस्य कुटुम्बचिन्तयैव(कुटुम्बचिन्तये ऽव) ॥लग्नत्रिधर्मारिदशायगेषु सितार्किजीवेन्दुकुजेन्दुजेषु ।सार्के बुधे च ऽरिबलं विनाशम् आयाति गुह्यं पिशुनेष्व् इवो ऽक्तम् ॥एकान्तरर्क्षे भृगुजात् कुजाद् वा सौम्ये स्थिते सूर्यसुताद् गुरोर् वा ।प्रध्वस्यते(प्रध्वंसते) ऽरिर् न चिराद् गतस्य वेषाधिको भृत्य इवे ऽऽश्वरस्य ॥अ(अ) ।.एकान्तरा यदि गता भवेनेषु षट्सु पृष्ठस्थितस्य(पृष्ठस्थितश् च) सुरशत्रुगुरोः(सुरशत्रुगुरुः) प्रयाणे ।ब्(ब्) ।.यातस्य नात्र रिपवो प्रहसन्ति वीर्यं विष्णोर् इवोद्धृतगदारथवादपाणेः ॥निरन्तरम् यदि भवनेषु पञ्चसु ग्रहाः स्थिता दिवसकरेण वर्जिताः ।यियासतोर्(यियासतो) यदि च भवन्ति पृष्ठतस् तदा परान् बलभिद् इव ऽवकृन्तति ॥बृगुपुत्रमहेन्द्रगुरू गमने सहितौ यदि भं युगपत् त्यजतः ।ज्ञगुरू यदि वा ऽंशकम् एकगतौ(एकम् इतौ) समरे सुरराड्(अमरराड्) इव भाति तदा ॥निस्त्रिंशवक्रोपगते च वक्रे वक्रेण वक्रं नृपतिं(नृपतिर्) निहन्यात् ।पानप्रसक्तं निशि वा प्रसुप्तं तस्यै ऽव च ऽस्ते यदि वा ऽंशकः स्यात् ॥पुत्रो धरित्र्या दिनकृत् सुतश् च यदा त्यजेतां युगपन् नवांशम् ।तदा ह्य् अवस्कन्दगतो नरेन्द्रो भुङ्क्ते रिपून् तार्क्ष्य इव द्विजिह्वान् ॥बुधभार्गवमध्यगते हिमगौ हिबुकोपगते च नृपः प्रविशन्(प्रवसन्) ।पुरुहूतदिशं यदि वा ऽन्तकृतः पुरुहूतयमप्रतिमो भवति ॥सितेन्दुजौ चतुर्थगौ निशाकरश् च सप्तमे ।यदा तदा गतो नृपः प्रशास्त्य् अरीन् विना रणान्(रणात्) ॥शशिनि चतुर्थगृहं समुपेते बुधसहिते ऽस्तगते भृगुपुत्रे ।गमनम् अवाप्य पतिर् मनुजानां जयति रिपून् समरेण विनै ऽव ॥क्षितितनययुतान् नवांशकाद् यदि शतमे(शतगो) भृगुजो ऽथवा गुरुः ।शतगुणम् अपि हन्त्य् अरेर् बलं विषम् इव कायम् असृक्पथोपपन्नम्(असृक्पथोपगम्) ॥शतांशकाद् ऊर्ध्वम् अवस्थिते बुधे यमारयोस् तत्र गतस्य भूभृतः ।प्रयाति नाशं समरे द्विषड् बलं यथा ऽर्थिभावोपगतस्य गौरवम् ॥नक्षत्रम् एकं युगपत् प्रविष्टौ यदा धरित्रीतनयामरेज्यौ ।कुर्यात् तदा ऽन्तं द्विषतां बलस्य द्रौणिर् यथा ऽरेर् निशि सौप्तिकेन ॥ऋक्षं गुरुज्ञौ बुधभार्ग्वौ वा यदा प्रविष्टौ युगपत् समेतौ ।अर्थान् अवाप्नोति तदा विचित्रान् छात्रः सुतीर्थान्(सुतीर्थाद्) गुरुपूजयैव(गुरुपूजये ऽव) ॥यात्रादिगीशाद् यदि पञ्चमे ऽन्यो गृहे ग्रहो वीर्ययुतो ऽवतिष्ठेत् ।समुद्यताशाकथितानि भङ्क्त्वा फलानि वीर्यान् नयति स्वकाष्ठाम् ॥एको ऽपि जीवज्ञसितासितानां कुजात् त्रिकोणे रवितो ऽथ वे ऽन्दुः ।यत्रो ऽद्यतस् तत्र न याति याता तयोर् बलीयान् नयति स्वकाष्ठाम् ॥जन्मोदयर्क्षं हिबुकास्तसंस्थं यस्य ऽशुभैर् दृष्टयुतं न सौम्यैः ।स शाण्डिलीं प्राप्य यथा गरुत्मान् दन्यं(दैन्यं) गतो ऽभ्येति हतस्वपक्षः ॥होराष्टमे जन्मगृहाष्टमे वा स्वाच् छत्रुभाच् छत्रुगृहोदये वा ।तद्राशिपैर् वा गमनं विलग्ने तुल्यं नराणां विषभक्षणेन ॥रिपुनिधनविलग्ने स्वात् त्रिषड्लाभगे वाबलवति भवनेशे स्वे कृशे शत्रुपक्षे ।अनभिमुखदिगीशे दिक्पतौ सुस्थिते चव्रजति यदि यथेष्टं प्राप्नुयात् तत्र यता ॥केन्द्रत्रिकोणेषु शुभाः प्रशस्तास् तेष्व् एव पापा न शुभप्रदाः स्युः ।पपो ऽपि कामं बलवन् नियोज्यः केन्द्रेषु शून्यं न शिवाय केन्द्रम्(लग्नम्) ॥सौम्यैश् च पापैश् च चतुष्टयस्थः कृच्छ्रेण सिद्धिं समुपैति याता ।प्रपातपातप्रतिघातवक्रैर्(प्रपातयानप्रतिघातवक्रा) नदी ऽव धात्रीधरकन्दरेषु ॥गुरो(गुरौ) विलग्ने भृगुजे ऽरिसंस्थे चन्द्रे ऽष्टमे हन्ति गतो ऽरिसेनाम् ।विष्टं(वृष्टिं) यथा दक्षिणमार्गचारी रूक्षो अथवा(यदा) ह्रस्वतनुश् च शुक्रः ॥सिंहाजतौलिमिथुना(सिंहाजतौलिमिथुनं) मृगकर्कटौ च स्वेशान्विता यदि भवति(भवति) यस्य शनिश् च लग्ने ।तत्सैनिकाः परबलं क्सपयन्ति यातुर् मूर्खस्य वित्तम् इव चारणचाटुकाराः(चारणचाटचक्षाः?) ॥उदये गुरुसौम्यभार्गवैः सहजे ऽर्कार्किकुजैश् च गच्छतः ।न भवन्त्य् अरयो रणे स्थिराः कितवानाम् इव वित्तसंचयाः ॥जातकोक्तनृपयोगगतानाम् प्रत्यहं(प्रतिदिनम्) भवति राज्यविवृद्धिः ।वातघूर्णितम् इव ऽर्णवयानम् परबलं हि समुपैति विनाशम् ॥होराऽऽश्रिते(होराश्रिते) देवगुरौ प्रयाता क्रूरग्रहैः कर्मणि लाभगैर् वा । कृत्वा रिपूणां क्षयम् अक्षताङ्गः स्वयं(क्षयं) क्षितीशो ऽक्षयकोशम् एति(ऽक्षयकोश ऐति) ॥लाभार्थलग्नेषु शुभा रविः खे यस्य ऽऽरसौरौ सहजे ऽरिभे वा । तस्य ऽर्थकोशः समुपैति वृद्धिं लाभो(लोभो) यथा प्रत्यहम् अर्थवृद्ध्या ॥स्वोच्चपगैर् जीवकुजार्कजार्कैर् एभ्यस् त्रिभिर् वा कथितैकलग्ने ।राज्ञः प्रणाशं समुपैति शत्रुः सौख्यं द्विभार्यस्य यथा ऽधनस्य ॥एको ऽपि जीवार्ककुजार्कजानां स्वोच्चे विलग्ने स्वगृहे यदी ऽन्दुः ।जातस्य(यातस्य) यान्त्य् अत्र पराः प्रणाशम् महाकुलानी ऽव कुटुम्बभेदैः ॥लग्नाच् चतुर्थे अतिबले शशाङ्के(विबलः शशाङ्कः) योगाद् विना चन्द्रबलेन याता(यातः) ।लब्धा ऽपि लक्ष्मीं बहुरत्नपूर्णां(लक्ष्मीर् बहुरत्नपूर्णा) क्षिप्रं क्षयं याति यथा शशाङ्कः ॥येषां गमे नवमपञ्चमकण्टकस्थाः सौम्यास् तृतीयरिपुलाभगताश् च पापाः ।आयान्ति ते स्वभवनानि पुनः कृतार्था दत्ता द्विजातिषु पुरा विधिवद् यथार्थाः ॥मिश्रकाध्याय पूर्वादितस् त्रिपरिवर्तगतैर् अजाद्यैर् भैः सप्तकैर् अनलभाच् च गमो जयाय ।वायुअग्निदिक्स्थपरिघस्य समार्द्धगैश् च मैत्राश्विहस्तगुरुभेषु च सर्वदिक्षु ॥पूर्वेणाइन्द्रं(पूर्वेणाइ ऽऽन्द्रं) दक्षिणेन ऽऽजपादं रोहिण्यो ऽतश् च ऽर्यमाख्यं च शूलम् ।कामं यायात् साम्परायेषु कार्येष्व् एवं द्वारे(अद्वारे ऽपि) प्रोज्झ्य शूलानि तानि ॥विवर्जयेत् त्वाष्ट्रयमोरगाणाम् अर्धम् द्वितीयं गमने जयेप्सुः ।पूर्वार्धम् आग्नेयमघानिलानां स्वातीम्(स्वातिम्) मघां चो ऽशनसः समस्ताम् ॥उत्पातपापग्रहपीडिते भे ये यान्ति भूरिग्रहसंयुते वा ।ते पूर्ववित्तान्य् अपि नाशयन्ति धातुप्रसक्ता इव मूर्त्तिकेन्द्राः(वार्तिकेन्द्राः) ॥रविसितकुजराहुसौरिचन्द्रा(रविसितकुजराहुसौरचन्द्रा) ज्ञगुरुयुताः पुरतः क्रमाद् दिगीशाः ।व्रजति यदि ललाटगे दिगीशे पतति ततो द्रुमवत् सरित्तटात्सः(सरित्तटस्थः) ॥यातो ऽयनस्य प्रतिलोमकाष्ठां यः स्यात् स्वतन्त्रो(सुतन्त्रो) ऽपि जितः परेषां ।स केवलव्याकरणाभियुक्तः(केवलं) व्याकरणाभियुक्तः काव्यज्ञगोष्ठ्याम् इव हास्यम् एति ॥अयनेन गतो ऽर्कसोमयोर् द्युनिशं वा स्थितयोः पृथक् पृथक् ।विदुषाम् इव सर्वशास्त्रवित्(शब्दशास्त्रवित्) समवाये द्विषतां विराजते ॥तिथिं चतुर्थीं नवमीं चतुर्दशीं विहाय विष्टिं करणं च गच्छतः ।भवन्ति चामीकरवाजिवारणाश् चतुर्थिपूर्वाश् च तदाप्तिवारणाः ॥ऋक्षे(रिक्ते) तिथौ वा व्यतिपातदुष्टे यो याति मोहात् खलु वैधृते वा ।स नाशम् आयात्य् अचिरेण याता(राजा) राजे ऽव दैवज्ञविलोमचेष्टः ॥आरोग्यम् ऋक्षेण धनं क्षणेन कार्यस्य सिद्धिस् तिथिना शुभेन ।राश्युद्गमेन ऽध्वनि सिद्धिम् आहुः प्रायः शुभानि(सुखानि) क्षणदाकरेण ॥अब्(ओमित्तेद्) ।.न राजते भूरिगुणान्विता ऽपि व्यर्ह्तब्ययस्य क्षितिपस्य यात्रा ।च्द्(ओमित्तेद्) ।.शुक्रे प्रणष्टे धनदर्पितस्य विवाहयात्रेव जरार्द्दितस्य ॥प्रतिशुक्रबुधाशनिवृष्टिहता दिग् अधः कुरुते नृपतिं गमने ।मदिरामुदिता मदनाकुलिता प्रमदे ऽव कुलम् परवेश्मरता ॥वीर्यान्वितैर् यायिभिर् आत्मभद्रैः क्लेशं(क्लेशेद्) विना हन्ति चमूम् अरीणाम् ।त्रैलोक्यलाभे ऽप्य् असमाप्तकार्यां तृष्णां यथा चीरफलाम्बुतुष्टः ॥सर्पिस् तिलौदनषैः(तिलोदनझषैः) पयसा च भुक्त्वा पूर्वादि वारणरथाश्वनरैर् गतस्य ।सोढुम् प्रतापम् अरयो न न्र्पस्य शक्ता गन्धद्विपस्य कलभा इव गन्धदानम्(दानगन्धम्) ॥एकतश् च सकलानि निमित्तान्य् एकतश् च मनसः परिशुद्धिः ।चेतसो ऽस्ति(ऽपि) सहसा न(ऽस्ति) रणे भीर् मारुतो ऽपि विजयाजयहेतुः ॥भूरिशूरवरवाजिकुञ्जरा ज्ञातयुद्धगतयो ऽभिमानिनः ।क्व ऽपि यान्ति घनतूलराशिवन् मारुताभिहतवक्षसो ऽरयः ॥अनुलोमगते(अनुलोमगतौ) प्रदक्षिणे सुरभौ देहसुखे ऽनिले गतः ।तिमिराणि गभस्तिमान् इव प्रसभं हन्ति बलानि विद्विषाम् ॥उपपत्तिर् अयत्नतो यदा तृणपानाशनरत्नवाससाम् ॥प्रमदाक्षितिनागवाजिनां विजयद्वारम् अपावृतं तदा ॥लग्नस्य ये ऽंशा ह्य् उदिता(उदिता) ग्रहो यस् तेषु स्थितो लग्नफलं स धत्ते ।यस् तान् अतीतः स भवेद् द्वितीयः स्थानेषु शेषेष्व् अपि चिन्त्यम् एतत्(चिन्तनीयम्) ॥गतो ऽनुकूलैर् ग्रहभाग्निमारुतैर् मनो ऽब्दविद्युत्स्वनवृष्टिकार्मुकैः ।रिपोः प्रमथ्नाति रणाजिरे चमूं द्विपः समूलां सरसी ऽव पद्मिनीम् ॥दैवेन हीनः परभीषणार्थं यातो ऽतिकृच्छ्रेण नयत्य् अहानि ।स्वशक्त्यतीतो नृपवेश्मनी ऽव कृत्वा प्रतिज्ञाम् प्रतिवादिभीतः ॥दैवान्वितः साधुजनोपकारी प्रभावमन्त्रोद्यमशक्तियुक्तः ।भुङ्क्ते महीं सम्यग् अवाप्य यात्रां ससह्यविन्द्याचलपारियात्राम् ॥गोचरेण शुभदः शशी न चेद् अष्टवर्गपरिशोधितो ऽपि(Kऽथ) वा ।पूर्ववायुर् इव पुष्पकालजो यायिनाम् फलविनाशकृद् भवेत् ॥आश्रित्य चन्द्रस्य बलाबलानि ग्रहाः प्रयच्छन्ति शुभाशुभानि ।मनःसमेतानि यथेन्द्रियाणि कर्मार्हतां(कर्मण्यतां) यान्ति न केवलानि ॥सर्वतः क्षुतम् अशोभनम् उक्तं गोः क्षुतं(गोक्षुतम्) मरणं एव करोति ।केचिद् आहुर् अफलं बकाद् च(हि बलाद्) यद् वृद्धपीनसितबालाकृतं च ॥शकुनतिथिभलाभे छत्त्रशय्यासनाद्यं पदम् अपि विजिगीषुश् चालयेच् छ्रदधानः(छ्रद्धधानः) ।यदि शकुननिमित्तस्वप्नचेतोविशुद्धिर्(शकुननिमित्ते ऽस्य स्वचेतोविशुद्धिर्) न भवति तद् अनिष्टं सर्वकार्येषु यानम् ॥दिनकृद्दिवसे तथा ऽंशके यात्रा लग्नगते ऽथवा रवौ ।संतापायति स्मरातुरा(स्मरातुरं) वेश्ये ऽवा ऽर्थविवर्जितं नरम् ॥उदये शशिनो ऽंशके ऽह्नि वा भवति गतो न चिरेण दुर्मनाः ॥प्रमदाम् इव जातयौवनां(यातयौवनां) रत्यर्थं समवाप्य कर्कशः ॥भौमोदये ऽंशे ऽहनि वा ऽस्य यात्रा करोति बन्धं वधम् अर्थनाशम् ।संसेविता ऽपापपराङ्मुखेन मनोभवान्धेन पराङ्गने ऽव ॥बुधस्य लग्नांशकवासरेषु यात्रा नरं प्रीणयति प्रकामम् ।भावानुरक्ता प्रवराङ्गने ऽव विदग्धचेष्टा मदनाभितप्तम्(मदनाभिभूतम्) ॥गुरोर् विलग्नांशदिनेषु यात्रा शुभानु(हितानु)बन्धेप्सितकामदा च । --जाये ऽव भर्तुर् मनसो ऽनुकूला कुलाभिवृद्ध्यै रतिदा हिता च ॥यात्रा भृगोर् अंशदिनोदयेषु प्रीणाति कामैर् विविधैर् यियासुम् ॥विलासिनी कामवशोपयातम् भावैर् अनेकैर् मदनातुरे ऽव ॥द्युलग्नभागेषु शनेश् च यात्रा प्राणच्छिदादीन् प्रचिनोति(प्रतनोति) दोषान् ।अन्यप्रसक्ता वनिते ऽव मोहात् संषेविता(मोहान् निषेविता) मन्मथमोहितेन ॥लग्नेन हीना ऽन्यगुणान्वितापि प्रीतिं न यात्रा मनसः करोति ।स्वलङ्कृता रूपसमन्विता ऽपि प्रभ्रष्टशीला वनिते ऽव पुंसः ॥लग्नस्य शुद्धिः शकुनैर् निमित्तैर् विज्ञायते ऽन्तःकरणेन सम्यक् ।अनन्यभावाश्रयसंप्रवृत्तैः कौली ऽव पुंसश् चरितैर् विदेशे ॥छाया शुभाशुभफलानि निवेदयन्ती लक्ष्या मनुष्यपशुपक्षिषु लक्षणज्ञैः ।तेजोगुणान् बहिर् अपि प्रविकाशयन्ती दीपप्रभा स्फटिकरत्नघटस्थितैव(स्फटिकरत्नघटस्थिते ऽव) ॥स्निघद्विजत्वङ्नखरोमकेशा छाया सुगन्धा च महीसमुत्था ।तुष्ट्यर्थलाभाभिउदयान् करोति धर्मस्य च ऽहन्य् अहनि प्रवृद्धिम् ॥स्निग्धा सिता च हरिता नयनाभिरामा सौभाग्यमार्दवसुखाभ्युदयान् करोति ।सर्वार्थसिद्धिजननी जननी ऽव चाप्या(ऽऽप्या) छाया फलं तनुभृतां शुभम् आदधाति ॥चण्डा ऽधृष्या पद्महेमाग्निवर्णा युक्ता तेजोविक्रमैः सप्रतापैः ।आग्नेयी ऽति प्राणिनां स्याज् जयाय क्षिप्रं सिद्धिं वाञ्छितार्थस्य धत्ते ॥मलिनपरुषकृष्णा पापगन्धा ऽनिलोत्था जनयति वधबन्धव्याध्यनर्थार्थनाशान् ।स्फटिकसदृशरूपा भाग्ययुक्ता ऽत्युदारा निधिर् इव गगनोत्था श्रेयसां स्वच्छवर्णा ॥ N/A References : N/A Last Updated : November 14, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP