TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

पाद १ - खण्ड ३

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


खण्ड ३
१ - ८० - अज्झलोः प्रतिषेधे शकारप्रतिषेधः अज्झल्त्वात् ।

२ - ८० - अज्झलोः प्रतिषेधे शकारस्य शकारेण सवर्णसञ्ज्ञायाः प्रतिषेधः प्राप्नोति ।

३ - ८० - किम् कारणम् ।

४ - ८० - अज्झल्त्वात् ।

५ - ८० - अच् च एव हि शकारः हल् च ।

६ - ८० - कथम् तावत् अच्त्वम् ।

७ - ८० - इकारः सवर्णग्रहणेन शकारम् अपि गृह्णाति इति अच्त्वम् ।

८ - ८० - हल्षु उपदेशात् हल्त्वम् ।

९ - ८० - तत्र कः दोषः ।

१० - ८० - तत्र सवर्णलोपे दोषः ।

११ - ८० - तत्र सवर्णलोपे दोषः भवति ।

१२ - ८० - परश्शतानि कार्याणि ।

१३ - ८० - झरः झरि सवर्णे इति लोपः न प्राप्नोति ।

१४ - ८० - सिद्धम् अनच्त्वात् ।

१५ - ८० - सिद्धम् एतत् ।

१६ - ८० - कथम् ।

१७ - ८० - अनच्त्वात् ।

१८ - ८० - कथम् अनच्त्वम् ।

१९ - ८० - स्पृष्टम् स्पर्शानाम् करणम् ।

२० - ८० - ईषत्स्पृष्टम् अन्तःस्थानाम् ।

२१ - ८० - विवृतम् ऊष्मणाम् ।

२२ - ८० - ईषत् इति अनुवर्तते ।

२३ - ८० - स्वराणाम् विवृतम् ।

२४ - ८० - ईषत् इति निवृत्तम् ।

२५ - ८० - वाक्यापरिसमाप्तेः वा ।

२६ - ८० - वाक्यापरिसमाप्तेः वा सिद्धम् एतत् ।

२७ - ८० - किम् इदम् वाक्यापरिसमाप्तेः इति ।

२८ - ८० - वर्णानाम् उपदेशः तावत् ।

२९ - ८० - उपदेशोत्तरकाला इत्सञ्ज्ञा ।

३० - ८० - इत्सञ्ज्ञोत्तरकालः आदिः अन्त्येन सह इता इति प्रत्याहारः ।

३१ - ८० - प्रत्याहारोत्तरकाला सवर्णसञ्ज्ञा ।

३२ - ८० - सवर्णसञ्ज्ञोत्तरकालम् अण् उदित् सवर्णस्य च अप्रत्ययः इति सवर्णग्रहणम् ।

३३ - ८० - एतेन सर्वेण समुदितेन वाक्येन अन्यत्र सवर्णानाम् ग्रहणम् भवति ।

३४ - ८० - च च अत्र इकारः शकारम् गृह्णाति ।

३५ - ८० - यथा एव तर्हि इकारः शकारम् न गृह्णाति एवम् ईकारम् अपि न गृह्णीयात् ।

३६ - ८० - तत्र कः दोषः ।

३७ - ८० - कुमारी , ईहते कुमारीहते ।

३८ - ८० - अकः सवर्णदीर्घत्वम् न प्राप्नोति ।

३९ - ८० - न एषः दोषः ।

४० - ८० - यत् एतत् अकः सवर्णे दीर्घः इति प्रत्याहारग्रहणम् तत इकारः ईकारम् गृह्णाति ।

४१ - ८० - शकारम् न गृह्णाति ।

४२ - ८० - अपरः आह ॒ अज्झलोः प्रतिषेधे शकारप्रतिषेधः अझल्त्वात् ।

४३ - ८० - अज्झलोः प्रतिषेधे शकारस्य शकारेण सवर्णसञ्ज्ञायाः प्रतिषेधः प्राप्नोति ।

४४ - ८० - किम् कारणम् ।

४५ - ८० - अज्झल्त्वात् ।

४६ - ८० - अच् च एव शकारः हल् च ।

४७ - ८० - कथम् तावत् अच्त्वम् ।

४८ - ८० - इकारः सवर्णग्रहणेन शकारम् अपि गृह्णाति इति अच्त्वम् ।

४९ - ८० - हल्षु उपदेशात् हल्त्वम् ।

५० - ८० - तत्र कः दोषः ।

५१ - ८० - तत्र सवर्णलोपे दोषः ।

५२ - ८० - तत्र सवर्णलोपे दोषः भवति ।

५३ - ८० - परश्शतानि कार्याणि ।

५४ - ८० - झरः झरि सवर्णे इति लोपः न प्राप्नोति ।

५५ - ८० - सिद्धम् अनच्त्वात् ।

५६ - ८० - सिद्धम् एतत् ।

५७ - ८० - कथम् ।

५८ - ८० - अनच्त्वात् ।

५९ - ८० - कथम् अनच्त्वम् ।

६० - ८० - वाक्यापरिसमाप्तेः वा ।

६१ - ८० - उक्ता वाक्यापरिसमाप्तिः ।

६२ - ८० - अस्मिन् पक्षे वा इति एतत् असमर्थितम् भवति ।

६३ - ८० - एतत् च समर्थितम् ।

६४ - ८० - कथम् ।

६५ - ८० - अस्तु वा शकारस्य शकारेण सवर्णसञ्ज्ञा मा वा भूत् ।

६६ - ८० - ननु च उक्तम् ॒ परश्शतानि कार्याणि ।

६७ - ८० - झरः झरि सवर्णे इति लोपः न प्राप्नोति इति ।

६८ - ८० - मा भूत् लोपः ।

६९ - ८० - ननु च भेदः भवति ।

७० - ८० - सति लोपे द्विशकारम् असति लोपे त्रिशकारम् ।

७१ - ८० - न अस्ति भेदः ।

७२ - ८० - असति अपि लोपे द्विशकारम् एव ।

७३ - ८० - कथम् ।

७४ - ८० - विभाषा द्विर्वचनम् ।

७५ - ८० - एवम् अपि भेदः ।

७६ - ८० - असति लोपे कदा चित् द्विशकारम् कदा चित् त्रिशकारम् सति लोपे द्विशकारम् एव ।

७७ - ८० - सः एषः कथम् भेदः न स्यात् ।

७८ - ८० - यदि नित्यः लोपः स्यात् ।

७९ - ८० - विभाषा तु सः लोपः ।

८० - ८० - यथा अभेदः तथा अस्तु ।

१ - ५७ - किमर्थम् ईदादीनाम् तपराणाम् प्रगृह्यसञ्ज्ञा उच्यते ।

२ - ५७ - तपरः तत्कालस्य इति तत्कालानाम् सवर्णानाम् ग्रहणम् यथा स्यात् ।

३ - ५७ - केषाम् ।

४ - ५७ - उदात्तानुदात्तस्वरितानाम् ।

५ - ५७ - अस्ति प्रयोजनम् एतत् ।

६ - ५७ - किम् तर्हि इति ।

७ - ५७ - प्लुतानाम् तु प्रगृह्यसञ्ज्ञा न प्राप्नोति ।

८ - ५७ - किम् कारणम् ।

९ - ५७ - अतत्कालत्वात् ।

१० - ५७ - न हि प्लुताः तत्कालाः ।

११ - ५७ - असिद्धः प्लुतः ।

१२ - ५७ - तस्यासिद्धत्वात् तत्कालाः एव भवन्ति ।

१३ - ५७ - सिद्धः प्लुतः स्वरसन्धिषु ।

१४ - ५७ - कथम् ज्ञायते सिद्धः प्लुतः स्वरसन्धिषु इति ।

१५ - ५७ - यत् अयम् प्लुतप्रगृह्याः अचि इति प्लुतस्य प्रकृतिभावम् शास्ति ।

१६ - ५७ - कथम् कृत्वा ज्ञापकम् ।

१७ - ५७ - सतः हि कार्यिणः कार्येण भवितव्यम् ।

१८ - ५७ - किम् एतस्य ज्ञापने प्रयोजनम् ।

१९ - ५७ - अप्लुतात् अप्लुते इति एतत् न वक्तव्यम् भवति ।

२० - ५७ - किम् अतः यत् सिद्धः प्लुतः स्वरसन्धिषु ।

२१ - ५७ - सञ्ज्ञाविधौ असिद्धः ।

२२ - ५७ - तस्य असिद्धत्वात् तत्कालाः एव भवन्ति ।

२३ - ५७ - सञ्ज्ञाविधौ च सिद्धः ।

२४ - ५७ - कथम् ।



२५ - ५७ - कार्यकालम् सञ्ज्ञापरिभाषम् ।

२६ - ५७ - यत्र कार्यम् तत्र उपस्थितम् द्रष्टव्यम् ।

२७ - ५७ - प्रगृह्यः प्रकृत्या इति उपस्थितम् इदम् भवति ईदूदेत् द्विवचनम् प्रगृह्यम् इति ।

२८ - ५७ - किम् पुनः प्लुतस्य प्रगृह्यसञ्ज्ञावचने प्रयोजनम् ।

२९ - ५७ - प्रगृह्याश्रयः प्रकृतिभावः यथा स्यात् ।

३० - ५७ - मा भूत् एवम् ।

३१ - ५७ - प्लुतः प्रकृत्या इति एवम् भविष्यति ।

३२ - ५७ - न एवम् शक्यम् ।

३३ - ५७ - उपस्थिते हि दोषः स्यात् ।

३४ - ५७ - अप्लुतवत् उपस्थिथे इति अत्र पठिष्यति हि आचार्यः ॒ वद्वचनम् प्लुतकार्यप्रतिषेधार्थम् , प्लुतप्रतिषेधे हि प्रगृह्य्प्लुतप्रतिषेधप्रसङ्गः अन्येन विहितत्वात् इति ।

३५ - ५७ - तस्मात् प्लुतस्य प्रगृह्यसञ्ज्ञा एषितव्या प्रगृह्याश्रयः प्रकृतिभावः यथा स्यात् ।

३६ - ५७ - यदि पुनः दीर्घाणाम् अतपराणाम् प्रगृह्यसञ्ज्ञा उच्येत ।

३७ - ५७ - एवम् अपि एकारः एव एकः सवर्णान् गृह्णीयात् ।

३८ - ५७ - ईकारोकारौ न गृह्णीयाताम् ।

३९ - ५७ - किम् कारणम् ।

४० - ५७ - अनण्त्वात् ।

४१ - ५७ - यदि पुनः ह्रस्वानाम् अतपराणाम् प्रगृह्यसञ्ज्ञा उच्येत ।

४२ - ५७ - न एवम् शक्यम् ।

४३ - ५७ - इह अपि प्रसज्येत ॒ अकुर्वहि , अत्र अकुर्वहि अत्र इति ।

४४ - ५७ - तस्मात् दीर्घाणाम् एव तपराणाम् प्रगृह्यसञ्ज्ञा वक्तव्या ।

४५ - ५७ - दीर्घाणाम् च उच्यमाना प्लुतानाम् न प्राप्नोति ।

४६ - ५७ - एवम् तर्हि किम् नः एतेन यत्नेन यत् सिद्धः प्लुतः स्वरसन्धिषु इति ।

४७ - ५७ - असिद्धः प्लुतः ।

४८ - ५७ - तस्य असिद्धत्वात् तत्कालाः एव भवन्ति इति ।

४९ - ५७ - कथम् यत् तत् ज्ञापकम् उक्तम् प्लुतप्रगृह्याः अचि इति. प्लुतभावी प्रकृत्या इति एवम् एतत् विज्ञायते ।

५० - ५७ - कथम् यत् तत् प्रयोजनम् उक्तम् ।

५१ - ५७ - क्रियते तत् न्यासे एव अप्लुतात् अप्लुते इति ।

५२ - ५७ - एवम् अपि यत् सिद्धे प्रगृह्यकार्यम् तत् प्लुतस्य न प्राप्नोति ।

५३ - ५७ - अणः अप्रगृह्यस्य अनुनासिकः इति ।

५४ - ५७ - एवम् तर्हि किम् नः एतेन कार्यकालम् सञ्ज्ञापरिभाषम् इति ।

५५ - ५७ - यथोद्देशम् एव सञ्ज्ञापरिभाषम् ।

५६ - ५७ - तत्र च असौ असिद्धः ।

५७ - ५७ - तस्यासिद्धत्वात् तत्कालाः एव भवन्ति ।

१ - ४७ - कथम् पुनः इदम् विज्ञायते ॒ ईदादयः यत् द्विवचनम् इति आहोस्वित् ईदाद्यन्तम् यत् द्विवचनम् इति ।

२ - ४७ - कः च अत्र विशेषः ।

३ - ४७ - ईदादयः द्विवचनम् प्रगृह्याः इति चेत् अन्त्यस्य विधिः ।

४ - ४७ - ईदादयः द्विवचनम् प्रगृह्याः इति चेत् अन्त्यस्य प्रगृह्यसञ्ज्ञा विधेया ।

५ - ४७ - पचेते* इति , पचेथे* इति ।

६ - ४७ - वचनात् भविष्यति ।

७ - ४७ - अस्ति वचने प्रयोजनम् ।

८ - ४७ - किम् ।

९ - ४७ - खट्वे* इति , माले* इति ।

१० - ४७ - अस्तु तर्हि ईदाद्यन्तम् यत् द्विवचनम् इति ।

११ - ४७ - ईदाद्यन्तम् इति चेत् एकस्य विधिः ।

१२ - ४७ - ईदाद्यन्तम् इति चेत् एकस्य प्रगृह्यसञ्ज्ञा विधेया ।

१३ - ४७ - खट्वे* इति , माले* इति ।

१४ - ४७ - न वा आद्यन्तत्वात् ।

१५ - ४७ - न वा एषः दोषः ।

१६ - ४७ - किम् कारणम् ।

१७ - ४७ - आद्यन्तत्वात् ।

१८ - ४७ - आद्यन्तवत् एकस्मिन् इति एकस्य अपि भविष्यति ।

१९ - ४७ - अथ वा एवम् वक्ष्यामि ॒ ईदाद्यन्तम् यत् द्विवचनान्तम् इति ।

२० - ४७ - ईदाद्यन्तम् द्विवचनान्तम् इति चेत् लुकि प्रतिषेधः ।

२१ - ४७ - ईदाद्यन्तम् द्विवचनान्तम् इति चेत् लुकि प्रतिषेधः वक्तव्यः ।

२२ - ४७ - कुमार्योः अगारम् , कुमार्यगारम् वध्वोः अगारम् , वध्वगारम् ।

२३ - ४७ - एतत् हि ईदाद्यन्तम् च श्रूयते द्विवचनान्तम् च भवति प्रत्ययलक्षणेन ।

२४ - ४७ - सप्तम्याम् अर्थग्रहणम् ज्ञापकम् प्रत्ययलक्षणप्रतिषेधस्य ।

२५ - ४७ - यत् अयम् ईदूतौ च सप्तम्यर्थे इति अर्थग्रहणम् करोति तत् ज्ञापयति आचार्यः न प्रगृह्यसञ्ज्ञायाम् प्रत्ययलक्षणम् भवति इति ।

२६ - ४७ - तत् तर्हि ज्ञाप्कार्थम् अर्थग्रहणम् कर्तव्यम् ।

२७ - ४७ - न कर्तव्यम् ।

२८ - ४७ - ईदादिभिः द्विवचनम् विशेषयिष्यामः ईदादिविशिष्टेन च द्विवचनेन तदन्तविधिः भविष्यति ।

२९ - ४७ - ईदाद्यन्तम् यत् द्विवचनम् तदन्तम् ईदाद्यन्तम् इति ।

३० - ४७ - एवम् अपि अशुक्ले वस्त्रे शुक्ले सम्पद्येताम् , शुक्ली आस्ताम् वस्त्रे* इति अत्र प्राप्नोति ।

३१ - ४७ - अत्र हि ईदादि द्विवचनम् तदन्तम् च भवति प्रत्ययलक्षणेन ।

३२ - ४७ - अत्र अपि अकृते शीभावे लुक् भविष्यति ।

३३ - ४७ - इदम् इह सम्प्रधार्यम् ।

३४ - ४७ - लुक् क्रियताम् शीभावः इति किम् अत्र कर्तव्यम् ।

३५ - ४७ - परत्वात् शीभावः ।

३६ - ४७ - नित्यः लुक् ।

३७ - ४७ - कृते अपि शीभावे प्राप्नोति अकृते अपि प्राप्नोति ।

३८ - ४७ - अनित्यः लुक् ।

३९ - ४७ - अन्यस्य कृते शीभावे प्राप्नोति अन्यस्य अकृते ।

४० - ४७ - शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।शीभावः अपि अनित्यः ।

४१ - ४७ - न हि कृते लुकि प्राप्नोति ।

४२ - ४७ - उभयोः अनित्ययोः परत्वात् शीभावः शीभावे कृते लुक् ।

४३ - ४७ - अथ अपि कथम् चित् नित्यः लुक् स्यात् एवम् अपि दोषः ।

४४ - ४७ - वक्ष्यति एतत् ।

४५ - ४७ - पदसञ्ज्ञायाम् अन्तवचनम् अन्यत्र सञ्ज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधार्थम् इति. इदम् च अपि प्रत्ययग्रहणम् अयम् च अपि सञ्ज्ञाविधिः ।

४६ - ४७ - अवश्यम् खलु एतस्मिन् अपि पक्षे आद्यन्तवद्भावः एषितव्यः ।

४७ - ४७ - तस्मात् अस्तु सः एव मध्यमः पक्षः ।

१ - ८९ - मात् प्रगृह्यसञ्ज्ञायाम् तस्य असिद्धत्वात् अयावेकादेशप्रतिषेधः ।

२ - ८९ - मात् प्रगृह्यसञ्ज्ञायाम् तस्य ईत्त्वस्य ऊत्त्वस्य च असिद्धत्वात् अयावेकादेशाः प्राप्नुवन्ति ।

३ - ८९ - तेषाम् प्रतिषेधः वक्तव्यः ।

४ - ८९ - अमी* अत्र , अमी* आसते , अमू* अत्र , अमू* आसाते ।

५ - ८९ - ननु च प्रगृह्यसञ्ज्ञावचनसामर्थ्यात् अयादयः न भविष्यन्ति ।

६ - ८९ - वचनार्थः हि सिद्धे ।

७ - ८९ - न इदम् वचनात् लभ्यम् ।

८ - ८९ - अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् ।

९ - ८९ - किम् ।

१० - ८९ - यत् सिद्धे प्रगृह्यसञ्ज्ञाकार्यम् तदर्थम् एतत् स्यात् ।

११ - ८९ - अणः अप्रगृह्यस्य अनुनासिकः इति ।

१२ - ८९ - न एकम् प्रयोजनम् योगारम्भम् प्रयोजयति ।

१३ - ८९ - यदि एतावत् प्रयोजनम् स्यात् तत्र एव अयम् ब्रूयात् अणः अप्रगृह्यस्य अनुनासिकः अदसः न इति ।

१४ - ८९ - विप्रतिषेधात् वा ।

१५ - ८९ - अथ वा प्रगृह्यसञ्ज्ञा क्रियताम् अयादयः वा ।

१६ - ८९ - प्रगृह्यसञ्ज्ञा भविष्यति विप्रतिषेधेन ।

१७ - ८९ - न एषः युक्तः विप्रतिषेधः ।

१८ - ८९ - विप्रतिषेधे परम् इति उच्यते ।

१९ - ८९ - पूर्वा च प्रगृह्यसञ्ज्ञा परे अयादयः ।

२० - ८९ - परा प्रगृह्यसञ्ज्ञा करिष्यते ।

२१ - ८९ - सूत्रविपर्यासः कृतः भवति ।

२२ - ८९ - एवम् तर्हि परा एव प्रगृह्यसञ्ज्ञा ।

२३ - ८९ - कथम् ।

२४ - ८९ - कार्यकालम् हि सञ्ज्ञापरिभाषम् ।

२५ - ८९ - यत्र कार्यम् तत्र उपस्थितम् द्रष्टव्यम् ।

२६ - ८९ - प्रगृह्यः प्रकृत्या इति एतत् उपस्थितम् भवति अदसः मात् इति ।

२७ - ८९ - एवम् अपि अयुक्तः विप्रतिषेधः ।

२८ - ८९ - कथम् ।

२९ - ८९ - द्विकार्ययोगः हि विप्रतिषेधः ।

३० - ८९ - न च अत्र एकः द्विकार्ययुक्तः ।

३१ - ८९ - एचाम् अयादयः ।

३२ - ८९ - ईदूतोः प्रगृह्यस्ञ्ज्ञा ।

३३ - ८९ - न अवश्यम् द्विकार्ययोगः एव विप्रतिषेधः ।

३४ - ८९ - किम् तर्हि ।

३५ - ८९ - असम्भवः अपि ।

३६ - ८९ - सः च अस्ति अत्र असम्भवः ।

३७ - ८९ - कः असौ असम्भवः ।

३८ - ८९ - प्रगृह्यसञ्ज्ञा अभिनिर्वर्तमाना अयादीन् बाधते , अयादयः अभिनिर्वर्तमनाः प्रगृह्यसञ्ज्ञानिमित्तम् विघ्नन्ति इति एषः असम्भवः ।

३९ - ८९ - सति असम्भवे युक्तः विप्रतिषेधः ।

४० - ८९ - एवम् अपि अयुक्तः विप्रतिषेधः ।

४१ - ८९ - सतोः हि विप्रतिषेधः भवति ।

४२ - ८९ - न च अत्र ईत्त्वोत्त्वे स्तः न अपि मकारः ।

४३ - ८९ - उभयम् असिद्धम् ।

४४ - ८९ - आश्रयात् सिद्धत्वम् च यथा रोः उत्त्वे । आश्रयात् सिद्धत्वम् भविष्यति ।

४५ - ८९ - तत् यथा रुः उत्त्वे आश्रयात् सिद्धः भवति ।

४६ - ८९ - किम् पुनः कारणम् रुः उत्त्वे आश्रयात् सिद्धः भवति न पुनः यत्र एव रुः सिद्धः तत्र एव उत्त्वम् अपि उच्यते ।

४७ - ८९ - न एवम् शक्यम् ।

४८ - ८९ - असिद्धे हि उत्त्वे आद्गुणाप्रसिद्धिः ।

४९ - ८९ - असिद्धे हि उत्त्वे आद्गुणाप्रसिद्धिः स्यात् ।

५० - ८९ - वृक्षः अत्र , प्लक्षः अत्र ।

५१ - ८९ - तस्मात् तत्र आश्रयात् सिद्धत्वम् एषितव्यम् ।

५२ - ८९ - तत्र यथा आश्रयात् सिद्धम् भवति एवम् इह अपि भविष्यति ।

५३ - ८९ - अथ वा प्रगृह्यसञ्ज्ञावचनसामर्थ्यात् अयादयः आदेशाः न भविष्यन्ति ।

५४ - ८९ - अथ वा योगविभागः करिष्यते ।

५५ - ८९ - अदसः ।

५६ - ८९ - अदसः ईदादयः प्रगृह्यसञ्ज्ञाः भवन्ति ।

५७ - ८९ - ततः मात् ।

५८ - ८९ - मात् च परे ईदादयः प्रगृह्यसञ्ज्ञाः भवन्ति ।

५९ - ८९ - अदसः इति एव ।

६० - ८९ - किमर्थः योगविभागः ।

६१ - ८९ - एकः यत् तत् सिद्धे प्रगृह्यकार्यम् तदर्थः ।

६२ - ८९ - अपरः यत् असिद्धे ।

६३ - ८९ - इह अपि तर्हि प्राप्नोति ॒ अमुया , अमुयोः इति ।

६४ - ८९ - किम् च स्यात् यदि प्रगृह्यसञ्ज्ञा स्यात् ।

६५ - ८९ - प्रगृह्याश्रयः प्रकृतिभावः प्रसज्येत ।

६६ - ८९ - न एषः दोषः ।

६७ - ८९ - पदान्तप्रकरणे प्रकृतिभावः ।

६८ - ८९ - न च एषः पदान्तः ।

६९ - ८९ - एवम् अपि अमुके अत्र अत्र अपि प्राप्नोति ।

७० - ८९ - द्विवचनम् इति वर्तते ।

७१ - ८९ - यदि द्विवचनम् इति वर्तते अमी* अत्र इति न प्राप्नोति ।

७२ - ८९ - एवम् तर्हि एदन्तम् इति निवृत्तम् ।

७३ - ८९ - अथ वा आह अयम् अदसः मात् इति ।

७४ - ८९ - न च ईत्त्वोत्त्वे स्तः न अपि मकारः ।

७५ - ८९ - ते एवम् विज्ञास्यामः मार्थात् ईदाद्यर्थानाम् इति ।

७६ - ८९ - उक्तम् वा ।

७७ - ८९ - किम् उक्तम् ।

७८ - ८९ - अदसः ईत्त्वोत्त्वे स्वरे बहिष्पदलक्षणे प्रगृह्यसञ्जायाम् च सिद्धे वक्तव्ये इति ।

७९ - ८९ - तत्र सकि दोषः ।

८० - ८९ - तत्र सककारे दोषः भवति ।

८१ - ८९ - अमुके अत्र ।

८२ - ८९ - न वा ग्रहणविशेषणत्वात् ।

८३ - ८९ - न वा एषः दोषः ।

८४ - ८९ - किम् कारणम् ।

८५ - ८९ - ग्रहणविशेषणत्वात् ।

८६ - ८९ - न माद्ग्रहणेन ईदाद्यन्तम् विशेष्यते ।

८७ - ८९ - किम् तर्हि ।

८८ - ८९ - ईदादयः विशेष्यन्ते ।

८९ - ८९ - मात् परे ये ईदादयः इति ।

१ - १० - इह कस्मात् न भवति ॒ काशे कुशे वंशे इति ।

२ - १० - शे अर्थवद्ग्रहणात् ।

३ - १० - अर्थवतः शेशब्दस्य ग्रहणम् ।

४ - १० - न च अयम् अर्थवान् ।

५ - १० - एवम् अपि हरिशे बभ्रुशे इति अत्र प्राप्नोति ।

६ - १० - एवम् तर्हि लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति एवम् न भविष्यति ।

७ - १० - अथ वा पुनः अस्तु अर्थवद्ग्रहणे न अनर्थकस्य इति ।

८ - १० - कथम् हरिशे बभ्रुशे इति ।

९ - १० - एकः अत्र विभक्त्यर्थेन अर्थवान् अपरः तद्धितार्थेन ।

१० - १० - समुदायः अनर्थकः ।

१ - ३२ - निपातः इति किमर्थम् ।

२ - ३२ - चकार अत्र , जहार अत्र ।

३ - ३२ - एकाच् इति किमर्थम् ।

४ - ३२ - प्र इदम् ब्रह्म , प्र इदम् क्षत्रम् ।

५ - ३२ - एकाच् इति अपि उच्यमाने अत्र अपि प्राप्नोति ।

६ - ३२ - एषः अपि हि एकाच् ।

७ - ३२ - एकाच् इति न अयम् बहुव्रीहिः ॒ एकः अच् अस्मिन् सः अयम् एकाच् इति ।

८ - ३२ - किम् तर्हि ।

९ - ३२ - तत्पुरुषः अयम् समानाधिकरणः ॒ एकः अच् एकाच् ।

१० - ३२ - यदि तत्पुरुषः समानाधिकरणः न अर्थः एकग्रहणेन ।

११ - ३२ - इह कस्मात् न भवति ॒ प्र इदम् ब्रह्म , प्र इदम् क्षत्रम् ।

१२ - ३२ - अच् एव यः निपातः इति एवम् विज्ञास्यते ।

१३ - ३२ - किम् वक्तव्यम् एतत् ।

१४ - ३२ - न हि ।

१५ - ३२ - कथम् अनुच्यमानम् गंस्यते ।

१६ - ३२ - अज्ग्रहणसामर्थ्यात् ।

१७ - ३२ - यदि हि यत् च अच् च अन्यत् च तत्र स्यात् अज्ग्रहणम् अनर्थकम् स्यात् ।

१८ - ३२ - अस्ति अन्यत् अज्ग्रहणस्य प्रयोजनम् ।

१९ - ३२ - किम्. अजन्तस्य यथा स्यात् ।

२० - ३२ - हलन्तस्य मा भूत् ।

२१ - ३२ - न एव दोषः न प्रयोजनम् ।

२२ - ३२ - एवम् अपि कुतः एतत् द्वयोः परिभाषयोः सावकाशयोः समवस्थितयोः आद्यन्तवत् एकस्मिन् इति च येन विधिः तदन्तस्य इति च इयम् इह परिभाषा भविष्यति आद्यन्तवत् एकस्मिन् इति इयम् न भविष्यति येन विधिः तदन्तस्य इति ।

२३ - ३२ - आचार्यप्रवृत्तिः ज्ञापयति इयम् इह परिभाषा भवति आद्यन्तवत् एकस्मिन् इति इयम् न भवति येन विधिः तदन्तस्य इति यत् अयम् अनाङ् इति प्रतिषेधम् शास्ति ।

२४ - ३२ - एवम् तर्हि सिद्धे सति यत् अज्ग्रहणे क्रियमाणे एकग्रहणम् करोति तत् ज्ञापयति आचार्यः अन्यत्र वर्णग्रहणे जातिग्रहणम् भवति इति ।

२५ - ३२ - किम् एतस्य ज्ञापने प्रयोजनम् ।

२६ - ३२ - दम्भेः हल्ग्रहणस्य जातिवाचकत्वात् सिद्धम् इति यत् उक्तम् तत् उपपन्नम् भवति ।

२७ - ३२ - अनाङ् इति किमर्थम् ।

२८ - ३२ - आ , उदकान्तात् ओदकान्तात् ।

२९ - ३२ - इह कस्मात् न भवति॒ आ* एवम् नु मन्यसे , आ* एवम् किल तत् इति ।

३० - ३२ - सानुबन्धकस्य ग्रहणम् अननुबन्धकः च अत्र आकारः ।

३१ - ३२ - क्व पुनः अयम् सानुबन्धकः क्व निरनुबन्धकः ।

३२ - ३२ - ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः एतम् आतम् ङितम् विद्यात् वाक्यस्मरणयोः अङित्

१ - ७ - किम् उदाहरणम् ।

२ - ७ - आहो* इति , उताहो* इति ।

३ - ७ - न एतत् अस्ति प्रयोजनम् ।

४ - ७ - निपातसमाहारः अयम् ॒ आह , उ ॒ आहो* इति, उत , आह , उ ॒ उताहो* इति ।

५ - ७ - तत्र निपातः एकाच् अनाङ् इति एव सिद्धम् ।

६ - ७ - एवम् तर्हि एकनिपाताः इमे ।

७ - ७ - अथ वा प्रतिषिद्धार्थः अयम् आरम्भः ॒ ओ षु यातम् मरुतः , ओषु यातम् बृहती शक्वरी च , ओ चित् सखायम् सख्य ववृत्याम् ।

१ - १३ - ओतः च्विप्रतिषेधः ।

२ - १३ - ओदन्तः निपातः इति अत्र च्व्यन्तस्य प्रतिषेधः वक्तव्यः ।

३ - १३ - अनदः , अदः , अभवत् ॒ अदोभवत् , तिरोभवत् ।

४ - १३ - न वक्तव्यम् ।

५ - १३ - लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति एवम् न भविष्यति ।

६ - १३ - एवम् अपि अगौः गौः सम्पद्यते गोभवत् ॒ अत्र प्राप्नोति ।

७ - १३ - एवम् तर्हि गौणमुख्ययोः मुख्ये कार्यसम्प्रययः इति ।

८ - १३ - तत् यथा ॒ गौः अनुबन्ध्यः अजः अग्नीषोमीयः इति न बाहीकः अनुबध्यते ।

९ - १३ - कथम् तर्हि बाहीके वृद्ध्यात्त्वे भवतः ॒ गौः तिष्थति ।

१० - १३ - गाम् आनय इति ।

११ - १३ - अर्थाश्रये एतत् एवम् भवति ।

१२ - १३ - यत् हि शब्दाश्रयम् शब्दमात्रे तत् भवति ।

१३ - १३ - शब्दाश्रये च वृद्ध्यात्त्वे ।

१ - १३ - इह कस्मात् न भवति ॒ आहो* इति , उताहो* इति ।

२ - १३ - उञः इति उच्यते ।

३ - १३ - न च अत्र उञम् पश्यामः ।

४ - १३ - उञः अयम् अन्येन सह एकादेशः उञ्ग्रहणेन गृह्यते ।

५ - १३ - आचार्यप्रवृत्तिः ज्ञापयति न उञेकादेशः उञ्ग्रहणेन गृह्यते इति यत् अयम् ओत् इति ओदन्तस्य निपातस्य प्रगृह्यसञ्ज्ञाम् शास्ति ।

६ - १३ - न एतत् अस्ति ज्ञापकम् ।

७ - १३ - उक्तम् एतत् प्रतिषिद्धार्थः अयम् आरम्भः ।

८ - १३ - दोषः खलु अपि स्यात् यदि उञेकादेशः उञ्ग्रहणेन न गृह्येत ॒ जानु , उ ।

९ - १३ - अस्य रुजति जानू* अस्य रुजति जान्वस्य रुजति ।

१० - १३ - मयः उञः वः वा इति वत्वम् न स्यात् ।

११ - १३ - एवम् तर्हि एकनिपाताः इमे ।

१२ - १३ - अथ वा द्वौ उकारौ इमौ एकः अननुबन्धकः अपरः सानुबन्धकः ।

१३ - १३ - तत् यः अननुबन्धकः तस्य एषः एकादेशः ।

१ - १० - उञः इति योगविभागः ।

२ - १० - उञः इति योगविभागः कर्तव्यः ।

३ - १० - उञः शाकल्यस्य आचार्यस्य मतेन प्रगृह्यसञ्ज्ञा भवति ।

४ - १० - उ* इति व् इति ।

५ - १० - ततः उम्̐ ।

६ - १० - उञः ऊम्̐ इति अयम् आदेशः भवति शाकल्यस्य आचार्यस्य मतेन दीर्घः अनुनासिकः प्रगृह्यसञ्ज्ञकः च उम्̐ इति ।

७ - १० - किमर्थः योगविभागः ।

८ - १० - उम्̐ वा शाकल्यस्य ।

९ - १० - शाकल्यस्य आचार्यस्य मतेन उम्̐ विभाषा यथा स्यात् ॒ ऊम्̐ इति , उ* इति ।

१० - १० - अन्येषाम् आचार्याणाम् मतेन व् इति ।

१ - ३८ - ईदूतौ सप्तमी इति एव । ईदूतौ सप्तमी इति एव सिद्धम् ।

२ - ३८ - न अर्थः अर्थग्रहणेन ।

३ - ३८ - लुप्ते अर्थग्रहणात् भवेत् ।

४ - ३८ - लुप्तायम् सप्तम्याम् प्रगृह्यसञ्ज्ञा न प्राप्नोति ।

५ - ३८ - क्व ।

६ - ३८ - सोमो गौरी अधि श्रितः ।

७ - ३८ - इष्यते च अत्र अपि स्यात् इति ।

८ - ३८ - तत् च अन्तरेण यत्नम् न सिध्यति इति एवमर्थम् अर्थग्रहणम् ।

९ - ३८ - न अत्र सप्तमी लुप्यते ।

१० - ३८ - किम् तर्हि ।

११ - ३८ - पूर्वसवर्णः अत्र भवति । पूर्वस्य चेत् सवर्णः असौ आडाम्भावः प्रसज्यते ।

१२ - ३८ - यदि पूर्वसवर्णः आट् आम्भावः च प्राप्नोति ।

१३ - ३८ - एवम् तर्हि आह अयम् ईदूतौ सप्तमी इति न स अस्ति सप्तमी ईदूतौ ।

१४ - ३८ - तत्र वचनात् भविष्यति ।

१५ - ३८ - वचनात् यत्र दीर्घत्वम् ।

१६ - ३८ - न इदम् वचनात् लभ्यम्. अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् ।

१७ - ३८ - किम् ।

१८ - ३८ - यत्र सप्तम्याः दीर्घत्वम् उच्यते ॒ दृतिम् न शुष्कम् सरसी शयानम् इति ।

१९ - ३८ - सति प्रयोजने इह न प्राप्नोति सोमो गौरी अधि श्रितः इति ।

२० - ३८ - तत्र अपि सरसी यदि ।

२१ - ३८ - तत्र अपि सिद्धम् ।

२२ - ३८ - कथम् ।

२३ - ३८ - यदि सरसीशब्दस्य प्रवृत्तिः अस्ति ।

२४ - ३८ - अस्ति च लोके सरसीशब्दस्य प्रवृत्तिः ।

२५ - ३८ - कथम् ।

२६ - ३८ - दक्षिणापथे हि महान्ति सरांसि सरस्यः इति उच्यन्ते ।

२७ - ३८ - ज्ञापकम् स्यात् तदन्तत्वे ।

२८ - ३८ - एवम् तर्हि ज्ञापयति आचार्यः न प्रगृह्यसञ्ज्ञायाम् प्रत्ययलक्षणम् भवति इति ।

२९ - ३८ - किम् एतस्य ज्ञापने प्रयोजनम् ।

३० - ३८ - कुमार्योः अगारम् कुमार्यगारम् , वध्वोः अगारम् वध्वगारम् ।

३१ - ३८ - प्रत्ययलक्षणेन प्रगृह्यसञ्ज्ञा न भवति ।

३२ - ३८ - मा वा पूर्वपदस्य भूत् । अथ वा पूर्वपदस्य मा भूत् इति एवमर्थम् अर्थग्रहणम् ॒ वाप्याम् अश्वः वाप्यश्वः , नद्याम् आतिः नद्यातिः ।

३३ - ३८ - अथ क्रियमाणे अपि अर्थग्रहणे कस्मात् एव अत्र न भवति ।

३४ - ३८ - जहत्स्वार्था वृत्तिः इति ।

३५ - ३८ - अथ अजहत्स्वार्थायाम् वृत्तौ दोषः एव ।

३६ - ३८ - अजहत्स्वार्थायाम् च न दोषः ।

३७ - ३८ - समुदायार्थः अभिधीयते ।

३८ - ३८ - ईदुतौ सप्तमी इति एव लुप्ते अर्थग्रहणात् भवेत् पूर्वस्य चेत् सवर्णः असौ आडाम्भावः प्रसज्यते वचनात् यत्र दीर्घत्वम् तत्र अपि सरसी यदि ज्ञापकम् स्यात् तदन्तत्वे मा वा पूर्वपदस्य भूत् ।

१ - ४८ - घुसञ्ज्ञायाम् प्रकृतिग्रहणम् शिदर्थम् । घुसञ्ज्ञायाम् प्रकृतिग्रहणम् कर्तव्यम् ।

२ - ४८ - दाधाप्रकृतयः घुसञ्ज्ञा भवन्ति इति वक्तव्यम् ।

३ - ४८ - किम् प्रयोजनम् ।

४ - ४८ - आत्त्वभूतानाम् इयम् सञ्ज्ञा क्रियते ।

५ - ४८ - सा आत्त्वभूतानाम् एव स्यात् अनात्त्वभूतानाम् न स्यात् ।

६ - ४८ - ननु च भूयिष्थानि घुसञ्ज्ञाकार्याणि आर्धधातुके तत्र च एते आत्त्वभूताः दृश्यन्ते ।

७ - ४८ - शिदर्थम् ।

८ - ४८ - शिदर्थम् प्रकृतिग्रहणम् कर्तव्यम् ।

९ - ४८ - शिति आत्त्वम् प्रतिषिध्यते तदर्थम् ॒ प्रणिदयते प्रणिधयति इति ।

१० - ४८ - भारद्वाजीयाः पठन्ति घुसञ्ज्ञायाम् प्रकृतिग्रहणम् शिद्विकृतार्थम् ।

११ - ४८ - घुसञ्ज्ञायाम् प्रकृतिग्रहणम् क्रियते ।

१२ - ४८ - किम् प्रयोजनम् ।

१३ - ४८ - शिदर्थम् विकृतार्थम् च ।

१४ - ४८ - शिति उदाहृतम् ।

१५ - ४८ - विकृतार्थम् खलु अपि ॒ प्रणिदाता प्रणिधाता ।

१६ - ४८ - किम् पुनः कारणम् न सिध्यति ।

१७ - ४८ - लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति प्रतिपदम् ये आत्त्वभूताः तेषाम् एव स्यात् ।

१८ - ४८ - लक्षणेन ये आत्त्वभूताः तेषाम् न स्यात् ।

१९ - ४८ - अथ क्रियमाणे अपि प्रकृतिग्रहणे कथम् इदम् विज्ञायते ।

२० - ४८ - दाधाः प्रकृतयः आहोस्वित् दाधाम् प्रकृतयः इति ।

२१ - ४८ - किम् च अतः ।

२२ - ४८ - यदि विज्ञायते दाधाः प्रकृतयः इति सः एव दोषः ।

२३ - ४८ - आत्त्वभूतानाम् एव स्यात् अनात्त्वभूतानाम् न स्यात् ।

२४ - ४८ - अथ विज्ञायते दाधाम् प्रकृतयः इति अनात्त्वभूतानाम् एव स्यात् आत्त्वभूतानाम् न स्यात् ।

२५ - ४८ - एवम् तर्हि न एवम् विज्ञायते दाधाः प्रकृतयः इति न अपि दाधाम् प्रकृतयः इति ।

२६ - ४८ - कथम् तर्हि ।

२७ - ४८ - दाधाः घुसञ्ज्ञाः भवन्ति प्रकृतयः च एषाम् इति ।

२८ - ४८ - तत् तर्हि प्रकृतिग्रहणम् कर्तव्यम् ।

२९ - ४८ - न कर्तव्यम् ।

३० - ४८ - इदम् प्रकृतम् अर्थग्रहणम् अनुवर्तते ।

३१ - ४८ - क्व प्रकृतम् ।

३२ - ४८ - ईदूतौ च सप्तम्यर्थे इति ।

३३ - ४८ - ततः वक्ष्यामि दाधाः घु अदाप् ।

३४ - ४८ - अर्थे इति ।

३५ - ४८ - न एवम् शक्यम् ।

३६ - ४८ - ददातिना समानार्थान् रातिरासतिदाशतिमंहतिप्रीणातिप्रभृतीन् आहुः ।

३७ - ४८ - एतेषाम् अपि घुसञ्ज्ञा प्राप्नोति ।

३८ - ४८ - तस्मात् न एवम् शक्यम् ।

३९ - ४८ - न चेत् एवम् प्रकृतिग्रहणम् कर्तव्यम् ।

४० - ४८ - शिदर्थेन तावत् न अर्थः प्रकृतिग्रहणेन ।

४१ - ४८ - अवश्यम् तत्र मार्थम् प्रकृतिग्रहणम् कर्तव्यम् प्रणिमयते प्रण्यमयत इति एवमर्थम् ।

४२ - ४८ - तत् पुरस्तात् अपक्रक्ष्यते ॒ घुप्रकृतौ माप्रकृतौ च इति ।

४३ - ४८ - यदि प्रकृतिग्रहणम् क्रियते प्रनिमिनोति प्रनिमीनाति अत्र अपि प्राप्नोति ।

४४ - ४८ - अथ अक्रियमाणे अपि प्रकृतिग्रहणे इह कस्मात् न भवति ॒ प्रनिमाता प्रनिमातुम् इति ।

४५ - ४८ - आकारान्तस्य ङितः ग्रहणम् विज्ञास्यते ।

४६ - ४८ - यथा एव तर्हि अक्रियमाणे प्रकृतिग्रहणे आकारान्तस्य ङितः ग्रहणम् विज्ञायते एवम् क्रियमाणे अपि प्रकृतिग्रहणे आकारान्तस्य ङितः ग्रहणम् विज्ञास्यते ।

४७ - ४८ - विकृतार्थेन च अपि न अर्थः ।

४८ - ४८ - दोषः एव एतस्याः परिभाषायाः लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति गामादाग्रहणेषु अविशेषः इति ।

१ - ३२ - समानशब्दप्रतिषेधः ।

२ - ३२ - समानशब्दानाम् प्रतिषेधः वक्तव्यः ॒ प्रनिदारयति प्रनिधारयति ।

३ - ३२ - दाधाः घुसञ्ज्ञाः भवन्ति इति घुसञ्ज्ञा प्राप्नोति ।

४ - ३२ - समानशब्दाप्रतिषेधः अर्थवद्ग्रहणात् ।

५ - ३२ - समानशब्दानाम् अप्रतिषेधः ।

६ - ३२ - अनर्थकः प्रतिषेधः अप्रतिषेधः ।

७ - ३२ - घुसञ्ज्ञा कस्मात् न भवति ।

८ - ३२ - अर्थवद्ग्रहणात् ।

९ - ३२ - अर्थवतोः दाधोः ग्रहणम् ।

१० - ३२ - न च एतौ अर्थवन्तौ ।

११ - ३२ - अनुपसर्गात् वा ।

१२ - ३२ - अथ वा यत्क्रियायुक्तास् प्रादयः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः ।

१३ - ३२ - न च एतौ दाधौ प्रति क्रियायोगः ।

१४ - ३२ - यदि एवम् इह अपि तर्हि न प्राप्नोति प्रणिदापयति प्रणिधापयति ।

१५ - ३२ - अत्र अपि न एतौ दाधौ अर्थवन्तौ न अपि एतौ दाधौ प्रति क्रियायोगः ।

१६ - ३२ - न वा अर्थवतः हि आगमः तद्गुणीभूतः तद्ग्रहणेन गृह्यते यथा अन्यत्र ।

१७ - ३२ - न वा एषः दोषः ।

१८ - ३२ - किम् कारणम् ।

१९ - ३२ - अर्थवतः आगमः तद्गुणीभूतः अर्थवद्ग्रहणेन गृह्यते यथा अन्यत्र ।

२० - ३२ - तत् यथा ।

२१ - ३२ - अन्यत्र अपि अर्थवतः आगमः अर्थवद्ग्रहणेन गृह्यते ।

२२ - ३२ - क्व अन्यत्र ।

२३ - ३२ - लविता चिकीर्षिता इति ।

२४ - ३२ - युक्तम् पुनः यत् नित्येषु नाम शब्देषु आगमशासनम् स्यात् न नित्येषु शब्देषु कूटस्थैः अविचालिभिः वर्णैः भवितव्यम् अनपायोपजनविकारिभिः ।

२५ - ३२ - आगमः च नाम अपूर्वः शब्दोपजनः ।

२६ - ३२ - अथ युक्तम् यत् नित्येषु शब्देषु आदेशाः स्युः ।

२७ - ३२ - बाढम् युक्तम् ।

२८ - ३२ - शब्दान्तरैः इह भवितव्यम् ।

२९ - ३२ - तत्र शब्दान्तरात् शब्दान्तरस्य प्रतिपत्तिः युक्ता ।

३० - ३२ - आदेशाः तर्हि इमे भविष्यन्ति अनागमकानाम् सागमकाः ।

३१ - ३२ - तत् कथम् ।

३२ - ३२ - सर्वे सर्वपदादेशाः दाक्षीपुत्रस्य पाणिनेः एकदेशविकारे हि नित्यत्वम् न उपपद्यते ।

१ - १८ - दीङः प्रतिषेधः स्थाघ्वोः इत्त्वे ।

२ - १८ - दीङः प्रतिषेधः स्थाघ्वोः इत्त्वे वक्तव्यः ।

३ - १८ - उपादास्त अस्य स्वरः शिक्षकस्य इति ।

४ - १८ - मीनातिमिनोति इति आत्त्वे कृते स्थाघ्वोः इत् च इति इत्त्वम् प्राप्नोति ।

५ - १८ - कुतः पुनः अयम् दोषः जायते ।

६ - १८ - किम् प्रकृतिग्रहणात् आहोस्वित् रूपग्रहणात् ।

७ - १८ - रूपग्रहणात् इति आह ।

८ - १८ - इह खलु प्रकृतिग्रहणात् दोषः जायते ॒ उपदिदीषते ।

९ - १८ - सनि मीमाघुरभलभ इति ।

१० - १८ - न एषः दोषः ।

११ - १८ - दाप्रकृतिः इति उच्यते ।

१२ - १८ - न च इयम् दाप्रकृतिः ।

१३ - १८ - आकारान्तानाम् एजन्ताः प्रकृतयः एजन्तानाम् अपि ईकारान्ताः ।

१४ - १८ - न च प्रकृतिप्रकृतिः प्रकृतिग्रहणेन गृह्यते ।

१५ - १८ - सः तर्हि प्रतिषेधः वक्तव्यः ।

१६ - १८ - न वक्तव्यः ।

१७ - १८ - घुसञ्ज्ञा कस्मात् न भवति ।

१८ - १८ - सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति एवम् न भविष्यति ।

१ - ३४ - दाप्प्रतिषेधे न दैपि अनेजन्तत्वात् ।

२ - ३४ - दाप्प्रतिषेधे दैपि प्रतिषेधः न प्राप्नोति ॒ अवदातम् मुखम् ।

३ - ३४ - ननु च आत्त्वे कृते भविष्यति ।

४ - ३४ - तत् हि आत्त्वम् न प्राप्नोति ।

५ - ३४ - किम् कारणम् ।

६ - ३४ - अनेजन्तत्वात् ।

७ - ३४ - सिद्धम् अनुबन्धस्य अनेकान्तत्वात् । सिद्धम् एतत् ।

८ - ३४ - कथम् ।

९ - ३४ - अनुबन्धस्य अनेकान्तत्वात् ।

१० - ३४ - अनेकान्ताः अनुबन्धाः ।

११ - ३४ - पित्प्रतिषेधात् वा ।

१२ - ३४ - अथ वा दाधाः घु अपित् इति वक्ष्यामि ।

१३ - ३४ - तत् च अवश्यम् वक्तव्यम् ।

१४ - ३४ - अदाप् इति हि उच्यमाने इह अपि प्रसज्येत ॒ प्रणिदापयति इति ।

१५ - ३४ - शक्यम् तावत् अनेन अदाप् इति ब्रुवता बान्तस्य प्रतिषेधः विज्ञातुम् ।

१६ - ३४ - सूत्रम् तर्हि भिद्यते ।

१७ - ३४ - यथान्यासम् एव अस्तु ।

१८ - ३४ - ननु च उक्तम् दप्प्रतिषेधे न दैपि इति ।

१९ - ३४ - परिहृतम् एतत् सिद्धम् अनुबन्धस्य अनेकान्तत्वात् इति ।

२० - ३४ - अथ एकान्तेषु दोषः एव ।

२१ - ३४ - एकान्तेषु च न दोषः ।

२२ - ३४ - आत्त्वे कृते भविष्यति ।

२३ - ३४ - ननु च उक्तम् तत् हि आत्त्वम् न प्राप्नोति ।

२४ - ३४ - किम् कारणम् ।

२५ - ३४ - अनेजन्तत्वात् इति ।

२६ - ३४ - पकारलोपे कृते भविष्यति ।

२७ - ३४ - न हि अयम् तदा दाप् भवति ।

२८ - ३४ - भूतपूर्वगत्या भविष्यति ।

२९ - ३४ - एतत् च अत्र युक्तम् यत् सर्वेषु एव सानुबन्धकग्रहणेषु भूतपूर्वगतिः विज्ञायते ।

३० - ३४ - अनैमित्तिकः हि अनुबन्धलोपः तावति एव भवति ।

३१ - ३४ - अथ वा आचार्यप्रवृत्तिः ज्ञापयति न अनुबन्धकृतम् अनेजन्तत्वम् इति यत् अयम् उदीचाम् माङः व्यतीहारे इति मेङः सानुबन्धकस्य आत्त्वभूतस्य ग्रहणम् करोति ।

३२ - ३४ - अथ वा दाप् एव अयम् न दैप् अस्ति ।

३३ - ३४ - कथम् अवदाययति इति ।

३४ - ३४ - श्यन् विकरणः भविष्यति ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-01-17T19:36:13.6270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

caudex

  • न. स्तंभ मूल 
  • न. Bot. (unbranched trunk) स्तंभमूल 
  • शाखाहीन खोड 
  • अक्ष 
More meanings
RANDOM WORD

Did you know?

स्त्रिया पायात चांदीचे दागिने वापरतात, मग सोन्याचे कां नाही?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.