संस्कृत सूची|शास्त्रः|योग शास्त्रः|योगयात्रा| प्रस्थानिकाध्याय योगयात्रा दैवपुरुषाकाराध्याय आचाराध्याय अभियोगाध्याय योगाध्याय बल्युपहाराध्याये नक्षत्रविजयस्नानप्राशन् अग्निनिमिताध्याय नक्षत्रकेन्दुभाध्याय हस्तिलक्षणाध्याय अश्वेङ्गिताध्याय खड्गलक्षणाद्याय प्रस्थानिकाध्याय शकुनाध्याय प्रोत्साहनाध्याय उपसंहाराध्याय योगयात्रा - प्रस्थानिकाध्याय योग शास्त्र ऋषी मुनींनी जगाला शिकविले. Tags : astrologyhoroscopevarahamihiryogayogayatraयोगयोगयात्रावराहमिहिर प्रस्थानिकाध्याय Translation - भाषांतर अन्तःपुराद् वा स्वनिवेशनाद् वा सिंहासनाद् अग्निपरिस्तराद् वा ।कुर्यान् नरेन्द्रः प्रथमं प्रयाणं विप्रैः शताग्रैः कृतमङ्गलाशीः ॥द्विजो विष्णुक्रमाद् भूयं मन्त्रेणानेन दापयेत् ।इदं विष्णुर् विचक्रम इत्य् एवं पादम् उद्धरेत् ॥अमुकस्य वधायेति दक्षिणं क्षितिपो न्यसेत् ।मङ्गलानि ततः पश्यन् स्पृशन् शृण्वन् नृपो व्रजेत् ॥वेदाङ्गवेदध्वनिशङ्खभेरीमृदङ्गपुण्याहपुराणशब्दाः ।धर्मर्थशास्त्राणि च भारतं च रामायणं मङ्गलकीर्त्तनानि ॥वाचः शुभाः सारसचाषवर्हिणः कादम्बहंसाश् च सजीवजीवकाः ।काकश् च पङ्काक्तवराहपृष्ठगः श्रीवृक्षवालव्यजनानि चन्दनम् ॥गौर्वत्सला ऽजो रुचकः प्र्इयङ्गुलाजा नृयुक्तश् च रथाः पताका ।सर्वौषधी स्वस्तिकपूर्णपात्राण्य् अश्वो ऽथ दूर्वाद्रकगोमयं च ॥सरांस्य् अशोष्यानि सरित्समुद्रा रुद्रेन्द्रलोकेशमहीध्रनागाः ।दिशो ग्रहर्क्षाणि शिवः सुपर्णः स्कन्दो विशाखो मरुतश् च साध्याः ॥भूर् द्वादशार्का वसवो ऽश्विनौ च स्वाहा शाची मातृगणो भवानी ।पत्न्यो जनन्यश् च सुरासुराणां साध्योगणाश् चाप्सरसः सविद्याः ॥यक्षाः ससिद्धा मुनयः सजायाः पर्जन्यकम्पद्रुममारुताश् च ।प्रजापतिः सर्वगतश् च विष्णुः शिवाय ते भूप भवन्तु याने ॥सिद्धार्थकादर्शपयोञ्जनानि बद्धैकपश्वामिषपूर्णकुम्भाः । उष्णीषभृङ्गारनृवर्धमानपुंयानवीणातपवारणानि ॥दधि मधु घृत रोचना कुमारी ध्वजकनकाम्बुजभद्रपीठशङ्खाः ।सितवृषकुसुमाम्बराणि मीनद्विजगणिकाप्तजनाश् च चारुवेषाः ॥ज्वलितशिखिफलाक्षतेक्षुभक्ष्या द्विरदमृदङ्कुशचामरायुधानि ।मरकतकुरुविन्दपद्मरागाः स्फतिकमणिप्रमुखाश् च रत्नमेदाः ॥स्वयम् अथ रचितान्य् अयत्नतो वा यदि कथितानि भवन्ति मङ्गलानि ।स जयति सकलां ततो धरित्रीं प्रहणदृगालभनश्रुतैर् उपास्य ॥कार्पासौषधकृष्णधान्यलवणक्लीवास्थितैलं वसापङ्काङ्गारगुडाहिचर्मशकृतः केशाय सव्याधिताः ।वान्तोन्मत्तजडेन्धनतृणतुषक्षुत्क्षामतक्रारयोमुण्डाभ्यक्तविमुक्तकेशपतिताः काषाविनश् चाशुभाः ॥पटुपटहमृदङ्गशङ्खभेरीवणवरदं सपताकतोरणाग्रम् ।प्रचुरकुसुमतोयशान्तरेणुं सुरभिसुवेषजनं व्रजेच् च मार्गम् ॥यान्य् अत्र मङ्गलामङ्गलानि निर्गच्छतां प्रदिष्टानि ।स्वप्नेष्व् अप्य् एतानि शुभाशुभानि विड्लेपनं धन्यम् ॥ N/A References : N/A Last Updated : November 14, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP