TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

पाद १ - खण्ड ९

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


खण्ड ९
१ - ३० - अप्रत्ययः इति किमर्थम् ।

२ - ३० - सनाशंसभिक्षः उः, अ साम्प्रतिके ।

३ - ३० - अत्यल्पम् इदम् उच्यते अप्रत्ययः इति ।

४ - ३० - अप्रत्ययादेशटित्किन्मितः इति वक्तव्यम् ।

५ - ३० - प्रत्यये उदाहृतम् ।

६ - ३० - आदेशे इदमः इश् इह, इतः ।

७ - ३० - टिति ।

८ - ३० - लविता लवितुम् ।

९ - ३० - किति ।

१० - ३० - बभूव ।

११ - ३० - मिति ।

१२ - ३० - हे अनड्वन् ।

१३ - ३० - टितः परिहारः ।

१४ - ३० - आचार्यप्रवृत्तिः ज्ञापयति न टितः सवर्णानाम् ग्रहणम् भवति इति यत् अयम् ग्रहः अलिटि दीर्घत्वम् शास्ति ।

१५ - ३० - न एतत् अस्ति ज्ञापकम् ।

१६ - ३० - नियमार्थम् एतत् स्यात् ग्रहः अलिटि दीर्घः एव इति ।

१७ - ३० - यत् तर्हि वृ̄तः वा इति विभाषाम् शास्ति ।

१८ - ३० - सर्वेषाम् एव परिहारः भाव्यमानेन सवर्णानाम् ग्रहणम् न इति एवम् भविष्यति ।

१९ - ३० - प्रत्यये भूयान् परिहारः अनभिधानात् प्रत्ययः सवर्णान् न ग्रहीष्यति ।

२० - ३० - यान् हि प्रत्ययः सवर्णग्रहणेन गृह्णीयात् न तैः अर्थस्य अभिधानम् स्यात् ।

२१ - ३० - अनभिधानात् न भविष्यति ।

२२ - ३० - इदम् तर्हि प्रयोजनम् इह के चित् प्रतीयन्ते के चित् प्रत्याय्यन्ते ।

२३ - ३० - ह्रस्वाः प्रतीयन्ते डीर्घाः प्रत्याय्यन्ते ।

२४ - ३० - यावत् ब्रूयात् प्रत्याय्यमानेन सवर्णानम् ग्रहणम् न इति तावत् अप्रत्ययः इति ।

२५ - ३० - कम् पुनः दीर्घः सवर्णग्रहणेन गृह्णीयात् ।

२६ - ३० - ह्रस्वम् ।

२७ - ३० - यत्नाधिक्यात् न ग्रहीष्यति ।

२८ - ३० - प्लुतम् तर्हि गृह्णीयात् ।

२९ - ३० - अनण्त्वात् न ग्रहीष्यति ।

३० - ३० - एवम् तर्हि सिद्धे सति यत् अप्रत्ययः इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः भवति एषा परिभाषा भाव्यमानेन सवर्णानाम् ग्रहणम् न इति ।

१ - ४६ - किमर्थम् पुनः इदम् उच्यते ।

२ - ४६ - अण् सवर्णस्य इति स्वरानुनासिक्यकालभेदात् ।

३ - ४६ - अण् सवर्णस्य इति उच्यते ।

४ - ४६ - स्वरभेदात् आनुनासिक्यभेदात् कालभेदात् च अण् सवर्णान् न गृह्णीयात् ।

५ - ४६ - इष्यते च सवर्णग्रहणम् स्यात् इति ।

६ - ४६ - तत् च अन्तरेण यत्नम् न सिध्यति इति एवमर्थम् इदम् उच्यते ।

७ - ४६ - अस्ति प्रयोजनम् एतत् ।

८ - ४६ - किम् तर्हि इति ।

९ - ४६ - तत्र प्रत्याहारग्रहणे सवर्णाग्रहणम् अनुपदेशात् ।

१० - ४६ - तत्र प्रत्याहारग्रहणे सवर्णानाम् ग्रहणम् न प्राप्नोति अकः सवर्णे दीर्घः इति ।

११ - ४६ - किम् कारणम् ।

१२ - ४६ - अनुपदेशात् ।

१३ - ४६ - यथाजातीयकानाम् सञ्ज्ञा कृता तथाजातीयकानाम् सम्प्रत्यायिका स्यात् ।

१४ - ४६ - ह्रस्वानाम् च क्रियते ।

१५ - ४६ - ह्रस्वानाम् एव सम्प्रत्यायिका स्यात् दीर्घानाम् न स्यात् ।

१६ - ४६ - ननु च ह्रस्वाः प्रतीयमानाः दीर्घान् सम्प्रत्याययिष्यन्ति ।

१७ - ४६ - ह्रस्वसम्प्रत्ययात् इति चेत् उच्चार्यमाणसम्प्रत्यायकत्वात् शब्दस्य अवचनम् ।

१८ - ४६ - ह्रस्वसम्प्रत्ययात् इति चेत् उच्चार्यमाणः शब्दः सम्प्रत्यायकः भवति न सम्प्रतीयमनः ।

१९ - ४६ - तत् यथा ऋक् इति उक्ते सम्पाठमात्रम् गम्यते न अस्याः अर्थः गम्यते ।

२० - ४६ - एवम् तर्हि वर्णपाठे एव उपदेशः करिष्यते ।

२१ - ४६ - वर्णपाठे उपदेशः इति चेत् अवर्कालत्वात् परिभाषायाः अनुपदेशः । वर्णपाठे उपदेशः इति चेत् अवर्कालत्वात् परिभाषायाः अनुपदेशः ।

२२ - ४६ - किम् परा सूत्रात् क्रियते इति अतः अवरकाला ।

२३ - ४६ - न इति आह ।

२४ - ४६ - सर्वथा अवरकाला एव ।

२५ - ४६ - वर्णानाम् उपदेशः तावत् ।

२६ - ४६ - उपदेशोत्तरकालः आदिः अन्त्येन सह इता इति प्रत्याहारः ।

२७ - ४६ - प्रत्याहारोत्तरकाला सवर्णसञ्ज्ञा ।

२८ - ४६ - सवर्णसञ्ज्ञोत्तरकालम् अणुदित् सवर्णस्य च अप्रत्ययः इति ।

२९ - ४६ - सा एषा उपदेशोत्तरकाला अवरकाला सती वर्णानाम् उत्पत्तौ निमित्तत्वाय कल्पयिष्यते इति तत् न ।

३० - ४६ - तस्मात् उपदेशः ।

३१ - ४६ - तस्मात् उपदेशः कर्तव्यः ।

३२ - ४६ - तत्र अनुवृत्तिनिर्देशे सवर्णाग्रहणम् अनण्त्वात् ।

३३ - ४६ - तत्र अनुवृत्तिनिर्देशे सवर्णानाम् ग्रहणम् न प्राप्नोति अस्य च्वौ यस्य ईति च ।

३४ - ४६ - किम् कारणम् ।

३५ - ४६ - अनण्त्वात् ।

३६ - ४६ - न हि एते अणः ये अनुवृत्तिनिर्देशे ।

३७ - ४६ - के तर्हि ।

३८ - ४६ - ये अक्षरसमाम्नाये उपदिश्यन्ते ।

३९ - ४६ - एवम् तर्हि अनण्त्वात् अनुवृत्तौ न अनुपदेशात् च प्रत्याहारे न ।

४० - ४६ - उच्यते च इदम् अण् सवर्णान् गृह्णाति इति ।

४१ - ४६ - तत्र वचनात् भविष्यति ।

४२ - ४६ - वचनात् यत्र तत् न अस्ति ।

४३ - ४६ - न इदम् वचनात् लभ्यम् ।

४४ - ४६ - अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् ।

४५ - ४६ - किम् ।

४६ - ४६ - ये एते प्रत्याहाराणाम् आदितः वर्णाः तैः सवर्णानाम् ग्रहणम् यथा स्यात् ।

१ - ३८ - एवम् तर्हि सवर्णे अण्ग्रहणम् अपरिभाष्यम् आकृतिग्रहणात् ।

२ - ३८ - सवर्णे अण्ग्रहणम् अपरिभाष्यम् ।

३ - ३८ - कुतः ।

४ - ३८ - आकृतिग्रहणात् ।

५ - ३८ - अवर्णाकृतिः उपदिष्टा सा सर्वम् अवर्णकुलम् ग्रहीष्यति ।

६ - ३८ - तथा इवर्णकुलाकृतिः ।

७ - ३८ - तथा उवर्णकुलाकृतिः ।

८ - ३८ - ननु च अन्या आकृतिः अकारस्य आकारस्य च ।

९ - ३८ - अनन्यत्वात् च ।

१० - ३८ - अनन्याकृतिः अकारस्य आकारस्य च ।

११ - ३८ - अनेकान्तः हि अनन्यत्वकरः ।

१२ - ३८ - यः हि अनेकान्तेन भेदः न असौ अन्यत्वम् करोति ।

१३ - ३८ - तत् यथा न यः गोः च गोः च भेदः सः अन्यत्वम् करोति ।

१४ - ३८ - यः तु खलु गोः च अश्वस्य च भेदः सः अन्यत्वम् करोति ।

१५ - ३८ - अपरः आह सवर्णे अण्ग्रहणम् अपरिभाष्यम् ।

१६ - ३८ - आकृतिग्रहणात् अनन्यत्वम् ।

१७ - ३८ - सवर्णे अण्ग्रहणम् अपरिभाष्यम् ।

१८ - ३८ - आकृतिग्रहणात् अनन्यत्वम् भविष्यति ।

१९ - ३८ - अनन्याकृतिः अकारस्य आकारस्य च ।

२० - ३८ - अनेकान्तः हि अनन्यत्वकरः ।

२१ - ३८ - यः हि अनेकान्तेन भेदः न असौ अन्यत्वम् करोति ।

२२ - ३८ - तत् यथा न यः गोः च गोः च भेदः सः अन्यत्वम् करोति ।

२३ - ३८ - यः तु खलु गोः च अश्वस्य च भेदः सः अन्यत्वम् करोति ।

२४ - ३८ - तद्वत् च हल्ग्रहणेषु ।

२५ - ३८ - एवम् च कृत्वा च हल्ग्रहणेषु सिद्धम् भवति ।

२६ - ३८ - झलः झलि अवात्ताम् अवात्तम् अवात्त यत्र एतत् न अस्ति अण् सवर्णान् गृह्णाति इति ।

२७ - ३८ - अनेकान्तः हि अनन्यत्वकरः इति उक्तार्थम् ।

२८ - ३८ - द्रुतविलम्बितयोः च अनुपदेशात् ।

२९ - ३८ - द्रुतविलम्बितयोः च अनुपदेशात् मन्यामहे आकृतिग्रहणात् सिद्धम् इति ।

३० - ३८ - यत् अयम् कस्याम् चित् वृत्तौ वर्णान् उपदिश्य सर्वत्र कृती भवति ।

३१ - ३८ - अस्ति प्रयोजनम् एतत् ।

३२ - ३८ - किम् तर्हि इति ।

३३ - ३८ - वृत्तिपृथक्त्वम् तु न उपपद्यते ।

३४ - ३८ - वृत्तेः तु पृथक्त्वम् न उपपद्यते ।

३५ - ३८ - तस्मात् तत्र तपरनिर्देशात् सिद्धम् ।

३६ - ३८ - तस्मात् तत्र तपरनिर्देशः कर्तव्यः ।

३७ - ३८ - न कर्तव्यः ।

३८ - ३८ - क्रियते एतत् न्यासे एव अतः भिसः ऐस् इति ।

१ - १४ - अयुक्तः अयम् निर्देशः ।

२ - १४ - तत् इति अनेन कालः प्रतिनिर्दिश्यते तत् इति अयम् च वर्णः ।

३ - १४ - तत्र अयुक्तम् वर्णस्य कालेन सह सामनाधिकरण्यम् ।

४ - १४ - कथम् तर्हि निर्देशः कर्तव्यः ।

५ - १४ - तत्कालकालस्य इति ।

६ - १४ - किम् इदम् तत्कालकालस्य इति ।

७ - १४ - तस्य कालः तत्कालः, तत्कालः कालः यस्य सः अयम् तत्कालकालः, तत्कालकालस्य इति ।

८ - १४ - सः तर्हि तथा निर्देशः कर्तव्यः ।

९ - १४ - न कर्तव्यः ।

१० - १४ - उत्तरपदलोपः अत्र द्रष्टव्यः ।

११ - १४ - तत् यथा उष्ट्रमुखम् इव मुखम् अस्य उष्ट्रमुखः, खरमुखः ।

१२ - १४ - एवम् तत्कालकालः तत्कालः, तत्कालस्य इति ।

१३ - १४ - अथ वा साहचर्यात् ताच्छब्द्यम् भविष्यति ।

१४ - १४ - कालसहचरितः वर्णः अपि कालः एव.

१ - ४३ - किम् पुनः इदम् नियमार्थम् आहोस्वित् प्रापकम् ।

२ - ४३ - कथम् च नियमार्थम् स्यात् कथम् वा प्रापकम् ।

३ - ४३ - यदि अत्र अण्ग्रहणम् अनुवर्तते ततः नियमार्थम् ।

४ - ४३ - अथ निवृत्तम् ततः प्रापकम् ।

५ - ४३ - कः च अत्र विशेषः ।

६ - ४३ - तपरः तत्कालस्य इति नियमाऋथम् इति चेत् दीर्घग्रहणे स्वरभिन्नाग्रहणम् ।

७ - ४३ - तपरः तत्कालस्य इति नियमाऋथम् इति चेत् दीर्घग्रहणे स्वरभिन्नानाम् ग्रहणम् न प्राप्नोति ।

८ - ४३ - केषाम् ।

९ - ४३ - उदात्तानुदात्तस्वरितानाम् ।

१० - ४३ - अस्तु तर्हि प्रापकम् ।

११ - ४३ - प्रापकम् इति चेत् ह्रस्वग्रहणे दीर्घप्लुतप्रतिषेधः ।

१२ - ४३ - प्रापकम् इति चेत् ह्रस्वग्रहणे दीर्घप्लुतयोः तु प्रतिषेधः वक्तव्यः ।

१३ - ४३ - विप्रतिषेधात् सिद्धम् ।

१४ - ४३ - अण् सवर्णान् गृह्णाति इति एतत् अस्तु तपरः तत्कालस्य इति वा ।

१५ - ४३ - तपरः तत्कालस्य इति एतत् भवति विप्रतिषेधेन ।

१६ - ४३ - अण् सवर्णान् गृह्णाति इति अस्य अवकाशः ह्रस्वाः अतपराः अणः ।

१७ - ४३ - तपरः तत्कालस्य इति अस्य अवकाशः दीर्घाः तपराः ।

१८ - ४३ - ह्रस्वेषु तपरेषु उभयम् प्राप्नोति ।

१९ - ४३ - तपरः तत्कालस्य इति एतत् भवति विप्रतिषेधेन ।

२० - ४३ - यदि एवम् द्रुतायाम् तपरकरणे मध्यमविलम्बितयोः उपसङ्ख्यानम् कालभेदात् । द्रुतायाम् तपरकरणे मध्यमविलम्बितयोः उपसङ्ख्यानम् कर्तव्यम् तथा मध्यमायाम् द्रुतविलम्बितयोः तथा विलम्बितायाम् द्रुतमध्यमयोः ।

२१ - ४३ - किम् पुनः कारणम् न सिध्यति ।

२२ - ४३ - कालभेदात् ।

२३ - ४३ - ये हि द्रुतायाम् वृत्तौ वर्णाः त्रिभागाधिकाः ते मध्यमायाम् ।

२४ - ४३ - ये मध्यमायाम् वर्णाः त्रिभागाधिकाः ते विलम्बितायाम् ।

२५ - ४३ - सिद्धम् तु अवस्थिताः वर्णाः वक्तुः चिराचिरवचनात् वृत्तयः विशिष्यन्ते । सिद्धम् एतत् ।

२६ - ४३ - कथम् ।

२७ - ४३ - अवस्थिताः वर्णाः द्रुतमध्यमविलम्बितासु ।

२८ - ४३ - किङ्कृतः तु वृत्तिविशेषः ।

२९ - ४३ - वक्तुः चिराचिरवचनात् वृत्तयः विशिष्यन्ते ।

३० - ४३ - वक्ता कः चित् आश्वभिधायी भवति, आशु वर्णान् अभिधत्ते ।

३१ - ४३ - कः चित् चिरेण कः चित् चिरतरेण ।

३२ - ४३ - तत् यथा तम् एव अध्वानम् कः चित् आशु गच्छति कः चित् चिरेण गच्छति कः चित् चिरतरेण गच्छति ।

३३ - ४३ - रथिकः आशु गच्छति आश्विकः चिरेण पदातिः चिरतरेण ।

३४ - ४३ - विषमः उपन्यासः ।

३५ - ४३ - अधिकरणम् अत्र अध्वा व्रजिक्रियायाः ।

३६ - ४३ - तत्र अयुक्तम् यत् अधिकरणस्य वृद्धिह्रासौ स्याताम् ।

३७ - ४३ - एवम् तर्हि स्फोटः शब्दः ध्वनिः शब्दगुणः ।

३८ - ४३ - कथम् ।

३९ - ४३ - भेर्याघातवत् ।

४० - ४३ - तत् यथा भेर्याघातः भेरीम् आहत्य कः चित् विंशति पदानि गच्छति कः चित् त्रिंशत् कः चित् चत्वारिंशत् ।

४१ - ४३ - स्फोटः च तावान् एव भवति ।

४२ - ४३ - ध्वनिकृता वृद्धिः ।

४३ - ४३ - ध्वनिः स्फोटः च शब्दानाम् ध्वनिः तु खलु लक्ष्यते । अल्पः महान् च केषाम् चित् उभयम् तत् स्वभावतः ।

१ - १५ - आदिः अन्त्येन सह इति असम्प्रत्ययः सञ्ज्ञिनः अनिर्देशात् ।

२ - १५ - आदिः अन्त्येन सह इति असम्प्रत्ययः ।

३ - १५ - किम् कारणम् ।

४ - १५ - सञ्ज्ञिनः अनिर्देशात् ।

५ - १५ - न हि सञ्ज्ञिनः निर्दिश्यन्ते ।

६ - १५ - सिद्धम् तु आदिः इता सह तन्मध्यस्य इति वचनात् ।

७ - १५ - सिद्धम् एतत् ।

८ - १५ - कथम् ।

९ - १५ - आदिः अन्त्येन सह इता गृह्यमाणः स्वस्य च रूपस्य ग्राहकः तन्मध्यानाम् च इति वक्तव्यम् ।

१० - १५ - सम्बन्धिशब्दैः वा तुल्यम् ।

११ - १५ - सम्बन्धिशब्दैः वा तुल्यम् एतत् ।

१२ - १५ - तत् यथा सम्बन्धिशब्दाः मातरि वर्तितव्यम्, पितरि शुश्रूषितव्यम् इति ।

१३ - १५ - न च उच्यते स्वस्याम् मातरि स्वस्मिन् पितरि इति सम्बन्धात् च गम्यते या यस्य माता यः च यस्य पिता इति ।

१४ - १५ - एवम् इह अपि आदिः अन्त्यः इति सम्बन्धिशब्दौ एतौ ।

१५ - १५ - तत्र सम्बन्धात् एतत् गन्तव्यम् यम् प्रति आदिः अन्त्यः इति च भवति तस्य ग्रहणम् भवति स्वस्य च रूपस्य इति ।

१ - २० - इह कस्मात् न भवति इकः यण् अचि दधि अत्र मधु अत्र ।

२ - २० - अस्तु ।

३ - २० - अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य भविष्यति ।

४ - २० - न एवम् शक्यम् ।

५ - २० - ये अनेकालः आदेशाः तेषु दोषः स्यात् एचः अयवायावः इति ।

६ - २० - न एषः दोषः ।

७ - २० - यथा एव प्रकृतितः तदन्तविधिः भवति एवम् आदेशतः अपि भविष्यति ।

८ - २० - तत्र एजन्तस्य अयाद्यन्ता आदेशाः भविष्यन्ति ।

९ - २० - यदि च एवम् क्व चित् वैरूप्यम् तत्र दोषः स्यात् ।

१० - २० - अपि च अन्तरङ्गबहिरङ्गे न प्रकल्प्येयाताम् ।

११ - २० - तत्र कः दोषः ।

१२ - २० - स्योनः, स्योना अन्तरङ्गलक्षणस्य यणादेशस्य बहिरङ्गलक्षणः गुणः बाधकः प्रसज्येत ।

१३ - २० - ऊनशब्दम् हि आश्रित्य यणादेशः नशब्दम् आश्रित्य गुणः ।

१४ - २० - अल्विधिः च न प्रकल्पेत द्यौः, पन्थाः, सः इति ।

१५ - २० - तस्मात् प्रकृते तदन्तविधिः इति वक्तव्यम् ।

१६ - २० - न वक्तव्यम् ।

१७ - २० - येन इति करणे एषा तृतीया अन्येन च अन्यस्य विधिः भवति ।

१८ - २० - तत् यथा देवदत्तस्य समाशम् शरावैः ओदनेन च यज्ञदत्तः प्रतिविधत्ते, तथा सङ्ग्रामम् हस्त्यश्वरथपदातिभिः ।

१९ - २० - एवम् इह अपि अचा धातोः यतम् विधत्ते ।

२० - २० - अकारेण प्रातिपदिकस्य इञम् विधत्ते ।

१ - २२ - येन विधिः तदन्तस्य इति चेत् ग्रहणोपाधीनाम् तदन्तोपाधिप्रसङ्गः ।

२ - २२ - येन विधिः तदन्तस्य इति चेत् ग्रहणोपाधीनाम् तदन्तोपाधिताप्रसङ्गः ।

३ - २२ - ये ग्रहणोपाधयः ते अपि तदन्तोपाधयः स्युः ।

४ - २२ - तत्र कः दोषः ।

५ - २२ - उतः च प्रत्ययात् असंयोगपूर्वात् इति असंयोगपूर्वग्रहणम् उकारान्त्विशेषणम् स्यात् ।

६ - २२ - तत्र कः दोषः ।

७ - २२ - असंयोगपूर्वग्रहणेन इह एव पर्युदासः स्यात्॒अक्ष्णुहि तक्ष्णुहि इति ।

८ - २२ - इह न स्यात् आप्नुहि शक्नुहि इति ।

९ - २२ - तथा उत् ओष्थ्यपूर्वस्य इति ओष्ठ्यपूर्वग्रहणम् ऋ̄कारान्तविशेषणम् स्यात् ।

१० - २२ - तत्र कः दोषः ।

११ - २२ - ओष्ठ्यपूर्वग्रहणेन इह च प्रसज्येत सङ्कीर्णम् इति ।

१२ - २२ - इह च न स्यात् निपूर्ताः पिण्डाः इति ।

१३ - २२ - सिद्धम् तु विशेषणविशेष्ययोः यथेष्टत्वात् ।

१४ - २२ - सिद्धम् एतत् ।

१५ - २२ - कथम् ।

१६ - २२ - यथेष्टम् विशेषणविशेष्ययोः योगः भवति ।

१७ - २२ - यावता यथेष्टम् इह तावत् उतः च प्रत्ययात् असंयोगपूर्वात् इति न असंयोगपूर्वग्रहणेन उकारान्तम् विशेष्यते ।

१८ - २२ - किम् तर्हि ।

१९ - २२ - उकारः एव विशेष्यते उकारः यः असंयोगपूर्वः तदन्तात् प्रत्ययात् इति ।

२० - २२ - तथा उत् ओष्थ्यपूर्वस्य इति न ओष्ठपूर्वग्रहणेन ऋ̄कारान्तम् विशेष्यते ।

२१ - २२ - किम् तर्हि ।

२२ - २२ - ऋ̄कारः एव विशेष्यते ऋ̄कारः यः ओष्ठ्यपूर्वः तदन्तस्य धातोः इति ।

१ - ५३ - समासप्रत्ययविधौ प्रतिषेधः ।

२ - ५३ - समासविधौ प्रत्ययविधौ च प्रतिषेधः वक्तव्यः ।

३ - ५३ - समासविधौ तावत् द्वितीया श्रितादिभिः समस्यते कष्टश्रितः, नरकश्रितः ।

४ - ५३ - कष्टम् परमश्रित इति अत्र मा भूत् ।

५ - ५३ - प्रत्ययविधौ नडस्य अपत्यम् नाडायनः ।

६ - ५३ - इह न भवति सूत्रनडस्य अपत्यम् सौत्रनाडिः ।

७ - ५३ - किम् अविशेषेण ।

८ - ५३ - न इति आह ।

९ - ५३ - उगिद्वर्णग्रहणवर्जम् ।

१० - ५३ - उगिद्ग्रहणम् वर्णग्रहणम् च वर्जयित्वा ।

११ - ५३ - उगिद्ग्रहणम् भवती, अतिभवती महती, अतिमहती ।

१२ - ५३ - वर्णग्रहणम् अतः इञ् दाक्षिः, प्लाक्षिः ।

१३ - ५३ - अस्ति च इदानीम् कः चित् केवलः अकारः प्रातिपदिकम् यदर्थः विधिः स्यात् ।

१४ - ५३ - अस्ति इति आह ।

१५ - ५३ - अततेः डः अः, तस्य अपत्यम् अतः इञ् इः ।

१६ - ५३ - अकच्श्नम्वतः सर्वनामाव्ययधातुविधौ उपसङ्ख्यानम् । अकच्वतः सर्वनामाव्ययविधौ श्नम्वतः धातुविधौ उपसङ्ख्यानम् कर्तव्यम् ।

१७ - ५३ - अकच्वतः सर्वके विश्वके ।

१८ - ५३ - अव्ययविधौ उच्चकैः नीचकैः ।

१९ - ५३ - श्नम्वतः भिनत्ति छिनत्ति ।

२० - ५३ - किम् पुनः कारणम् न सिध्यति ।

२१ - ५३ - इह तस्य वा ग्रहणम् भवति तदन्तस्य वा ।

२२ - ५३ - न च इदम् तत् न अपि तदन्तम् ।

२३ - ५३ - सिद्धम् तु तदन्तान्तवचनात् ।

२४ - ५३ - सिद्धम् एतत् ।

२५ - ५३ - कथम् ।

२६ - ५३ - तदन्तान्तवचनात् ।

२७ - ५३ - तदन्तान्तस्य इति वक्तव्यम् ।

२८ - ५३ - किम् इदम् तदन्तान्तस्य इति ।

२९ - ५३ - तस्य अन्तः तदन्तः, तदन्तः अन्तः यस्य तत् इदम् तदन्तान्तम्, तदन्तान्तस्य इति ।

३० - ५३ - सः तर्हि तथा निर्देशः कर्तव्यः ।

३१ - ५३ - न कर्तव्यः ।

३२ - ५३ - उत्तरपदलोपः अत्र द्रष्टव्यः ।

३३ - ५३ - तत् यथा उष्ट्रमुखम् इव मुखम् अस्य उष्ट्रमुखः, खरमुखः ।

३४ - ५३ - एवम् इह अपि तदन्तः अन्तः यस्य तदन्तस्य इति ।

३५ - ५३ - तदेकदेशविज्ञानात् वा सिद्धम् । तदेकदेशविज्ञानात् वा पुनः सिद्धम् एतत् ।

३६ - ५३ - तदेकदेशभूतः तद्ग्रहणेन गृह्यते ।

३७ - ५३ - तत् यथा गङ्गा यमुना देवदत्ता इति ।

३८ - ५३ - अनेका नदी गङ्गाम् यमुनाम् च प्रविष्टा गङ्गायमुनाग्रहणेन गृह्यते ।

३९ - ५३ - तथा देवदत्तास्थः गर्भः देवदत्ताग्रहणेन गृह्यते ।

४० - ५३ - विषमः उपन्यासः ।

४१ - ५३ - इह के चित् शब्दाः अक्तपरिमाणानाम् अर्थानाम् वाचकाः भवन्ति ये एते सङ्ख्याशब्दाः परिमाणशब्दाः च ।

४२ - ५३ - पञ्च सप्त इति एकेन अपि अपाये न भवन्ति ।

४३ - ५३ - द्रोणः खारी आढकम् इति न एव अधिके भवन्ति न न्यूने ।

४४ - ५३ - के चित् यावत् एव तत् भवति तावत् एव आहुः ये एते जातिशब्दाः गुणशब्दाः च ।

४५ - ५३ - तैलम् घृतम् इति खार्याम् अपि भवन्ति द्रोणे अपि ।

४६ - ५३ - शुक्लः नीलः कृष्णः इति हिमवति अपि भवति वटकणिकामात्रे अपि द्रव्ये ।

४७ - ५३ - इमाः च अपि सञ्ज्ञाः अक्तपरिमाणानाम् अर्थानाम् क्रियन्ते ।

४८ - ५३ - ताः केन अधिकस्य स्युः ।

४९ - ५३ - एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति तदेकदेशभूतम् तद्ग्रहणेन गृह्यते इति यत् अयम् न इदमदसोः अकोः इति सककारयोः इदमदसोः प्रतिषेधम् शास्ति ।

५० - ५३ - कथम् कृत्वा ज्ञापकम् ।

५१ - ५३ - इदमदसोः कार्यम् उच्यमानम् कः प्रसङ्गः यत् सककारयोः स्यात् ।

५२ - ५३ - पश्यति तु आचार्यः तदेकदेशभूतम् तद्ग्रहणेन गृह्यते इति ।

५३ - ५३ - ततः सककारयोः प्रतिषेधम् शास्ति ।

१ - ५९ - कानि पुनः अस्य योगस्य प्रयोजनानि ।

२ - ५९ - प्रयोजनम् सर्वनामाव्ययसञ्ज्ञायाम् ।

३ - ५९ - सर्वनामाव्ययसञ्ज्ञायाम् प्रयोजनम् सर्वे परमसर्वे विश्वे परमविश्वे, उच्चैः, परमोच्चैः, नीचैः, परमनीचैः इति ।

४ - ५९ - उपपदविधौ भयाढ्यादिग्रहणम् ।

५ - ५९ - उपपदविधौ भयाढ्यादिग्रहणम् प्रयोजनम् भयङ्करः, अभयङ्करः, आढ्यङ्करणम्, खाड्यङ्करणम् ।

६ - ५९ - ङीब्विधौ उगिद्ग्रहणम् ।

७ - ५९ - ङीब्विधौ उगिद्ग्रहणम् प्रयोजनम् भवती, अतिभवती महती, अतिमहती ।

८ - ५९ - प्रतिषेधे स्वस्रादिग्रहणम् ।

९ - ५९ - प्रतिषेधे स्वस्रादिग्रहणम् प्रयोजनम् स्वसा परमस्वसा दुहिता परमदुहिता ।

१० - ५९ - अपरिमाणबिस्तादिग्रहणम् च प्रतिषेधे ।

११ - ५९ - अपरिमाणबिस्तादिग्रहणम् च प्रतिषेधे प्रयोजनम् ।

१२ - ५९ - अपरिमाणबिस्ताचितकम्बलेभ्यः न तद्धितलुकि द्विबिस्ता द्विपरमबिस्ता त्रिबिस्ता त्रिपरमबिस्ता द्व्याचिता द्विपरमाचिता ।

१३ - ५९ - दिति ।

१४ - ५९ - दितिग्रहणम् च प्रयोजनम् ।

१५ - ५९ - दितेः अपत्यम् दैत्यः, अदितेः अपत्यम् आदित्यः ।

१६ - ५९ - दित्यदित्यादित्य इति अदितिग्रहणम् न कर्तव्यम् भवति ।

१७ - ५९ - रोण्याः अण् ।

१८ - ५९ - रोण्याः अण्ग्रहणम् च प्रयोजनम् आजकरोणः, सैंहकरोणः ।

१९ - ५९ - तस्य च ।

२० - ५९ - तस्य च इति वक्तव्यम् रौणः ।

२१ - ५९ - किम् पुनः कारणम् न सिध्यति ।

२२ - ५९ - तदन्तात् च तदन्तविधिना सिद्धम् केवलात् च व्यप्देशिवद्भावेन ।

२३ - ५९ - व्यप्देशिवद्भावः अप्रातिपदिकेन ।

२४ - ५९ - किम् पुनः कारणम् व्यप्देशिवद्भावः अप्रातिपदिकेन ।

२५ - ५९ - इह सूत्रान्तात् ठक् भवति दशान्तात् डः भवति इति केवलात् उत्पत्तिः मा भूत् इति ।

२६ - ५९ - न एतत् अस्ति प्रयोजनम् ।

२७ - ५९ - सिद्धम् अत्र तदन्तात् च तदन्तविधिना केवलात् च व्यप्देशिवद्भावेन ।

२८ - ५९ - सः अयम् एवम् सिद्धे सति यत् अन्तग्रहणम् करोति तत् ज्ञापयति आचार्यः सूत्रान्तात् एव दशान्तात् एव इति ।

२९ - ५९ - न अत्र तदन्तात् उत्पत्तिः प्राप्नोति ।

३० - ५९ - इदानीम् एव हि उक्तम् समासप्रत्ययविधौ प्रतिषेधः इति ।

३१ - ५९ - सा तर्हि एषा परिभाषा कर्तव्या ।

३२ - ५९ - न कर्तव्या ।

३३ - ५९ - आचार्यप्रवृत्तिः ज्ञापयति व्यप्देशिवद्भावः अप्रातिपदिकेन इति यत् अयम् पूर्वात् इनिः सपूर्वात् च इति आह ।

३४ - ५९ - न एतत् अस्ति प्रयोजनम् ।

३५ - ५९ - अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् ।

३६ - ५९ - किम् ।

३७ - ५९ - सपूर्वात् पूर्वात् इनिम् वक्ष्यामि इति ।

३८ - ५९ - यत् तर्हि योगविभागम् करोति ।

३९ - ५९ - इतरथा हि पूर्वात् सपूर्वात् इति एव ब्रूयात् ।

४० - ५९ - किम् पुनः अयम् अस्य एव शेषः तस्य च इति ।

४१ - ५९ - न इति आह ।

४२ - ५९ - यत् च अनुक्रान्तम् यत् च अनुक्रंसय्ते सर्वस्य एव शेषः तस्य च इति ।

४३ - ५९ - रथसीताहलेभ्यः यद्विधौ ।

४४ - ५९ - रथसीताहलेभ्यः यद्विधौ प्रयोजनम् रथ्यः, परमरथ्यः, सीत्यम्, परमसीत्यम्, हल्या परमहल्या ।

४५ - ५९ - सुसर्वार्धदिक्शब्देभ्यः जनपदस्य ।

४६ - ५९ - सुसर्वार्धदिक्शब्देभ्यः जनपदस्य प्रयोजनम् सुपाञ्चालकः, सुमागधकः ।

४७ - ५९ - सु ।

४८ - ५९ - सर्व सर्वपाञ्चालकः, सर्वमागधकः ।

४९ - ५९ - सर्व ।

५० - ५९ - अर्ध अर्धपाञ्चालकः, अर्धमागधकः ।

५१ - ५९ - अर्ध ।

५२ - ५९ - दिक्शब्द पूर्वपाञ्चालकः, पूर्वमागधकः ।

५३ - ५९ - ऋतोः वृद्धिमद्विधौ अवयवानाम् ।

५४ - ५९ - ऋतोः वृद्धिमद्विधौ अवयवानाम् प्रयोजनम् पूर्वशारदम्, अपरशारदम्, पूर्वनैदाघम्, अपरनैदाघम् ।

५५ - ५९ - ठञ्विधौ सङ्ख्यायाः ।

५६ - ५९ - ठञ्विधौ सङ्ख्यायाः प्रयोजनम् द्विषाष्टिकम्, पञ्चषाष्टिकम् ।

५७ - ५९ - धर्मात् नञः ।

५८ - ५९ - धर्मात् नञः प्रयोजनम् धर्मम् चरति धार्मिकः, अधर्मम् चरति आधर्मिकः ।

५९ - ५९ - अधर्मात् च इति न वक्तव्यम् भवति

१ - ६४ - पदाङ्गाधिकारे तस्य च तदुत्तरपदस्य च ।

२ - ६४ - पदाङ्गाधिकारे तस्य च तदुत्तरपदस्य च इति वक्तव्यम् ।

३ - ६४ - पदाधिकारे किम् प्रयोजनम् ।

४ - ६४ - प्रयोजनम् इष्टिकेषीकामालानाम् चिततूलभारिषु इष्टकचितम् चिन्वीत, पक्वेष्टिक्चितम् चिन्वीत, इषीकतूलेन मुञ्जेषीकतूलेन मालभारिणी कन्या, उत्पलमालभारिणी कन्या ।

५ - ६४ - अङ्गाधिकारे किम् प्रयोजनम् ।

६ - ६४ - महदप्स्वसृतृ̄णाम् दीर्घविधौ ।

७ - ६४ - महदप्स्वसृतृ̄णाम् दीर्घविधौ प्रयोजनम् महान्, परममहान् ।

८ - ६४ - महत् ।

९ - ६४ - अप् आपः तिष्ठन्ति, स्वापः तिष्ठन्ति ।

१० - ६४ - अप् ।

११ - ६४ - स्वसृ स्वसा स्वसारौ स्वसारः, परमस्वसा परमस्वसारौ परमस्वसारः ।

१२ - ६४ - स्वसृ ।

१३ - ६४ - नप्तृ नप्ता नप्तारौ नप्तारः ।

१४ - ६४ - एवम् परमनप्ता परमनप्तारौ परमनप्तारः ।

१५ - ६४ - पद्युष्मदस्मदस्थ्याद्यन्डुहः नुम् । पद्भावः प्रयोजनम् दिव्पदः पश्य ।

१६ - ६४ - अस्ति च इदानीम् कः चित् केवलः पाच्छभ्दः यदर्थः विधिः स्यात् ।

१७ - ६४ - न अस्ति इति आह ।

१८ - ६४ - एवम् तर्हि अङ्गाधिकारे प्रयोजनम् न अस्ति इति कृत्वा पदाधिकारस्य इदम् प्रयोजनम् उक्तम् हिमकाषिहतिषु च यथा पत्काषिणौ पत्काषिणः एवम् परमपत्काषिणौ परमपत्काषिणः ।

१९ - ६४ - यदि तर्हि पदाधिकारे पादस्य तदन्तविधिः भवति पादस्य पद आज्यतिगोपहतेषु यथा इह भवति पादेन उपहतम् पदोपहतम् अत्र अपि स्यात् दिग्धपादेन उपहतम् दिग्धपादोपहतम् ।

२० - ६४ - एवम् तर्हि अङ्गाधिकारे एव प्रयोजनम् ।

२१ - ६४ - ननु च उक्तम् न अस्ति केवलः पाच्छब्दः इति ।

२२ - ६४ - अयम् अस्ति पादयतेः अप्रत्ययः पात् पदा पदे ।

२३ - ६४ - पद् ।

२४ - ६४ - युष्मत् अस्मत् यूयम्, वयम् अतियूयम् अतिवयम् ।

२५ - ६४ - अस्थ्यादि अस्थ्ना दध्ना सक्थ्ना पर्मास्थ्ना परमदध्ना परमसक्थ्ना ।

२६ - ६४ - अनडुहः नुम् अनड्वान्, परमानड्वान् ।

२७ - ६४ - द्युपथिमथिपुङ्गोसखिचतुरनडुत्त्रिग्रहणम् ।

२८ - ६४ - द्युपथिमथिपुङ्गोसखिचतुरनडुत्त्रिग्रहणम् प्रयोजनम् द्यौः, सुद्यौः, पन्थाः, सुपन्थाः, मन्थाः, सुमन्थाः, परममन्थाः, पुमान् परमपुमान्, गौः, सुगौः, सखा सखायौ सखायः, सुसखा सुसखायौ सुसखायः, परमसखा परमसखायौ परमसखायः, चत्वारः परमचत्वारः, अनड्वाहः, पर्मानड्वाहः, त्रयाणाम्, परमत्रयाणाम् ।

२९ - ६४ - त्यदादिविधिभस्त्रादिस्त्रीग्रहणम् च ।

३० - ६४ - त्यदादिविधिभस्त्रादिस्त्रीग्रहणम् च प्रयोजनम् सः, अतिसः, भस्त्रका भस्त्रिका निर्भस्त्रका निर्भस्त्रिका बहुभस्त्रका बहुभस्त्रिका ।

३१ - ६४ - स्त्रीग्रहणम् च प्रयोजनम् ।

३२ - ६४ - स्त्रियौ स्त्रियः राजस्त्रियौ राजस्त्रियः ।

३३ - ६४ - वर्णग्रहणम् च सर्वत्र ।

३४ - ६४ - वर्णग्रहणम् च सर्वत्र प्रयोजनम् ।

३५ - ६४ - क्व सर्वत्र ।

३६ - ६४ - अङ्गाधिकारे च अन्यत्र च ।

३७ - ६४ - अन्यत्र उदाहृतम् ।

३८ - ६४ - आन्गाधिकारे अतः दीर्घः यञि सुपि च इह एव स्यात् आभ्याम् ।

३९ - ६४ - घटाभ्याम् इति अत्र न स्यात् ।

४० - ६४ - प्रत्ययग्रहणम् च अपञ्चम्याः । प्रत्ययग्रहणम् च अपञ्चम्याः प्रयोजनम् यञिञोः फक् भवति ।

४१ - ६४ - गार्ग्यायणः वात्स्यायनः परमगार्ग्यायणः परमवात्स्यायनः ।

४२ - ६४ - अपञ्चम्याः इति किमर्थम् ।

४३ - ६४ - दृषत्तीर्णा परिषत्तीर्णा ।

४४ - ६४ - अला एव अनर्थकेन न अन्येन अनर्थकेन इति वक्तव्यम् ।

४५ - ६४ - किम् प्रयोजनम् ।

४६ - ६४ - हन्ग्रहणे प्लीहन्ग्रहणम् मा भूत् ।

४७ - ६४ - उद्ग्रहणे गर्मुद्ग्रहणम् ।

४८ - ६४ - स्त्रीग्रहणे शस्त्रीग्रहणम् ।

४९ - ६४ - सङ्ग्रहणे पायसम् करोति इति मा भूत् ।

५० - ६४ - किमर्थम् इदम् उच्यते न पदाङ्गाधिकारे तस्य च तदुत्तरपदस्य च इति एव सिद्धम् ।

५१ - ६४ - न च इदम् तत् न अपि तदुत्तरपदम् ।

५२ - ६४ - तत् न वक्तव्यम् भवति ।

५३ - ६४ - किम् पुनः अत्र ज्यायः ।

५४ - ६४ - तदन्तविधिः एव ज्यायान् ।

५५ - ६४ - इदम् अपि सिद्धम् भवति परमातिमहान् ।

५६ - ६४ - एतत् हि न एव तत् न अपि तदुत्तरपदम् ।

५७ - ६४ - अनिनस्मन्ग्रहणानि च अर्थवता च अनर्थकेन च तदन्तविधिम् प्रयोजयन्ति ।

५८ - ६४ - अन् राज्ञा इति अर्थवता साम्ना इति अनर्थकेन ।

५९ - ६४ - अन् ।

६० - ६४ - इन् दण्डी इति अर्थवता वाग्मी इति अनर्थकेन ।

६१ - ६४ - इन् ।

६२ - ६४ - अस् सुपयाः इति अर्थवता सुस्रोताः इति अनर्थकेन ।

६३ - ६४ - अस् ।

६४ - ६४ - मन् सुशर्मा इति अर्थवता सुप्रथिमा इति अनर्थकेन ।

१ - ५ - यस्मिन् विधिः तदादौ अल्ग्रहणे ।

२ - ५ - अल्ग्रहणेषु यस्मिन् विधिः तदादौ इति वक्तव्यम् ।

३ - ५ - किम् प्रयोजनम् ।

४ - ५ - अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ इति इह एव स्यात् श्रियौ भ्रुवौ ।

५ - ५ - श्रियः, भ्रुवः इति अत्र न स्यात् ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-01-17T19:36:14.1100000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

extrahepatic

  • Zool. यकृतबाह्य- 
  • यकृतबाह्य 
RANDOM WORD

Did you know?

हिंदू स्त्रियांच्या मंगळसूत्रातील काळ्या मण्यांचे महत्त्व काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site