संस्कृत सूची|शास्त्रः|योग शास्त्रः|योगयात्रा| अभियोगाध्याय योगयात्रा दैवपुरुषाकाराध्याय आचाराध्याय अभियोगाध्याय योगाध्याय बल्युपहाराध्याये नक्षत्रविजयस्नानप्राशन् अग्निनिमिताध्याय नक्षत्रकेन्दुभाध्याय हस्तिलक्षणाध्याय अश्वेङ्गिताध्याय खड्गलक्षणाद्याय प्रस्थानिकाध्याय शकुनाध्याय प्रोत्साहनाध्याय उपसंहाराध्याय योगयात्रा - अभियोगाध्याय योग शास्त्र ऋषी मुनींनी जगाला शिकविले. Tags : astrologyhoroscopevarahamihiryogayogayatraयोगयोगयात्रावराहमिहिर अभियोगाध्याय Translation - भाषांतर अभिहितगुणसंयुतेन राज्ञा कथितगुणात्ययसंस्थितो ऽभियोज्यः ।उपहतम् उपलभ्य चास्य देशं बलम् अथवा निरुपद्रुतो ऽभियुञ्ज्यात् ॥प्रचुरमशकयूकं मक्षिकादम्शपूर्वं बलम् अजलदवृष्ट्या पांशुवाताहतं वा(पांशुपाताहतं च) ।पिशितरुधिरधान्यप्राणिवृष्ट्या हतम् वा( च) करितुरगमनुष्या यत्र वाध्या न दीनाः(च ध्यानदीनाः) ॥शब्दायन्ते मुहुर् अपि शिवा गर्दभध्वानतुल्यंत्यक्तस्नेहाः परिजनसुहृद्वाहनोपस्करेषु ।कष्टं को नः शरणम् इति वा वादिनो यस्य सैन्येविद्विष्टा वा प्रवरपुरुषाः सो ऽभियोज्यो नृपेण ॥निरालस्यावनतवदनाः केतनस्वप्नशीलाभ्रष्टाचारा मलिनपुरुषच्छायया ऽऽक्रान्तदेहाः ।दीर्घश्वासाः सजलनयनाः शोकलोभाभिभूताःसैन्ये यस्य द्विजगुरुसुहृद्द्वेषिणश् चैव योधाः ॥अकारणप्रोद्गतरोमकूपा जये निराशाः प्रकृतेर् अपेताः ।अमङ्गलाचेष्टितजातहासाः सैन्ये नरा यस्य स चाभियोज्यः ॥कपोतकोलूकमधूनि यस्य समाश्रयन्ते ध्वजचामराणि ।छत्रायुधादीनि(छत्रायुधाद्यानि) च सो ऽभियोज्यो यस्याथवा ऽस्यजलाशयानाम्(ऽनाहततूर्यशब्दाः) ।प्रतीपगत्वं सरिताम् इषोश् च शोषो ऽथवा ऽशोष्यजलाशयानाम् ।अवारिदेशे सलिलप्रवृतिर् अहैतुकं(अवैकृते) चाप्सु तरेच् छिला वा ॥भङ्गपातचलनान्य् अनिमित्तं रोदनानि च सुरप्रतिमानाम् ।अग्निरूपम् अनिलेन विना वा निश्चलानि च यदा प्रचलन्ति ॥प्रसूतिवैकृत्यम् अकालपुष्पाण्य् आरण्यसत्त्वस्य पुरप्रवेशः ।प्रदोषकाले कृकवाकुशब्दा हिमागमे च ऽन्यभृतः प्रलापाः(ऽन्यभृतप्रलापाः) ॥दीर्घं दीनं संहताः सारमेयाः क्रोशन्त्य् उच्चैर् नित्यम् एव ऽनृतौ च ।हन्युर् योषा योषितो निर्घृणाश् च दृष्यं नित्यं(श्वेतः काको) नक्तम् इद्रायुधं वा(च) ॥तिला वितैला यदि वा ऽर्द्धतैला(र्द्धतैलाः) सस्यस्य वृद्धिर् यदि वा ऽतिरिक्ता ।अन्नस्य वैरस्यम् असृक् तरूणां शुष्कप्ररोहो विरुजां प्रणाशः ॥विहाय सर्पाखुविडालमत्स्यान् स्वजातिमांसान्य् उपभुञ्जते वा ।व्रजन्ति वा मैथुनम् अन्यजात्यां दीप्ताश् च नित्यं विहगा मृगाश् च ॥भङ्गः पातस् तोरणेन्द्रध्वजानां शीतोष्मानां व्यत्ययो भूविदारः ।निम्नोच्चानां तुङ्गता निम्नता च(वा) छाया चा(वा) ऽर्कस्य ऽऽभिमुख्येन याता ॥त्र्यहातिरिक्तः पवनो ऽतिचण्डो गन्धर्वसंज्ञस्य भवेत् पुरस्य ।व्यक्तिर् भवेच् च ऽहनि तारकाणां नक्तं च तारागणसंप्रणाशः ॥प्रासादवेश्मवसुधाशरगुल्मनिम्नेष्व् आवासका बलिभुजाम् अनपत्यता वा ।एकाण्डजत्वम्(एकात्मजत्वम्) अथवा भुवि मण्डलानि कुर्वन्ति चक्रकम् इवोपरि वा भ्रमन्तः ॥उल्का ऽभिघातेन तमो ऽतिदीप्त्या वक्रातिवक्रेन सुतो धरित्र्याः ।केतुर् गतिस्पर्शन -- धूपनेन चारेण पीडां कुरुते ऽर्कपुत्रः ॥त्रिभिस् त्रिभिर् भैर् अथ कृत्तिकाद्यैर् निपीडितैर्(निष्पीडितैर्) भूपतयो ऽभियोज्याः ।पाञ्चालनाथो मगधाधिपश् च कलिङ्गराड् उज्जयिनीपतिश् च ॥आनर्त्तराट् सैन्धवहारहोरौ(सैन्धवहारहौरौ) मद्रेश्वरो ऽन्यश् च कुरङ्गनाथः(कुलिन्दनाथः) ।एते हि कूर्माङ्गसमाश्रितानां विशेषपीडाम् उपयान्ति भूपाः ॥अङ्गेषु सूर्यो यवनेषु चन्द्रो भौमो ह्य् अवन्त्यां मगधेषु सौम्यः ।सिन्धौ गुरुर् भोजकटे च(भोजकटेषु) शुक्रः सौरः सुराष्ट्रे विषये बभूव ॥म्लेच्छेषु केतुश् च तमः कलिङ्गे यातो(जातो) यतो ऽतः परिपीडयन्ति(परिपिडितास् ते) ।स्वजन्मदेशान् परिपीडयन्ति ततो(ते ऽतो) ऽभियोज्या क्षितिपेन देशाः ॥सम्पूज्यन्ते भैरवोच्चानुनादै(भैरवोच्चानुरावै) रक्तैर् मांसैस् तालजङ्घादयो वा । दृश्यन्ते वा यातुधानाः प्रभूता भ्रष्टश्रीकः सो ऽपि देशो ऽभियोज्यः ॥देशभ्रंशो यैर् निमित्तैः प्रदिष्टस् तास् ता वार्त्ता वक्ति लोके विशङ्कः ।त्यक्त्वा देशं यान्ति यं भिक्षुका वा गम्यो देशो सो ऽप्य् असाधुप्रवृत्तः ॥रोगाभिभूतं विषदूषितं वा यथा विनाशाभिमुखं शरीरम् ।वैद्यः प्रयोगैः सुदृढं करोति राष्ट्रं तथा शान्तिभिर् अग्रजन्मा ॥ N/A References : N/A Last Updated : November 14, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP