संस्कृत सूची|शास्त्रः|योग शास्त्रः|योगयात्रा| हस्तिलक्षणाध्याय योगयात्रा दैवपुरुषाकाराध्याय आचाराध्याय अभियोगाध्याय योगाध्याय बल्युपहाराध्याये नक्षत्रविजयस्नानप्राशन् अग्निनिमिताध्याय नक्षत्रकेन्दुभाध्याय हस्तिलक्षणाध्याय अश्वेङ्गिताध्याय खड्गलक्षणाद्याय प्रस्थानिकाध्याय शकुनाध्याय प्रोत्साहनाध्याय उपसंहाराध्याय योगयात्रा - हस्तिलक्षणाध्याय योग शास्त्र ऋषी मुनींनी जगाला शिकविले. Tags : astrologyhoroscopevarahamihiryogayogayatraयोगयोगयात्रावराहमिहिर हस्तिलक्षणाध्याय Translation - भाषांतर आरिराधयिषुणा नराधिपं वारणाश्रितम् इदं शुभाशुभम् ।ज्ञेयम् आदरवता विपश्चिता वारणेषु नृपतेर् जयस्थितिः ॥सार्द्धं हस्तशतं दैर्घ्या सावंशं विपुला शतम् ।चतुरस्त्रा ऽथवा वृत्ता वारी वारणवृद्धिदा ॥दशावगाहेन करा विस्तीर्णा दश चोपरि ।अधःखातस्य पदवी हस्तमात्रा प्रकीर्तिता ॥कर्त्तव्यं पूर्वतो द्वारम् उत्तरं वा शुभावहम् ।दक्षिणं पश्चिमं वा ऽपि न कर्त्तव्यं कथञ् चन ॥मेढकस्तम्भमात् तृणां वृक्षाग्रं नावनौ क्षिपेत् ।पूर्वाप्राच् चोत्तराग्राच् च संयोज्या नित्यम् अर्गला ॥दश विस्तारतो द्वारं पार्श्वयोस् तस्य मातृकाः ।चतुर्दश करोत्सेधा निःखात्य चतुरः करान् ॥षट् षण्मेढान्तरस्थाश् च मेढकाः पञ्च पञ्च च ।चतुर्हस्तनिखातास् ते समुच्छ्रायान् वदाम्य् अतः ॥षट् सप्ताष्टनवोत्सेधा दश वेति यथाक्रमम् ।नव वा दश वा वेधा मातृका याः षडङ्गुलाः ॥वेधहान्यावशेषाः स्युर् मातृकाः क्रमशो ऽपराः ।इति द्वारसमासो ऽयं वार्य्यास् संपरिकीर्त्तितः ॥मध्वाभदन्ताः सुविभक्तदेहा न चोपदिग्धा न कृशाः क्षमाश् च ।गात्रैः समैश् चापसमानवंशा वाराहतुल्यैर् जघनैश् च भद्राः ॥वक्षो ऽथ कक्षा वलयः श्लथश् च लम्बोदरस् त्वग्वृहती गलश् च ।स्थूला च कुक्षिः सह मेचकेन सैंही च दृग्मन्दमतङ्गजस्य ॥मृगास् तु ह्रस्वाधरबालमेढ्रास् तन्वघ्रिकण्ठद्विजहस्तकर्णाः ।स्थूलेक्षणाश् चेति यथोक्तचिह्नैः सङ्कीर्णनागा व्यतिमिस्रचिह्नाः ॥ पञ्चोन्नतिः सप्त मृगस्य दैर्घ्यम् अष्टौ च हस्ताः परिणाहमानम् ।एकद्विवृद्धाव् अथ मन्दभद्रौ संकीर्णनागो ऽनियतप्रमाणः ॥भद्रस्य वर्णो हरितो मदस्य मन्दस्य हारिद्रिकसन्निकाशः ।कृष्णो मदश् चाभिहितो मृगस्य संकीर्णनागस्य मदो विमिश्रः ॥स्थपतिर् अतः प्रयतो गजशालां नरपतिमन्दिरदक्सिणभागे ।अवनिगुणान् अवलोक्य विदध्यात् कृतबलिहोमसुराचनशान्तिः ॥यातुधानदितिसर्पसङ्कुला सन्निकृष्टविबुधद्विजालया ।शर्करास्थिचयभस्मदूषिता पार्थिवद्विरददोषदा मही ॥किञ्चिद् अभ्युन्नता भूः प्रशस्तद्रुमा गोभिर् अध्यासिता साधु मध्ये समा ।भूरितोया ऽघना हृद्दृगाह्लादिनी शल्यदोषैर् विना सानुनादस्वना ॥स्निग्धपल्लवद्रुमा प्रदक्षिणाम्बुवाहिनी ।स्वराष्ट्रवृद्धिदा मही हिता ऽथ नागवाजिनाम् ॥भद्रमन्दमृगमिश्रदन्तिनां श्वेतरक्तकनकोपमासिताः ।भूमयो द्विरदपुष्टिवृद्धिदा भूभृताम् अपि यशः सुखावहाः ॥ज्येष्ठा चतुर्विंशतिर् एव हस्ता द्विद्व्यूनिते मध्यजघन्यशाले ।विस्तारतस् तद्द्विगुणाश् च दीर्घास्तम्भाश् च विस्तारसमुच्छ्रिताः स्युः ॥ज्येष्ठो ऽङ्गुलानि बहुलो दशषड्युतानि मध्यस् तु पञ्चदश कन्यस्?ओ ऽङ्गुलोनः ।स्तम्भप्रमाणविपुलाः क्रमशो निषङ्गाः प्रोक्ताङ्गुलार्द्धसदृशं बहुलत्वम् एषाम् ॥सर्वासु शालासु च कण्टकस्य हस्तो ऽर्धयुक्तः परिणाह उक्तः ।कण्टप्रमाणेन समुन्नतश् च तलप्रवन्धो दृढदारुबन्धः ॥अलिन्दभित्तौ तु गवाक्षकेषु कुर्याद् गुणद्वारकजालकांश् च ।निर्ब्यूहयुक्तासु च वेदिकासु कार्या बिभूषा परितो मयोक्ता ॥कमलोत्पलहंसयुगप्रमथैः प्रमदायुगपत्रविहङ्गघटैः ।विविधैस् तरुभिः सशुकभ्रमरैः फलपल्लवपुष्पभरावनतैः ॥व्यालककुञ्जरमत्स्यमृगेन्द्रैः कन्दम्र्णाललतांकुरशोभैः । वारिचरैश् च चिता मकराद्यैः शिक्षितशिल्पिविनिर्मितरूपा ॥द्वारोच्छ्रायाः कुञ्जराणाम् अतुल्या विस्तारो ऽस्य त्र्यंशहीनः स एव ।हीनो भूयश् चात्मषष्ठांशकेन शालाद् द्वारं प्रागुदक् च प्रशस्तम् ॥विचित्रनिर्व्यूहमृगेन्द्रपञ्जरं कपाटमेढार्गलसुप्रयोजितम् ।सुवेदिकालङ्कृतम् ईक्षणप्रियं प्रवेशनं निर्गमनाय चापरम् ॥चन्दनार्जुनशिरीषमधूका देवदारुसरलाञ्जनशालाः ।रोहिणीखदिरचम्पकशाकाः स्यन्दनश् च सकदम्बविशोकाः ॥शीताः शिवाश् च द्विपबन्धनार्थम् एते द्रुमाः पुष्टिकरा द्विपानाम् ।स्तम्भार्थम् अन्ये ऽपि हि सारवन्तः कार्याः प्रशस्ता गुणसंप्रयुक्ताः ॥पूर्वाभिमुखो निबध्यते यः क्षिप्रं स करोति विक्रमम् ।राज्ञस् समरेष्व् अनिर्जितो दीर्घं चायुर् अवाप्नुयाद् गजः ॥दक्षिणदिग्वदनस्य च बन्धो जीवितनाशकरो द्विरदस्य ।धान्यधनक्षयम् आशु च कुर्यान् मन्त्रिजनस्य नराधिपतेश् च ॥पश्चान् मुखं बन्धम् अवाप्य नागो नित्यं भवेद् रोगनिपीडिताङ्गः ।नाशञ् च वित्तस्य करोति राज्ञस् तस्मात् स याम्यापरदिग्विवर्ज्यः ॥उदङ्मुखं बन्धम् उपैति नागो यो ऽर्थस्य वृद्धिं स करोति भर्तुः ।प्राप्नोति पुष्टिं चिरजीविताञ् च संग्रामकालेष्व् अपराजयञ् च ॥सुषिरोर्ध्वशुष्ककोटरकोलाक्षप्रन्थिबहुलशूलाग्राः ।मधुनिलयमूलहीनाग्रकुञ्जबल्लीव्रणानुगताः ॥वामावर्त्तः शृङ्गी कुणिलो ऽवनतो ऽनुजातविद्धश् च ।पितृवनजः स्थूलाप्रस्त्रिकुब्जको द्राणिकावहुतः? ॥स्थूलग्रन्थिर् वज्रेण चूर्णितश् चाशुभप्रदाः ।सर्वे बन्धार्थे नागानाम् अतः फलानि प्रवक्ष्यामि ॥मासान् षडूर्ध्वसुषिरे स्तम्भे च बन्धमासाद्य ।मरणम् उपयाति नागो निपीडितो वातरोगेण ॥म्रियते कोटरविद्धे कोलाक्षे ऽन्धत्वम् आप्नुयाद् नागः ।क्षुत्पीडां ग्रन्थिचिते मृत्युं शूलेन शूलाग्रे ॥मूलाग्रकुब्जहीनेषु मरणम् अब्दात् सहैव हस्तिन्याः ।शृङ्गिनि मृत्युर् मधुदूषिते च मरणं कृमिगदेन ॥गात्रस्य भवति भङ्गो बल्लीदुष्टे घ्राणावकीर्णे च ।वामावर्त्ते नृपतेर् विनश्यते वाहनं सर्वम् ।मृद्गर्भे कुणिलाख्ये नृपतेः समहाजनस्य मरणाय ।नागस्य तु त्रिकुब्जे भवति बधो युध्यतः स्तम्भे ॥अनुजातविद्धबद्धः सुकुमारो वारणो मरणम् एति ।वर्षद्वयेन मृत्युः पितृवनजाते निबद्धस्य ॥स्थूलाग्रानतयोर् मरणम् एति मासे ऽष्टमे महामात्रः ।द्विरदस्य क्षुत्पीडा बद्धस्य द्रोणिकाबहुले ॥स्थूलग्रन्थिर् विस्फोटमृत्युकृद् दन्तिनो द्वितीये ऽब्दे ।अशनिहते विज्ञेयः षण्मासाद् दन्तिनां मृत्युः ॥प्रदक्षिणावर्त्तमनोज्ञवृतसुस्निग्धऋज्वव्रणसारवन्तः ।दोषैर् विहीना विजयाय शुद्धाः स्तम्भा द्विपानां बलपुष्टिदाः स्युः ॥ यः सम्पातः कर्णसूत्र?द्वयस्य तस्माद् धस्तं सार्द्धम् उत्सृज्य कार्यः ।दिश्य् ऐशान्यां बन्धनार्थं द्विपानां स्तम्भो राज्ञः श्रेयसे दन्तिनश् च ॥आग्नेय्यां द्विपमरणं नृपार्थहानिर् नैरृत्यां समरपराभवार्थनाशौ ।मारुत्यां भवति मतङ्गजस्य रोगः स्तम्भो ऽतः शिवदिशि रोपितः शिवाय ॥ज्येष्ठो दशोच्चो नव मध्यमश् च स्तम्भो ऽष्टहस्तः कथितः कनीयान् ।सर्वे निखाताश् चतुरश् च हस्तान् मानाधिकोनाश् च शिवाय न स्युः ॥स्याद् विंशतिर् द्वित्रिचतुर्विहीना मूले ऽङ्गुलानां पृथुता क्रमेण ।द्व्यूनानि तान्य् एव हि मस्तके स्युः पर्यन्तवेष्टा त्रिगुणानि तानि ॥ताम्रौष्ठतालुवदनाः कलविङ्कनेत्राः स्निग्धोन्नताग्रदशनाः पृथुलायतास्याः ॥ चापोन्नता यतनिगूढनिमग्नवंशास् तन्वेकरोमचितकूर्मसमानकुम्भाः ॥विस्तीर्णकर्णहनुनाभिललाटगुह्याः कूर्मोन्नतैर् द्विनवविंशतिभिर् नखैश् च । रेखात्रयोपचितवृत्तकराः सुब?ला धन्याः सुगन्धिमदपुष्करमारुताश् च ॥दीर्घाङ्गुलिरक्तपुष्कराः सजलाम्भोदनिनादवृंहिणः । बृहदायतवृत्तकन्धरा धन्या भूमिपतेर् मतङ्गजाः ॥निर्मदाभ्यधिकहीननखाङ्गान् कुब्जवामनकमेषविषाणान् । दृश्यकोशफलपुष्करदीनान् श्यावनीलशवलासिततालून् ॥स्वल्पवक्त्ररुहमत्कुणषण्ढान् हस्तिनीञ् च गजलक्षणयुक्ताम् । गर्भिनीञ् च नृपतिः परदेशं प्रापयेद् अतिबिरूपफलास् ते ॥दन्तमूलपरिणाहदीर्घतां द्विःप्रमुच्य परतो ऽस्य कल्पयेत् । श्यावपू?तिमलरक्तदर्शनं पापसत्त्वसदृशं च पापदम् ॥पार्थिवोपकरणाकृतिं यदा चिह्नम् उद्वहति कल्पिते रदे । श्रीजयार्थवलवृद्धयस् तदा स्निग्धशुक्लरुचिराश् च शोभनाः ॥दक्षिणे शुभम् अतीवशोभन पापम् अप्य् अतिविरूपम् अन्यतः । जाप्यता भवति तद् विपर्यये विस्तरो ऽन्यमुनिभिः प्रकीर्त्तितः ॥मूलमध्यदशनाग्रसंस्थिता देवदैत्यमनुजाः क्रमात् ततः । स्फीतमध्यपरिपेलवं फलं शीघ्रमध्यचिरकालसंभवम् ॥दन्तभङ्गफलम् अत्र दक्षिणे भूपदेशबलविद्रवप्रदम् । वामतः सुतपुरोहिते भयं हन्ति भृत्यजनदारनायकान् ॥आदिशेद् उभयभङ्गदर्शनात् पार्थिवस्य सकलं कुलक्षयम् । सौम्यलग्नतिथिभादिभिः शुभं वर्द्धते शुभम् अतो ऽन्यथापरम् ॥क्षीरमिष्टफलपुष्पपादपैश् चापगातटविघट्टनेन वा । वाममध्यरदभङ्गखण्डनं शत्रुनाशकृद् अतो ऽन्यथापरम् ॥स्खलितगतिर् अकस्मात् त्रस्तकर्णो ऽतिदीनः श्वसिति मृदु सुदीर्घं न्यस्तहस्तः पृथिव्याम् ।द्रुतमुकुलितदृष्टिः स्वप्नशीलो विलोमो भयकृद् अहितभक्षी नैकशो ऽसृअक् शकृत्कृत् ॥वल्मीकस्थाणुगुल्मेक्षुतरुविमथनः स्वेच्छया हृष्टदृष्टिर्यायाद् यात्रानुलोमं त्वरितपदगतिर् वक्त्रम् उन्नाम्य चोच्चैः ।कक्ष्यासद्माहकाल् जनयति च मुहुः शीकरं बृंहते वातत्कालं वा मदाप्तिर् जयकृद् अथ रदं वेष्टयन् दक्षिणश् च ॥प्रवेशनं वारिणि वारणस्य ग्राहेण नाशाय भवेन् नृपस्य ।ग्राहं गृहीत्वात् तरणं द्विपस्य तोयात् स्थले वृद्धिकरं नृभर्तुः ॥रणे जित्वा शत्रून् भवति नृपलक्ष्मीः क्षितिभृतांजयस् तेषां येषां मदमलिनगण्डाः करिवराः ।भिनत्य् एको मत्तः परवलममत्तेभबहुलंयतो ऽतो ऽहं वक्ष्ये करिमदकरं द्रव्यनिचयम् ॥जातीगुडूचीकदलीतिलानाम् आस्फोतकर्पासवलान्वितानाम् ।मार्गी सनीलीगिरिकर्णिकानां धत्तूस्कस्यन्दनमाषभागः ॥कलम्बुका कर्णकमापपर्णीं पुनर्नवा भृङ्गरजो ऽश्वगन्धाः ।शेफालिकांसोटककच्छुराश् च कोशातकी गोक्षुरकं विदारी ॥विष्णुक्रान्ता दुग्धिका शालपर्णी खट्वापादी वाकुची वस्तगन्धा ।व्याघ्री च स्यात् पृष्णिपर्णी मृणालं पटोरकः सल्लकी तन्दुलीयः ॥एतैर् यथासंभवसम्प्रयुक्तैर् मत्तस्य नागस्य मदाभिवृद्धिः ।दानप्रमेदश् च मदोज्झितस्य सर्वाङ्गशोभा च मुखे ऽतिरिक्ता ॥जीवकमधूकधन्वनपटेरकङ्कोलकदलिऋषभाणाम् ।सौभाञ्जननिम्बेङ्गुदपरुषकाणाञ् च मूलानि ॥मूलानि शतावर्याः काकोली क्षीरसंज्ञकाकोली ।श्लेष्मान्तकशाल्मलिशल्लकीजटाः स्युर् बिम्दायश् च ॥काशीसाश्मन्तकराजमाषमूलानि चैवम् एतानि ।सर्वाणि वक्त्रशाभां जनयन्ति सदैव नागानाम् ॥नीलीपत्रैश् चूर्णितैर् माषचूर्णो दध्ना युक्तो माहिषेणैव पिण्डः ।नागेन्द्राणाम् आशु घत्ते मदाप्तिं नील्येकैव द्रव्यवर्गे प्रधाना ॥एकैव करोति काकजङ्घा ह्य् एकेकैव च माषमुद्गपर्णी ।ताम्बूलवनार्द्रवृश्चिकाल्षश् चैकैका मददास् तथैव मुस्ताः ॥कार्पास्येका चञ्चुसंयोजिता वा ज्ञेया चैका कण्टकी शैलिकाख्या ।एकः शस्तो बल्कलः स्फूर्जकस्य जाती भृङ्गेनान्वितो वा कुठेरः ॥एवम् एवेङ्गुदीमूलं मदप्राचुर्यकारकम् ।एका च श्वेतकाम्बोजी श्वेता चैका ऽपराजिता ॥समूलो वीरणस्तम्बः समूला मल्लिका तथा ।मदप्राचुयसौरम्यं कुर्वन्तीन्दीवराणि च ॥सुरसा गण्डसंयुक्ता पुनर् नवा गोमये ऽथवा स्विन्ना ।वाराहीमूलानि च निन्दन्ति गुडेन युक्तानि ॥मध्वालुका मधुयुता मुखशोभाम् आतनोति नागानाम् ।नेक्ष्वाहारस्य हितो गुडेन पिण्डो हितो दध्ना ॥माषाशिनां गुडयुतस्तृणाशिनां शस्यते वसायुक्तः ।व्यतिमिश्राहाराणां विज्ञाय बलाबलं दद्यात् ॥प्रायो मदस्य पवनः कुरुते विघातं स्रोतांस्य् अतो घृतयुतैर् बहुशो ऽस्य पिण्डैः ।स स्वेदयेद् भवति येन मदप्रवृद्धिर् भिन्नस्य चापि मदवृद्धिकराणि दद्यात् ॥ N/A References : N/A Last Updated : November 14, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP