TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

पाद १ - खण्ड ८

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


खण्ड ८
१ - २० - लुमति प्रतिषेधे एकपदस्वरस्य उपसङ्ख्यानम् ।

२ - २० - लुमति प्रतिषेधे एकपदस्वरस्य उपसङ्ख्यानम् कर्तव्यम्. एकपदस्वरे च लुमता लुप्ते प्रत्ययलक्षणम् न भवति इति वक्तव्यम् ।

३ - २० - किम् अविशेषेण ।

४ - २० - न इति आह ।

५ - २० - सर्वामन्त्रितसिज्लुक्स्वरवर्जम् ।

६ - २० - सर्वस्वरम् आमन्त्रितस्वरवम् सिज्लुक्स्वरम् च वर्जयित्वा ।

७ - २० - सर्वस्वर सर्वस्तोमः, सर्वपृष्ठः सर्वस्य सुपि इति आद्युदात्तत्वम् यथा स्यात् ।

८ - २० - आमन्त्रितस्वर सर्पिः आगच्छ, सप्त आगच्छत आमन्त्रितस्य च इति आद्युदात्तत्वम् यथा स्यात् ।

९ - २० - सिज्लुक्स्वर म हि दताम्, म हि धताम् आदिः सिचः अन्यतरस्याम् इति एषः स्वरः यथा स्यात् ।

१० - २० - किम् प्रयोजनम् ।

११ - २० - प्रयोजनम् ञिनिकिल्लुकि स्वराः ।

१२ - २० - ञिनिकित्स्वराः लुकि प्रयोजयन्ति ।

१३ - २० - गर्गः, वत्सः, बिदः, उर्वः, उष्ट्रग्रीवः, वामरज्जुः ञ्निति इति आद्युदात्तत्वम् मा भूत् इति ।

१४ - २० - इह च अत्रयः कितः इति अन्तोदात्तत्वम् मा भूत् इति ।

१५ - २० - पथिमथोः सर्वनामस्थाने ।

१६ - २० - पथिमथोः सर्वनामस्थाने लुकि प्रयोजनम् ।

१७ - २० - पथिप्रियः, मथिप्रियः पथिमथोः सर्वनामस्थाने इति एषः स्वरः मा भूत् इति ।

१८ - २० - अह्नः रविधौ ।

१९ - २० - अह्नः रविधौ लुमता लुप्ते प्रत्ययलक्षणम् न भवति इति वक्तव्यम् ।

२० - २० - अहः ददति, अहः भुङ्क्ते रः असुपि इति प्रत्ययलक्षणेन प्रतिषेधः मा भूत् इति ।

१ - ७५ - उत्तरपदत्वे च अपदादिविधौ । उत्तरपदत्वे च अपदादिविधौ लुमता लुप्ते प्रत्ययलक्षणम् न भवति इति वक्तव्यम् ।

२ - ७५ - परमवाचा परमवाचे परमगोदुहा परमगोदुहे परमश्वलिहा परमश्वलिहे पदस्य इति प्रत्ययलक्षणेन कुत्वादीनि मा भूवन् इति ।

३ - ७५ - अपदादिविधौ इति किमर्थम् ।

४ - ७५ - दधिसेचौ दधिसेचः सात्पदाद्योः इति प्रतिषेधः यथा स्यात् ।

५ - ७५ - यदि अपदादिविधौ इति उच्यते उत्तरपदाधिकारः न प्रकल्पेत ।

६ - ७५ - तत्र कः दोषः ।

७ - ७५ - कर्णः वर्णलक्षणात् इति एवमादिः विधिः न सिध्यति ।

८ - ७५ - यदि पुनः नलोपादिविधौ प्लुत्यन्ते लुमता लुप्ते प्रत्ययलक्षणम् न भवति इति उच्येत ।

९ - ७५ - न एवम् शक्यम् ।

१० - ७५ - इह हि राजकुमार्यौ राजकुमार्यः इति शाकलम् प्रसज्येत ।

११ - ७५ - न एषः दोषः ।

१२ - ७५ - यत् एतत् सिति शाकलम् न इति एतत् प्रत्यये शाकलम् न इति वक्ष्यामि ।

१३ - ७५ - यदि प्रत्यये शाकलम् न इति उच्यते दधि अधुना मधु अधुना अत्र अपि न प्रसज्येत ।

१४ - ७५ - प्रत्यये शाकलम् न भवति ।

१५ - ७५ - कस्मिन् ।

१६ - ७५ - यस्मात् यः प्रत्ययः विहितः इति ।

१७ - ७५ - इह तर्हि परमदिवा परमदिवे दिव उत् इति उत्त्वम् प्राप्नोति इति. अस्तु तर्हि अविशेषेण ।

१८ - ७५ - ननु च उक्तम् उत्तरपदाधिकारः न प्रकल्पेत इति ।

१९ - ७५ - वचनात् उत्तरपदाधिकारः भविष्यति ।

२० - ७५ - तत् तर्हि वक्तव्यम् ।

२१ - ७५ - न वक्तव्यम् ।

२२ - ७५ - अनुवृत्तिः करिष्यते ।

२३ - ७५ - इदम् अस्ति यस्मात् प्रतययविधिः तदादि प्रत्यये अङ्गम्, सुप्तिङन्तम् पदम् ।

२४ - ७५ - यस्मात् सुप्तिङ्विधिः तदादि सुबन्तम् च ।

२५ - ७५ - नः क्ये ।

२६ - ७५ - नान्तम् क्ये पदसञ्ज्ञम् भवति यस्मात् क्यविधिः सुबन्तम् च ।

२७ - ७५ - सिति च ।

२८ - ७५ - सिति च पूर्वम् पदसञ्ज्ञम् भवति यस्मात् सिद्विधिः तदादि सुबन्तम् च ।

२९ - ७५ - स्वादिषु असर्वनामस्थाने ।

३० - ७५ - स्वादिषु असर्वनामस्थाने पूर्वम् पदसञ्ज्ञम् भवति यस्मात् स्वादिविधिः तदादि सुबन्तम् च ।

३१ - ७५ - यचि भम् ।

३२ - ७५ - यजादिप्रत्यये पूर्वम् पदसञ्ज्ञम् भवति यस्मात् यजादिविधिः तदादि सुबन्तम् च ।

३३ - ७५ - इह तर्हि परमवाक् असर्वनामस्थाने इति प्रतिषेधः प्राप्नोति ।

३४ - ७५ - अस्तु तस्याः प्रतिषेधः या स्वादौ पदम् इति पदसञ्ज्ञा या तु सुबन्तम् पदम् इति पदसञ्ज्ञा सा भविष्यति ।

३५ - ७५ - सति एतत्प्रत्यये आसीत् अनया भविष्यति अनया न भविष्यति इति ।

३६ - ७५ - लुप्ते इदानीम् प्रत्यये यावतः एव अवधेः स्वादौ पदम् इति पदसञ्ज्ञा तावतः एव अवधेः सुबन्तम् पदम् इति ।

३७ - ७५ - अस्ति च प्रत्ययलक्षणेन सर्वनामस्थानपरता इति कृत्वा प्रतिषेधाः च बलीयांसः भवन्ति इति प्रतिषेधः प्राप्नोति ।

३८ - ७५ - न अप्रतिषेधात् ।

३९ - ७५ - न अयम् प्रसज्यप्रतिषेधः सर्वनामस्थाने न इति ।

४० - ७५ - किम् तर्हि ।

४१ - ७५ - पर्युदासः अयम् यत् अन्यत् सर्वनामस्थानात् इति ।

४२ - ७५ - सर्वनामस्थाने अव्यापारः ।

४३ - ७५ - यदि केन चित् प्राप्नोति तेन भविष्यति ।

४४ - ७५ - पूर्वेण च प्राप्नोति ।

४५ - ७५ - अप्राप्तेः वा ।

४६ - ७५ - अथ वा अनन्तरा य प्राप्तिः सा प्रतिषिध्यते ।

४७ - ७५ - कुतः एतत् ।

४८ - ७५ - अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति ।

४९ - ७५ - पूर्वा प्राप्तिः अप्रतिषिद्धा तया भविष्यति ।

५० - ७५ - ननु च इयम् प्राप्तिः पूर्वाम् प्राप्तिम् बाधते ।

५१ - ७५ - न उत्सहते प्रतिषिद्धा सती बाधितुम् ।

५२ - ७५ - यदि एवम् परमवाचौ परमवाचः इति सुप्तिङन्तम् पदम् इति पदसञ्ज्ञा प्राप्नोति ।

५३ - ७५ - एवम् तर्हि योगविभागः करिष्यते ।

५४ - ७५ - स्वादिषु पूर्वम् पदसञ्ज्ञम् भवति ।

५५ - ७५ - ततः सर्वनामस्थाने अयचि पूर्वम् पदसञ्ज्ञम् भवति ।

५६ - ७५ - ततः भम् ।

५७ - ७५ - भसञ्ज्ञम् भवति यजादौ असर्वनामस्थने इति ।

५८ - ७५ - यदि तर्हि सौ अपि पदम् भवति, एचः प्लुताधिकारे पदान्तग्रहणम् चोदयिष्यति इह मा भूत् भद्रम् करोषि गौः इति, तस्मिन् क्रियमाणे अपि भविष्यति ।

५९ - ७५ - वाक्यपदयोः अन्त्यस्य इति एवम् तत् ।

६० - ७५ - इह तर्हि दधिसेचौ दधिसेचः सात्पदाद्योः इति पदादिलक्षणः प्रतिषेधः न प्राप्नोति ।

६१ - ७५ - मा भूत् एवम् पदस्य आदिः पदादिः, पदादेः न इति ।

६२ - ७५ - कथम् तर्हि ।

६३ - ७५ - पदात् आदिः पदादिः, पदादेः न इति एवम् भविष्यति ।

६४ - ७५ - न एवम् शक्यम् ।

६५ - ७५ - इह अपि प्रसज्येत ऋक्षु वाक्षु त्वक्षु कुमारीषु किशोरीषु इति ।

६६ - ७५ - सात्प्रतिषेधः ज्ञापकः स्वादिषु पदत्वेन येषाम् पदसञ्ज्ञा न तेभ्यः प्रतिषेधः भवति इति ।

६७ - ७५ - इह तर्हि बहुसेचौ, बहुसेचः बहुच् अयम् प्रत्ययः ।

६८ - ७५ - अत्र पदात् आदिः पदादिः, पदादेः न इति उच्यमाने अपि न सिध्यति ।

६९ - ७५ - एवम् तर्हि उत्तरपदत्वे च पदादिविधौ लुमता लुप्ते प्रत्ययलक्षणम् भवति इति वक्ष्यामि ।

७० - ७५ - तत् नियमार्थम् भविष्यति पदादिविधौ एव न पदान्तविधौ इति ।

७१ - ७५ - कथम् बहुसेचौ बहुसेचः ।

७२ - ७५ - बहुच्पूर्वस्य च पदादिविधौ न पदान्तविधौ इति ।

७३ - ७५ - द्वन्द्वे अन्त्यस्य ।

७४ - ७५ - द्वन्द्वे अन्त्यस्यलुमता लुप्ते प्रत्ययलक्षणम् न भवति इति वक्तव्यम् ।

७५ - ७५ - वाक्स्रक्त्वचम् ।

१ - ३३ - इह अभूवन् इति प्रत्ययलक्षणेन जुस्भावः प्राप्नोति ।

२ - ३३ - सिचः उसः अप्रसङ्गः आकारप्रकरणात् ।

३ - ३३ - सिचः उसः अप्रसङ्गः ।

४ - ३३ - किम् कारणम् ।

५ - ३३ - आकारप्रकरणात् ।

६ - ३३ - आतः इति एतत् नियमार्थम् भविष्यति आतः एव सिज्लुगन्तात् न अन्यस्मात् सिज्लुगन्तात् इति ।

७ - ३३ - इह इति युष्मत्पुत्रः ददाति, इति अस्मत्पुत्रः ददाति इति अत्र युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोः वाम्नावौ इति वाम्नावादयः प्राप्नुवन्ति ।

८ - ३३ - युष्मदस्मदोः स्थग्रहणात् ।

९ - ३३ - स्थग्रहणम् तत्र क्रियते ।

१० - ३३ - तत् श्रूयमाणविभक्तिविशेषणम् विज्ञास्यते ।

११ - ३३ - अस्ति अन्यत् स्थग्रहणस्य प्रयोजनम् ।

१२ - ३३ - किम् ।

१३ - ३३ - सविभक्तिकस्य वाम्नावादयः यथा स्युः इति ।

१४ - ३३ - न एतत् अस्ति प्रयोजनम् ।

१५ - ३३ - पदस्य इति वर्तते विभक्त्यन्तम् च पदम् ।

१६ - ३३ - तत्र अन्तरेण अपि स्थग्रहणम् सविभक्तिकस्य एव ग्रहणम् भविष्यति ।

१७ - ३३ - भवेत् सिद्धम् यत्र विभक्त्यन्तम् पदम् ।

१८ - ३३ - यत्र तु खलु विभक्तौ पदम् तत्र न सिध्यति ग्रामः वाम् दीयते, ग्रामः नौ दीयते जनपदः वाम् दीयते, जनपदः नौ दीयते ।

१९ - ३३ - सर्वग्रहणम् अपि प्रकृतम् अनुवर्तते ।

२० - ३३ - तेन सविभक्तिकस्य एव भविष्यति ।

२१ - ३३ - इह चक्षुष्कामम् याजयाम् चकार इति तिङ् अतिङः इति ।

२२ - ३३ - तस्य च निघातः तस्मात् च अनिघातः प्राप्नोति ।

२३ - ३३ - आमि लिलोपात् तस्य च अनिघातः तस्मात् च निघातः ।

२४ - ३३ - आमि लिलोपात् तस्य च अनिघातः तस्मात् च निघातः सिद्धः भविष्यति ।

२५ - ३३ - अङ्गाधिकारे इटः विधिप्रतिषेधौ ।

२६ - ३३ - अङ्गाधिकारे इटः विधिप्रतिषेधौ न सिध्यतः जिगमिष संविवृत्स ।

२७ - ३३ - अङ्गस्य इति इटः विधिप्रतिषेधौ न प्राप्नुतः ।

२८ - ३३ - क्रमेः दीर्घत्वम् च ।

२९ - ३३ - किम् च ।

३० - ३३ - इटः च विधिप्रतिषेधौ ।

३१ - ३३ - न इति आह ।

३२ - ३३ - अदेशे अयम् चः पठितः ।

३३ - ३३ - क्रमेः च दीर्घत्वम् उत्क्राम सङ्क्राम इति ।

१ - ३० - इह किम् चित् अङ्गाधिकारे लुमता लुप्ते प्रत्ययलक्षणेन भवति किम् चित् च अन्यत्र न भवति ।

२ - ३० - यदि पुनः न लुमता तस्मिन् इति उच्येत ।

३ - ३० - अथ न लुमता तस्मिन् इति उच्यमाने किम् सिद्धम् एतत् भवति इटः विधिप्रतिषेधौ क्रमेः दीर्घत्वम् च ।

४ - ३० - बाढम् सिद्धम् ।

५ - ३० - न इटः इविधिप्रतिषेधौ परस्मैपदेषु इति उच्यते ।

६ - ३० - कथम् तर्हि ।

७ - ३० - सकारादौ इति ।

८ - ३० - तद्विशेषणम् परस्मैपदग्रहणम् ।

९ - ३० - न खलु अपि क्रमेः दीर्घत्वम् परस्मैपदेषु इति उच्यते ।

१० - ३० - कथम् तर्हि ।

११ - ३० - शिति इति ।

१२ - ३० - तद्विशेषणम् परस्मैपदग्रहणम् ।

१३ - ३० - न लुमता तस्मिन् इति चेत् हनिणिङादेशाः तलोपे ।

१४ - ३० - न लुमता तस्मिन् इति चेत् हनिणिङादेशाः तलोपे न सिध्यन्ति अवधि भवता दस्युः, अगायि भवता ग्रामः, अध्यगायि भवता अनुवाकः ।

१५ - ३० - तलोपे कृते लुङि इति हनिणिङादेशाः न प्राप्नुवन्ति ।

१६ - ३० - न एषः दोषः ।

१७ - ३० - न लुङि इति हनिणिङादेशाः उच्यन्ते ।

१८ - ३० - किम् तर्हि ।

१९ - ३० - आर्धधातुके इति ।

२० - ३० - तद्विशेषणम् लुङ्ग्रहणम् ।

२१ - ३० - इह च सर्वस्तोमः, सर्वपृष्ठः सर्वस्य सुपि इति आद्युदात्तत्वम् न प्राप्नोति ।

२२ - ३० - तत् च अपि वक्तव्यम् ।

२३ - ३० - न वक्तव्यम् ।

२४ - ३० - न लुमता अङ्गस्य इति एव सिद्धम् ।

२५ - ३० - कथम् ।

२६ - ३० - न लुमता लुप्ते अङ्गाधिकारः प्रतिनिर्दिश्यते ।

२७ - ३० - किम् तर्हि ।

२८ - ३० - यः असौ लुमता लुप्यते तस्मिन् यत् अङ्गम् तस्य यत् कार्यम् तत् न भवति ।

२९ - ३० - एवम् अपि सर्वस्वरः न सिध्यति ।

३० - ३० - कर्तव्यः अत्र यत्नः ।

१ - २१ - किम् इदम् अल्ग्रहणम् अन्त्यविशेषणम् ।

२ - २१ - एवम् भवितुम् अर्हति ।

३ - २१ - उपधासञ्ज्ञायाम् अल्ग्रहणम् अन्त्यनिर्देशः चेत् सङ्घातप्रतिषेधः ।

४ - २१ - उपधासञ्ज्ञायाम् अल्ग्रहणम् अन्त्यनिर्देशः चेत् सङ्घातस्य प्रतिषेधः वक्तव्यः ।

५ - २१ - सङ्घातस्य उपधासञ्ज्ञा प्राप्नोति ।

६ - २१ - तत्र कः दोषः ।

७ - २१ - शासः इत् अङ्हलोः शिष्ट्वा शिष्टः सङ्घातस्य इत्त्वम् प्राप्नोति ।

८ - २१ - यदि पुनः अल् अन्त्यात् इति उच्येत ।

९ - २१ - एवम् अपि अन्त्यः अविशेषितः भवति ।

१० - २१ - तत्र कः दोषः ।

११ - २१ - सङ्घातात् अपि पूर्वस्य उपधासञ्ज्ञा प्रसज्येत ।

१२ - २१ - तत्र कः दोषः ।

१३ - २१ - शासः इत् अङ्हलोः शिष्टः, शिष्टवान् शकारस्य इत्त्वम् प्रसज्येत ।

१४ - २१ - सूत्रम् च भिद्यते ।

१५ - २१ - यथान्यासम् एव अस्तु ।

१६ - २१ - ननु च उक्तम् उपधासञ्ज्ञायाम् अल्ग्रहणम् अन्त्यनिर्देशः चेत् सङ्घातप्रतिषेधः इति ।

१७ - २१ - न एषः दोषः ।

१८ - २१ - अन्त्यविज्ञानात् सिद्धम् ।

१९ - २१ - सिद्धम् एतत् ।

२० - २१ - कथम् ।

२१ - २१ - अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य भविष्यति ।

१ - ६२ - अन्त्यविज्ञानात् सिद्धम् इति चेत् न अनर्थके अलोन्त्यविधिः अनभ्यासविकारे ।

२ - ६२ - अन्त्यविज्ञानात् सिद्धम् इति चेत् तत् न ।

३ - ६२ - किम् कारणम् ।

४ - ६२ - न अनर्थके अलोन्त्यविधिः अनभ्यासविकारे ।

५ - ६२ - अनर्थके अलोन्त्यविधिः न इति एषा परिभाषा कर्तव्या ।

६ - ६२ - किम् अविशेषेण ।

७ - ६२ - न इति आह ।

८ - ६२ - अनभ्यासविकारे ।

९ - ६२ - अभ्यासविकारान् वर्जयित्वा ।

१० - ६२ - भृञाम् इत्, अर्तिपिपर्त्योः च इति ।

११ - ६२ - कानि एतस्याः परिभाषायाः प्रयोजनानि ।

१२ - ६२ - प्रयोजनम् अव्यक्तानुकरणस्य अतः इतौ ।

१३ - ६२ - अन्त्यस्य प्राप्नोति ।

१४ - ६२ - अनर्थके अलोन्त्यविधिः न भवति इति न दोषः भवति ।

१५ - ६२ - न एतत् अस्ति प्रयोजनम् ।

१६ - ६२ - आचार्यप्रवृत्तिः ज्ञापयति न अन्त्यस्य पररूपम् भवति इति यत् अयम् न आम्रेडितस्य अन्त्यस्य तु वा इति आह ।

१७ - ६२ - घ्वसोः एत् हौ अभ्यासलोपः च ।

१८ - ६२ - घ्वसोः एत् हौ अभ्यासलोपः च इति अन्त्यस्य प्राप्नोति ।

१९ - ६२ - अनर्थके अलोन्त्यविधिः न भवति इति न दोषः भवति ।

२० - ६२ - एतत् अपि न अस्ति प्रयोजनम् ।

२१ - ६२ - पुनर्लोपवचनसामर्थ्यात् सर्वस्य भविष्यति ।

२२ - ६२ - अथ वा शित् लोपः करिष्यते ।

२३ - ६२ - सः शित् सर्वस्य इति सर्वादेशः भविष्यति ।

२४ - ६२ - सः तर्हि शकारः कर्तव्यः ।

२५ - ६२ - न कर्तव्यः ।

२६ - ६२ - क्रियते न्यासे एव ।

२७ - ६२ - द्विशकारकः निर्देशः घ्वसोः एत् हौ अभ्यासलोपश्श्च इति ।

२८ - ६२ - आपि लोपः अकः अनचि ।

२९ - ६२ - तिष्ठति सूत्रम् ।

३० - ६२ - अन्यथा व्याख्यायते आपि हलि लोपः इति अन्त्यस्य प्राप्नोति ।

३१ - ६२ - अनर्थके अलोन्त्यविधिः न भवति इति न दोषः भवति ।

३२ - ६२ - एतत् अपि न अस्ति प्रयोजनम् ।

३३ - ६२ - अनः एव लोपम् वक्ष्यामि ।

३४ - ६२ - तत् अनः ग्रहणम् कर्तव्यम् ।

३५ - ६२ - न कर्तव्यम् ।

३६ - ६२ - प्रकृतम् अनुवर्तते ।

३७ - ६२ - क्व प्रकृतम् ।

३८ - ६२ - अन् आपि अकः इति ।

३९ - ६२ - तत् वै प्रथमानिर्दिष्टम् ।

४० - ६२ - षष्ठीनिर्दिष्तेन च इह अर्थः ।

४१ - ६२ - हलि इति एषा सप्तमी अन् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मिन् इति निर्दिष्टे पूर्वस्य इति ।

४२ - ६२ - अत्र लोपः अभ्यासस्य ।

४३ - ६२ - अत्र लोपः अभ्यासस्य इति अन्त्यस्य प्राप्नोति ।

४४ - ६२ - अनर्थके अलोन्त्यविधिः न भवति इति न दोषः भवति ।

४५ - ६२ - एतत् अपि न अस्ति प्रयोजनम् ।

४६ - ६२ - अत्रग्रहणसामर्थ्यात् सर्वस्य भविष्यति ।

४७ - ६२ - अस्ति अन्यत् अत्रग्रहणस्य प्रयोजनम् ।

४८ - ६२ - किम् ।

४९ - ६२ - सनधिकारः अपेक्ष्यते, इह मा भूत् दधौ ददौ ।

५० - ६२ - अन्तरेण अपि अत्रग्रहणम् सनधिकारम् अपेक्षिष्यामहे ।

५१ - ६२ - सन् तर्हि सकारादिः अपेक्ष्यते सनि सकारादौ इति, इह मा भूत् जिज्ञापयिषति ।

५२ - ६२ - अन्तरेण अपि अत्रग्रहणम् सनम् सकारादिम् अपेक्षिष्यामहे ।

५३ - ६२ - प्रकृतयः तर्हि अपेक्ष्यन्ते ।

५४ - ६२ - एतासाम् प्रकृतीनाम् लोपः यथा स्यात्, इह मा भूत् पिपक्षति यियक्षति ।

५५ - ६२ - अन्तरेण अपि अत्रग्रहणम् एताः प्रकृतीः अपेक्षिष्यामहे ।

५६ - ६२ - विषयः तर्हि अपेक्ष्यते ।

५७ - ६२ - मुचः अकर्मकस्य गुणः वा इति इह मा भूत् मुमुक्षति गाम् इति ।

५८ - ६२ - अन्तरेण अपि अत्रग्रहणम् विषयम् अपेक्षिष्यामहे ।

५९ - ६२ - कथम् ।

६० - ६२ - अकर्मकस्य इति उच्यते ।

६१ - ६२ - तेन यत्र एव अयम् मुचिः अकर्मकः तत्र एव भविष्यति ।

६२ - ६२ - तस्मात् न अर्थः अनया परिभाषया ।

१ - ८ - अलः अन्त्यात् पूर्वः अल् उपधा इति वा ।

२ - ८ - अथ वा व्यक्तम् एव पथितव्यम् अलः अन्त्यात् पूर्वः अल् उपधासञ्ज्ञः भवति इति ।

३ - ८ - तत् तर्हि वक्तव्यम् ।

४ - ८ - न वक्तव्यम् ।

५ - ८ - अवचनात् लोकविज्ञानात् सिद्धम् ।

६ - ८ - अन्तरेण अपि वचनम् लोकविज्ञानात् सिद्धम् एतत् ।

७ - ८ - कथम् ।

८ - ८ - लोके अमीषाम् ब्राह्मणानाम् अन्त्यात् पूर्वः आनीयताम् इति उक्ते यथाजातीयकः अन्त्यः तथाजातीयकः अन्त्यात् पूर्वः आनीयते ।

१ - ४२ - किम् उदाहरणम् ।

२ - ४२ - इह तावत् तस्मिन् इति निर्दिष्टे पूर्वस्य इति इकः यण् अचि दधि अत्र मधु अत्र ।

३ - ४२ - इह तस्मात् इति उत्तरस्य इति द्वयन्तरुपसर्गेभ्यः अपः ईत् द्वीपम् अन्तरीपम् समीपम् ।

४ - ४२ - अन्यथाजातीयकेन शब्देन निर्देशः क्रियते अन्यथाजातीयकः उदाह्रियते ।

५ - ४२ - किम् पुनः उदाहरणम् ।

६ - ४२ - इह तावत् तस्मिन् इति निर्दिष्टे पूर्वस्य इति तस्मिन् अणि च युष्माकास्माकौ इति ।

७ - ४२ - तस्मात् इति उत्तरस्य इति तस्मात् शसः नः पुंसि इति ।

८ - ४२ - इदम् च अपि उदाहरणम् इकः यण् अचि द्व्यन्तरुपसर्गेभ्यः अपः ईत् इति ।

९ - ४२ - कथम् ।

१० - ४२ - सर्वनाम्ना अयम् निर्देशः क्रियते सर्वनाम च सामान्यवाचि ।

११ - ४२ - तत्र सामान्ये निर्दिष्टे विशेषाः अपि उदाहरणानि भवन्ति ।

१२ - ४२ - किम् पुनः सामान्यम् कः वा विशेषः ।

१३ - ४२ - गौः सामान्यम् कृष्णः विशेषः ।

१४ - ४२ - न तर्हि इदानीम् कृष्णः सामान्यम् भवति गौः विशेषः भवति ।

१५ - ४२ - भवति च ।

१६ - ४२ - यदि सामान्यम् अपि विशेषः विशेषः अपि सामान्यम् सामान्यविशेषौ न प्रकल्पेते ।

१७ - ४२ - प्रकल्पेते च ।

१८ - ४२ - कथम् ।

१९ - ४२ - विवक्षातः ।

२० - ४२ - यदा अस्य गौः सामान्येन विवक्षितः भवति कृष्णः विशेषत्वेन तदा गौः सामान्यम् कृष्णः विशेषः ।

२१ - ४२ - यदा कृष्णः सामान्येन विवक्षितः भवति गौः विशेषत्वेन तदा कृष्णः सामान्यम् कृष्णः विशेषः ।

२२ - ४२ - अपरः आह प्रकल्पेते च ।

२३ - ४२ - कथम् ।

२४ - ४२ - पितापुत्रवत् ।

२५ - ४२ - तत् यथा सः एव कम् चित् प्रति पिता भवति कम् चित् प्रति पुत्रः भवति एवम् इह अपि सः एव कम् चित् प्रति सामान्यम् कम् चित् प्रति विशेषः ।

२६ - ४२ - एते खलु अपि नैर्देशिकानाम् वार्त्ततरकाः भवन्ति ये सर्वनाम्ना निर्देशाः क्रियन्ते ।

२७ - ४२ - एतैः हि बहुतरकम् व्याप्यते ।

२८ - ४२ - अथ किमर्थम् उपसर्गेण निर्देशः क्रियते ।

२९ - ४२ - शब्दे सप्तम्या निर्दिष्टे पूर्वस्य कार्यम् यथा स्यात् अर्थे मा भूत् जनपदे अतिशायने इति ।

३० - ४२ - किम् गतम् एतत् उपसर्गेण आहोस्वित् शब्दाधिक्यात् अर्थाधिक्यम् ।

३१ - ४२ - गतम् इति आह ।

३२ - ४२ - कथम् ।

३३ - ४२ - निः अयम् बहिर्भावे वर्तते ।

३४ - ४२ - तत् यथा निष्क्रान्तः देशात् निर्देशः ।

३५ - ४२ - बहिर्देशः इति गम्यते ।

३६ - ४२ - शब्दः च शब्दात् बहिर्भूतः अर्थः अबहिर्भूतः ।

३७ - ४२ - अथ निर्दिष्टग्रहणम् किमर्थम् ।

३८ - ४२ - निर्दिष्टग्रहणम् आनन्तर्यार्थम् ।

३९ - ४२ - निर्दिष्टग्रहणम् क्रियते आनन्तर्यार्थम् ।

४० - ४२ - आनन्तर्यमात्रे कार्यम् यथा स्यात् ।

४१ - ४२ - इकः यण् अचि दधि अत्र मधु अत्र ।

४२ - ४२ - इह मा भूत् ॒समिधौ समिधः, दृषदौ दृषदः ।

१ - ५० - किमर्थम् पुनः इदम् उच्यते ।

२ - ५० - तस्मिन् तस्मात् इति पूर्वोत्तरयोः योगयोः अविशेषात् नियमार्थम् वचनम् दधि उदकम् पचति ओदनम् ।

३ - ५० - तस्मिन् तस्मात् इति पूर्वोत्तरयोः योगयोः अविशेषात् नियमार्थः अयम् आरम्भः ।

४ - ५० - ग्रामे देवदत्तः ।

५ - ५० - पूर्वः परः इति सन्देहः ।

६ - ५० - ग्रामात् देवदत्तः ।

७ - ५० - पूर्वः परः इति सन्देहः ।

८ - ५० - एवम् इह अपि इकः यण् अचि ।

९ - ५० - दधि उदकम्, पचति ओदनम् ।

१० - ५० - उभौ इकौ उभौ अचौ ।

११ - ५० - अचि पूर्वस्य अचि परस्य इति सन्देहः ।

१२ - ५० - तिङ् अतिङः इति अतिङः पूर्वस्य अतिङः परस्य इति सन्देहः ।

१३ - ५० - इष्यते च अत्र अचि पूर्वस्य स्यात्, अतिङः परस्य इति ।

१४ - ५० - तत् च अन्तरेण यत्नम् न सिध्यति इति नियमार्थम् वचनम् ।

१५ - ५० - अस्ति प्रयोजनम् एतत् ।

१६ - ५० - किम् तर्हि इति ।

१७ - ५० - अथ यत्र उभयम् निर्दिश्यते किम् तत्र पूर्वस्य कार्यम् भवति आहोस्वित् परस्य इति ।

१८ - ५० - उभयनिर्देशे विप्रतिषेधात् पञ्चमीनिर्देशः ।

१९ - ५० - उभयनिर्देशे विप्रतिषेधात् पञ्चमीनिर्देशः भविष्यति ।

२० - ५० - किम् प्रयोजनम् ।

२१ - ५० - प्रयोजनम् अतः लसार्वधातुकनुदात्तत्वे ।

२२ - ५० - वक्ष्यति तास्यादिभ्यः अनुदात्तत्वे सप्तमीनिर्देशः अभ्यस्तसिजर्थः इति ।

२३ - ५० - तस्मिन् क्रियमाणे तास्यादिभ्यः परस्य लसार्वधातुकस्य लसार्वधातुके परतः तास्यादीनाम् इति सन्देहः ।

२४ - ५० - तास्यादिभ्यः परस्य लसार्वधातुकस्य ।

२५ - ५० - बहोः इष्ठादीनाम् आदिलोपः ।

२६ - ५० - बहोः उत्तरेषाम् इष्ठेमेयसाम् इष्ठेमयःसु परतः बहोः इति सन्देहः ।

२७ - ५० - बहोः उत्तरेषाम् इष्ठेमेयसाम् ।

२८ - ५० - गोतः णित् ।

२९ - ५० - गोतः परस्य सर्वनामस्थानस्य सर्वनामस्थाने परतः गोतः इति सन्देहः ।

३० - ५० - गोतः परस्य सर्वनामस्थानस्य ।

३१ - ५० - रुदादिभ्यः सार्वधातुके ।

३२ - ५० - रुदादिभ्यः परस्य सार्वधातुकस्य सार्वधातुके परतः रुदादीनाम् इति सन्देहः ।

३३ - ५० - रुदादिभ्यः परस्य सार्वधातुकस्य ।

३४ - ५० - आने मुक् ईत् आसः ।

३५ - ५० - आसः उत्तरस्य आनस्य, आने परतः आसः इति सन्देहः ।

३६ - ५० - आसः उत्तरस्य आनस्य ।

३७ - ५० - आमि सर्वनाम्नः सुट् ।

३८ - ५० - सर्वनाम्नः उत्तरस्य आमः आमि परतः सर्वनाम्नः इति सन्देहः ।

३९ - ५० - सर्वनाम्नः उत्तरस्य ।

४० - ५० - घेः ङिति आट् नद्याः ।

४१ - ५० - नद्याः उत्तरेषाम् ङिताम् ङित्सु परतः नद्याः इति सन्देहः ।

४२ - ५० - नद्याः उत्तरेषाम् ङिताम् ।

४३ - ५० - याट् आपः ।

४४ - ५० - आपः उत्तरस्य ङितः ङिति परतः आपः इति सन्देहः ।

४५ - ५० - आपः उत्तरस्य ङितः । ङमः ह्रस्वात् अचि ङमुट् नित्यम् ।

४६ - ५० - ङमः उत्तरस्य अचः अचि परतः ङमः इति सन्देहः ।

४७ - ५० - ङमः उत्तरस्य अचः ।

४८ - ५० - विभक्तिविशेषनिर्देशानवकाशत्वात् अविप्रतिषेधः ।

४९ - ५० - विभक्तिविशेषनिर्देशस्य अनवकाशत्वात् अयुक्तः अयम् विप्रतिषेधः ।

५० - ५० - सर्वत्र एव अत्र कृतसामर्थ्या सप्तमी अकृतसामार्थ्या पञ्चमी इति कृत्वा पञ्चमीनिर्देशः भविष्यति ।

१ - ६२ - यथार्थम् वा षष्ठीनिर्देशः ।

२ - ६२ - यथार्थम् वा षष्ठीनिर्देशः कर्तव्यः ।

३ - ६२ - यत्र पूर्वस्य कार्यम् इष्यते तत्र पूर्वस्य षष्ठी कर्तव्या ।

४ - ६२ - यत्र परस्य कार्यम् इष्यते तत्र परस्य षष्ठी कर्तव्या ।

५ - ६२ - सः तर्हि तथा निर्देशः कर्तव्यः ।

६ - ६२ - न कर्तव्यः ।

७ - ६२ - अनेन एव प्रक्ल्̥प्तिः भविष्यति तस्मिन् इति निर्दिष्टे पूर्वस्य षष्ठी ।

८ - ६२ - तस्मात् इति निर्दिष्टे परस्य षष्ठी ।

९ - ६२ - तत् तर्हि षष्ठीग्रहणम् कर्तव्यम् ।

१० - ६२ - न कर्तव्यम् ।

११ - ६२ - प्रकृतम् अनुवर्तते ।

१२ - ६२ - क्व प्रकृतम् ।

१३ - ६२ - षष्ठी स्थानेयोगा इति ।

१४ - ६२ - प्रकल्पकम् इति चेत् नियमाभावः ।

१५ - ६२ - प्रकल्पकम् इति चेत् नियमस्य अभावः ।

१६ - ६२ - उक्तम् च एतत् नियमार्थः अयम् आरम्भः इति ।

१७ - ६२ - प्रत्ययविधौ खलु अपि पञ्चम्याः प्रकल्पिकाः स्युः ।

१८ - ६२ - तत्र कः दोषः ।

१९ - ६२ - गुप्तिज्किभ्यः सन् इति एषा पञ्चमी सन् इति प्रथमायाः षष्ठीम् प्रकल्पयेत् तस्मात् इति उत्तरस्य इति ।

२० - ६२ - अस्तु ।

२१ - ६२ - न कः चित् आदेशः प्रतिनिर्दिश्यते ।

२२ - ६२ - तत्र आन्तर्यतः सनः सन् एव भविष्यति ।

२३ - ६२ - न एवम् शक्यम् ।

२४ - ६२ - इत्सञ्ज्ञा न प्रकल्पेत ।

२५ - ६२ - उपदेशे इति इत्सञ्ज्ञा उच्यते ।

२६ - ६२ - प्रकृतिविकाराव्यवस्था च ।

२७ - ६२ - प्रकृतिविकारयोः च व्यवस्था न प्रकल्पेत ।

२८ - ६२ - इकः यण् अचि अचि इति एषा सप्तमी यण् इति प्रथमायाः षष्ठीम् प्रकल्पयेत् तस्मिन् इति निर्दिष्टे पूर्वस्य इति ।

२९ - ६२ - सप्तमीपञ्चम्योः च भावात् उभयत्र षष्ठीप्रक्ल्̥प्तिः तत्र उभयकार्यप्रसङ्गः ।

३० - ६२ - सप्तमीपञ्चम्योः च भावात् उभयत्र एव षष्ठी प्राप्नोति ।

३१ - ६२ - तास्यादिभ्यः इति एषा पञ्चमी लसार्वधातुके इति अस्याः सप्तम्याः षष्ठीम् प्रकल्पयेत् तस्मात् इति उत्तरस्य इति ।

३२ - ६२ - तथा लसार्वधातुके इति एषा सप्तमी तास्यादिभ्यः इति पञ्चम्याः षष्ठीम् प्रकल्पयेत् तस्मिन् इति निर्दिष्टे पूर्वस्य इति ।

३३ - ६२ - तत्र कः दोषः ।

३४ - ६२ - उभयोः कार्यम् तत्र प्राप्नोति ।

३५ - ६२ - न एषः दोषः ।

३६ - ६२ - यत् तावत् उच्यते प्रकल्पकम् इति चेत् नियमाभावः इति ।

३७ - ६२ - मा भूत् नियमः ।

३८ - ६२ - सप्तमीनिर्दिष्टे पूर्वस्य षष्ठी प्रकल्प्यते पञ्चमीनिर्दिष्टे परस्य ।

३९ - ६२ - यावता सप्तमीनिर्दिष्टे पूर्वस्य षष्ठी प्रकल्प्यते एवम् पञ्चमीनिर्दिष्टे परस्य ।

४० - ६२ - न उत्सहते सप्तमीनिर्दिष्टे परस्य कार्यम् भवितुम् न अपि पञ्चमीनिर्दिष्टे पूर्वस्य ।

४१ - ६२ - यत् अपि उच्यते प्रत्ययविधौ खलु अपि पञ्चम्याः प्रकल्पिकाः स्युः इति ।

४२ - ६२ - सन्तु प्रकल्पिकाः ।

४३ - ६२ - ननु च उक्तम् गुप्तिज्किभ्यः सन् इति एषा पञ्चमी सन् इति प्रथमायाः षष्ठीम् प्रकल्पयेत् तस्मात् इति उत्तरस्य इति ।

४४ - ६२ - परिहृतम् एतत् न कः चित् आदेशः प्रतिनिर्दिश्यते ।

४५ - ६२ - तत्र आन्तर्यतः सनः सन् एव भविष्यति इति ।

४६ - ६२ - ननु च उक्तम् न एवम् शक्यम् ।

४७ - ६२ - इत्सञ्ज्ञा न प्रकल्पेत ।

४८ - ६२ - उपदेशे इति इत्सञ्ज्ञा उच्यते इति ।

४९ - ६२ - स्यात् एषः दोषः यदि इत्सञ्ज्ञा आदेशम् प्रतीक्षेत ।

५० - ६२ - तत्र खलु कृतायाम् इत्सञ्ज्ञायाम् लोपे च कृते आदेशः भविष्यति ।

५१ - ६२ - उपदेशे इति हि इत्सञ्ज्ञा उच्यते ।

५२ - ६२ - अथ वा न अनुत्पन्ने सनि प्रक्ल्̥प्त्या भवितव्यम् ।

५३ - ६२ - यदा च उत्पन्नः सन् तदा कृतसामर्थ्या पञ्चमी इति कृत्वा प्रक्ल्̥प्तिः न भविष्यति ।

५४ - ६२ - यत् अपि उच्यते प्रकृतिविकाराव्यवस्था च इति ।

५५ - ६२ - तत्र अपि कृता प्रकृतौ षष्ठी इकः इति विकृतौ प्रथमा यण् इति ।

५६ - ६२ - यत्र च नाम सौत्री षष्ठी न अस्ति तत्र प्रक्ल्̥प्त्या भवितव्यम् ।

५७ - ६२ - अथ वा अस्तु तावत् इकः यण् अचि इति यत्र नाम सौत्री षष्ठी ।

५८ - ६२ - यदि च इदानीम् अचि इति एषा सप्तमी यण् इति प्रथमायाः षष्ठीम् प्रकल्पयेत् तस्मिन् इति निर्दिष्टे पूर्वस्य इति अस्तु ।

५९ - ६२ - न कः चित् अन्यः आदेशः प्रतिनिर्दिश्यते ।

६० - ६२ - तत्र आन्तर्यतः यणः यण् एव भविष्यति ।

६१ - ६२ - यत् अपि उच्यते सप्तमीपञ्चम्योः च भावात् उभयत्र षष्ठीप्रक्ल्̥प्तिः तत्र उभयकार्यप्रसङ्गः इति ।

६२ - ६२ - आचार्यप्रवृत्तिः ज्ञापयति न उभे युगपत् प्रकल्पिके भवतः इति यत् अयम् एकः पूर्वपरयोः इति पूर्वग्रहणम् करोति ।

१ - ७ - रूपग्रहणम् किम् अर्थम् न स्वम् शब्दस्य अशब्दसञ्ज्ञा भवति इति एव रूपम् शबस्य सञ्ज्ञा भविष्यति ।

२ - ७ - न हि अन्यत् स्वम् शब्दस्य अस्ति अन्यत् अतः रूपात् ।

३ - ७ - एवम् तर्हि सिद्धे सति यत् रूपग्रहणम् करोति तत् ज्ञापयति आचार्यः अस्ति अन्यत् रूपात् स्वम् शब्दस्य इति ।

४ - ७ - किम् पुनः तत् ।

५ - ७ - अर्थः ।

६ - ७ - किम् एतस्य ज्ञापने प्रयोजनम् ।

७ - ७ - अर्थवद्ग्रहणे न अनर्थकस्य इति एषा परिभाषा न कर्तव्या भवति ।

१ - ४२ - किमर्थम् पुनः इदम् उच्यते ।

२ - ४२ - शब्देन अर्थगतेः अर्थस्य असम्भवात् तद्वाचिनः सञ्ज्ञाप्रतिषेधार्थम् स्वंरूपवचनम् । शब्देन उच्चारितेन अर्थः गम्यते ।

३ - ४२ - गाम् आनय दधि अशान इति अर्थः आनीयते अर्थः च भुज्यते ।

४ - ४२ - अर्थस्य असम्भवात् ।

५ - ४२ - इह व्याकरणे अर्थे कार्यस्य असम्भवः ।

६ - ४२ - अग्नेः डक् इति न शक्यते अङ्गारेभ्यः परः ढक् कर्तुम् ।

७ - ४२ - शब्देन अर्थगतेः अर्थस्य असम्भवात् यावन्तः तद्वाचिनः शब्दाः तावद्भ्यः सर्वेभ्यः उत्पत्तिः प्राप्नोति ।

८ - ४२ - इष्यते च तस्मात् एव स्यात् इति ।

९ - ४२ - तत् च अन्तरेण यत्नम् न सिध्यति इति तद्वाचिनः सञ्ज्ञाप्रतिषेधार्थम् स्वंरूपवचनम् ।

१० - ४२ - एवमर्थम् इदम् उच्यते ।

११ - ४२ - न वा शब्दपूर्वकः हि अर्थे सम्प्रत्ययः तस्मात् अर्थनिवृत्तिः ।

१२ - ४२ - न वा एतत् प्रयोजनम् अस्ति ।

१३ - ४२ - किम् कारणम् ।

१४ - ४२ - शब्दपूर्वकः हि अर्थे सम्प्रत्ययः ।

१५ - ४२ - शब्दपूर्वकः हि अर्थस्य सम्प्रत्ययः ।

१६ - ४२ - आतः च शब्दपूर्वकः यः अपि हि असौ आहूयते नाम्ना नाम यदा अनेन न उपलब्धम् भवति तद पृच्छति किम् भवान् आह इति ।

१७ - ४२ - शब्दपूर्वकः च अर्थस्य सम्प्रत्ययः इह च व्याकरणे शब्दे कार्यस्य सम्भवः अर्थे असम्भवः ।

१८ - ४२ - तस्मात् अर्थनिवृत्तिः भविष्यति ।

१९ - ४२ - इदम् तर्हि प्रयोजनम् अशब्दसञ्ज्ञा इति वक्ष्यामि इति ।

२० - ४२ - इह मा भूत् दाधाः घु अदाप् तरप्तमपौ घः इति ।

२१ - ४२ - सञ्ज्ञाप्रतिषेधानर्थक्यम् वचनप्रामाण्यात् ।

२२ - ४२ - सञ्ज्ञाप्रतिषेधः च अनर्थकः ।

२३ - ४२ - शब्दसञ्ज्ञायाम् स्वरूपविधिः कस्मात् न भवति ।

२४ - ४२ - वचनप्रामाण्यात् ।

२५ - ४२ - शब्दसञ्ज्ञावचनसामर्थ्यात् ।

२६ - ४२ - ननु च वचनप्रामाण्यात् सञ्ज्ञिनाम् सम्प्रत्ययः स्यात् स्वरूपग्रहणात् च सञ्ज्ञायाः ।

२७ - ४२ - एतत् अपि न अस्ति प्रयोजनम् ।

२८ - ४२ - आचार्यप्रवृत्तिः ज्ञापयति शब्दसञ्ज्ञायाम् न स्वरूपविधिः भवति इति यत् अयम् ष्णान्ता षट् इति षकारान्तायाः सङ्ख्यायाः षट्सञ्ज्ञाम् शास्ति ।

२९ - ४२ - इतरथा हि वचनप्रामाण्यात् नकारान्तायाः सङ्ख्यायाः सम्प्रत्ययः स्यात् स्वरूपग्रहणात् च षकारान्तायाः ।

३० - ४२ - न एतत् अस्ति प्रयोजनम् ।

३१ - ४२ - न हि षकारान्ता सञ्ज्ञा ।

३२ - ४२ - का तर्हि ।

३३ - ४२ - डकारान्ता ।

३४ - ४२ - असिद्धम् जश्त्वम् ।

३५ - ४२ - तस्य असिद्धत्वात् षकारान्ता ।

३६ - ४२ - मन्त्राद्यर्थम् तर्हि इदम् वक्तव्यम् ।

३७ - ४२ - मन्त्रे, ऋचि यजुषि इति यत् उच्यते तत् मन्त्रशब्दे ऋक्शब्दे च यजुःशब्दे च मा भूत् ।

३८ - ४२ - मन्त्राद्यर्थम् इति चेत् शास्त्रसामर्थ्यात् अर्थगतेः सिद्धम् ।

३९ - ४२ - मन्त्राद्यर्थम् इति चेत् न ।

४० - ४२ - किम् कारणम् ।

४१ - ४२ - शास्त्रसामर्थ्यात् अर्थस्य गतिः भविष्यति ।

४२ - ४२ - मन्त्रे, ऋचि यजुषि इति यत् उच्यते तत् मन्त्रशब्दे ऋक्शब्दे च यजुःशब्दे च तस्य कार्यस्य सम्भवः न अस्ति इति कृत्वा मन्त्रादिसहचरितः यः अर्थः तस्य गतिः भविष्यति साहचर्यात् ।

१ - २९ - सित् तद्विशेषाणाम् वृक्षाद्यर्थम् ।

२ - २९ - सिन्निर्देशः कर्तव्यः ।

३ - २९ - ततः वक्तव्यम् तद्विशेषाणाम् ग्रहणम् भवति इति ।

४ - २९ - किम् प्रयोजनम् ।

५ - २९ - वृक्षाद्यर्थम् ।

६ - २९ - विभाषा वृक्षमृग इति प्लक्षन्यग्रोधम्, प्लक्षन्यग्रोधाः ।

७ - २९ - पित् पर्यायवचनस्य च स्वाद्यर्थम् ।

८ - २९ - पिन्निर्देशः कर्तव्यः ।

९ - २९ - ततः वक्तव्यम् पर्यायवचनस्य तद्विशेषाणाम् च ग्रहणम् भवति स्वस्य च रूपस्य इति ।

१० - २९ - किम् प्रयोजनम् ।

११ - २९ - स्वाद्यर्थम् ।

१२ - २९ - स्वे पुषः स्वपोषम् पुष्यति रैपोषम्, विद्यापोषम्, गोपोषम् अश्वपोषम् ।

१३ - २९ - जित् पर्यायवचनस्य एव राजाद्यर्थम् ।

१४ - २९ - जिन्निर्देशः कर्तव्यः ।

१५ - २९ - ततः वक्तव्यम् पर्यायवचनस्य एव ग्रहणम् भवति ।

१६ - २९ - किम् प्रयोजनम् ।

१७ - २९ - राजाद्यर्थम् ।

१८ - २९ - सभा राजामनुष्यपूर्वा इनसभम् ईश्वरसभम् ।

१९ - २९ - तस्य एव न भवति राजसभा ।

२० - २९ - तद्विशेषाणाम् च न भवति पुष्यमित्रसभा चन्द्रगुप्तसभा ।

२१ - २९ - झित् तस्य च तद्विशेषाणाम् च मत्स्याद्यर्थम् ।

२२ - २९ - झिन्निर्देशः कर्तव्यः ।

२३ - २९ - ततः वक्तव्यम् तस्य च ग्रहणम् भवति तद्विशेषाणाम् च इति ।

२४ - २९ - किम् प्रयोजनम् ।

२५ - २९ - मत्स्याद्यर्थम् ।

२६ - २९ - पक्षिमत्स्यमृगान् हन्ति मात्स्यिकः ।

२७ - २९ - तद्विशेषाणाम् शाफरिकः, शाकुलिकः ।

२८ - २९ - पर्यायवचनानाम् न भवति अजिह्मान् हन्ति इति ।

२९ - २९ - अस्य एकस्य पर्यायवचनस्य इष्यते मीनान् हन्ति मैनिकः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-01-17T19:36:14.0500000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

issue a cheque

  • धनादेश काढणे 
  • धनादेश देणे 
  • धनादेश काढणे, धनादेश देणे 
  • धनादेश काढणे 
RANDOM WORD

Did you know?

मंदार गणेश उपासनेची सविस्तर माहिती द्यावी.
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site