TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

पाद १ - खण्ड १

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


खण्ड १
१ - १३ - कुत्वम् कस्मात् न भवति चोः कुः पदस्य इति ।

२ - १३ - भत्वात् ।

३ - १३ - कथम् भसञ्ज्ञा ।

४ - १३ - अयस्मयादीनि छन्दसि इति ।

५ - १३ - छन्दसि इति उच्यते ।

६ - १३ - न च इदम् छन्दः ।

७ - १३ - छन्दोवत् सूत्राणि भवन्ति ।

८ - १३ - यदि भसञ्ज्ञा वृद्धिः आद् ऐच् अत् एङ् गुणः इति जश्त्वम् अपि न प्राप्नोति ।

९ - १३ - उभयसञ्ज्ञानि अपि छन्दांसि दृश्यन्ते ।

१० - १३ - तत् यथा ।

११ - १३ - सः सुष्टुभा सः ऋक्वता गणेन ।

१२ - १३ - पदत्वात् कुत्वम् भत्वात् जश्व्तम् न भवति ।

१३ - १३ - एवम् इह अपि भत्वात् कुत्वम् न भविष्यति

१ - २३ - किम् पुनः इदम् तद्भावितग्रहणम् वृद्धिः इति एवम् ये आकारैकारौकाराः भाव्यन्ते तेषाम् ग्रहणम् आहोस्वित् आदैज्मात्रस्य ।

२ - २३ - किम् च अतः ।

३ - २३ - यदि तद्भावितग्रहणम् शालीयः मालीयः इति वृद्धलक्षणः छः न प्राप्नोति ।

४ - २३ - आम्रमयम् शालमयम् वृद्धलक्षणः मयट् न प्राप्नोति ।

५ - २३ - आम्रगुप्तायनिः शालगुप्तयनिः वृद्धलक्षणः फिञ् न प्राप्नोति ।

६ - २३ - अथ ऐज्मात्रस्य ग्रहणम् सर्वः भासः सर्वभासः इति उत्तरपदपदवृद्धौ सर्वम् च इति एषः विधिः प्राप्नोति ।

७ - २३ - इह च तावती भार्या अस्य तावद्भार्यः यावद्भार्यः वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधः प्राप्नोति ।

८ - २३ - अस्तु तर्हि ऐज्मात्रस्य ।

९ - २३ - ननु च उक्तम् सर्वः भासः सर्वभासः इति उत्तरपदपदवृद्धौ सर्वम् च इति एषः विधिः प्राप्नोति ।

१० - २३ - न एषः दोषः ।

११ - २३ - न एवम् विज्ञायते उत्तरपदस्य वृद्धिः उत्तरपदवृद्धिः उत्तरपदवृद्धौ इति ।

१२ - २३ - कथम् तर्हि ।

१३ - २३ - उत्तरपदस्य इति एवम् प्रकृत्य या वृद्धिः तद्वति उत्तरपदे इति एवम् एतत् विज्ञायते ।

१४ - २३ - अवश्यम् च एतत् एवम् विज्ञेयम् ।

१५ - २३ - तद्भावितग्रहणे सति अपि इह प्रसज्येत सर्वः कारकः सर्वकारकः इति ।

१६ - २३ - यद् अपि उच्यते इह तावती भार्या अस्य तावद्भार्यः यावद्भार्यः वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधः प्राप्नोति इति न एषः दोषः ।

१७ - २३ - न एवम् विज्ञायते वृद्धेः निमित्तम् वृद्धिनिमित्तम् वृद्धिनिमित्तस्य इति ।

१८ - २३ - कथम् तर्हि ।

१९ - २३ - वृद्धेः निमित्तम् यस्मिन् सः अयम् वृद्धिनिमित्तः वृद्धिनिमित्तस्य इति ।

२० - २३ - किम् च वृद्धेः निमित्तम्. यः असौ ककारः णकारः ञकारः वा ।

२१ - २३ - अथ वा यः कृत्स्नायाः वृद्धेः निमित्तम् ।

२२ - २३ - कः च कृत्स्नायाः वृद्धेः निमित्तम् ।

२३ - २३ - यः त्रयाणाम् आकारैकारौकाराणाम् ।

१ - १३९ - सञ्ज्ञाधिकारः सञ्ज्ञासम्प्रत्ययार्थः ।

२ - १३९ - अथ सञ्ज्ञा इति प्रकृत्य वृद्ध्यादयः शब्दाः पठितव्याः ।

३ - १३९ - किम् प्रयोजनम् ।

४ - १३९ - सञ्ज्ञासम्प्रत्ययार्थः ।

५ - १३९ - वृद्ध्यादीनाम् शब्दानाम् सञ्ज्ञा इति एषः सम्प्रत्ययः यथा स्यात् ।

६ - १३९ - इतरथा हि असम्प्रत्ययः यथा लोके ।

७ - १३९ - अक्रियमाणे हि सञ्ज्ञाधिकारे वृद्ध्यादीनाम् सञ्ज्ञा इति एषः सम्प्रत्ययः न स्यात् ।

८ - १३९ - इदम् इदानीम् बहुसूत्रम् अनर्थकम् स्यात् ।

९ - १३९ - अनर्थकम् इति आह ।

१० - १३९ - कथम् ।

११ - १३९ - यथा लोके ।

१२ - १३९ - लोके हि अर्थवन्ति च अनर्थकानि च वाक्यानि दृश्यन्ते ।

१३ - १३९ - अर्थवन्ति तावत् देवदत्त गाम् अभ्याज शुक्लाम् दण्डेन ।

१४ - १३९ - देवदत्त गाम् अभ्याज कृष्णाम् इति ।

१५ - १३९ - अनर्थकानि च ।

१६ - १३९ - दश दाडिमानि षट् अपूपाः कुण्डम् अजाजिनम् पललपिण्डः अधोरुकम् एतत् कुमार्याः स्फैयकृतस्य पिता प्रतिशीनः इति ।

१७ - १३९ - सञ्ज्ञासञ्ज्ञ्यसन्देहः च ।

१८ - १३९ - क्रियमाणे अपि सञ्ज्ञाधिकारे सञ्ज्ञासञ्ज्ञिनोः असन्देहः वक्तव्यः ।

१९ - १३९ - कुतः हि एतत् वृद्धिशब्दः सञ्ज्ञा आदैचः सञ्ज्ञिनः इति ।

२० - १३९ - न पुनः आदैचः सञ्ज्ञा वृद्धिशब्दः सञ्ज्ञी इति ।

२१ - १३९ - यत् तावत् उच्यते सञ्ज्ञाधिकारः कर्तव्यः सञ्ज्ञासम्प्रत्ययार्थः इति न कर्तव्यः ।

२२ - १३९ - आचार्याचारात् सञ्ज्ञासिद्धिः ।

२३ - १३९ - आचार्याचारात् सञ्ज्ञासिद्धिः भविष्यति ।

२४ - १३९ - किम् इदम् आचार्याचारात् ।

२५ - १३९ - आचार्याणाम् उपचारात् ।

२६ - १३९ - यथा लौकिकवैदिकेषु ।

२७ - १३९ - तत् यथा लौकिकेषु वैदिकेषु च कृतान्तेषु ।

२८ - १३९ - लोके तावत् मातापितरौ पुत्रस्य जातस्य संवृते अवकाशे नाम कुर्वाते देवदत्तः यज्ञदत्तः इति ।

२९ - १३९ - तयोः उपचारात् अन्ये अपि जानन्ति इयम् अस्य सञ्ज्ञा इति ।

३० - १३९ - वेदे याज्ञिकाः सञ्ज्ञाम् कुर्वन्ति स्फ्यः यूपः चषालः इति ।

३१ - १३९ - तत्रभवताम् उपचारात् अन्ये अपि जानन्ति इयम् अस्य सञ्ज्ञा इति ।

३२ - १३९ - अपरे पुनः सिचि वृद्धिः इति उक्त्वा आकारैकारौकारान् उदाहरन्ति ।

३३ - १३९ - ते मन्यामहे यया प्रत्याय्यन्ते सा सञ्ज्ञा ये प्रतीयन्ते ते सञ्ज्ञिनः इति ।

३४ - १३९ - यत् अपि उच्यते क्रियमाणे अपि सञ्ज्ञाधिकारे सञ्ज्ञासञ्ज्ञिनोः असन्देहः वक्तव्यः इति ।

३५ - १३९ - सञ्ज्ञासञ्ज्ञ्यसन्देहः ।

३६ - १३९ - सञ्ज्ञासञ्ज्ञिनोः असन्देहः सिद्धः ।

३७ - १३९ - कुतः ।

३८ - १३९ - आचार्याचारात् एव ।

३९ - १३९ - उक्तः आचार्याचारः ।

४० - १३९ - अनाकृतिः ।

४१ - १३९ - अथ वा अनाकृतिः सञ्ज्ञा ।

४२ - १३९ - आकृतिमन्तः सञ्ज्ञिनः ।

४३ - १३९ - लोके अपि हि आक्र्तिमतः मांसपिण्डस्य देवदत्तः इति सञ्ज्ञा क्रियते ।

४४ - १३९ - लिङ्गेन वा ।

४५ - १३९ - अथ वा किम् चित् लिङ्गम् आसज्य वक्ष्यामि इत्थंलिङ्गा सञ्ज्ञा इति ।

४६ - १३९ - वृद्धिशब्दे च तत् लिङ्गम् करिष्यते न आदैच्छब्दे ।

४७ - १३९ - इदम् तावत् अयुक्तम् यत् उच्यते आचार्याचारात् इति ।

४८ - १३९ - किम् अत्र अयुक्तम् ।

४९ - १३९ - तम् एव उपालभ्य अगमकम् ते सूत्रम् इति तस्य एव पुनः प्रमाणीकरणम् इति एतत् अयुक्तम् ।

५० - १३९ - अपरितुष्यन् खलु अपि भवान् अनेन परिहारेण आकृतिः लिङ्गेन वा इति आह ।

५१ - १३९ - तत् च अपि वक्तव्यम् ।

५२ - १३९ - यदि अपि एतत् उच्यते अथ वा एतर्हि इत्सञ्ज्ञा न वक्तव्या लोपः च न वक्तव्यः ।

५३ - १३९ - सञ्ज्ञालिङ्गम् अनुबन्धेषु करिष्यते ।

५४ - १३९ - न च सञ्ज्ञायाः निवृत्तिः उच्यते ।

५५ - १३९ - स्वभावतः सञ्ज्ञाः सञ्ज्ञिनः प्रत्याय्य निवर्तन्ते ।

५६ - १३९ - तेन अनुबन्धानाम् अपि निवृत्तिः भविष्यति ।

५७ - १३९ - सिध्यति एवम् ।

५८ - १३९ - अपाणिनीयम् तु भवति ।

५९ - १३९ - यथान्यासम् एव अस्तु ।

६० - १३९ - ननु च उक्तम् सञ्ज्ञाधिकारः सञ्ज्ञासम्प्रत्ययार्थः इतरथा हि असम्प्रत्ययः यथा लोके इति ।

६१ - १३९ - न यथा लोके तथा व्याकरणे ।

६२ - १३९ - प्रमाणभूतः आचार्यः दर्भपवित्रपाणिः शुचौ अवकाशे प्राङ्मुखः उपविश्य महता यत्नेन सूत्रम् प्रणयति स्म ।

६३ - १३९ - तत्र अशक्यम् वर्णेन अपि अनर्थकेन भवितुम् किम् पुनः इयता सूत्रेण ।

६४ - १३९ - किम् अतः यत् अशक्यम् ।

६५ - १३९ - अतः सञ्ज्ञासञ्ज्ञिनौ एव ।

६६ - १३९ - कुतः नु खलु एतत् सञ्ज्ञासञ्ज्ञिनौ एव इति न पुनः साध्वनुशासने अस्मिन् शास्त्रे साधुत्वम् अनेन किर्यते ।

६७ - १३९ - कृतम् अनयोः साधुत्वम् ।

६८ - १३९ - कथम् ।

६९ - १३९ - वृधिः अस्मै अविशेषेण उपदिष्टः प्रकृतिपाठे ।

७० - १३९ - तस्मात् क्तिन्प्रत्ययः ।

७१ - १३९ - आदैचः अपि अक्षरसमाम्नाये उपदिष्टाः ।

७२ - १३९ - प्रयोगनियमार्थम् तर्हि इदम् स्यात् ।

७३ - १३९ - वृद्धिशब्दात् परः आदैचः प्रयोक्तव्याः इति ।

७४ - १३९ - न इह प्रयोगनियमः आरभ्यते ।

७५ - १३९ - किम् तर्हि ।

७६ - १३९ - संस्कृत्य संस्कृत्य पदानि उत्सृज्यन्ते ।

७७ - १३९ - तेषाम् यथेष्ठम् अभिसम्बन्धः भवति ।

७८ - १३९ - तत् यथा आहर पात्रम्, पात्रम् आहर इति ।

७९ - १३९ - आदेशाः तर्हि इमे स्युः ।

८० - १३९ - वृद्धिशब्दस्य आदैचः ।

८१ - १३९ - षष्ठीनिर्दिष्टस्य आदेशाः उच्यन्ते न च अत्र षष्ठीम् पश्यामः ।

८२ - १३९ - आगमाः तर्हि इमे स्युः ।

८३ - १३९ - वृद्धिशब्दस्य आदैचः आगमाः ।

८४ - १३९ - आगमाः अपि षष्ठीनिर्दिष्टस्य एव उच्यन्ते लिङ्गेन च ।

८५ - १३९ - न च अत्र षष्ठीम् न खलु अपि आगमलिङ्गम् पश्यामः ।

८६ - १३९ - इदम् खलु अपि भूयः सामनाधिकरण्यम् एकविभक्तिकत्वम् च ।

८७ - १३९ - द्वयोः च एतत् भवति ।

८८ - १३९ - कयोः ।

८९ - १३९ - विशेषणविशेष्ययोः वा सञ्ज्ञासञ्ज्ञिनोः वा ।

९० - १३९ - तत्र एतत् स्यात् विशेषणविशेष्ये इति ।

९१ - १३९ - तत् च न ।

९२ - १३९ - द्वयोः हि प्रतीत्पदार्थकयोः लोके विशेषणविशेष्यभावः भवति ।

९३ - १३९ - न च आदैच्छब्दः प्रतीतपदार्थकः ।

९४ - १३९ - तस्मात् सञ्ज्ञासञ्ज्ञिनौ एव ।

९५ - १३९ - तत्र तु एतावान् सन्देधः कः सञ्ज्ञी का सञ्ज्ञा इति ।

९६ - १३९ - सः च अपि क्व सन्देहः ।

९७ - १३९ - यत्र उभे समानाक्षरे ।

९८ - १३९ - यत्र तु अन्यतरत् लघु यत् लघु सा सञ्ज्ञा ।

९९ - १३९ - कुतः एतत् ।

१०० - १३९ - लघ्वर्थम् हि सञ्ज्ञाकरणम् ।

१०१ - १३९ - तत्र अपि अयम् न अवश्यम् गुरुलघुताम् एव उपलक्षयितुम् अर्हति ।

१०२ - १३९ - किम् तर्हि ।

१०३ - १३९ - अनाकृतिताम् अपि ।

१०४ - १३९ - अनाकृतिः सञ्ज्ञा ।

१०५ - १३९ - आकृतिमन्तः सञ्ज्ञिनः ।

१०६ - १३९ - लोके हि आकृतिमतः मांसपिण्डस्य देवदत्तः इति सञ्ज्ञा क्रियते ।

१०७ - १३९ - अथ वा आवर्तिन्यः सञ्ज्ञाः भवन्ति ।

१०८ - १३९ - वृद्धिशब्दः च आवर्तते न आदैच्छब्दः ।

१०९ - १३९ - तत् यथा ।

११० - १३९ - इतरत्र अपि देवदत्तशब्दः आवर्तते न मांसपिण्डः ।

१११ - १३९ - अथ वा पूर्वोच्चारितः सञ्ज्ञी परोच्चारिता सञ्ज्ञा ।

११२ - १३९ - कुतः एतत् ।

११३ - १३९ - सतः हि कार्यिणः कार्येण भवितव्यम् ।

११४ - १३९ - तत् यथा ।

११५ - १३९ - इतरत्र अपि सतः मांसपिण्डस्य देवदत्तः इति सञ्ज्ञा क्रियते ।

११६ - १३९ - कथम् वृद्धिः आत् ऐच् इति ।

११७ - १३९ - एतत् एकम् आचार्यस्य मङ्गलार्थम् मृष्यताम् ।

११८ - १३९ - माङ्गलिकः आचार्यः महतः शास्त्रौघस्य मङ्गलार्थम् वृद्धिशबम् आदितः प्रयुङ्क्ते ।

११९ - १३९ - मङ्गलादीनि हि शास्त्राणि प्रथन्ते वीरपुरुषकाणि च भवन्ति आयुष्मत्पुरुषकाणि च ।

१२० - १३९ - अध्येतारः च सिद्धार्थाः यथा स्युः इति ।

१२१ - १३९ - सर्वत्र एव हि व्याकरणे पूर्वोच्चारितः सञ्ज्ञी परोच्चारिता सञ्ज्ञा ।

१२२ - १३९ - अत् एङ् गुणः इति यथा ।

१२३ - १३९ - दोषवान् खलु अपि सञ्ज्ञाधिकारः ।

१२४ - १३९ - अष्टमे अपि हि सञ्ज्ञा क्रियते तस्य परम् आम्रेडितम् इति ।

१२५ - १३९ - तत्र अपि इदम् अनुवर्त्यम् स्यात् ।

१२६ - १३९ - अथ वा अस्थाने अयम् यत्नः क्रियते ।

१२७ - १३९ - न हि इदम् लोकात् भिद्यते ।

१२८ - १३९ - यदि इदम् लोकात् भिद्येत ततः यत्नार्हम् स्यात् ।

१२९ - १३९ - तत् यथा अगोज्ञाय कः चित् गाम् सक्थनि कर्णे वा गृहीत्वा उपदिशति अयम् गौः इति ।

१३० - १३९ - न च अस्मै आचष्टे इयम् अस्य सञ्ज्ञा इति ।

१३१ - १३९ - भवति च अस्य सम्प्रत्ययः ।

१३२ - १३९ - तत्र एतत् स्यात् कृतः पूर्वैः अभिसम्बन्धः इति ।

१३३ - १३९ - इह अपि कृतः पूर्वैः अभिसम्बन्धः ।

१३४ - १३९ - कैः ।

१३५ - १३९ - आचार्यैः ।

१३६ - १३९ - तत्र एतत् स्यात् ।

१३७ - १३९ - यस्मै सम्प्रति उपदिशति तस्य अकृतः इति ।

१३८ - १३९ - लोके अपि यस्मै सम्प्रति उपदिशति तस्य अकृतः ।

१३९ - १३९ - अथ तत्र कृतः इह अपि कृतः द्रष्टव्यः ।

१ - ३० - सतः वृद्ध्यादिषु सञ्ज्ञाभावात् तदाश्रये इतरेतराश्रयत्वात् असिद्धिः ।

२ - ३० - सतः सञ्ज्ञिनः सञ्ज्ञाभावात् सञ्ज्ञाश्रये सञ्ज्ञिनि वृद्ध्यादिषु इतरेतराश्रयत्वात् अप्रसिद्धिः ।

३ - ३० - का इतेरेतराश्रयता ।

४ - ३० - सताम् आदैचाम् सञ्ज्ञया भवितव्यम् सञ्ज्ञया च आदैचः भाव्यन्ते ।

५ - ३० - तत् इतरेतराश्रयम् भवति, इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते ।

६ - ३० - तत् यथा ।

७ - ३० - नौः नावि बद्धा न इतरत्राणाय भवति. ननु च भोः इतरेतराश्रयाणि अपि कार्याणि दृश्यन्ते ।

८ - ३० - तत् यथा ।

९ - ३० - नौः शकटम् वहति शकटम् च नावम् वहति ।

१० - ३० - अन्यत् अपि तत्र किम् चित् भवति जलम् स्थलम् वा ।

११ - ३० - स्थले शकटम् नावम् वहति ।

१२ - ३० - जले नौः शकटम् वहति ।

१३ - ३० - यथा तरि त्रिविष्टब्धकम् ।

१४ - ३० - तत्र अपि अन्ततः सूत्रकम् भवति ।

१५ - ३० - इदम् पुनः इतरेतराश्रयम् एव ।

१६ - ३० - सिद्धम् तु नित्यशब्दत्वात् ।

१७ - ३० - सिद्धम् एतत् ।

१८ - ३० - कथम् ।

१९ - ३० - नित्यशब्दत्वात् ।

२० - ३० - नित्याः शब्दाः ।

२१ - ३० - नित्येषु शब्देषु सताम् आदैचाम् सञ्ज्ञा क्रियते ।

२२ - ३० - न सञ्ज्ञया आदैचः भाव्यन्ते ।

२३ - ३० - यदि तर्हि नित्याः शब्दाः किमर्थम् शास्त्रम् ।

२४ - ३० - किमर्थम् शास्त्रम् इति चेत् निवर्तकत्वात् सिद्धम् ।

२५ - ३० - निवर्तकम् शास्त्रम् ।

२६ - ३० - कथम् ।

२७ - ३० - मृजिः अस्मै अविशेषेण उपदिष्टः ।

२८ - ३० - तस्य सर्वत्र मृजिबुद्धिः प्रसक्ता ।

२९ - ३० - तत्र अनेन निवृत्तिः क्रियते ।

३० - ३० - मृजेः अक्ङित्सु प्रत्ययेषु मृजिप्रसङ्गे मार्जिः साधुः भवति इति ।

१ - २१ - प्रत्येकम् वृद्धिगुणसञ्ज्ञे भवतः इति वक्तव्यम् ।

२ - २१ - किम् प्रयोजनम् ।

३ - २१ - समुदाये मा भूताम् इति ।

४ - २१ - अन्यत्र सहवचनात् समुदाये सञ्ज्ञाप्रसङ्गः ।

५ - २१ - अन्यत्र सहवचनात् समुदाये वृद्धिगुणसञ्ज्ञयोः अप्रसङ्गः ।

६ - २१ - यत्र इच्छति सहभूतानाम् कार्यम् करोति तत्र सहग्रहणम् ।

७ - २१ - तत् यथा ।

८ - २१ - सह सुपा ।

९ - २१ - उभे अभ्यस्तम् सह इति ।

१० - २१ - प्रत्यवयवम् च वाक्यपरिसमाप्तेः ।

११ - २१ - प्रत्यवयवम् च वाक्यपरिसमाप्तिः दृश्यते ।

१२ - २१ - तत् यथा ।

१३ - २१ - देवदत्तयज्ञदत्तविष्णुमित्राः भोज्यन्ताम् इति ।

१४ - २१ - न च उच्यते प्रत्येकम् इति ।

१५ - २१ - प्रत्येकम् च भुजिः परिसमाप्यते ।

१६ - २१ - ननु च अयम् अपि अस्ति दृष्टान्तः समुदाये वाक्यपरिसमाप्तिः इति ।

१७ - २१ - तत् यथा ।

१८ - २१ - गर्गाः शतम् दण्ड्यन्ताम् इति ।

१९ - २१ - अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकम् दण्डयन्ति ।

२० - २१ - सति एतस्मिन् दृष्टान्ते यदि तत्र सहग्रहणम् क्रियते इह अपि प्रत्येकम् इति वक्तव्यम् ।

२१ - २१ - अथ तत्र अन्तरेण सहग्रहणम् सहभूतानाम् कार्यम् भवति इह अपि न अर्थः प्रत्येकम् इति वचनेन ।

१ - ६८ - अथ किमर्थम् आकारः तपरः क्रियते ।

२ - ६८ - आकारस्य तपरकरणम् सवर्णार्थम् ।

३ - ६८ - आकारस्य तपरकरणम् क्रियते ।

४ - ६८ - किम् प्रयोजनम् ।

५ - ६८ - सवर्णार्थम् ।

६ - ६८ - तपरः तत्कालस्य इति तत्कालानाम् ग्रहणम् यथा स्यात् ।

७ - ६८ - केषाम् ।

८ - ६८ - उदात्तानुन्दात्तस्वरितानाम् ।

९ - ६८ - किम् च कारणम् न स्यात् ।

१० - ६८ - भेदकत्वात् स्वरस्य ।

११ - ६८ - भेदकाः उदात्तादयः ।

१२ - ६८ - कथम् पुनः ज्ञायते भेदकाः उदात्तादयः इति ।

१३ - ६८ - एवम् हि दृश्यते लोके ।

१४ - ६८ - यः उदात्ते कर्तव्ये अनुदात्तम् करोति खण्डिकोपाध्यायः तस्मै चपेटाम् ददाति अन्यत् त्वम् करोषि इति ।

१५ - ६८ - अस्ति प्रयोजनम् एतत् ।

१६ - ६८ - किम् तर्हि इति ।

१७ - ६८ - भेदकत्वात् गुणस्य इति वक्तव्यम् ।

१८ - ६८ - किम् प्रयोजनम् ।

१९ - ६८ - आनुनासिक्यम् नाम गुणः ।

२० - ६८ - तद्भिन्नस्य अपि यथा स्यात् ।

२१ - ६८ - किम् च कारणम् न स्यात् ।

२२ - ६८ - भेदकत्वात् गुणस्य ।

२३ - ६८ - भेदकाः गुणाः ।

२४ - ६८ - कथम् पुनः ज्ञायते भेदकाः गुणाः इति ।

२५ - ६८ - एवम् हि दृश्यते लोके ।

२६ - ६८ - एकः अयम् आत्मा उदकम् नाम ।

२७ - ६८ - तस्य गुणभेदात् अन्यत्वम् भवति अन्यत् इदम् शीतम् अन्यत् इदम् ऊष्णम् इति ।

२८ - ६८ - ननु च भोः अभेदकाः अपि गुणाः दृश्यन्ते ।

२९ - ६८ - तत् यथा ।

३० - ६८ - देवदत्तः मुण्डी अपि जटी अपि शिखी अपि स्वाम् आख्याम् न जहाति ।

३१ - ६८ - तथा बालः युवा वृद्धः वत्सः दम्यः बलीवर्दः इति ।

३२ - ६८ - उभयम् इदम् गुणेषु उक्तम् भेदकाः अभेदकाः इति ।

३३ - ६८ - किम् पुनः अत्र न्याय्यम् ।

३४ - ६८ - अभेदकाः गुणाः इति एव न्याय्यम् ।

३५ - ६८ - कुतः एतत् ।

३६ - ६८ - यत् अयम् अस्थिदधिसक्थ्यक्ष्णाम् अनङ् उदात्तः इति उदात्तग्रहणम् करोति ।

३७ - ६८ - यदि भेदकाः गुणाः स्युः उदात्तम् एव उच्चारयेत् ।

३८ - ६८ - यदि तर्हि अभेदकाः गुणाः अनुदात्तादेः अन्तोदात्तात् च यत् उच्यते तत् स्वरितादेः स्वरितान्तात् च प्राप्नोति ।

३९ - ६८ - न एषः दोषः ।

४० - ६८ - आश्रीयमाणः गुणः भेदकः भवति ।

४१ - ६८ - तत् यथा ।

४२ - ६८ - शुक्लम् आलभेत ।

४३ - ६८ - कृष्णम् आलभेत ।

४४ - ६८ - तत्र यः शुक्ले आलब्धव्ये कृष्णम् आलभेत न हि तेन यथोक्तम् कृतम् भवति ।

४५ - ६८ - असन्देहार्थः तर्हि तकारः ।

४६ - ६८ - ऐच् इति उच्यमने सन्देहः स्यात् ।

४७ - ६८ - किम् इमौ ऐचौ एव आहोस्वित् आकारः अपि अत्र निर्दिश्यते इति ।

४८ - ६८ - सन्देहमात्रम् एतत् भवति ।

४९ - ६८ - सर्वसन्देहेषु च इदम् उपतिष्ठते व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहात् अलक्षणम् इति ।

५० - ६८ - त्रयाणाम् ग्रहणम् इति व्याख्यास्यामः ।

५१ - ६८ - अन्यत्र अपि हि अयम् एवञ्जातीयकेषु सन्देहेषु न कम् चिद् यत्नम् करोति ।

५२ - ६८ - तत् यथा ।

५३ - ६८ - औतः अम्शसोः इति ।इदम् तर्हि प्रयोजनम् आन्तर्यतः त्रिमात्रचतुर्नात्राणाम् स्थानिनाम् त्रिमात्रचतुर्मात्राः आदेशाः मा भूवन् इति खट्वा* इन्द्रः खट्वेन्द्रः, खट्वा* उदकम् खट्वोदकम्, खट्वा* ईषा खट्वेषा खट्वा* ऊढा खट्वोढा खट्वा* एलका खट्वैलका खट्वा* ओदनः, खट्वौदनः, खट्वा* ऐतिकायनः, खट्वैतिकायनः, खट्वा* औपगवः, खट्वौपगवः इति ।

५४ - ६८ - अथ क्रियमाणे अपि तकारे कस्मात् एव त्रिमात्रचतुर्नात्राणाम् स्थानिनम् त्रिमात्रचतुर्मात्राः आदेशाः न भवन्ति ।

५५ - ६८ - तपरः तत्कालस्य इति नियमात् ।

५६ - ६८ - ननु तः परः यस्मात् सः अयम् तपरः ।

५७ - ६८ - न इति आह ।

५८ - ६८ - तात् अपि परः तपरः इति ।

५९ - ६८ - यदि तात् अपि परः तपरः ऋ̄दोः अप् इति इह एव स्यात् ।

६० - ६८ - यवः स्तवः ।

६१ - ६८ - लवः पवः इति अत्र न स्यात् ।

६२ - ६८ - न एषः तकारः ।

६३ - ६८ - कः तर्हि ।

६४ - ६८ - दकारः ।

६५ - ६८ - किम् दकारे प्रयोजनम् ।

६६ - ६८ - अथ किम् तकारे प्रयोजनम् ।

६७ - ६८ - यदि असन्देहार्थः तकारः दकारः अपि ।

६८ - ६८ - अथ मुखसुखार्थः तकारः दकारः अपि ।

१ - ८० - इग्ग्रहणम् किमर्थम् ।

२ - ८० - इग्ग्रहणम् आत्सन्ध्यक्षरव्यञ्जननिवृत्त्यर्थम् । इग्ग्रहणम् क्रियते आकारनिवृत्त्यर्थम् सन्ध्यक्षरनिवृत्त्यर्थम् व्यञ्जननिवृत्त्यर्थम् च. आकारनिवृत्त्यर्थम् तावत् ।

३ - ८० - याता वाता ।

४ - ८० - आकारस्य गुणः प्राप्नोति ।

५ - ८० - इग्ग्रहणात् न भवति ।

६ - ८० - सन्ध्यक्षरनिवृत्त्यर्थम् ।

७ - ८० - ग्लायति म्लायति ।

८ - ८० - सन्ध्यक्षरस्य गुणः प्राप्नोति ।

९ - ८० - इग्ग्रहणात् न भवति ।

१० - ८० - व्यञ्जननिवृत्त्यर्थम् ।

११ - ८० - उम्भिता, उम्भितुम् उम्भितव्यम् ।

१२ - ८० - व्यञ्जनस्य गुणः प्राप्नोति ।

१३ - ८० - इग्ग्रहणात् न भवति ।

१४ - ८० - आकारनिवृत्त्यर्थेन तावत् नार्थः ।

१५ - ८० - आचार्यप्रवृत्तिः ज्ञापयति न आकारस्य गुणः भवति इति यत् अयम् आतः अनुपसर्गे कः इति ककारम् अनुबन्धम् करोति ।

१६ - ८० - कथम् कृत्वा ज्ञापकम् ।

१७ - ८० - कित्करणे एतत् प्रयोजनम् किति इति आकारलोपः यथा स्यात् ।

१८ - ८० - यदि च आकारस्य गुणः स्यात् कित्करणम् अनर्थकम् स्यात् ।

१९ - ८० - गुणे कृते द्वयोः अकारयोः पररूपेण सिद्धम् रूपम् स्यात् गोदः, कम्बलदः इति ।

२० - ८० - पश्यति तु आचार्यः न आकारस्य गुणः भवति इति ।

२१ - ८० - ततः ककारम् अनुबन्धम् करोति ।

२२ - ८० - सन्ध्यक्षरार्थेन अपि न अर्थः ।

२३ - ८० - उपदेशसामर्थ्यात् सन्ध्यक्षरस्य गुणः न भविष्यति ।

२४ - ८० - व्यञ्जननिवृत्त्यर्थेन अपि न अर्थः ।

२५ - ८० - आचार्यप्रवृत्तिः ज्ञापयति न व्यञ्जनस्य गुणः भवति इति यत् अयम् जनेः डम् शास्ति ।

२६ - ८० - कथम् कृत्वा ज्ञापकम् ।

२७ - ८० - डित्करणे एतत् प्रयोजनम् डिति इति टिलोपः यथा स्यात् ।

२८ - ८० - यदि व्यञ्जन्स्य गुणः स्यात् डित्करणम् अनर्थकम् स्यात् ।

२९ - ८० - गुणे कृते त्रयाणाम् अकाराणाम् पररूपेण सिद्धम् रूपम् स्यात् उपसरजः, मन्दुरजः इति ।

३० - ८० - पश्यति तु आचार्यः न व्यञ्जनस्य गुणः भवति इति ।

३१ - ८० - ततः जनेः डम् शास्ति. न एतानि सन्ति प्रयोजनानि ।

३२ - ८० - यत् तावत् उच्यते कित्करणम् ज्ञापकम् आकारस्य गुणः न भवति इति ।

३३ - ८० - उत्तरार्थम् एतत् स्यात् ।

३४ - ८० - तुन्दशोकयोः परिमृजापनुदोः इति ।

३५ - ८० - यत् तर्हि गापोः ठक् इति अनन्यार्थम् ककारम् अनुबन्धम् करोति ।

३६ - ८० - यत् अपि उच्यते उपदेशसामर्थ्यात् सन्ध्यक्षरस्य गुणः न भवति इति ।

३७ - ८० - यदि यत् यत् सन्ध्यक्षरस्य प्राप्नोति तत् तत् उपदेशसामर्थ्यात् बाध्यते आयादयः अपि तर्हि न प्राप्नुवन्ति ।

३८ - ८० - न एषः दोषः ।

३९ - ८० - यम् विधिम् प्रति उपदेशः अनर्थकः स विधिः बाध्यते ।

४० - ८० - यस्य तु विधेः निमित्तम् एव न असौ बाध्यते ।

४१ - ८० - गुणम् च प्रति उपदेशः अनर्थकः आयादीनाम् पुनः निमित्तम् एव ।

४२ - ८० - यत् अपि उच्यते जनेः डवचनम् ज्ञापकम् न व्यञ्जनस्य गुणः भवति इति ।

४३ - ८० - सिद्धे विधिः आरभ्यमाणः ज्ञापकार्थः भवति ।

४४ - ८० - न च जनेः गुणेन सिध्यति ।

४५ - ८० - कुतः हि एतत् जनेः गुणः उच्यमानः अकारः भवति न पुनः एकारः वा स्यात् ओकारः वा इति ।

४६ - ८० - आन्तर्यतः अर्धमात्रिकस्य व्यञ्जनस्य मात्रिकः अकारः भविष्यति ।

४७ - ८० - एवम् अपि अनुनासिकः प्राप्नोति ।

४८ - ८० - पररूपेण शुद्धः भविष्यति ।

४९ - ८० - एवम् तर्हि गमेः अपि अयम् डः वक्तव्यः ।

५० - ८० - गमेः च गुणः उच्यमानः आन्तर्यतः ओकारः प्राप्नोति ।

५१ - ८० - तस्मात् इग्ग्रहणम् कर्तव्यम् ।

५२ - ८० - यदि इग्ग्रहणम् क्रियते द्यौः, पन्थाः, सः, इमम् इते एते अपि इकः प्राप्नुवन्ति ।

५३ - ८० - सञ्ज्ञया विधाने नियमः ।

५४ - ८० - सञ्ज्ञया ये विधीयन्ते तेषु नियमः ।

५५ - ८० - किम् वक्तव्यम् एतत् ।

५६ - ८० - न हि ।

५७ - ८० - कथम् अनुच्यमानम् गंस्यते ।

५८ - ८० - गुणवृद्धिग्रहणसामर्थ्यात् ।

५९ - ८० - कथम् पुनः अन्तरेण गुणवृद्धिग्रहणम् इकः गुणवृद्धी स्याताम् ।

६० - ८० - प्रकृतम् गुणवृद्धिग्रहणम् अनुवर्तते ।

६१ - ८० - क्व प्रकृतम् ।

६२ - ८० - वृद्धिः आत् ऐच् अत् एङ् गुणः इति ।

६३ - ८० - यदि तत् अनुवर्तते अत् एङ् गुणः वृद्धिः च इति अदेङाम् अपि वृद्धिसञ्ज्ञा प्राप्नोति ।

६४ - ८० - सम्बन्धम् अनुवर्तिष्यते ।

६५ - ८० - वृद्धिः आत् ऐच् ।

६६ - ८० - अत् एङ् गुणः वृद्धिः आत् ऐच् ।

६७ - ८० - ततः इकः गुणवृद्धी इति ।

६८ - ८० - गुणवृद्धिग्रहणम् अनुवर्तते आदैज्ग्रहणम् निवृत्तम् ।

६९ - ८० - अथ वा मण्डूकगतयः अधिकाराः ।

७० - ८० - यथा मण्डूकाः उत्प्लुत्य उत्प्लुत्य गच्छन्ति तद्वत् अधिकाराः ।

७१ - ८० - अथ वा एकयोगः करिष्यते वृद्धिः आत् ऐच् अत् एङ् गुणः इति ।

७२ - ८० - ततः इको गुणवृद्धी इति ।

७३ - ८० - न च एकयोगे अनुवृत्तिः भवति ।

७४ - ८० - अथ वा अन्यवचनात् चकाराकरणात् प्रकृतापवादः विज्ञायते यथा उत्सर्गेण प्रसक्तस्य अपवादः बाधकः भवति ।

७५ - ८० - अन्यस्याः सञ्ज्ञायाः वचनात् चकारस्य अनुकर्षणार्थस्य अकरणात् प्रकृतायाः वृद्धिसञ्ज्ञायाः गुणसञ्ज्ञ बाधिका भविष्यति यथा उत्सर्गेण प्रसक्तस्य अपवादः बाधकः भवति ।

७६ - ८० - अथ वा वक्ष्यति एतत् ।

७७ - ८० - अनुवर्तन्ते च नाम विधयः न च अनुवर्तनात् एव भवन्ति ।

७८ - ८० - किम् तर्हि यत्नात् भवन्ति ।

७९ - ८० - अथ वा उभयम् निवृत्तम् ।

८० - ८० - तत् अपेक्षिष्यामहे ।


१ - १२३ - किम् पुनः अयम् अलोन्त्यशेषः आहोस्वित् अलोन्त्यापवादः ।

२ - १२३ - कथम् च अयम् तच्छेषः स्यात् कथम् वा तदपवादः ।

३ - १२३ - यदि एकम् वाक्यम् तत् च इदम् च अलः अन्त्यस्य विधयः भवन्ति इकः गुणवृद्धी* अलः अन्त्यस्य इति ततः अयम् तच्छेषः ।

४ - १२३ - अथ नाना वाक्यम् अलः अन्त्यस्य विधयः भवन्ति, इकः गुणवृद्धी* अन्त्यस्य च अनन्त्यस्य च इति ततः अयम् तदपवादः ।

५ - १२३ - कः च अत्र विशेषः ।

६ - १२३ - वृद्धिगुणौ अलः अन्त्यस्य इति चेत् मिदिपुगन्तलघूपधर्च्छिदृशिक्षिप्रक्षुद्रेषु इग्ग्रहणम् ।

७ - १२३ - वृद्धिगुणौ अलः अन्त्यस्य इति चेत् मिदिपुगन्तलघूपधर्च्छिदृशिक्षिप्रक्षुद्रेषु इग्ग्रहणम् कर्तव्यम् ।

८ - १२३ - मिदेः गुणः इकः इति वक्तव्यम् ।

९ - १२३ - अनन्त्यत्वात् हि न प्राप्नोति ।

१० - १२३ - पुगन्तलघूपधस्य गुणः इकः इति वक्तव्यम् ।

११ - १२३ - अनन्त्यत्वात् हि न प्राप्नोति ।

१२ - १२३ - ऋच्छेः लिटि गुणः इकः इति वक्तव्यम् ।

१३ - १२३ - अनन्त्यत्वात् हि न प्राप्नोति ।

१४ - १२३ - ऋदृसः अङि गुणः इकः इति वक्तव्यम् ।

१५ - १२३ - अनन्त्यत्वात् हि न प्राप्नोति ।

१६ - १२३ - क्षिप्रक्षुद्रयोः गुणः इकः इति वक्तव्यम् ।

१७ - १२३ - अनन्त्यत्वात् हि न प्राप्नोति ।

१८ - १२३ - सर्वादेशप्रसङ्गः च अनिगन्तस्य ।

१९ - १२३ - सर्वादेशः च गुणः च अनिगन्तस्य प्राप्नोति याता वाता ।

२० - १२३ - किम् कारणम् ।

२१ - १२३ - अलः अन्त्यस्य इति षष्ठी च एव हि अन्त्यम् इकम् उपसङ्क्रान्ता, अङ्गस्य इति च स्थानषष्ठी ।

२२ - १२३ - तत् यत् इदानीम् अनिगन्तम् अङ्गम् तस्य गुणः सर्वादेशः प्राप्नोति ।

२३ - १२३ - न एषः दोषः ।

२४ - १२३ - यथा एव हि अलः अन्त्यस्य इति षष्ठी अन्त्यम् इकम् उपसङ्क्रान्ता एवम् अङ्गस्य इति अपि स्थानषष्ठी ।

२५ - १२३ - तत् यद् इदानीम् अनिगन्तम् अङ्गम्, तत्र षष्ठी एव न अस्ति कुतः गुणः कुतः सर्वादेशः ।

२६ - १२३ - एवम् तर्हि न अयम् दोषसमुच्चयः ।

२७ - १२३ - किम् तर्हि ।

२८ - १२३ - पूर्वापेक्षः अयम् दोषः, ह्यर्थे च अयम् चः पठितः ।

२९ - १२३ - मिदिपुगन्तलघूपधर्च्छिदृशिक्षिप्रक्षुद्रेषु इग्ग्रहणम् सर्वादेशप्रसङ्गः हि अनिगन्तस्य इति ।

३० - १२३ - मिदेः गुणः इकः इति वचनात् अन्त्यस्य न ।

३१ - १२३ - अन्त्यस्य इति वचनात् इकः न ।

३२ - १२३ - उच्यते तु गुणः ।

३३ - १२३ - सः सर्वादेशः प्राप्नोति ।

३४ - १२३ - एवम् सर्वत्र ।

३५ - १२३ - अस्तु तर्हि तदपवादः ।

३६ - १२३ - इग्मात्रस्य इति चेत् जुसिसार्वधातुकार्धधातुकह्रस्वाद्योः गुणेषु अनन्त्यप्रतिषेधः ।

३७ - १२३ - इग्मात्रस्य इति चेत् जुसिसार्वधातुकार्धधातुकह्रस्वाद्योः गुणेषु अनन्त्यप्रतिषेधः वक्तव्यः ।

३८ - १२३ - जुसि गुणः ।

३९ - १२३ - सः यथा इह भवति अजुहवुः, अबिभयुः, एवम् अनेनिजुः, पर्यविविषुः, अत्र अपि प्राप्नोति ।

४० - १२३ - सार्वधातुकार्धधातुकयोः गुणः ।

४१ - १२३ - सः यथा इह भवति कर्ता हर्ता नयति तरति भवति, एवम् ईहिता, ईहितुम् इति अत्र अपि प्राप्नोति ।

४२ - १२३ - ह्रस्वस्य गुणः ।

४३ - १२३ - सः यथा इह भवति हे अग्ने हे वायो, एवम् हे अग्निचित्, हे सोमसुत् इति अत्र अपि प्राप्नोति ।

४४ - १२३ - जसि गुणः ।

४५ - १२३ - सः यथा इह भवति अग्नयः, वायवः इति एवम् अग्निचितः, सोमसुतः इति अत्र अपि प्राप्नोति ।

४६ - १२३ - ऋतो ङिसर्वनामस्थानयोः गुणः ।

४७ - १२३ - सः यथा इह भवति कर्तरि कर्तारौ कर्तारः इति एवम् सुकृति सुकृतौ सुकृतः इति अत्र अपि प्राप्नोति ।घेः ङिति गुणः ।

४८ - १२३ - सः यथा इह भवति अग्नये वायवे एवम् अग्निचिते सोमसुते इति अत्र अपि प्राप्नोति ।

४९ - १२३ - ओः गुणः ।

५० - १२३ - सः यथा इह भवति बाभ्रव्यः, माण्डव्यः इति एवम् सुश्रुत्, सौश्रुतः इति अत्र अपि प्राप्नोति ।

५१ - १२३ - न एषः दोषः ।

५२ - १२३ - पुगन्तलघूपधग्रहणम् अनन्त्यनियमार्थम् ।

५३ - १२३ - पुगन्तलघूपधग्रहणम् अनन्त्यनियमार्थम् भविष्यति ।

५४ - १२३ - पुगन्तलघूपधस्य एव अनन्त्यस्य न अन्यस्य अनन्त्यस्य इति ।

५५ - १२३ - प्रकृतस्य एषः नियमः स्यात् ।

५६ - १२३ - किम् च प्रकृतम् ।

५७ - १२३ - सार्वधातुकार्धधातुकयोः इति ।

५८ - १२३ - तेन भवेत् इह नियमात् न स्यात् ईहिता, ईहितुम्, ईहितव्यम् इति ।

५९ - १२३ - ह्रस्वाद्योः गुणः तु अनियतः ।

६० - १२३ - सः अनन्त्यस्य अपि प्राप्नोति ।

६१ - १२३ - अथ अपि एवम् नियमः स्यात् ।

६२ - १२३ - पुगन्तलघूपधस्य सार्वधातुकार्धधातुकयोः एव इति ।

६३ - १२३ - एवम् अपि सार्वधातुकार्धधातुकयोः गुणः अनियतः ।

६४ - १२३ - सः अनन्त्यस्य अपि प्राप्नोति ईहिता, ईहितुम् ईहितव्यम् इति ।

६५ - १२३ - अथ अपि उभयतः नियमः स्यात् पुगन्तलघूपधस्य एव सार्वधातुकार्धधातुकयोः, सार्वधातुकार्धधातुकयोः एव पुगन्तलघूपधस्य इति, एवम् अपि अयम् जुसि गुणः अनियतः ।

६६ - १२३ - सः अनन्त्यस्य अपि प्राप्नोति अनेनिजुः, पर्यविविषुः इति ।

६७ - १२३ - एवम् तर्हि न अयम् तच्छेषः न अपि तदपवादः ।

६८ - १२३ - अन्यत् एव इदम् परिभाषान्तरम् असम्बद्धम् अनया परिभाषया ।

६९ - १२३ - परिभाषान्तरम् इति च मत्वा क्रोष्ट्रीयाः पठन्ति नियमात् इकः गुणवृद्धी भवतः विप्रतिषेधेन इति ।

७० - १२३ - यदि च अयम् तच्छेषः स्यात् तेन एव तस्य अयुक्तः विप्रतिषेधः ।

७१ - १२३ - अथ अपि तदपवादः उत्सर्गापवादयोः अपि अयुक्तः विप्रतिषेधः ।

७२ - १२३ - तत्र नियमस्य अवकाशः राज्ञः क च, राजकीयम् ।

७३ - १२३ - इकः गुणवृद्धी* इति अस्य अवकाशः चयनम्, चायकः, लवनम्, लावकः इति ।

७४ - १२३ - इह उभयम् प्राप्नोति मेद्यति मार्ष्टि इति ।

७५ - १२३ - इकः गुणवृद्धी* इति एतत् भवति विप्रतिषेधेन ।

७६ - १२३ - न एषः युक्तः विप्रतिषेधः ।

७७ - १२३ - विप्रतिषेधे हि परम् इति उच्यते, पूर्वः च अयम् योगः परः नियमः ।

७८ - १२३ - इष्टवाची परशब्दः ।

७९ - १२३ - विप्रतिषेधे परम् यत् इष्टम् तत् भवति ।

८० - १२३ - एवम् अपि अयुक्तः विप्रतिषेधः ।

८१ - १२३ - द्विकार्ययोगः हि विप्रतिषेधः ।

८२ - १२३ - न च अत्र एकः द्विकार्ययुक्तः ।

८३ - १२३ - न अवश्यम् द्विकार्ययोगः एव विप्रतिषेधः ।

८४ - १२३ - किम् तर्हि. असम्भवः अपि ।

८५ - १२३ - सः च अस्ति अत्र असम्भवः ।

८६ - १२३ - कः असौ अस्म्भवः ।

८७ - १२३ - इह तावत् वृक्षेभ्यः, प्लक्षेभ्यः इति एकः स्थानी द्वौ आदेशौ ।

८८ - १२३ - न च अस्ति सम्भवः यत् एकस्य स्थानिनः द्वौ आदेशौ स्याताम् ।

८९ - १२३ - इह इदानीम् मेद्यति मेद्यतः मेद्यन्ति इति द्वौ स्थानिनौ एकः आदेशः ।

९० - १२३ - न च अस्ति सम्भवः यत् द्वयोः स्थानिनोः एकः आदेशः स्यात् इति एषः असम्भवः ।

९१ - १२३ - सत्यम् एतस्मिन् असम्भवे युक्तः विप्रतिषेधः ।

९२ - १२३ - एवम् अपि अयुक्तः विप्रतिषेधः ।

९३ - १२३ - द्वयोः हि सावकाशयोः समवस्थितयोः विप्रतिषेधः भवति ।

९४ - १२३ - अनवकाशः च अयम् योगः ।

९५ - १२३ - ननु च इदानीम् एव अस्य अवकाशः प्रक्ल्̥प्तः चयनम्, चायकः, लवनम्, लावकः इति ।

९६ - १२३ - अत्र अपि नियमः प्राप्नोति ।

९७ - १२३ - यावता न अप्राप्ते नियमे अयम् योगः आरभ्यते अतः तदपवादः अयम् योगः भवति ।

९८ - १२३ - उत्सर्गापवादयोः च अयुक्तः विप्रतिषेधः ।

९९ - १२३ - अथ अपि कथम् चित् इकः गुणवृद्धी* इति अस्य अवकाशः स्यात्, एवम् अपि यथा इह विप्रतिषेधात् इकः गुणः भवति मेद्यति मेद्यतः मेद्यन्ति, एवम् इह अपि स्यात् अनेनिजुः, पर्यवेविषुः इति ।

१०० - १२३ - एवम् तर्हि वृद्धिः भवति गुणः भवति इति यत्र ब्रूयात् इकः इति एतत् तत्र उपस्थितम् द्रष्टव्यम् ।

१०१ - १२३ - किम् कृतम् भवति ।

१०२ - १२३ - द्वितीया षष्ठी प्रादुः भाव्यते ।

१०३ - १२३ - तत्र कामचारः गृह्यमाणेन वा इकम् विशेषयितुम् इका वा गृह्यमाणम् ।

१०४ - १२३ - यावता कामचारः इह तावत् मिदिपुगन्तलघूपधर्च्छिदृशिक्षिप्रक्षुद्रेषु गृह्यमाणेन इकम् विशेषयिष्यामः एतेषाम् यः इक् इति ।

१०५ - १२३ - इह इदानीम् जुसिसार्वधातुकार्धधातुकह्रस्वाद्योः गुणेषु इका गृह्यमाणम् विशेषयिष्यामः एतेषाम् गुणः भवति इकः ।

१०६ - १२३ - इगन्तानाम् इति ।

१०७ - १२३ - अथ वा सर्वत्र एव स्थानी निर्दिश्यते ।

१०८ - १२३ - इह तावत् मिदेः इति, अविभक्तिकः निर्देशः मिद, एः, मिदेः, मिदेः इति ।

१०९ - १२३ - अथ वा षष्ठीसमासः भविष्यति मिदः इः, मिदिः, मिदेः इति ।

११० - १२३ - पुगन्तलघूपधस्य इति न एवम् विज्ञायते पुगन्तस्य अङ्गस्य लघूपधस्य च इति ।

१११ - १२३ - कथम् तर्हि ।

११२ - १२३ - पुकि अन्तः पुगन्तः, लघ्वी उपधा लघूपधा, पुगन्तः च लघूपधा च पुगन्तलघूपधम् पुगन्तलघूपधस्य इति ।

११३ - १२३ - अवश्यम् च एतत् एवम् विज्ञेयम् ।

११४ - १२३ - अङ्गविशेषणे हि सति इह प्रसज्येत भिनत्ति छिनत्ति इति ।

११५ - १२३ - ऋच्छेः अपि प्रश्लिष्टनिर्देशः अयम् ।

११६ - १२३ - ऋच्छति, ऋ, ऋ, ऋ̄ताम् ऋच्छत्यृ̄ताम् इति ।

११७ - १२३ - दृशेः अपि योगविभागः करिष्यते ।

११८ - १२३ - उः अङि गुणः ।

११९ - १२३ - उः अङि गुणः भवति ।

१२० - १२३ - ततः दृशेः ।

१२१ - १२३ - दृशेः च अङि गुणः भवति ।

१२२ - १२३ - उः इति एव. क्षिप्रक्षुद्रयोः अपि यणादिपरम् गुण इति इयता सिद्धम् ।

१२३ - १२३ - सः अयम् एवम् सिद्धे सति यत् पूर्वग्रहणम् करोति तस्य एतत् प्रयोजनम् इकः यथा स्यात् अनिकः मा भूत् इति ।

१ - ११८ - अथ वृद्धिग्रहणम् किमर्थम् ।

२ - ११८ - किम् विशेषेण वृद्धिग्रहणम् चोद्यते न पुनः गुणग्रहणम् अपि ।

३ - ११८ - यदि किम् चित् गुणग्रहणस्य प्रयोजनम् अस्ति वृद्धिग्रहणस्य अपि तत् भवितुम् अर्हति ।

४ - ११८ - कः वा विशेषः ।

५ - ११८ - अयम् अस्ति विशेषः ।

६ - ११८ - गुणविधौ न क्व चित् स्थानी निर्दिश्यते ।

७ - ११८ - तत्र अवश्यम् स्थानिनिर्देशार्थम् गुणग्रहणम् कर्तव्यम् ।

८ - ११८ - वृद्धिविधौ पुनः सर्वत्र एव स्थानी निर्दिश्यते ।

९ - ११८ - अचः ञ्णिति अतः उपधायाः तद्धितेषु अचाम् आदेः इति ।

१० - ११८ - अतः उत्तरम् पठति ।

११ - ११८ - वृद्धिग्रहणम् उत्तरार्थम् ।

१२ - ११८ - वृद्धिग्रहणम् क्रियते उत्तरार्थम् ।

१३ - ११८ - क्ङिति इति प्रतिषेधम् वक्ष्यति ।

१४ - ११८ - सः वृद्धेः अपि यथा स्यात् ।

१५ - ११८ - कः च इदानीम् क्ङित्प्रत्ययेषु वृद्धेः प्रसङ्गः यावता ञ्णिति इति उच्यते ।

१६ - ११८ - तत् च मृज्यर्थम् ।

१७ - ११८ - मृजेः वृद्धिः अविशेषेण उच्यते ।

१८ - ११८ - सा क्ङिति मा भूत् मृष्टः, मृष्टवान् इति ।

१९ - ११८ - इहार्थम् च अपि मृज्यर्थम् वृद्धिग्रहणम् कर्तव्यम् ।

२० - ११८ - मृजेः वृद्धिः अविशेषेण उच्यते ।

२१ - ११८ - सा इकः यथा स्यात् ।

२२ - ११८ - अनिकाः मा भूत् इति ।

२३ - ११८ - मृज्यर्थम् इति चेत् योगविभागात् सिद्धम् ।

२४ - ११८ - मृज्यर्थम् इति चेत् योगविभागः करिष्यते ।

२५ - ११८ - मृजेः वृद्धिः ।

२६ - ११८ - ततः ञ्णिति ।

२७ - ११८ - ञिति णिति च वृद्धिः भवति ।

२८ - ११८ - अचः इति एव ।

२९ - ११८ - यदि अचः वृद्धिः उच्यते न्यमार्ट् अटः अपि वृद्धिः प्राप्नोति ।

३० - ११८ - अटि च उक्तम् ।

३१ - ११८ - किम् उक्तम्. अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति ।

३२ - ११८ - वृद्धिप्रतिषेधानुपपत्तिः तु इक्प्रकरणात् ।

३३ - ११८ - वृद्धेः तु प्रतिषेधः न उपपद्यते ।

३४ - ११८ - किम् कारणम् ।

३५ - ११८ - इक्प्रकरणात् ।

३६ - ११८ - इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः न च एवम् सति मृजेः इग्लक्षणा वृद्धिः भवति ।

३७ - ११८ - तस्मात् मृजेः इग्लक्षणा वृद्धिः एषितव्या ।

३८ - ११८ - एवम् तर्हि इह अन्ये वैयाकरणाः मृजेः अजादौ सङ्क्रमे विभाषा वृद्धिम् आरभन्ते परिमृजन्ति परिमार्जन्ति परिमृजन्तु परिमार्जन्तु परिममृजतुः, परिममार्जतुः इत्याद्यर्थम् ।

३९ - ११८ - तत् इह अपि साध्यम् ।

४० - ११८ - तस्मिन् साध्ये योगविभागः करिष्यते ।

४१ - ११८ - मृजेः वृद्धिः अचः भवति ।

४२ - ११८ - ततः अचि क्ङिति ।

४३ - ११८ - अजादौ च क्ङिति मृजेः वृद्धिः भवति परिमार्जन्ति परिमार्जन्तु ।

४४ - ११८ - किमर्थम् इदम् ।

४५ - ११८ - नियमार्थम् अजादौ एव क्ङिति न अन्यत्र ।

४६ - ११८ - क्व अन्यत्र मा भूत् ।

४७ - ११८ - मृष्टः, मृष्टवान् इति ।

४८ - ११८ - ततः वा ।

४९ - ११८ - वा अचि क्ङिति मृजेः वृद्धिः भवति ।

५० - ११८ - परिमृजन्ति, परिमार्जन्ति, परिममृजतुः, परिममार्जतुः इति ।

५१ - ११८ - इहार्थम् एव सिजर्थम् वृद्धिग्रहणम् कर्तव्यम् ।

५२ - ११८ - सिचि वृद्धिः अविशेषेण उच्यते ।

५३ - ११८ - सा इकः यथा स्यात्, अनिकः मा भूत् इति ।

५४ - ११८ - कस्य पुनः अनिकः प्राप्नोति ।

५५ - ११८ - अकारस्य अचिकीर्षीत्, अजिहीर्षीत् ।

५६ - ११८ - न एतत् अस्ति ।

५७ - ११८ - लोपः अत्र बाधकः भविष्यति ।

५८ - ११८ - आकारस्य तर्हि प्राप्नोति अयासीत्, अवासीत् ।

५९ - ११८ - न अस्ति अत्र विशेषः सत्याम् वृद्धौ असत्याम् वा ।

६० - ११८ - सन्ध्यक्षरस्य तर्हि प्राप्नोति ।

६१ - ११८ - न एव सन्ध्यक्षरम् अन्त्यम् अस्ति ।

६२ - ११८ - ननु च इदम् अस्ति ढलोपे कृते उदवोढाम् उदवोढम् उदवोढ इति ।

६३ - ११८ - न एतत् अस्ति ।

६४ - ११८ - असिद्धः ढलोपः ।

६५ - ११८ - तस्य असिद्धत्वात् न एतत् अन्त्यम् भवति ।

६६ - ११८ - व्यञ्जनस्य तर्हि प्राप्नोति अभैत्सीत्, अच्छैत्सीत् ।

६७ - ११८ - हलन्तलक्षणा वृद्धिः बाधिका भविष्यति ।

६८ - ११८ - यत्र तर्हि सा प्रतिषिध्यते अकोषीत्, अमोषीत् ।

६९ - ११८ - सिचि वृद्धेः अपि एषः प्रतिषेधः ।

७० - ११८ - कथम् ।

७१ - ११८ - लक्षणम् हि नाम ध्वनति भ्रमति मुहूर्तम् अपि न अवतिष्ठते ।

७२ - ११८ - अथ वा सिचि वृद्धिः परस्मैपदेषु इति सिचि वृद्धिः प्राप्नोति ।

७३ - ११८ - तस्याः हलन्तलक्षणा वृद्धिः बाधिका ।

७४ - ११८ - तस्याः अपि न इटि इति प्रतिषेधः ।

७५ - ११८ - अस्ति पुनः क्व चिद् अन्यत्र अपि अपवादे प्रतिषिद्धे उत्सर्गः अपि न भवति ।

७६ - ११८ - अस्ति इति आह ।

७७ - ११८ - सुजाते* अश्वसूनृते, अध्वर्यो* अद्रिभिः सुतम्, शुक्रम् ते* अन्यत् इति ।

७८ - ११८ - पूर्वरूपत्वे प्रतिषिद्धे अयादयः अपि न भवन्ति ।

७९ - ११८ - उत्तरार्थम् एव तर्हि सिजर्थम् वृद्धिग्रहणम् कर्तव्यम् ।

८० - ११८ - सिचि वृद्धिः अविशेषेण उच्यते ।

८१ - ११८ - सा क्ङिति मा भूत् न्यनुवीत्, न्यधुवीत् ।

८२ - ११८ - न एतत् अस्ति प्रयोजनम् ।

८३ - ११८ - अन्तरङ्गत्वात् अत्र उवङादेशे कृते अनन्त्यत्वात् वृद्धिः न भविष्यति ।

८४ - ११८ - यदि तर्हि सिचि अन्तरङ्गम् भवति, अकार्षीत्, अहार्षीत् गुणे कृते रपरत्वे च अनन्त्यत्वात् वृद्धिः न प्राप्नोति ।

८५ - ११८ - मा भूत् एवम् ।

८६ - ११८ - हलन्तस्य इति एवम् भविष्यति ।

८७ - ११८ - इह तर्हि न्यस्तारीत्, व्यदारीत् गुणे रपरत्वे च अनन्त्यत्वात् वृद्धिः न प्राप्नोति ।

८८ - ११८ - हलन्तलक्षणायाः च न इटि इति प्रतिषेधः ।

८९ - ११८ - मा भूत् एवम् ।

९० - ११८ - र्लान्तस्य इति एवम् भविष्यति ।

९१ - ११८ - इह तर्हि अलावीत् अपावीत् गुणे कृते अवादेशे च अनन्त्यत्वात् वृद्धिः न प्राप्नोति ।

९२ - ११८ - हलन्तलक्षणायाः च न इटि इति प्रतिषेधः ।

९३ - ११८ - मा भूत् एवम् ।

९४ - ११८ - र्लान्तस्य इति एवम् भविष्यति ।

९५ - ११८ - र्लान्तस्य इति उच्यते न च इदम् र्लान्तम् ।

९६ - ११८ - र्लान्तस्य इति अत्र वकारः अपि निर्दिश्यते ।

९७ - ११८ - किम् वकारः न श्रूयते ।

९८ - ११८ - लुप्तनिर्दिष्तः वकारः ।

९९ - ११८ - यदि एवम् मा भवान् मवीत् अत्र अपि प्राप्नोति ।

१०० - ११८ - अविमव्योः इति वक्ष्यामि ।

१०१ - ११८ - तत् वक्तव्यम् ।

१०२ - ११८ - णिश्विभ्याम् तौ निमातव्यौ ।

१०३ - ११८ - यदि अपि एतत् उच्यते अथ वा एतर्हि णिश्व्योः प्रतिषेधः न वक्तव्यः भवति ।

१०४ - ११८ - गुणे कृते अयादेशे च यान्तानम् न इति प्रतिषेधः भविष्यति ।

१०५ - ११८ - एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति न सिचि अन्तरङ्गम् भवति इति यत् अयम् अतः हलादेः लघोः इति अकारग्रहणम् करोति ।

१०६ - ११८ - कथम् कृत्वा ज्ञापकम् ।

१०७ - ११८ - अकारग्रहणस्य एतत् प्रयोजनम् इह मा भूत् अकोषीत्, अमोषीत् ।

१०८ - ११८ - यदि सिचि अन्तरङ्गम् स्यात् अकारग्रहणम् अनर्थकम् स्यात् ।

१०९ - ११८ - गुणे कृते अलघुत्वात् वृद्धिः न भविष्यति ।

११० - ११८ - पश्यति तु आचार्यः न सिचि अन्तरङ्गम् भवति इति ।

१११ - ११८ - ततः अकारग्रहणम् करोति ।

११२ - ११८ - न एतत् अस्ति ज्ञापकम् ।

११३ - ११८ - अस्ति अन्यत् एतस्य वचने प्रयोजनम् ।

११४ - ११८ - किम् ।

११५ - ११८ - यत्र गुणः प्रतिषिध्यते तदर्थम् एतत् स्यात् न्यकुटीत्, न्यपुटीत् इति ।     

११६ - ११८ - यत् तर्हि णिश्व्योः प्रतिषेधम् शास्ति तेन न इह अन्तरङ्गम् अस्ति इति दर्शयति ।

११७ - ११८ - यत् च करोति अकारग्रहणम् लघोः इति कृते अपि ।

११८ - ११८ - तस्मात् इग्लक्षणा वृद्धिः । तस्मात् इग्लक्षणा वृद्धिः आस्थेया ।

१ - २६ - षष्ठ्याः स्थानेयोगत्वात् इग्निवृत्तिः । षष्ठ्याः स्थानेयोगत्वात् सर्वेषाम् इकाम् निवृत्तिः प्राप्नोति ।

२ - २६ - अस्य अपि प्राप्नोति दधि मधु ।

३ - २६ - पुनर्वचनम् इदानीम् किमर्थम् स्यात् ।

४ - २६ - अन्यतरार्थम् पुनर्वचनम् ।

५ - २६ - अन्यतरार्थम् एतत् स्यात् ।

६ - २६ - सार्वधादुकार्धधातुकयोः गुणः एव इति ।

७ - २६ - प्रसारणे च ।

८ - २६ - प्रसारणे च सर्वेषम् यणाम् निवृत्तिः प्राप्नोति ।

९ - २६ - अस्य अपि प्राप्नोति याता वाता ।

१० - २६ - पुनर्वचनम् इदानीम् किमर्थम् स्यात् ।

११ - २६ - विषयार्थम् पुनर्वचनम् । विषयार्थम् एतत् स्यात् ।

१२ - २६ - वचिस्वपियजादीनाम् किति एव इति ।

१३ - २६ - उः अण् रपरे च ।

१४ - २६ - उः अण् रपरे च सर्वर्काराणाम् निवृत्तिः प्राप्नोति ।

१५ - २६ - अस्य अपि प्राप्नोति कर्तृ हर्तृ ।

१६ - २६ - सिद्धम् तु षष्ठ्यधिकारे वचनात् ।

१७ - २६ - सिद्धम् एतत् ।

१८ - २६ - कथम् ।

१९ - २६ - षष्ठ्यधिकारे इमे योगाः कर्तव्याः ।

२० - २६ - एकः तावत् क्रियते तत्र एव ।

२१ - २६ - इमौ अपि योगौ षष्ठधिकारम् अनुवर्तिष्येते ।

२२ - २६ - अथ वा षष्ठधिकारे इमौ योगौ अपेक्षिष्यामहे ।

२३ - २६ - अथ वा इदम् तावद् अयम् प्रष्टव्यः ।

२४ - २६ - सार्वधातुकार्धधातुकयोः गुणः भवति इति इह कस्मात् न भवति याता वाता ।

२५ - २६ - इदम् तत्र अपेक्षिष्यते इकः गुणवृद्धी* इति ।

२६ - २६ - यथा एव तर्हि इदम् तत्र अपेक्षिष्यते एवम् इह अपि तद् अपेक्षिष्यामहे सार्वधातुकार्धधातुकयोः इकः गुणवृद्धी* इति.

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-01-17T19:36:13.4700000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

बंमठस

  • वि. ( ना . ) मूर्ख ; अक्कलशून्य ; मूढ . 
RANDOM WORD

Did you know?

why treeepad veedhee ? narrate
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site