TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

पाद १ - खण्ड ६

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


खण्ड ६
१ - २३ - न वा इति विभाषायाम् अर्थसञ्ज्ञाकरणम् ।

२ - २३ - न वा इति विभाषायाम् अर्थस्य सञ्ज्ञा कर्तव्या ।

३ - २३ - नवाशब्दस्य यः अर्थः तस्य सञ्ज्ञा भवति इति वक्तव्यम् ।

४ - २३ - किम् प्रयोजनम् ।

५ - २३ - शब्दसञ्ज्ञायाम् हि अर्थासम्प्रत्ययः यथा अन्यत्र ।

६ - २३ - शब्दसञ्ज्ञायाम् हि सत्याम् अर्थस्य असम्प्रत्ययः स्यात् यथा अन्यत्र ।

७ - २३ - अन्यत्र अपि शब्दसञ्ज्ञायाम् शब्दस्य सम्प्रत्ययः भवति न अर्थस्य ।

८ - २३ - क्व अन्यत्र ।

९ - २३ - दाधाः घु अदाप् तरप्तमपौ घः इति घुग्रहणेषु घग्रहणेषु च शब्दस्य सम्प्रत्ययः भवति न अर्थस्य ।

१० - २३ - तत् तर्हि वक्तव्यम् ।

११ - २३ - न वक्तव्यम् ।

१२ - २३ - इतिकरणः अर्थनिर्देशार्थः ।

१३ - २३ - इतिकरणः क्रियते ।

१४ - २३ - सः अर्थनिर्देशार्थः भविष्यति ।

१५ - २३ - किम् गतम् एतत् इतिना आहोस्वित् शबाधिक्यात् अर्थाधिक्यम् ।

१६ - २३ - गतम् इति आह ।

१७ - २३ - कुतः ।

१८ - २३ - लोकतः ।

१९ - २३ - तत् यथा लोके गौः अयम् इति आह इति गोशब्दात् इतिकरणः परः प्रयुज्यमानः गोशब्दम् स्वस्मात् पदार्थात् प्रच्यावयति ।

२० - २३ - सः असौ स्वस्मात् पदार्थात् प्रच्युतः या असौ अर्थपदार्थकता तस्याः शब्दपदार्थकः सम्पद्यते ।

२१ - २३ - एवम् इह अपि नवाशब्दात् इतिकरणः परः प्रयुज्यमानः नवाशब्दम् स्वस्मात् पदार्थात् प्रच्यावयति ।

२२ - २३ - सः असौ स्वस्मात् पदार्थात् प्रच्युतः या असौ शब्दपदार्थकता तस्याः लौकिकम् अर्थम् सम्प्रत्याययति ।

२३ - २३ - न वा इति यत् गम्यते न वा इति यत् प्रतीयते इति ।

१ - २९ - समानशब्दप्रतिषेधः ।

२ - २९ - समानशब्दानाम् प्रतिषेधः वक्तव्यः नवा कुण्डिका नवा घटिका इति ।

३ - २९ - किम् च स्यात् यदि एतेषाम् अपि विभाषासञ्ज्ञा स्यात् ।

४ - २९ - विभाषा दिक्समासे बहुव्रीहौ दक्षिणपूर्वस्याम् शालायाम् ।

५ - २९ - अचिरकृतायाम् सम्प्रत्ययः स्यात् ।

६ - २९ - न वा विधिपूर्वकत्वात् प्रतिषेधसमप्रत्ययः यथा लोके ।

७ - २९ - न वा एषः दोषः ।

८ - २९ - किम् कारणम् ।

९ - २९ - विधिपूर्वकत्वात् ।

१० - २९ - विधाय किम् चित् न वा इति उच्यते ।

११ - २९ - तेन प्रतिषेधवाचिनः समप्रत्ययः भवति ।

१२ - २९ - तत् यथा लोके ग्रामः भवता गन्तव्यः न वा ।

१३ - २९ - न इति गम्यते ।

१४ - २९ - अस्ति कार्णम् येन लोके प्रतिषेधवाचिनः समप्रत्ययः भवति ।

१५ - २९ - किम् कारणम् ।

१६ - २९ - विलिङ्गम् हि भवान् लोके निर्देशम् करोति ।

१७ - २९ - आङ्ग हि समानलिङ्गः निर्देशः क्रियताम् प्रत्यग्रवाचिनः सम्प्रत्ययः भविष्यति ।

१८ - २९ - तत् यथा ग्रामः भवता गन्तव्यः नवः ।

१९ - २९ - प्रत्यग्रः इति गम्यते ।

२० - २९ - एतत् च एव न जानीमः क्व चित् व्याकरणे समानलिङ्गः निर्देशः क्रियते इति ।

२१ - २९ - अपि च कामचारः प्रयोक्तुः शब्दानाम् अभिसम्बन्धे ।

२२ - २९ - तत् यथा यवागूः भवता भोक्तव्या नवा ।

२३ - २९ - यदा यवागूशब्दः भुजिना अभिसम्बध्यते भुजिः नवाशब्देन तदा प्रतिषेधवाचिनः सम्प्रत्ययः भवति यवागूः भवता भोक्तव्या नवा ।

२४ - २९ - न इति गम्यते ।

२५ - २९ - यदा यवागूशब्दः नवाशब्देन अभिसम्बध्यते न भुजिना तदा प्रत्यग्रवाचिनः सम्प्रत्ययः भवति यवागूः नवा भवता भोक्तव्या ।

२६ - २९ - प्रत्यग्रा इति गम्यते ।

२७ - २९ - न च इह वयम् विभाषाग्रहणेन सर्वादीनि अभिसम्बध्नीमः दिक्समासे बहुव्रीहौ सर्वादीनि विभाषा भवन्ति इति ।

२८ - २९ - किम् तर्हि ।

२९ - २९ - भवतिः अभिसम्बध्यते दिक्समासे बहुव्रीहौ सर्वादीनि भवन्ति विभाषा इति ।

१ - ४४ - विध्यनित्यत्वम् अनुपपन्नम् प्रतिषेधसञ्ज्ञाकरणात् ।

२ - ४४ - विध्यनित्यत्वम् न उपपद्यते शुशाव , शुशुवतुः , शुशुवुः , शिश्वाय , शिश्वियतुः , शिश्वियुः ।

३ - ४४ - किम् कारणम् ।

४ - ४४ - प्रतिषेधसञ्ज्ञाकरणात् ।

५ - ४४ - प्रतिषेधस्य इयम् सञ्ज्ञा क्रियते ।

६ - ४४ - तेन विभाषाप्रदेशेषु प्रतिषेधस्य एव सम्प्रत्ययः स्यात् ।

७ - ४४ - सिद्धम् तु प्रसज्यप्रतिषेधात् ।

८ - ४४ - सिद्धम् एतत् ।

९ - ४४ - कथम् ।

१० - ४४ - प्रसज्यप्रतिषेधात् ।

११ - ४४ - प्रसज्य किम् चित् न वा इति उच्यते ।

१२ - ४४ - तेन उभयम् भविष्यति ।

१३ - ४४ - विप्रतिषिद्धम् तु ।

१४ - ४४ - विप्रतिषिद्धम् तु भवति ।

१५ - ४४ - अत्र न ज्ञायते केन अभिप्रायेण प्रसजति केन निवृत्तिम् करोति इति ।

१६ - ४४ - न वा प्रसङ्गसामर्थ्यात् अन्यत्र प्रतिषेधविषयात् ।

१७ - ४४ - न वा एषः दोषः ।

१८ - ४४ - किम् कारणम् ।

१९ - ४४ - प्रसङ्गसामर्थ्यात् ।

२० - ४४ - प्रसङ्गसामर्थ्यात् च विधिः भविष्यति अन्यत्र प्रतिषेधविषयात् प्रतिषेधसामर्थ्यात् च प्रतिषेधः भविष्यति अन्यत्र विधिविषयात् ।

२१ - ४४ - तत् एतत् क्व सिद्धम् भवति ।

२२ - ४४ - या अप्राप्ते विभाषा ।

२३ - ४४ - या हि प्राप्ते कृतसामर्थ्यः तत्र पूर्वेण विधिः इति कृत्वा प्रतिषेधस्य एव सम्प्रत्ययः स्यात् ।

२४ - ४४ - एतत् अपि सिद्धम् ।

२५ - ४४ - कथम् ।

२६ - ४४ - विभाषा इति महतीसञ्ज्ञा क्रियते ।

२७ - ४४ - सञ्ज्ञा च नाम यतः न लघीयः ।

२८ - ४४ - कुतः एतत् ।

२९ - ४४ - लघ्वर्थम् हि सञ्ज्ञाकरणम् ।

३० - ४४ - तत्र महत्याः सञ्ज्ञायाः करणे एतत् प्रयोजनम् उभयोः सञ्ज्ञा यथा विज्ञायेत न इति च वा इति च ।

३१ - ४४ - तत्र या तावत् अप्राप्ते विभाषा तत्र प्रतिषेध्यम् न अस्ति इति कृत्वा वा इति अनेन विकल्पः भविष्यति ।

३२ - ४४ - या हि प्राप्ते विभाषा तत्र उभयम् उपस्थितम् भवति न इति च वा इति च ।

३३ - ४४ - तत्र न इति अनेन प्रतिषिद्धे वा इति अनेन विकल्पः भविष्यति ।

३४ - ४४ - एवम् अपि विप्रतिषेधयोः युगपद्वचनानुपपत्तिः ।

३५ - ४४ - विप्रतिषेधयोः युगपद्वचनम् न उपपद्यते शुशाव शुशुवतुः शुशुवुः शिश्वाय शिश्वियतुः शिश्वियुः ।

३६ - ४४ - किम् कारणम् ।

३७ - ४४ - भवति इति चेत् न प्रतिषेधः ।

३८ - ४४ - भवति इति चेत् प्रतिषेधः न प्राप्नोति ।

३९ - ४४ - न इति चेत् न विधिः ।

४० - ४४ - न इत् चेत् विधिः न सिध्यति ।

४१ - ४४ - सिद्धम् तु पूर्वस्य उत्तरेण बाधितत्वात् ।

४२ - ४४ - सिद्धम् एतत्. कथम् ।

४३ - ४४ - पूर्वविधिम् उत्तर्विधिः बाधते ।

४४ - ४४ - इतिकरणः अर्थनिर्देशाऋथः इति उक्तम् ।

१ - ४३ - साध्वनुशासने अस्मिन् यस्य विभाषा तस्य साधुत्वम् ।

२ - ४३ - साध्वनुशासने अस्मिन् शास्त्रे यस्य विभाषा क्रियते सः विभाषा साधुः स्यात् ।

३ - ४३ - समासः च एव हि विभाषा ।

४ - ४३ - तेन समासस्य एव विभाषा साधुत्वम् स्यात् ।

५ - ४३ - अस्तु ।

६ - ४३ - यः साधुः सः प्रयोक्ष्यते. असाधुः न प्रयोक्ष्यते ।

७ - ४३ - न च एव हि कदा चित् राजपुरुषः इति अस्याम् अवस्थायाम् असाधुत्वम् इष्यते ।

८ - ४३ - अपि च द्वेधाप्रतिपत्तिः ।

९ - ४३ - द्वैधम् शब्दानाम् अप्रतिपत्तिः ।

१० - ४३ - इच्छामः च पुनः विभाषाप्रदेशेषु द्वैधम् शब्दानाम् प्रतिपत्तिः स्यात् इति तत् च न सिध्यति ।

११ - ४३ - यस्य पुनः कार्याः शब्दाः विभाषा असौ समासम् निर्वर्तयति ।

१२ - ४३ - यस्य अपि नित्याः शब्दाः तस्य अपि एषः न दोषः ।

१३ - ४३ - कथम् ।

१४ - ४३ - न विभाषाग्रहणेन साधुत्वम् अभिसम्बध्यते ।

१५ - ४३ - किम् तर्हि ।

१६ - ४३ - समाससञ्ज्ञा अभिसम्बध्यते समासः इति एषा सञ्ज्ञा विभाषा भवति इति ।

१७ - ४३ - तत् यथा मेध्यः पशुः विभाषितः ।

१८ - ४३ - मेध्यः अनड्वान् विभाषितः इति ।

१९ - ४३ - न एतत् विचार्यते अनड्वान् न अनड्वान् इति ।

२० - ४३ - किम् तर्हि आलब्धव्यः न आलब्धव्यः इति ।

२१ - ४३ - कार्ये युगपदन्वाचययौगपद्यम् ।

२२ - ४३ - कार्येषु शब्देषु युगपत् अन्वाचयेन च यत् उच्यते तस्य युगपद्वचनता प्राप्नोति तव्यत्तव्यानीयरः , ढक् च मण्डूकात् इति ।

२३ - ४३ - यस्य पुनः नित्याः शब्दाः प्रयुक्तानाम् असौ साधुत्वम् अन्वाचष्टे ।

२४ - ४३ - ननु च यस्य अपि कार्याः तस्य अपि एषः न दोषः ।

२५ - ४३ - कथम् ।

२६ - ४३ - प्रत्ययः परः भवति इति उच्यते ।

२७ - ४३ - न च एकस्याः प्रकृतेः अनेकस्य प्रत्ययस्य युगपत् परत्वेन सम्भवः अस्ति ।

२८ - ४३ - न अपि ब्रूमः प्रत्ययमाला प्राप्नोति ।

२९ - ४३ - किम् तर्हि ।

३० - ४३ - कर्तव्यम् इति प्रयोक्तव्ये युगपत् द्वितीयस्य तृतीयस्य च प्रयोगः प्राप्नोति ।

३१ - ४३ - न एषः दोषः ।

३२ - ४३ - अर्थगत्यर्थः शब्दप्रयोगः ।

३३ - ४३ - अर्थम् सम्प्रत्याययिष्यामि इति शब्दः प्रयुज्यते ।

३४ - ४३ - तत्र एकेन उक्तत्वात् तस्य अर्थस्य द्वितीयस्य प्रयोगेण न भवितव्यम् उक्तार्थानाम् अप्रयोगः इति ।

३५ - ४३ - आचार्यदेशशीलने च तद्विषयता ।

३६ - ४३ - आचार्यदेशशीलनेन यत् उच्यते तस्य तद्विषयता प्राप्नोति ।

३७ - ४३ - इकः ह्रस्वः अङ्यः गालवस्य प्राचाम् अवृद्धात् फिन् बहुलम् इति गालवाः एव ह्रस्वान् प्रयुञ्जीरन् प्राक्षु च एव हि फिन् स्यात् ।

३८ - ४३ - तत् यथा जमदग्निः वै एतत् पञ्चमम् अवदानम् अवाद्यत् तस्मात् न अजामदग्न्यः पञ्चावत्तम् जुहोति ।

३९ - ४३ - यस्य पुनः नित्याः शब्दाः गालवग्रहणम् तस्य पूजार्थम् देशग्रहणम् च कीर्त्यर्थम् ।

४० - ४३ - ननु च यस्य अपि कार्याः तस्य अपि पूजार्थम् गालवग्रहणम् स्यात् देशग्रहम् च कीर्त्यर्थम् ।

४१ - ४३ - तत्कीर्तने च द्वेधाप्रतिपत्तिः ।

४२ - ४३ - तत्कीर्तने च द्वैधम् शब्दानाम् अप्रतिपत्तिः स्यात् ।

४३ - ४३ - इच्छामः च पुनः आचार्यग्रहणेषु देशग्रहणेषु च द्वैधम् शब्दानाम् प्रतिपत्तिः स्यात् इति तत् च न सिध्यति ।

१ - १२ - अशिष्यः वा विदितत्वात् ।

२ - १२ - अशिष्यः वा पुनः अयम् योगः ।

३ - १२ - किम् कारणम् ।

४ - १२ - विदितत्वात् ।

५ - १२ - यत् अनेन योगेन प्रार्थ्यते तस्य अर्थस्य विदितत्वात् ।

६ - १२ - ये अपि हि एताम् सञ्ज्ञाम् न आरभन्ते ते अपि विभाषा इति उक्ते अनित्यत्वम् अवगच्छन्ति ।

७ - १२ - याज्ञिकाः खलु अपि सञ्ज्ञाम् अनारभमाणाः विभाषा इति उक्ते अनित्यत्वम् अवगच्छन्ति ।

८ - १२ - तत् यथा ।

९ - १२ - मेध्यः पशुः विभाषितः ।

१० - १२ - मेध्यः अनड्वान् विभाषितः इति ।

११ - १२ - आलब्धव्यः न आलब्धव्यः इति गम्यते ।

१२ - १२ - आचार्यः खलु अपि सञ्ज्ञाम् आरभमाणः भूयिष्ठम् अन्यैः अपि शब्दैः एतम् अर्थम् सम्प्रत्याययति बहुलम् अन्यतरस्याम् उभयथा वा एकेषाम् इति ।

१ - १०० - अप्राप्ते त्रिसंशयाः ।

२ - १०० - इतः उत्तरम् याः विभाषाः अनुक्रमिष्यामः अप्राप्ते ताः द्रष्टव्याः ।

३ - १०० - त्रिसंशयाः तु भवन्ति प्राप्ते अप्राप्ते उभयत्र वा इति ।

४ - १०० - द्वन्द्वे च विभाषा जसि प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः ।

५ - १०० - कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र ।

६ - १०० - उभयशब्दः सर्वादिषु पठ्यते तयपः च अयजादेशः क्रियते ।

७ - १०० - तेन वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति ।

८ - १०० - अप्राप्ते ।

९ - १०० - अयच् प्रत्ययान्तरम् ।

१० - १०० - यदि प्रत्ययान्तरम् उभयी इति ईकारः न प्राप्नोति ।

११ - १०० - मा भूत् एवम् ।

१२ - १०० - मात्रचः इति एवम् भविष्यति ।

१३ - १०० - कथम् ।

१४ - १०० - मात्रच् इति न इदम् प्रत्ययग्रहणम् ।

१५ - १०० - किम् तर्हि ।

१६ - १०० - प्रत्याहारग्रहणम् ।

१७ - १०० - क्व सन्निविष्टानाम् प्रत्याहारः ।

१८ - १०० - मात्रशब्दात् प्रभृति आ आयचः चकारात् ।

१९ - १०० - यदि प्रत्याहारग्रहणम् कति तिष्ठन्ति अत्र अपि प्राप्नोति ।

२० - १०० - अतः इति वर्तते ।

२१ - १०० - एवम् अपि तैलमात्रा घ्र्तमात्रा इति अत्र अपि प्राप्नोति ।

२२ - १०० - सदृशस्य अपि असन्निविष्टस्य न भविष्यति प्रत्याहारेण ग्रहणम् ।

२३ - १०० - ऊर्णोः विभाषा प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः ।

२४ - १०० - कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र ।

२५ - १०० - असंयोगात् लिट् कित् इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति ।

२६ - १०० - अप्राप्ते ।

२७ - १०० - अन्यत् हि कित्त्वम् अन्यत् ङित्त्वम् ।

२८ - १०० - एकम् चेत् ङित्कितौ ।

२९ - १०० - यदि एकम् ङित्कितौ ततः अस्ति सन्देहः ।

३० - १०० - अथ हि नाना न अस्ति सन्देहः ।

३१ - १०० - यदि अपि नाना एवम् अपि सन्देहः ।

३२ - १०० - कथम् ।

३३ - १०० - प्रौर्णुवि इति ।

३४ - १०० - सार्वधातुकम् अपित् इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति ।

३५ - १०० - अप्राप्ते ।

३६ - १०० - विभाषा उपयमने प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः ।

३७ - १०० - कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र ।

३८ - १०० - गन्धने इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति ।

३९ - १०० - अप्राप्ते ।

४० - १०० - गन्धने इति निवृत्तम् ।

४१ - १०० - अनुपसर्गात् वा प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः ।

४२ - १०० - कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र ।

४३ - १०० - वृत्तिसर्गतायनेषु क्रमः इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति ।

४४ - १०० - अप्राप्ते ।

४५ - १०० - वृत्त्यादिषु इति निवृत्तम् ।

४६ - १०० - विभाषा वृक्षमृगादीनाम् प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः ।

४७ - १०० - कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र ।

४८ - १०० - जातिः अप्राणिनाम् इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति ।

४९ - १०० - अप्राप्ते ।

५० - १०० - जातिः अप्राणिनाम् इति निवृत्तम् ।

५१ - १०० - उषविदजागृभ्यः अन्यतरस्याम् प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः ।

५२ - १०० - कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र ।

५३ - १०० - प्रत्ययान्तात् इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति ।

५४ - १०० - अप्राप्ते ।

५५ - १०० - प्रत्ययान्ताः धात्वन्तराणि ।

५६ - १०० - दीपादीनाम् विभाषा प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः ।

५७ - १०० - कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र ।

५८ - १०० - भावकर्मणोः इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति ।

५९ - १०० - अप्राप्ते ।

६० - १०० - कर्तरि इति वर्तते ।

६१ - १०० - एवम् अपि सन्देहः न्याय्ये वा कर्तरि कर्मकर्तरि वा इति ।

६२ - १०० - न अस्ति सन्देहः ।

६३ - १०० - सकर्मकस्य कर्ता कर्मवत् भवति अकर्मकाः च दीपादयः ।

६४ - १०० - अकर्मकाः अपि वै सोपसर्गाः सकर्मकाः भवन्ति ।

६५ - १०० - कर्मापदिष्टाः विधयः कर्मस्थभावकानाम् कर्मस्थक्रियाणाम् च भवन्ति कर्तृस्थभावकाः च दीपादयः ।

६६ - १०० - विभाषा अग्रेप्रथमपूर्वेषु प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः ।

६७ - १०० - कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र ।

६८ - १०० - आभीक्ष्ण्ये इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति ।

६९ - १०० - अप्राप्ते ।

७० - १०० - आभीक्ष्ण्ये इति निवृत्तम् ।

७१ - १०० - तृनादीनाम् विभाषा प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः ।

७२ - १०० - कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र ।

७३ - १०० - आक्रोशे इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति ।

७४ - १०० - अप्राप्ते ।

७५ - १०० - आक्रोशे इति निवृत्तम् ।

७६ - १०० - एकहलादौ पूरयितव्ये अन्यतरस्याम् ।

७७ - १०० - प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः ।

७८ - १०० - कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र ।

७९ - १०० - उदकस्य उदः सञ्ज्ञायाम् इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति ।

८० - १०० - अप्राप्ते ।

८१ - १०० - सञ्ज्ञायाम् इति निवृत्तम् ।

८२ - १०० - श्वादेः इञि पदान्तस्य अन्यतरस्याम् ।

८३ - १०० - प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः ।

८४ - १०० - कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र ।

८५ - १०० - इञि इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति ।

८६ - १०० - अप्राप्ते ।

८७ - १०० - इञि इति निवृत्तम् ।

८८ - १०० - सपूर्वायाः प्रथमायाः विभाषा ।

८९ - १०० - प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः ।

९० - १०० - कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र ।

९१ - १०० - चादिभिः योगे इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति ।

९२ - १०० - अप्राप्ते ।

९३ - १०० - चादिभिः योगे इति निवृत्तम् ।

९४ - १०० - ग्रः यङि अचि विभाषा ।

९५ - १०० - प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः ।

९६ - १०० - कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र ।

९७ - १०० - यङि इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति ।

९८ - १०० - अप्राप्ते ।

९९ - १०० - अप्राप्ते ।

१०० - १०० - यङि इति निवृत्तम्

१ - २८ - प्राप्ते च ।

२ - २८ - इतः उत्तरम् याः विभाषाः अनुक्रमिष्यामः प्राप्ते ताः द्रष्टव्याः ।

३ - २८ - त्रिसंशयाः तु भवन्ति प्राप्ते अप्राप्ते उभयत्र वा इति ।

४ - २८ - विभाषा विप्रलापे प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः ।

५ - २८ - कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र ।

६ - २८ - व्यक्तवाचाम् इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति ।

७ - २८ - प्राप्ते ।

८ - २८ - व्यक्तवाचाम् इति हि वर्तते ।

९ - २८ - विभाषा उपपदेन प्रतीयमाने प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः ।

१० - २८ - कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र ।

११ - २८ - स्वरितञितः इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति ।

१२ - २८ - प्राप्ते ।

१३ - २८ - स्वरितञितः इति हि वर्तते ।

१४ - २८ - तिरः अन्तर्धौ विभाषा कृञि प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः ।

१५ - २८ - कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र ।

१६ - २८ - अन्तर्धौ इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति ।

१७ - २८ - प्राप्ते ।

१८ - २८ - अन्तर्धौ इति हि वर्तते ।

१९ - २८ - अधिः ईश्वरे विभाषा कृञि प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः ।

२० - २८ - कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र ।

२१ - २८ - ईश्वरे इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति ।

२२ - २८ - प्राप्ते ।

२३ - २८ - ईश्वरे इति हि वर्तते ।

२४ - २८ - दिवः तदर्थस्य विभाषा उपसर्गे प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः ।

२५ - २८ - कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र ।

२६ - २८ - तदर्थस्य इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति ।

२७ - २८ - प्राप्ते ।

२८ - २८ - तदर्थस्य इति वर्तते

१ - ३४ - उभयत्र च ।

२ - ३४ - इतः उत्तरम् याः विभाषाः अनुक्रमिष्यामः उभयत्र ताः द्रष्टव्याः ।

३ - ३४ - त्रिसंशयाः तु भवन्ति प्राप्ते अप्राप्ते उभयत्र वा इति ।

४ - ३४ - हृक्रोः अन्यतरस्याम् प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः ।

५ - ३४ - कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र ।

६ - ३४ - गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति ।

७ - ३४ - उभयत्र ।

८ - ३४ - प्राप्ते तावत् अभ्यवहारयति सैन्धवान् , अभ्यवहारयति सैन्धवैः , विकारयति सैन्धवान् , विकारयति सैन्धवैः ।

९ - ३४ - अप्राप्ते हरति भारम् देवदत्तः ।

१० - ३४ - हारयति भारम् देवदत्तम् , हारयति भारम् देवदत्तेन ।

११ - ३४ - करोति कटम् देवदत्तः ।

१२ - ३४ - कारयति कटम् देवदत्तम् , कारयति कटम् देवदत्तेन ।

१३ - ३४ - न यदि विभाषा साकाङ्क्षे प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः ।

१४ - ३४ - कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र ।यदि इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति ।

१५ - ३४ - उभयत्र ।

१६ - ३४ - प्राप्ते तावत् अभिजानासि देवदत्त यत् कश्मीरेषु वत्स्यामः , यत् कश्मीरेषु अवसाम , यत् तत्र ओदनान् भोक्ष्यामहे , यत् तत्र ओदनान् अभुञ्ज्महि ।

१७ - ३४ - अप्राप्ते अभिजानासि देवदत्त कश्मीरान् गमिष्यामः , कश्मीरान् अगच्छाम , तत्र ओदनाम् भोक्ष्यामहे , तत्र ओदनान् अभुञ्ज्महि ।

१८ - ३४ - विभाषा श्वेः प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः ।

१९ - ३४ - कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र ।किति इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति ।

२० - ३४ - उभयत्र ।

२१ - ३४ - प्राप्ते तावत् शुशुवतुः , शुशुवुः , शिश्वियतुः , शिश्वियुः ।

२२ - ३४ - अप्राप्ते शुशाव शुशविथ शिश्वाय शिश्वयिथ ।

२३ - ३४ - विभाषा सङ्घुषास्वनाम् सम्पूर्वात् घुषेः प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः ।

२४ - ३४ - कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र ।

२५ - ३४ - घुषिः अविशब्दने इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति ।

२६ - ३४ - उभयत्र ।

२७ - ३४ - प्राप्ते तावत् सङ्घुष्टा रज्जुः , सङ्घुषिता रज्जुः ।

२८ - ३४ - अप्राप्ते सङ्घुष्टम् वाक्यम् , सङ्घुषितम् वाक्यम् ।

२९ - ३४ - आङ्पूर्वात् स्वनेः प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः ।

३० - ३४ - कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र ।

३१ - ३४ - मनसि इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति ।

३२ - ३४ - उभयत्र ।

३३ - ३४ - प्राप्ते तावत् आस्वान्तम् मनः , आस्वनितम् मनः ।

३४ - ३४ - अप्राप्ते आस्वान्तः देवदत्तः , आस्वनितः देवदत्तः इति ।

१ - ४९ - fकिम् इयम् वाक्यस्य सम्प्रसारणसञ्ज्ञा क्रियते इक् यणः इति एतत् वाक्यम् सम्प्रसारणसञ्ज्ञम् भवति इति , आहोस्वित् वर्णस्य इक् यः यणः स्थाने सः सम्प्रसारणसञ्ज्ञः भवति इति ।

२ - ४९ - कः च अत्र विशेषः ।

३ - ४९ - सम्प्रसारणसञ्ज्ञायाम् वाक्यसञ्ज्ञा चेत् वर्णविधिः ।

४ - ४९ - सम्प्रसारणसञ्ज्ञायाम् वाक्यसञ्ज्ञा चेत् वर्णविधिः न सिध्यति सम्प्रसारणात् परः पूर्वः भवति , सम्प्रसारणस्य दीर्घः भवति इति ।

५ - ४९ - न हि वाक्यस्य सम्प्रसारणसञ्ज्ञायाम् सत्याम् एषः निर्देशः उपपद्यते न अपि एतयोः कार्ययोः सम्भवः अस्ति ।

६ - ४९ - अस्तु तर्हि वर्णस्य ।

७ - ४९ - वर्णसञ्ज्ञा चेत् निर्वृत्तिः । वर्णसञ्ज्ञा चेत् निर्वृत्तिः न सिध्यति ष्यङः सम्प्रसारणम् इति ।

८ - ४९ - सः एव हि तावत् इक् दुर्लभः यस्य सञ्ज्ञा क्रियते ।

९ - ४९ - अथ अपि कथम् चित् लभ्येत केन असु यणः स्थाने स्यात् ।

१० - ४९ - अनेन एव हि असौ व्यवस्थाप्यते ।

११ - ४९ - तत् एतत् इतरेतराश्रयम् भवति , इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते ।

१२ - ४९ - विभक्तिविशेषनिर्देशः तु ज्ञापकः उभयसञ्ज्ञात्वस्य ।

१३ - ४९ - यत् अयम् विभक्तिविशेषैः निर्देशम् करोति सम्प्रसारणात् परः पूर्वः भवति सम्प्रसारणस्य दीर्घः भवति ष्यङः सम्प्रसारणम् इति तेन ज्ञायते उभयोः सञ्ज्ञा भवति इति ।

१४ - ४९ - यत् तावत् आह सम्प्रसारणात् परः पूर्वः भवति सम्प्रसारणस्य दीर्घः भवति इति तेन ज्ञायते वर्णस्य भवति इति ।

१५ - ४९ - यत् अपि आह ष्यङः सम्प्रसारणम् इति तेन ज्ञायते वाक्यस्य अपि सञ्ज्ञा भवति इति ।

१६ - ४९ - अथ वा पुनः अस्तु वाक्यस्य एव ।

१७ - ४९ - ननु च उक्तम् सम्प्रसारणसञ्ज्ञायाम् वाक्यसञ्ज्ञा चेत् वर्णविधिः इति ।

१८ - ४९ - न एषः दोषः ।

१९ - ४९ - यथा काकात् जातः काकः , श्येनात् जातः श्येनः एवम् सम्प्रसारणात् जातम् सम्प्रसारणम् ।

२० - ४९ - यत् तत् सम्प्रसारणात् जातम् सम्प्रसारणम् तस्मात् परः पूर्वः भवति तस्य दीर्घः भवति इति ।

२१ - ४९ - अथ वा दृश्यन्ते हि वाक्येषु वाक्यैकदेशान् प्रयुञ्जानाः पदेषु च पदैकदेशान् ।

२२ - ४९ - वाक्येषु तावत् वाक्यैकदेशान् प्रविश पिण्डीम् , प्रविश तर्पर्णम् ।

२३ - ४९ - पदेषु पदैकदेशान् देवदत्तः दत्तः , सत्यभामा भामा इति ।

२४ - ४९ - एवम् इह अपि सम्प्रसारणनिर्वृत्तात् सम्प्रसारणनिर्वृत्तस्य इति एतस्य वाक्यस्य अर्थे सम्प्रसारणात् सम्प्रसारणस्य इति वाक्यैकदेशः प्रयुज्यते ।

२५ - ४९ - तेन निर्वृत्तस्य विधिम् विज्ञास्यामः ।

२६ - ४९ - सम्प्रसारणनिर्वृत्तात् सम्प्रसारणनिर्वृत्तस्य इति ।

२७ - ४९ - अथ वा आह अयम् सम्प्रसारणात् परः पूर्वः भवति सम्प्रसारणस्य दीर्घः भवति इति ।

२८ - ४९ - न च वाक्यस्य सम्प्रसारणसञ्ज्ञायाम् सत्याम् एषः निर्देशः उपपद्यते न अपि एतयोः कार्ययोः सम्भवः अस्ति ।

२९ - ४९ - तत्र वचनात् भविष्यति ।

३० - ४९ - अथ वा पुनः अस्तु वर्णस्य ।

३१ - ४९ - ननु च उक्तम् वर्णसञ्ज्ञा चेत् निर्वृत्तिः इति ।

३२ - ४९ - न एषः दोषः ।

३३ - ४९ - इतरेतराश्रयमात्रम् एतत् चोदितम् ।

३४ - ४९ - सर्वाणि च इतरेतराश्रयाणि एकत्वेन परिहृतानि सिद्धम् तु नित्यशब्दत्वात् इति ।

३५ - ४९ - न इदम् तुल्यम् अन्यैः इतरेतराश्रयैः ।

३६ - ४९ - न हि तत्र किम् चित् उच्यते अस्य स्थाने ये आकारैकारौकाराः भाव्यन्ते ते वृद्धिसञ्ज्ञाः भवन्ति इति ।

३७ - ४९ - इह पुनः उच्यते इक् यः यणः स्थाने सः सम्प्रसारणसञ्ज्ञः भवति इति ।

३८ - ४९ - एवम् तर्हि भाविनी इयम् सञ्ज्ञा विज्ञास्यते ।

३९ - ४९ - तत् यथा कः चित् कम् चित् तन्तुवायम् आह अस्य सूत्रस्य शाटकम् वय इति ।

४० - ४९ - सः पश्यति यदि शाटकः न वातव्यः अथ वातव्यः न शाटकः ।

४१ - ४९ - शाटकः वातव्यः इति विप्रतिषिद्धम् ।

४२ - ४९ - भाविनी खलु अस्य सञ्ज्ञा अभिप्रेता ।

४३ - ४९ - सः मन्ये वातव्यः यस्मिन् उते शाटकः इति एतत् भवति इति ।

४४ - ४९ - एवम् इह अपि सः यणः स्थाने भवति यस्य अभिनिर्वृत्तस्य सम्प्रसारणम् इति एषा सञ्ज्ञा भविष्यति ।

४५ - ४९ - अथ वा इजादियजादिप्रवृत्तिः च एव हि लोके लक्ष्यते ।

४६ - ४९ - यजाद्युपदेशात् तु इजादिनिवृत्तिः प्रसक्ता ।

४७ - ४९ - प्रयुञ्जते च पुनः लोकाः इष्टम् उप्तम् इति ।

४८ - ४९ - ते मन्यामहे अस्य यणः स्थाने इमम् इकम् प्रयुञ्जते इति ।

४९ - ४९ - तत्र तस्य असाध्वभिमतस्य शास्त्रेण साधुत्वम् अवस्थाप्यते किति साधुः भवति ङिति साधुः भवति इति ।

१ - ८ - समासनिर्देशः अयम् ।

२ - ८ - तत्र न ज्ञायते कः आदिः कः अन्तः इति ।

३ - ८ - तत् यथा अजाविधनौ देवदत्तयज्ञदत्तौ इति उक्ते न ज्ञायते कस्य अजाः धनम् कस्य अवयः इति ।

४ - ८ - यदि अपि तावत् लोके एषः दृष्टान्तः दृष्टान्तस्य अपि पुरुषारम्भः निवर्तकः भवति ।

५ - ८ - अस्ति च इह कः चित् पुरुषारम्भः ।

६ - ८ - अस्ति इति आह ।

७ - ८ - कः ।

८ - ८ - सङ्ख्यातनुदेशः नाम ।

१ - ३५ - कौ पुनः टकितौ आद्यन्तौ भवतः ।

२ - ३५ - आगमौ इति आह ।

३ - ३५ - युक्तम् पुनः यत् नित्येषु नाम शब्देषु आगमशासनम् स्यात् न नित्येषु शब्देषु कूटस्थैः अविचालिभिः वर्णैः भवितव्यम् अनपायोपजनविकारिभिः ।

४ - ३५ - आगमः च नाम अपूर्वः शब्दोपजनः ।

५ - ३५ - अथ युक्तम् यत् नित्येषु शब्देषु आदेशाः स्युः ।

६ - ३५ - बाढम् युक्तम् ।

७ - ३५ - शब्दान्तरैः इह भवितव्यम् ।

८ - ३५ - तत्र शब्दान्तरात् शब्दान्तरस्य प्रतिपत्तिः युक्ता ।

९ - ३५ - आदेशाः तर्हि इमे भविष्यन्ति अनागमकानाम् सागमकाः ।

१० - ३५ - तत् कथम् ।

११ - ३५ - सञ्ज्ञाधिकारः अयम् ।

१२ - ३५ - आद्यन्तौ च इह सङ्कीर्त्येते ।

१३ - ३५ - टकार्ककारौ इतौ उदाह्रियेते ।

१४ - ३५ - तत्र आद्यन्तयोः टकारककारौ इतौ सञ्ज्ञे भविष्यतः ।

१५ - ३५ - तत्र आर्धधातुकस्य इट् वलादेः इति उपस्थितम् इदम् भवति आदिः इति ।

१६ - ३५ - तेन इकारादिः आदेशः भविष्यति ।

१७ - ३५ - एतावत् इह सूत्रम् इट् इति ।

१८ - ३५ - कथम् पुनः इयता सूत्रेण इकारादिः आदेशः लभ्यः ।

१९ - ३५ - लभ्यः इति आह ।

२० - ३५ - कथम्. बहुव्रीहिनिर्देशात् ।

२१ - ३५ - बहुव्रीहिनिर्देशः अयम् इकारः आदिः अस्य इति ।

२२ - ३५ - यदि अपि तावत् अत्र एतत् शक्यते वकुत्म् इह कथम् लुङ्लङ्लृङ्क्षु अट् उदात्तः इति यत्र अशक्यम् उदात्तग्रहणेन अकारः विशेषयितुम् ।

२३ - ३५ - तत्र कः दोषः ।

२४ - ३५ - अङ्गस्य उदात्तत्वम् प्रसज्येत ।

२५ - ३५ - न एषः दोषः ।

२६ - ३५ - त्रिपदः अयम् बहुव्रीहिः ।

२७ - ३५ - तत्र वाक्ये एव उदात्तग्रहणेन अकारः विशेष्यते अकारः उदात्तः आदिः अस्य इति ।

२८ - ३५ - यत्र तर्हि अनुवृत्त्या एतत् भवति आट् अजादीनाम् इति ।

२९ - ३५ - वक्ष्यति एतत् अजादीनाम् अटा सिद्धम् इति ।

३० - ३५ - अथ वा यत् तावत् अयम् सामान्येन शक्नोति उपदेष्टुम् तत् तावत् उपदिशति प्रकृतिम् ततः वलादि आर्धधातुकम् ततः पश्चात् इकारम् ।

३१ - ३५ - तेन अयम् विशेषेण शब्दान्तरम् समुदायम् प्रतिपद्यते ।

३२ - ३५ - तत् यथा खदिरबुर्बुरयोः खदिरबुर्बुरौ गौरकाण्डौ सूक्ष्मपर्णौ ।

३३ - ३५ - ततः पश्चात् आह कण्टकवान् खदिरः इति ।

३४ - ३५ - तेन असौ विशेषेण द्रव्यान्तरम् समुदायम् प्रतिपद्यते ।

३५ - ३५ - अथ वा एतया आनुपूर्व्या अयम् शब्दान्तरम् उपदिशति प्रकृतिम् ततः वलादि आर्धधातुकम् ततः पश्चात् इकारम् यस्मिन् तस्य आगमबुद्धिः भवति ।

१ - ४४ - टकितोः आद्यन्तविधाने प्रत्ययप्रतिषेधः ।

२ - ४४ - टकितोः आद्यन्तविधाने प्रत्ययस्य प्रतिषेधः वक्तव्यः ।

३ - ४४ - प्रत्ययः आदिः अन्तः वा मा भूत् चरेः टः आतः अनुपसर्गे कः इति ।

४ - ४४ - परवचनात् सिद्धम् ।

५ - ४४ - परवचनात् प्रत्ययः आदिः अन्तः वा न भविष्यति ।

६ - ४४ - परवचनात् सिद्धम् इति चेत् न अपवादत्वात् ।

७ - ४४ - परवचनात् सिद्धम् इति चेत् न ।

८ - ४४ - किम् कारणम् ।

९ - ४४ - अपवादत्वात् ।

१० - ४४ - अपवादः अयम् योगः ।

११ - ४४ - तत् यथा मित् अचः अन्त्यात् परः इति एषः योगः स्थानेयोगत्वस्य प्रत्ययपरत्वस्य च अपवादः ।

१२ - ४४ - विषमः उपन्यासः ।

१३ - ४४ - युक्तम् तत्र यत् अनवकाशम् मित्करणम् स्थानेयोगत्वम् प्रत्ययपरत्वम् च बाधते ।

१४ - ४४ - इह पुनः उभयम् सावकासम् ।

१५ - ४४ - कः अवकाशः ।

१६ - ४४ - टित्करणस्य अवकाशः टितः इति ईकारः यथा स्यात् ।

१७ - ४४ - कित्करणस्य अवकाशः किति इति आकारलोपः यथा स्यात् ।

१८ - ४४ - प्रयोजनम् नाम तत् वक्तव्यम् यत् नियोगतः स्यात् ।

१९ - ४४ - यदि च अयम् नियोगतः परः स्यात् ततः एतत् प्रयोजनम् स्यात् ।

२० - ४४ - कुतः नु खलु एतत् टित्करणात् अयम् परः भविष्यति न पुनः आदिः इति कित्करणात् च परः भविष्यति न पुनः अन्तः इति ।

२१ - ४४ - टितः खलु अपि एषः परिहारः यत्र न अस्ति सम्भवः यत् परः च स्यात् आदिः च ।

२२ - ४४ - कितः तु अपरिहारः ।

२३ - ४४ - अस्ति हि सम्भवः यत् परः च स्यात् अन्तः च ।

२४ - ४४ - तत्र कः दोषः ।

२५ - ४४ - उपसर्गे घोः किः आध्योः , प्रध्योः ।

२६ - ४४ - नोङ्धात्वोः इति प्रतिषेधः प्रसज्येत ।

२७ - ४४ - टितः च अपि अपरिहारः ।

२८ - ४४ - स्यात् एव हि अयम् टित्करणात् आदिः न पुनः परः ।

२९ - ४४ - क्व तर्हि इदानीम् इदम् स्यात् टितः ईकारः भवति इति ।

३० - ४४ - यः उभयवान् गापोः टक् इति ।

३१ - ४४ - सिद्धम् तु षष्ठ्यधिकारे वचनात् ।

३२ - ४४ - सिद्धम् एतत् ।

३३ - ४४ - कथम् ।

३४ - ४४ - षष्ठ्यधिकारे अयम् योगः करत्व्यः आद्यन्तौ टकितौ षष्ठीनिर्दिष्टस्य इति ।

३५ - ४४ - आद्यन्तयोः वा षष्थ्यर्थत्वात् तदभावे असम्प्रत्ययः ।

३६ - ४४ - आद्यन्तयोः वा षष्थ्यर्थत्वात् षष्ठ्याः अभावे असम्प्रत्ययः ।

३७ - ४४ - आदिः अन्तः वा न भविष्यति ।

३८ - ४४ - युक्तम् पुनः यत् शब्दनिमित्तकः नाम अर्थः स्यात् न अर्थनिमित्तकेन शब्देन भवितव्यम् ।

३९ - ४४ - अर्थनिमित्तकः एव शब्दः ।

४० - ४४ - तत् कथम् ।

४१ - ४४ - आद्यन्तौ षष्ठ्यर्थौ ।

४२ - ४४ - न च अत्र षष्ठीम् पश्यामः ।

४३ - ४४ - ते मन्यामहे आद्यन्तौ एव अत्र न स्तः ।

४४ - ४४ - तयोः अभावे षष्ठी अपि न भवति इति ।

१ - १६ - किमर्थम् इदम् उच्यते ।

२ - १६ - मित् अचः अन्त्यात् परः इति स्थानपरप्रत्ययापवादः ।

३ - १६ - मित् अचः अन्त्यात् परः इति उच्यते स्थानेयोगत्वस्य प्रत्ययपरत्वस्य च अपवादः ।

४ - १६ - स्थानेयोगत्वस्य तावत् कुण्डानि वनानि पयांसि यशांसि ।

५ - १६ - प्रत्ययपरत्वस्य भिनत्ति छिनत्ति ।

६ - १६ - भवेत् इदम् युक्तम् उदाहरणम् कुण्डानि वनानि यत्र न अस्ति सम्भवः यत् अयम् अचः अन्य्तात् परः च स्यात् स्थाने च इति ।

७ - १६ - इदम् तु अयुक्तम् पयांसि यशांसि ।

८ - १६ - अस्ति हि सम्भवः यत् अचः अन्य्तात् परः च स्यात् स्थाने च ।

९ - १६ - एतत् अपि युक्तम् ।

१० - १६ - कथम् ।

११ - १६ - न एव ईश्वरः आज्ञापयति न अपि धर्मसूत्रकाराः पठन्ति अपवादैः उत्सर्गाः बाध्यन्ताम् इति ।

१२ - १६ - किम् तर्हि ।

१३ - १६ - लौकिकः अयम् दृष्टान्तः ।

१४ - १६ - लोके हि सति अपि सम्भवे बाधनम् भवति ।

१५ - १६ - तत् यथा दधि ब्राह्मणेभ्यः दीयताम् तक्रम् कौण्डिन्याय इति सति अपि सम्भवे दधिदानस्य तक्रदानम् निवर्तकम् भवति ।

१६ - १६ - एवम् इह अपि सति अपि सम्भवे अचाम् अन्त्यात् परत्वम् षष्ठीस्थानेयोगत्वम् बाधिष्यते ।

१ - १५ - अन्त्यात् पूर्वः मस्जेः अनुषङ्गसंयोगादिलोपार्थम् ।

२ - १५ - अन्त्यात् पूर्वः मस्जेः मित् वक्तव्यः ।

३ - १५ - किम् प्रयोजनम् ।

४ - १५ - अनुषङ्गसंयोगादिलोपार्थम् ।

५ - १५ - अनुषङ्गलोपार्थम् संयोगादिलोपार्थम् च ।

६ - १५ - अनुषङ्गलोपार्थम् तावत् मग्नः , मग्नवान् ।

७ - १५ - संयोगादिलोपार्थम् मङ्क्ता मङ्क्तुम् , मङ्क्तव्यम् ।

८ - १५ - भर्जिमर्च्योः च ।

९ - १५ - भर्जिमर्च्योः च अन्त्यात् पूर्वः मित् वक्तव्यः ।

१० - १५ - भरूजा मरीचयः इति ।

११ - १५ - सः तर्हि वक्तव्यः ।

१२ - १५ - न वक्तव्यः ।

१३ - १५ - निपातनात् सिद्धम् ।

१४ - १५ - किम् निपातनम् ।

१५ - १५ - भरूजाशब्दः अङ्गुल्यादिषु पठ्यते मरीचिशब्दः बाह्वादिषु ।

१ - ७६ - किम् पुनः अयम् पूर्वान्तः आहोस्वित् परादिः आहोस्वित् अभक्तः ।

२ - ७६ - कथम् च अयम् पूर्वान्तः स्यात् कथम् वा परादिः कथम् वा अभक्तः ।

३ - ७६ - यदि अन्तः इति वर्तते ततः पूर्वान्तः ।

४ - ७६ - अथ आदिः इति वर्तते ततः परादिः ।

५ - ७६ - अथ उभयम् निवृत्तम् ततः अभक्तः ।

६ - ७६ - कः च अत्र विशेषः ।

७ - ७६ - अभक्ते दीर्घनलोपस्वरणत्वानुस्वारशीभावाः ।

८ - ७६ - यदि अभक्तः दीर्घत्वम् न प्राप्नोति कुण्डानि वनानि ।

९ - ७६ - नोपधायाः सर्वनामस्थाने च असम्बुद्धौ इति दीर्घत्वम् न प्राप्नोति ।

१० - ७६ - दीर्घ ।

११ - ७६ - नलोप नलोपः च न सिध्यति अग्ने त्री ते वजिना त्री सधस्था , त ता पिण्डानाम् ।

१२ - ७६ - नलोपः प्रातिपदिकान्तस्य इति नलोपः न प्राप्नोति ।

१३ - ७६ - नलोप ।

१४ - ७६ - स्वर स्वरः च न सिध्यति सर्वाणि ज्योतींषि ।

१५ - ७६ - सर्वस्य सुपि इति आद्युदात्तत्वम् न प्राप्नोति ।

१६ - ७६ - स्वर ।

१७ - ७६ - णत्व णत्वम् च न सिध्यति माषवापाणि व्रीहिवापाणि ।

१८ - ७६ - पूर्वान्ते प्रातिपदिकान्तनकारस्य इति सिद्धम् , परादौ विभक्तिनकारस्य , अभक्ते नुमः ग्रहणम् कर्तव्यम् ।

१९ - ७६ - न कर्तव्यम् ।

२० - ७६ - क्रियते न्यासे एव प्रातिपदिकान्तनुम्विभक्तिषु इति ।

२१ - ७६ - णत्व ।

२२ - ७६ - अनुस्वार अनुस्वारः च न सिध्यति द्विषन्तपः , परन्तपः ।

२३ - ७६ - मः अनुस्वारः हलि इति अनुस्वारः न प्राप्नोति ।

२४ - ७६ - मा भूत् एवम् ।

२५ - ७६ - नः च अपदान्तस्य झलि इति एवम् भविष्यति ।

२६ - ७६ - यः तर्हि न झल्परः वहंलिहः गौः , अभ्रंलिहः वायुः ।

२७ - ७६ - अनुस्वार ।

२८ - ७६ - शीभाव शीभावः च न सिध्यति त्रपुणी जतुनी तुम्बुरुणी ।

२९ - ७६ - नपुंसकात् उत्तरस्य औङः शीभावः भवति इति शीभावः न प्राप्नोति ।

३० - ७६ - शीभाव ।

३१ - ७६ - एवम् तर्हि परादिः करिष्यते ।

३२ - ७६ - परादौ गुणवृद्ध्यौत्त्वदीर्घनलोपानुस्वारशीभावेनकारप्रतिषेधः ।

३३ - ७६ - यदि परादिः गुणः प्रतिषेध्यः त्रपुणे जतुने तुम्बुरुणे ।

३४ - ७६ - घेः ङिति इति गुणः प्राप्नोति ।

३५ - ७६ - गुण ।

३६ - ७६ - वृद्धि वृद्धिः प्रतिषेध्या अतिसखीनि ब्राह्मणकुलानि ।

३७ - ७६ - सख्युः असम्बुद्धौ इति णित्त्वे अचः ञ्णिति इति वृद्धिः प्राप्नोति ।

३८ - ७६ - वृद्धि ।

३९ - ७६ - औत्त्व औत्त्वम् च प्रतिषेध्यम् त्रपुणि जतुनि तुम्बुरुणि ।

४० - ७६ - इदुद्भ्याम् औत् अत् च घेः इति औत्त्वम् प्राप्नोति ।

४१ - ७६ - औत्त्व ।

४२ - ७६ - दीर्घ दीर्घत्वम् च न सिध्यति कुण्डानि वनानि ।

४३ - ७६ - नोपधायाः सर्वनामस्थाने च असम्बुद्धौ इति दीर्घत्वम् न प्राप्नोति ।

४४ - ७६ - मा भूत् एवम् ।

४५ - ७६ - अतः दीर्घः यञि सुपि च इति एवम् भविष्यति ।

४६ - ७६ - इह तर्हि अस्थीनि दधीनि प्रियसखीनि ब्राह्मणकुलानि ।

४७ - ७६ - दीर्घ ।

४८ - ७६ - नलोप नलोपः च न सिध्यति अग्ने त्री ते वजिना त्री सधस्था , त ता पिण्डानाम् ।

४९ - ७६ - नलोपः प्रातिपदिकान्तस्य इति नलोपः न प्राप्नोति ।

५० - ७६ - नलोप ।

५१ - ७६ - अनुस्वार अनुस्वारः च न सिध्यति द्विषन्तपः , परन्तपः ।

५२ - ७६ - मः अनुस्वारः हलि इति अनुस्वारः न प्राप्नोति ।

५३ - ७६ - मा भूत् एवम् ।

५४ - ७६ - नः च अपदान्तस्य झलि इति एवम् भविष्यति ।

५५ - ७६ - यः तर्हि न झल्परः वहंलिहः गौः , अभ्रंलिहः वायुः ।

५६ - ७६ - अनुस्वार ।

५७ - ७६ - शीभावेनकारप्रतिषेधः शीभावे नकारस्य प्रतिषेधः वक्तव्यः त्रपुणी जतुनी तुम्बुरुणी ।

५८ - ७६ - सनुम्कस्य शीभावः प्राप्नोति ।

५९ - ७६ - न एषः दोषः ।

६० - ७६ - निर्दिश्यमानस्य आदेशाः भवन्ति इति एवम् न भविष्यति ।

६१ - ७६ - यः तर्हि निर्दिश्यते तस्य न प्राप्नोति ।

६२ - ७६ - कस्मात् ।

६३ - ७६ - नुमा व्यवहितत्वात् ।

६४ - ७६ - एवम् तर्हि पूर्वान्तः करिष्यते ।

६५ - ७६ - पूर्वान्ते नपुंसकोपसर्जनह्रस्वत्वम् द्विगुस्वरः च ।

६६ - ७६ - यदि पूर्वन्तः क्रियते नपुंसकोपसर्जनह्रस्वत्वम् द्विगुस्वरः च न सिध्यति ।

६७ - ७६ - नपुंसकोपसर्जनह्रस्वत्वम् आराशस्त्रिणी धानाशष्कुलिनी निष्कौशाम्बिनी निर्वाराणसिनी ।

६८ - ७६ - द्विगुस्वर पञ्चारत्निनी दशारत्निनी ।

६९ - ७६ - नुमि कृते अनन्त्यत्वात् एते विधयः न प्राप्नुन्वन्ति ।

७० - ७६ - न वा बहिरङ्गलक्षणत्वात् ।

७१ - ७६ - न वा एषः दोषः ।

७२ - ७६ - किम् कारणम् ।

७३ - ७६ - बहिरङ्गलक्षणत्वात् ।

७४ - ७६ - बहिरङ्गः नुम् , अन्तरङ्गाः एते विधयः ।

७५ - ७६ - असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

७६ - ७६ - द्विगुस्वरे भूयान् परिहारः सङ्घातभक्तः असौ न उत्सहते अवयवस्य इगन्तताम् विहन्तुम् इति कृत्वा द्विगुस्वरः भविष्यति ।

१ - ४६ - किमर्थम् इदम् उच्यते ।

२ - ४६ - एचः इक् सवर्णाकारनिवृत्त्यर्थम् ।

३ - ४६ - एचः इक् भवति इति उच्यते सवर्णनिवृत्त्यर्थम् अकारनिवृत्त्यर्थम् च ।

४ - ४६ - सवर्ण्निवृत्त्यर्थम् तावत् एङः ह्रस्वशासनेषु अर्धः एकारः अर्धः ओकारः वा मा भूत् इति ।

५ - ४६ - अकारनिवृत्त्यर्थम् च ।

६ - ४६ - इमौ ऐचौ समाहारवर्णौ ।

७ - ४६ - मात्रा अवर्णस्य मात्रा इवर्णोवर्णयोः ।

८ - ४६ - तयोः ह्रस्वशासनेषु कदा चित् अवर्णः स्यात् कदा चित् इवर्णोवर्णौ ।

९ - ४६ - मा कदा चित् अवर्णम् भूत् इति एवमर्थम् इदम् उच्यते ।

१० - ४६ - अस्ति प्रयोजनम् एतत् ।

११ - ४६ - किम् तर्हि इति ।

१२ - ४६ - दीर्घप्रसङ्गः ।

१३ - ४६ - दीर्घाः तु इकः प्राप्नुवन्ति ।

१४ - ४६ - किम् कारणम् ।

१५ - ४६ - स्थाने अन्तरतमः भवति इति ।

१६ - ४६ - ननु च ह्रस्वादेशे इति उच्यते ।

१७ - ४६ - तेन दीर्घाः न भविष्यन्ति ।

१८ - ४६ - विष्यार्थम् एतत् स्यात् ।

१९ - ४६ - एचः ह्रस्वप्रसङ्गे इक् भवति इति ।

२० - ४६ - दीर्घाप्रसङ्गः तु निवर्तकत्वात् ।

२१ - ४६ - दीर्घाणाम् तु इकाम् अप्रसङ्गः ।

२२ - ४६ - किम् कारणम् ।

२३ - ४६ - निवर्तकत्वात् ।

२४ - ४६ - न अनेन इकः निर्वर्त्यन्ते ।

२५ - ४६ - किम् तर्हि ।

२६ - ४६ - अनिकः निवर्त्यन्ते ।

२७ - ४६ - सिद्धाः एव ह्रस्वाः इकः च अनिकः च ।

२८ - ४६ - तत्र अनेन अनिकः निवर्त्यन्ते ।

२९ - ४६ - सवर्णनिवृत्त्यर्थेन तावत् न अर्थः ।

३० - ४६ - सिद्धम् एङः सस्थानत्वात् ।

३१ - ४६ - सिद्धम् एतत् ।

३२ - ४६ - कथम् ।

३३ - ४६ - एङः सस्थानत्वात् इकारोकारौ भविष्यतः ।

३४ - ४६ - अर्धः एकारः अरधः ओकारः वा न भविष्यति ।

३५ - ४६ - ननु च एङः सस्थानतरौ अर्धः एकारौकारौ ।

३६ - ४६ - न तौ स्तः ।

३७ - ४६ - यदि हि तौ स्याताम् तौ एव अयम् उपदिशेत् ।

३८ - ४६ - ननु च भोः छन्दोगानाम् सात्यमुग्रिराणायनीयाः अर्धम् एकारम् अर्धम् ओकारम् च अधीयते सुजाते एश्वसूनृते , अध्वर्यो ओद्रिभिः सुतम् , शुक्रम् ते एन्यत् यजतम् ते एन्यत् इति ।

३९ - ४६ - पार्षदकृतिः एषा तत्रभवताम् ।

४० - ४६ - न एव लोके न अन्यस्मिन् वेदे अर्धः एकारः अर्धः ओकारः वा अस्ति ।

४१ - ४६ - अकारनिवृत्त्यर्थेन अपि न अर्थः ।

४२ - ४६ - ऐचोः च उत्तरभूयस्त्वात् ।

४३ - ४६ - ऐचोः च उत्तरभूयस्त्वात् अवर्णः न भविष्यति ।

४४ - ४६ - भूयसी मात्रा इवर्णोवर्णयोः अल्पीयसी अवर्णस्य ।

४५ - ४६ - भूयसः एव ग्रहणानि भविष्यन्ति ।

४६ - ४६ - तत् यथा ब्राह्मणग्रामः आनीयताम् इति उच्यते तत्र च अवरतः पञ्चकारुकी भवति ।

१ - ४ - किम् इदम् स्थानेयोगा इति ।

२ - ४ - स्थाने योगः अस्याः सा इयम् स्थानेयोगा ।

३ - ४ - सप्तम्यलोपः निपातनात् ।

४ - ४ - तृतियाया वा एत्वम् स्थानेन योगः अस्याः सा इयम् स्थानेयोगा ।

१ - ६९ - किमर्थम् पुनः इदम् उच्यते ।

२ - ६९ - षष्ठ्याः स्थानेयोगवचनम् नियमार्थम् ।

३ - ६९ - नियमाऋथः अयम् आरम्भः ।

४ - ६९ - एकशतम् षष्ठ्यर्थाः यावन्तः वा ते सर्वे षष्ठ्याम् उच्चारितायाम् प्राप्नुवन्ति ।

५ - ६९ - इष्यते च व्याकरणे या षष्ठी सा स्थानेयोगा एव स्यात् इति ।

६ - ६९ - तत् च अन्तरेण यत्नम् न सिध्यति इति षष्ठ्याः स्थानेयोगवचनम् नियमार्थम् ।

७ - ६९ - एवमर्थम् इदम् उच्यते ।

८ - ६९ - अस्ति प्रयोजनम् एतत् ।

९ - ६९ - किम् तर्हि इति ।

१० - ६९ - अवयवषष्ठ्यादिषु अतिप्रसङ्गः शासः गोहः इति ।

११ - ६९ - अवयवषष्ठ्यादयः तु न सिध्यन्ति ।

१२ - ६९ - तत्र कः दोषः ।

१३ - ६९ - शासः इत् अङ्हलोः इति शासेः च अन्त्यस्य स्यात् उपधामात्रस्य च ।

१४ - ६९ - ऊत् उपधायाः गोहः इति गोहः च अन्त्यस्य स्यात् उपधामात्रस्य च ।

१५ - ६९ - अवयवषष्ठ्यादीनाम् च अप्राप्तिः योगस्य असन्दिग्धत्वात् ।

१६ - ६९ - अवयवषष्ठ्यादीनाम् च नियमस्य अप्राप्तिः ।

१७ - ६९ - किम् कारणम् ।

१८ - ६९ - योगस्य असन्दिग्धत्वात् ।

१९ - ६९ - सन्देहे नियमः न च अवयवषष्ठ्यादिषु सन्देहः ।

२० - ६९ - किम् वक्तव्यम् एतत् ।

२१ - ६९ - न हि ।

२२ - ६९ - कथम् अनुच्यमानम् गंस्यते. लौकिकः अयम् दृष्टाण्तः ।

२३ - ६९ - तत् यथा लोके कम् चित् कः चित् पृच्छति ग्रामान्तरम् गमिष्यामि पन्थानम् मे भवान् उपदिशतु इति ।

२४ - ६९ - सः तस्मै आचष्टे ।

२५ - ६९ - अमुष्मिन् अवकाशे हस्तदक्षिणः ग्रहीतव्यः अमुष्मिन् अवकाशे हस्तवामः इति ।

२६ - ६९ - यः तु अत्र तिर्यक्पथः भवति न तस्मिन् सन्देहः इति कृत्वा न असौ उपदिश्यते ।

२७ - ६९ - एवम् इह अपि सन्देहे नियमः न च अवयवषष्ठ्यादिषु सन्देहः ।

२८ - ६९ - अथ वा स्थाने अयोगा स्थानेयोगा किम् इदम् अयोगा इति ।

२९ - ६९ - अव्यक्तयोगा अयोगा ।

३० - ६९ - अथ वा योगवती योगा ।

३१ - ६९ - का पुनः योगवती ।

३२ - ६९ - यस्याः बहवः योगाः ।

३३ - ६९ - कुतः एतत् ।

३४ - ६९ - भूम्नि हि मतुप् भवति ।

३५ - ६९ - विशिष्टा वा षष्ठी स्थानेयोगा ।

३६ - ६९ - अथ वा किम् चिद् लिङ्गम् आसज्य वक्ष्यामि इत्थंलिङ्गा षष्ठी स्थानेयोगा भवति इति ।

३७ - ६९ - न तत् लिङ्गम् अवयवषष्ठ्यादिषु करिष्यते ।

३८ - ६९ - यदि एवम् शासः इत् अङ्हलोः शा हौ शासिग्रहणम् कर्तव्यम् स्थानेयोगार्थम् लिङ्गम् आसङ्क्ष्यामि इति ।

३९ - ६९ - न कर्तव्यम् ।

४० - ६९ - यत् एव अदः पुरस्तात् अवयवषष्ठ्यर्थम् प्रकृतम् एतत् उत्तरत्र अनुवृत्तम् सत् स्थानेयोगार्थम् भविष्यति ।

४१ - ६९ - कथम् ।

४२ - ६९ - अधिकारः नाम त्रिप्रकारः ।

४३ - ६९ - कः चित् एकदेशस्थः सर्वम् शास्त्रम् अभिज्वलयति यथा प्रदीपः सुप्रविज्वलितः सर्वम् वेश्म अभिज्वलयति ।

४४ - ६९ - अपरः अधिकारः यथा रज्ज्वा अयसा वा बद्धम् काष्ठम् अनुकृष्यते तद्वत् अनुकृष्यते चकारेण ।

४५ - ६९ - अपरः अधिकारः प्रतियोगम् तस्य अनिर्देशार्थः इति योगे योगे उपतिष्ठते ।

४६ - ६९ - तत् यदा एषः पक्षः अधिकारः प्रतियोगम् तस्य अनिर्देशार्थः इति तदा हि यत् एव अदः पुरस्तात् अवयवषष्ठ्यर्थम् प्रकऋतम् एतत् उत्तरत्र अनुवृत्तम् सत् स्थानेयोगार्थम् भविष्यति ।

४७ - ६९ - सम्प्रत्ययमात्रम् एतत् भवति ।

४८ - ६९ - न हि अनुच्चार्य शब्दम् लिङ्गम् शक्यम् आसङ्क्तुम् ।

४९ - ६९ - एवम् तर्हि आदेशे तत् लिङ्गम् करिष्यते तत् प्रकृतिम् आस्कन्त्स्यति ।

५० - ६९ - यदि नियमः क्रियते यत्र एका षष्ठी अनेकम् च विशेष्यम् तत्र न सिध्यति अङ्गस्य , हलः , अणः , सम्प्रसारणस्य इति ।

५१ - ६९ - हल् अपि विशेष्यः अण् अपि विशेष्यः सम्प्रसारणम् अपि विशेष्यम् ।

५२ - ६९ - असति पुनः नियमे कामचारः एकया षष्थ्या अनेकम् विशेषयितुम् ।

५३ - ६९ - तत् यथा ।

५४ - ६९ - देवदत्तस्य पुत्रः पाणिः कम्बलः इति ।

५५ - ६९ - तस्मात् न अर्थः नियमेन ।

५६ - ६९ - ननु च उक्तम् एकशतम् षष्ठ्यर्थाः यावन्तः वा ते सर्वे षष्ठ्याम् उच्चारितायाम् प्राप्नुवन्ति इति ।

५७ - ६९ - न एषः दोषः ।

५८ - ६९ - यदि अपि लोके बहवः अभिसम्बन्धाः आर्थाः यौनाः मौखाः स्रौवाः च शब्दस्य तु शब्देन कः अन्यः अभिसम्बन्धः भवितुम् अर्हति अन्यत् अतः स्थानात् ।

५९ - ६९ - शब्दस्य अपि शब्देन अनन्तरादयः अभिसम्बन्धाः ।

६० - ६९ - अस्तेः भूः भवति इति सन्देहः स्थाने अनन्तरे समीपे इति ।

६१ - ६९ - सन्देहमात्रम् एतत् भवति ।

६२ - ६९ - सर्वसन्देहेषु च इदम् उपतिष्ठते व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहात् अलक्षणम् इति ।

६३ - ६९ - स्थाने इति व्याख्यास्यामः ।

६४ - ६९ - न तर्हि इदानीम् अयम् योगः वक्तव्यः ।

६५ - ६९ - वक्तव्यः च ।

६६ - ६९ - किम् प्रयोजनम् ।

६७ - ६९ - षष्ठ्यन्तम् स्थानेन यथा युज्येत यतः षष्ठी उच्चारिता ।

६८ - ६९ - किम् कृतम् भवति ।

६९ - ६९ - निर्दिश्यमानस्य आदेशाः भवन्ति इति एषा परिभाषा न कर्तव्या भवति ।

१ - १५ - किम् उदाहरणम् ।

२ - १५ - इकः यण् अचि दधि अत्र मधु अत्र तालुस्थानस्य तालुस्थानः ओष्ठस्थानस्य ओष्ठस्थानः यथा स्यात् ।

३ - १५ - न एतत् अस्ति ।

४ - १५ - सङ्ख्यातानुदेशेन अपि एतत् सिद्धम् ।

५ - १५ - इदम् तर्हि तस्थस्थमिपाम् ताम्तम्तामः इति एकार्थस्य एकार्थः द्व्यर्थस्य द्व्यर्थः बह्वर्थस्य बहुवर्थः यथा स्यात् ।

६ - १५ - ननु च एतत् अपि सङ्ख्यातानुदेशेन एव सिद्धम् ।

७ - १५ - इदम् तर्हि अकः सवर्णे दीर्घः इति दण्डाग्रम् , क्षुपाग्रम् , दधि इन्द्रः , मधु उष्ट्रः इति कण्ठस्थानयोः कण्ठस्थानः तालुस्थानयोः तालुस्थानः ओष्ठस्थानयोः ओष्ठस्थानः यथा स्यात् इति ।

८ - १५ - अथ स्थाने इति वर्तमाने पुनः स्थानग्रहणम् किमर्थम् ।

९ - १५ - यत्र अनेकविधम् आन्तर्यम् तत्र स्थानतः एव आन्तर्यम् बलीयः यथा स्यात् ।

१० - १५ - किम् पुनः तत् ।

११ - १५ - चेता स्तोता प्रमाणतः अकारः गुणः प्राप्नोति स्थानतः एकारौकारौ ।

१२ - १५ - पुनः स्थानग्रहणात् एकारौकारौ भवतः ।

१३ - १५ - अथ तमब्ग्रहणम् किमर्थम् ।

१४ - १५ - झयः हः अन्यतरस्याम् इति अत्र सोष्मणः सोष्माणः इति द्वितीयाः प्रसक्ताः नादवतः नादवन्तः इति तृतीयाः ।

१५ - १५ - तमप्ग्रहणेन सोष्माणः नादवन्तः च ते भवन्ति चतुर्थाः वाग् घसति त्रिष्टुब् भसति इति ।

१ - ५० - किमर्थम् पुनः इदम् उच्यते ।

२ - ५० - स्थानिनः एकत्वनिर्देशात् अनेकादेशनिर्देशात् च सर्वप्रसङ्गः तस्मात् स्थानेन्तरतमवचनम् । स्थानी एकत्वेन निर्दिश्यते अकः इति , अनेकः च पुनः आदेशः प्रतिनिर्दिश्यते दीर्घः इति ।

३ - ५० - स्थानिनः एकत्वनिर्देशात् अनेकादेशनिर्देशात् च सर्वप्रसङ्गः ।

४ - ५० - सर्वे सर्वत्र प्राप्नुवन्ति ।

५ - ५० - इष्यते च अन्तरतमाः एव स्युः इति ।

६ - ५० - तत् च अन्तरेण यत्नम् न सिध्यति ।

७ - ५० - तस्मात् स्थाने अन्तरतमः इति वचनम् नियमार्थम् ।

८ - ५० - एवमर्थम् इदम् उच्यते ।

९ - ५० - अस्ति प्रयोजनम् एतत् ।

१० - ५० - किम् तर्हि इति ।

११ - ५० - यथा पुनः इयम् अन्तरतमनिर्वृत्त्तिः सा किम् प्रकृतितः भवति स्थानिनि अन्तरतमे षष्ठी , आहोस्वित् आदेशतः स्थाने प्राप्यमाणानाम् अन्तरतमः आदेशः भवति इति ।

१२ - ५० - कुतः पुनः इयम् विचारणा ।

१३ - ५० - उभयथा अपि तुल्या संहिता स्थानेन्तरतम , उरण् रपरः इति ।

१४ - ५० - किम् च अतः ।

१५ - ५० - यदि प्रकृतितः इकः यण् अचि यणाम् ये अन्तरतमाः इकः तत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति इह एव स्यात् दधि अत्र मधु अत्र ।

१६ - ५० - कुमारी अत्र ब्रह्मबन्ध्वर्थम् इति अत्र न स्यात् ।

१७ - ५० - आदेशतः पुनः अन्तरतमनिर्वृत्तौ सत्याम् सर्वत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति सर्वत्र सिद्धम् भवति ।

१८ - ५० - तथा इकः गुणवृद्धी गुणवृद्ध्योः ये अन्तरतमाः इकः तत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति इह एव स्यात् नेता लविता नायकः लावकः ।

१९ - ५० - चेता स्तोता चायकः स्तावकः इति अत्र न स्यात् ।

२० - ५० - आदेशतः पुनः अन्तरतमनिर्वृत्तौ सत्याम् सर्वत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति सर्वत्र सिद्धम् भवति ।

२१ - ५० - तथा ऋवर्णस्य गुणवृद्धिप्रसङ्गे गुणवृद्ध्योः यत् अन्तरतमम् ऋवर्णम् तत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति इह एव स्यात् कर्ता हर्ता , आस्तारकः , निपारकः ।

२२ - ५० - आस्तरिता निपरिता कारकः , हारकः इति अत्र न स्यात् ।

२३ - ५० - आदेशतः पुनः अन्तरतमनिर्वृत्तौ सत्याम् सर्वत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति सर्वत्र सिद्धम् भवति ।

२४ - ५० - अथ आदेशतः अन्तरतमनिर्वृत्तौ सत्याम् अयम् दोषः वान्तः यि प्रत्यये स्थानिनिर्देशः कर्तव्यः ।

२५ - ५० - ओकारौकारयोः इति वक्तव्यम् एकारैकारयोः मा भूत् इति ।

२६ - ५० - प्रकृतितः पुनः अन्तरतमनिर्वृत्तौ सत्याम् वान्तादेशस्य या अन्तरतमा प्रकृतिः तत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति अन्तरेण स्थानिनिर्देशम् सिद्धम् भवति ।

२७ - ५० - आदेशतः अपि अन्तरतमनिर्वृत्तौ सत्याम् न दोषः ।

२८ - ५० - कथम् ।

२९ - ५० - वान्तग्रहणम् न करिष्यते ।

३० - ५० - यि प्रत्यये एचः अयादयः भवन्ति इति एव. यदि न क्रियते चेयम् , जेयम् इति अत्र अपि प्राप्नोति ।

३१ - ५० - क्षय्यजय्यौ शक्यार्थे इति एतत् नियमार्थम् भविष्यति क्षिज्योः एव एचः इति ।

३२ - ५० - तयोः तर्हि शक्यार्थात् अन्यत्र अपि प्राप्नोति क्षेयम् पापम् जेयः वृषलः इति ।

३३ - ५० - उभयतः नियमः विज्ञास्यते क्षिज्योः एव एचः अनयोः च शक्याऋथे एव इति ।

३४ - ५० - इह अपि तर्हि नियमात् न प्राप्नोति लव्यम् , पव्यम् अवश्यलाव्यम् अवश्यपाव्यम् इति ।

३५ - ५० - तुल्यजातीयस्य नियमः ।

३६ - ५० - कः च तुल्यजातीयः ।

३७ - ५० - यथाजातीयकः क्षिज्योः एच् ।

३८ - ५० - कथञ्जातीयकः क्षिज्योः एच् ।

३९ - ५० - एकारः ।

४० - ५० - एवम् अपि रायम् इच्छति रैयति अत्र अपि प्राप्नोति ।

४१ - ५० - रायिः छान्दसः ।

४२ - ५० - दृष्टानुविधिः छन्दसि भवति ।

४३ - ५० - ऊदुपधयाः गोहः आदेशतः अन्तरतमनिर्वृत्तौ सत्याम् उपधाग्रहणम् कर्तव्यम् ।

४४ - ५० - प्रकृतितः पुनः अन्तरतमनिर्वृत्तौ सत्याम् ऊकारस्य गोहः या अन्तरतमा प्रकृतिः तत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति अन्तरेण उपधाग्रहणम् सिद्धम् भवति ।

४५ - ५० - आदेशतः अपि अन्तरतमनिर्वृत्तौ सत्याम् न दोषः ।

४६ - ५० - क्रियते एतत् न्यासे एव ।

४७ - ५० - रदाभ्याम् निष्ठातः नः पूर्वस्य च दः आदेशतः अन्तरतमनिर्वृत्तौ सत्याम् तकारग्रहणम् कर्तव्यम् ।

४८ - ५० - प्रकृतितः पुनः अन्तरतमनिर्वृत्तौ सत्याम् नकारस्य निष्ठायाम् या अन्तरतमा प्रकृतिः तत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति अन्तरेण तकारग्रहणम् सिद्धम् भवति ।

४९ - ५० - आदेशतः अपि अन्तरतमनिर्वृत्तौ सत्याम् न दोषः ।

५० - ५० - क्रियते एतत् न्यासे एव ।

१ - ३० - किम् पुनः इदम् निर्वर्तकम् अन्तरतमाः अनेन निर्वर्त्यन्ते , आहोस्वित् प्रतिपादकम् अन्येन निर्वृत्तानाम् अनेन प्रतिपत्तिः ।

२ - ३० - कः च अत्र विशेषः ।

३ - ३० - स्थाने अन्तरतमनिर्वतके स्थानिनिवृत्तिः ।

४ - ३० - स्थाने अन्तरतमनिर्वतके सर्वस्थानिनाम् निवृत्तिः प्राप्नोति ।

५ - ३० - अस्य अपि प्राप्नोति दधि मधु ।

६ - ३० - अस्तु ।

७ - ३० - न कः चित् अन्यः आदेशः प्रतिनिर्दिश्यते ।

८ - ३० - तत्र आन्तर्यतः दधिशब्दस्य दधिशब्दः एव मधुशब्दस्य मधुशब्दः एव आदेशः भविष्यति ।

९ - ३० - यदि च एवम् क्व चित् वैरूप्यम् तत्र दोषः स्यात् बिसम् बिसम् , मुसलम् मुसलम् ।

१० - ३० - इण्कोः इति षत्वम् प्राप्नोति ।

११ - ३० - अपि च इष्टा व्यवस्था न प्रकल्पेत ।

१२ - ३० - तत् यथा तप्ते भ्राष्ट्रे तिलाः क्षिप्ताः मुहूर्तम् अपि न अवतिष्ठन्ते एवम् इमे वर्णाः मुहूर्तम् अपि न अवतिष्ठेरन् ।

१३ - ३० - अस्तु तर्हि प्रतिपादकम् अन्येन निर्वृत्तानाम् अनेन प्रतिपत्तिः ।

१४ - ३० - निर्वृत्तप्रतिपत्तौ निर्वृत्तिः ।

१५ - ३० - निर्वृत्तप्रतिपत्तौ निर्वृत्तिः न सिध्यति ।

१६ - ३० - सर्वे सर्वत्र प्राप्नुवन्ति ।

१७ - ३० - किम् तर्हि उच्यते निर्वृत्तिः न सिध्यति इति ।

१८ - ३० - न साधीयः निर्वृत्तिः सिद्धा भवति ।

१९ - ३० - न ब्रूमः निर्वृत्तिः न सिध्यति इति ।

२० - ३० - किम् तर्हि ।

२१ - ३० - इष्टा व्यवस्था न प्रकल्पेत ।

२२ - ३० - न सर्वे सर्वत्र इष्यन्ते ।

२३ - ३० - इदम् इदानीम् किमर्थम् स्यात् ।

२४ - ३० - अनर्थकम् च ।

२५ - ३० - अनर्थकम् एतत् स्यात् ।

२६ - ३० - यः हि भुक्तवन्तम् ब्रूयात् मा भुक्थाः इति किम् तेन कृतम् स्यात् ।

२७ - ३० - उक्तम् वा ।

२८ - ३० - किम् उक्तम् ।

२९ - ३० - सिद्धम् तु षष्ठ्यधिकारे वचनात् इति ।

३० - ३० - षष्ठ्यधिकारे अयम् योगः कर्त्व्यः स्थाने अन्तरतमः षष्ठीनिर्दिष्टस्य ।

१ - २५ - प्रत्यात्मवचनम् च ।

२ - २५ - प्रत्यात्मम् इति च वक्तव्यम् ।

३ - २५ - किम् प्रयोजनम् ।

४ - २५ - यः यस्य अन्तरतमः स तस्य स्थाने यथा स्यात् अन्यस्य अन्तरतमः अन्यस्य स्थाने मा भूत् इति ।

५ - २५ - प्रत्यात्मवचनम् अशिष्यम् स्वभावसिद्धत्वात् ।

६ - २५ - प्रत्यात्मवचनम् अशिष्यम् ।

७ - २५ - किम् कारणम् ।

८ - २५ - स्वभावसिद्धत्वात् ।

९ - २५ - स्वभावतः एतत् सिद्धम् ।

१० - २५ - तत् यथा समाजेषु समाशेषु समवायेषु च आस्यताम् इति उच्यते ।

११ - २५ - न च उच्यते प्रत्यात्मम् इति प्रत्यात्मम् च आसते ।

१२ - २५ - अन्तरतमवचनम् च ।

१३ - २५ - अन्तरतमवचनम् च अशिष्यम् ।

१४ - २५ - योगः च अपि अयम् अशिष्यः ।

१५ - २५ - कुतः ।

१६ - २५ - स्वभावसिद्धत्वात् एव ।

१७ - २५ - तत् यथा समाजेषु समाशेषु समवायेषु च आस्यताम् इति उक्ते न एव कृशाः कृशैः सह आसत न पाण्डवः पाण्डुभिः ।

१८ - २५ - येषाम् एव किम् चित् अर्थकृतम् आन्तर्यम् तैः एव सः आसते ।

१९ - २५ - तथा गावः दिवसम् चरितवत्यः यः यस्याः प्रसवः भवति तेन सह शेरते ।

२० - २५ - तथा यानि एतानि गोयुक्तकानि सङ्घुष्टकानि भवन्ति तानि अन्योन्यम् पश्यन्ति सब्दम् कुर्वन्ति ।

२१ - २५ - एवम् तावत् चेतनावत्सु ।

२२ - २५ - अचेतनेषु अपि ।

२३ - २५ - लोष्टः क्षिप्तः बाहुवेगम् गत्वा न एव तिर्यक् गच्छति न ऊर्ध्वम् आरोहति पृथिवीविकारः पृथिवीम् गच्छति आन्तर्यतः ।

२४ - २५ - तथा या एताः आन्तरिक्ष्यः सूक्ष्माः आपः तासाम् विकारः धूमः सः आकाशदेशे निवाते न एव तिर्यक् गच्छति न अवाक् अवरोहति अब्विकारः अपः एव गच्छति आन्तर्यतः ।

२५ - २५ - तथा ज्योतिषः विकारः अर्चिः आकाशदेशे निवाते सुप्रज्वलितः न एव तिर्यक् गच्छति न अवाक् अवरोहति ज्योतिषः विकारः ज्योतिः एव गच्छति आन्तर्यतः ।

१ - ८६ - व्यञ्जनस्वरव्यतिक्रमे च तत्कालप्रसङ्गः ।

२ - ८६ - व्यञ्जनव्यतिक्रमे स्वरव्यतिक्रमे च तत्कालता प्राप्नोति ।

३ - ८६ - व्यञ्जनव्यतिक्रमे इष्टम् उप्तम् ।

४ - ८६ - आन्तर्यतः अर्धमात्रिकस्य व्यञ्जनस्य अर्धमात्रिकः इक् प्राप्नोति ।

५ - ८६ - न एव लोके न च वेदे अर्धमात्रिकः इक् अस्ति ।

६ - ८६ - कः तर्हि ।

७ - ८६ - मात्रिकः ।

८ - ८६ - यः अस्ति सः भविष्यति ।

९ - ८६ - स्वरव्यतिक्रमे दधि अत्र मधु अत्र कुमारी अत्र ब्रह्मबन्ध्वर्थम् इति ।

१० - ८६ - आन्तर्यतः मात्रिकस्य द्विमात्रिकस्य इकः मात्रिकः द्विमात्रिकः वा यण् प्राप्नोति ।

११ - ८६ - न एव लोके न च वेदे मात्रिकः द्विमात्रिकः वा यण् अस्ति ।कः तर्हि ।

१२ - ८६ - अर्धमात्रिकः ।

१३ - ८६ - यः अस्ति सः भविष्यति ।

१४ - ८६ - अक्षु च अनेकवर्णादेशेषु ।

१५ - ८६ - अक्षु च अनेकवर्णादेशेषु तत्कालता प्राप्नोति ।

१६ - ८६ - इदमः इश् आन्तर्यतः अर्ध्तृतीयमात्रस्य इदमः स्थाने अर्ध्तृतीयमात्रम् इवर्णम् प्राप्नोति ।

१७ - ८६ - न एषः दोषः ।

१८ - ८६ - भाव्यमानेन सवर्णानाम् ग्रहणम् न इति एवम् न भविष्यति ।

१९ - ८६ - गुणवृद्ध्येज्भावेषु च ।

२० - ८६ - गुणवृद्ध्येज्भावेषु च तत्कालता प्राप्नोति खट्वा इन्द्रः खट्वेन्द्रः खट्वा उदकम् खट्वोदकम् खट्वा ईषा खट्वेषा खट्वा ऊढा खट्वोढा खट्वा एलका खट्वैलका खट्वा ओदनः खट्वौदनः , खट्वा ऐतिकयनः खट्वैतिकायनः , खट्वा औपगवः खट्वौपगवः इति ।

२१ - ८६ - आन्तर्यतः त्रिमात्र्चतुर्मात्राणाम् स्थानिनाम् त्रिमात्रचतुर्मात्राः आदेशाः प्राप्नुवन्ति ।

२२ - ८६ - न एषः दोषाः ।

२३ - ८६ - तपरे गुणवृद्धी ।

२४ - ८६ - ननु च तः परः यस्मात् सः अयम् तपरः ।

२५ - ८६ - न इति आह ।

२६ - ८६ - तात् अपि परः तपरः ।

२७ - ८६ - यदि तात् अपि परः तपरः ऋ̄दोः अप् इति इह एव स्यात् यवः , स्तवः ।

२८ - ८६ - लवः , पवः इति अत्र न स्यात् ।

२९ - ८६ - न एषः तकारः ।

३० - ८६ - कः तर्हि ।

३१ - ८६ - दकारः ।

३२ - ८६ - किम् दकारे प्रयोजनम् ।

३३ - ८६ - अथ किम् तकारे प्रयोजनम् ।

३४ - ८६ - यदि असन्देहार्थः तकारः दकारः अपि ।

३५ - ८६ - अथ मुखसुखार्थः तकारः दकारः अपि ।

३६ - ८६ - एज्भावे कुर्वाते कुर्वाथे ।

३७ - ८६ - आन्तर्यतः अर्धतृतीयमात्रस्य टिसञ्ज्ञकस्य अर्धतृतीयमात्रः एः प्राप्नोति ।

३८ - ८६ - न एव लोके न च वेदे अर्धतृतीयमात्रः एः अस्ति ।

३९ - ८६ - ऋवर्णस्य गुणवृद्धिप्रसङ्गे सर्वप्रसङ्गः अविशेषात् ।

४० - ८६ - ऋवर्णस्य गुणवृद्धिप्रसङ्गे सर्वप्रसङ्गः ।

४१ - ८६ - सर्वे गुणवृद्धिसञ्ज्ञकाः ऋवर्णस्य स्थाने प्राप्नुवन्ति ।

४२ - ८६ - किम् कारणम् ।

४३ - ८६ - अविशेषात् ।

४४ - ८६ - न हि कः चित् विशेषः उपादीयते एवञ्जातीयकः गुणवृद्धिसञ्ज्ञकः ऋवर्णस्य स्थाने भवति इति ।

४५ - ८६ - अनुपादीयमाने विशेषे सर्वप्रसङ्गः ।

४६ - ८६ - न वा ऋवर्णस्य स्थाने रपरप्रसङ्गात् अवर्णस्य आन्तर्यम् ।

४७ - ८६ - न वा एषः दोषः ।

४८ - ८६ - किम् कारणम् ।

४९ - ८६ - ऋवर्णस्य स्थाने रपरप्रसङ्गात् ।

५० - ८६ - उः स्थाने अण् प्रसज्यमानः एव रपरः भवति इति उच्यते ।

५१ - ८६ - तत्र ऋवर्णस्य आन्तर्यतः रेफवतः रेफवान् अकारः एव अन्तरतमः भवति ।

५२ - ८६ - सर्वादेशप्रसङ्गः तु अनेकाल्त्वात् ।

५३ - ८६ - सर्वादेशप्रसङ्गः तु गुणवृद्धिसञ्ज्ञकः ऋवर्णस्य प्राप्नोति ।

५४ - ८६ - किम् कारणम् ।

५५ - ८६ - अनेकाल्त्वात् ।

५६ - ८६ - अनेकाल् शित् सर्वस्य इति ।

५७ - ८६ - न वा अनेकाल्त्वस्य तदाश्रयत्वात् ऋवर्णादेशस्य अविघातः ।

५८ - ८६ - न वा एषः दोषः ।

५९ - ८६ - किम् कारणम् ।

६० - ८६ - अनेकाल्त्वस्य तदाश्रयत्वात् ।

६१ - ८६ - यदा अयम् उः स्थाने तदा अनेकाल् ।

६२ - ८६ - अनेकाल्त्वस्य तदाश्रयत्वात् ऋवर्णादेशस्य विघातः न भविष्यति ।

६३ - ८६ - अथवा अनान्तर्यम् एव एतयोः आन्तर्यम् ।

६४ - ८६ - एकस्य अपि अन्तरतमा प्रकृतिः न अस्ति अपरस्य अपि अन्तरतमः आदेशः न अस्ति ।

६५ - ८६ - एतत् एव एतयोः आन्तर्यम् ।

६६ - ८६ - सम्प्रयोगः वा नष्टाश्वदग्धरथवत् ।

६७ - ८६ - अथ वा नष्टाश्वदग्धरथवत् सम्प्रयोगः भवति ।

६८ - ८६ - तत् यथा तव अश्वः नष्टः मम अपि रथः दग्धः ।

६९ - ८६ - उभौ सम्प्रयुज्यावहै इति ।

७० - ८६ - एवम् इह अपि तव अपि अन्तरतमा प्रकृतिः न अस्ति मम अपि अन्तरतमः आदेशः न अस्ति ।

७१ - ८६ - अस्तु नौ सम्प्रयोगः इति ।

७२ - ८६ - विषमः उपन्यासः ।

७३ - ८६ - चेतनावत्सु अर्थात् प्रकरणात् वा लोके सम्प्रयोगः भवति ।

७४ - ८६ - वर्णाः च पुनः अचेतनाः ।

७५ - ८६ - तत्र किङ्कृतः सम्प्रयोगः ।

७६ - ८६ - यदि अपि वर्णाः अचेतनाः यः तु असौ प्रयुङ्क्ते सः चेतनावान् ।

७७ - ८६ - एजवर्णयोः आदेशे अवर्णम् स्थानिनः अवर्णप्रधानत्वात् ।

७८ - ८६ - एजवर्णयोः आदेशे अवर्णम् प्राप्नोति ॒खट्वा एलका , माला औपगवः ।

७९ - ८६ - किम् कारणम् ।

८० - ८६ - स्थानिनः अवर्णप्रधानत्वात् ।

८१ - ८६ - स्थानी हि अत्र अवर्णप्रधानः ।

८२ - ८६ - सिद्धम् तु उभयान्तर्यात् ।

८३ - ८६ - सिद्धम् एतत् ।

८४ - ८६ - कथम् ।

८५ - ८६ - उभयोः यः अन्तरतमः तेन भवितव्यम् ।

८६ - ८६ - न च अवर्णम् उभयोः अन्तरतमम् ।

१ - ४१ - किम् इदम् उरण्रपरवचनम् अन्यनिवृत्त्यर्थम् उः स्थाने अण् एव भवति रपरः च इति , आहोस्वित् रपरत्वम् अनेन विधीयते उः स्थाने अण् च अनण् च अण् तु रपरः एव ।

२ - ४१ - कः च अत्र विशेषः ।

३ - ४१ - उरण्रपरवचनम् अन्यनिवृत्त्यर्थम् चेत् उदात्तादिषु दोषः ।

४ - ४१ - उरण्रपरवचनम् अन्यनिवृत्त्यर्थम् चेत् उदात्तादिषु दोषः भवति ।

५ - ४१ - के पुनः उदात्तादयः ।

६ - ४१ - उदात्तानुदात्तस्वरितानुनासिकाः ।

७ - ४१ - कृतिः , हृतिः , कृतम् , हृतम् , प्रकृतम् , प्रहृतम् नृ̄म्̐ः पाहि ।

८ - ४१ - अस्तु तर्हि उः स्थाने अण् च अनण् च अण् तु रपरः इति ।

९ - ४१ - यः उः स्थाने सः रपरः इति चेत् गुणवृद्ध्योः अवर्णाप्रतिपत्तिः ।

१० - ४१ - यः उः स्थाने सः रपरः इति चेत् गुणवृद्ध्योः अवर्णाप्रतिपत्तिः ।

११ - ४१ - कर्ता हर्ता वार्षगण्यः ।

१२ - ४१ - किम् हि साधीयः ऋवर्णस्य असवर्णे यत् अवर्णम् स्यात् न पुनः एङैचौ ।

१३ - ४१ - पूर्वस्मिन् अपि पक्षे एषः दोषः ।

१४ - ४१ - किम् हि साधीयः तत्र अपि ऋवर्णस्य असवर्णे यत् अवर्णम् स्यात् न पुनः इवर्णोवर्णौ ।

१५ - ४१ - अथ मतम् एतत् उः स्थाने अणः च अनणः च प्रसङ्गे अण् एव भवति रपरः च इति सिद्धा पूर्वस्मिन् पक्षे अवर्णस्य प्रतिपत्तिः ।

१६ - ४१ - यत् तु तत् उक्तम् उदात्तादिषु दोषः भवति इति इह सः दोषः जायते ।

१७ - ४१ - न जायते ।

१८ - ४१ - जायते सः दोषः ।

१९ - ४१ - कथम् ।

२० - ४१ - उदात्तः इति अनेन अणः अपि प्रतिनिर्दिश्यन्ते अनणः अपि ।

२१ - ४१ - यदि अपि प्रतिनिर्दिश्यन्ते न तु प्राप्नुवन्ति ।

२२ - ४१ - किम् कारणम् ।

२३ - ४१ - स्थाने अन्तरतमः भवति ।

२४ - ४१ - कुतः नु खलु द्वयोः परिभाषयोः सावकाशयोः समवस्थितयोः स्थाने अन्तरतमः उः अण् रपरः इति च स्थाने अन्तरतमः इति अनया परिभाषया व्यवस्था भविष्यति न पुनः उः अण् रपरः इति ।

२५ - ४१ - अतः किम् ।

२६ - ४१ - अतः एषः दोषः जायते उदात्तादिषु दोषः इति ।

२७ - ४१ - ये च अपि एते ऋवर्णस्य स्थाने प्रतिपदम् आदेशाः उच्यन्ते तेषु रपरत्वम् न प्राप्नोति ऋ̄तः इत् धातोः उत् ओष्ठ्यपूर्वस्य इति ।

२८ - ४१ - सिद्धम् तु प्रसङ्गे रपरत्वात् ।

२९ - ४१ - सिद्धम् एतत् ।

३० - ४१ - कथम् ।

३१ - ४१ - प्रसङ्गे रपरत्वात् ।

३२ - ४१ - उः स्थाने अण् प्रसज्यमानः एव रपरः भवति इति ।

३३ - ४१ - किम् वक्तव्यम् एतत् ।

३४ - ४१ - न हि ।

३५ - ४१ - कथम् अनुच्यमानम् गंस्यते ।

३६ - ४१ - स्थाने इति वर्तते स्थानशब्दः च प्रसङ्गवाची ।

३७ - ४१ - यदि एवम् आदेशः अविशेषितः भवति ।

३८ - ४१ - आदेशः च विशेषितः ।

३९ - ४१ - कथम् ।

४० - ४१ - द्वितीयम् स्थानग्रहणम् प्रकृतम् अनुवर्तते. तत्र एवम् अभिसम्बन्धः करिष्यते उः स्थाने अण् स्थाने इति ।

४१ - ४१ - उः प्रसङ्गे अण् प्रसज्यमानः एव रपरः भवति ।

१ - २० - अथ अण्ग्रहणम् किमर्थम् न उः रपरः इति एव उच्येत ।

२ - २० - उः रपरः इति इयति उच्यमाने कः इदानीम् रपरः स्यात् ।

३ - २० - यः उः स्थाने भवति ।

४ - २० - कः च उः स्थाने भवति ।

५ - २० - आदेशः ।

६ - २० - आदेशः रपरः इति चेत् रीरिविधिषु रपरप्रतिषेधः ।

७ - २० - आदेशः रपरः इति चेत् रीरिविधिषु रपरत्वस्य प्रतिषेधः वक्तव्यः ।

८ - २० - के पुनः रीरिविधयः ।

९ - २० - अकङ्लोपानङनङ्रीङ्रिङादेशाः ।

१० - २० - अकङ्सौधातकिः ।

११ - २० - लोपः पैतृष्वसेयः ।

१२ - २० - आनङ् होतापोतारौ ।

१३ - २० - अनङ् कर्ता हर्ता ।

१४ - २० - रीङ् मात्रीयति पित्रीयति ।

१५ - २० - रिङ् क्रियते ह्रियते ।

१६ - २० - उदात्तादिषु च ।

१७ - २० - किम् ।

१८ - २० - रपरत्वस्य प्रतिषेधः वक्तव्यः ।

१९ - २० - कृतिः , हृतिः , कृतम् , हृतम् , प्रकृतम् , प्रहृतम् नृ̄म्̐ः पाहि ।

२० - २० - तस्मात् अण्ग्रहणम् कर्तव्यम् ।

१ - ३७ - एकादेशस्य उपसङ्ख्यानम् ।

२ - ३७ - एकादेशस्य उपसङ्ख्यानम् कर्तव्यम् खट्वर्श्यः , मालर्श्यः ।

३ - ३७ - किम् पुनः कारणम् न सिध्यति ।

४ - ३७ - उः स्थाने अण् प्रसज्यमानः एव रपरः भवति इति उच्यते न च अयम् उः एव स्थाने अण् शिष्यते ।

५ - ३७ - किम् तर्हि ।

६ - ३७ - उः च अन्यस्य च ।

७ - ३७ - अवयवग्रहणात् सिद्धम् ।

८ - ३७ - यत् अत्र ऋवर्णम् तदाश्रयम् रपरत्वम् भविष्यति ।

९ - ३७ - तत् यथा माषाः न भोक्तव्याः इति मिश्राः अपि न भुज्यन्ते ।

१० - ३७ - अवयवग्रहणात् सिद्धम् इति चेत् आदेशे रान्तप्रतिषेधः ।

११ - ३७ - अव्ययवग्रहणात् सिद्धम् इति चेत् आदेशे रान्तस्य प्रतिषेधः वक्तव्यः होतापोतारौ ।

१२ - ३७ - यथा एव उः च अन्यस्य च स्थाने अण् रपरः भवति एवम् यः उः स्थाने अण् च अनण् च सः अपि रपरः स्यात् ।

१३ - ३७ - यदि पुनः ऋवर्णान्तस्य स्थानिनः रपरत्वम् उच्येत खट्वर्श्यः , मालर्श्यः ।

१४ - ३७ - न एवम् शक्यम् ।

१५ - ३७ - इह हि दोषः स्यात् कर्ता हर्ता किरति गिरति ।

१६ - ३७ - ऋवर्णान्तस्य इति उच्यते ।

१७ - ३७ - न च एतत् ऋवर्णान्तम् ।

१८ - ३७ - ननु च एतत् अपि व्यपदेशिवद्भावेन ऋवर्णान्तम् ।

१९ - ३७ - अर्थवता व्यपदेशिवद्भावः न च एषः अर्थवान् ।

२० - ३७ - तस्मात् न एवम् शक्यम् ।

२१ - ३७ - न चेत् एवम् उपसङ्ख्यानम् कर्तव्यम् ।

२२ - ३७ - इह च रपरत्वप्रतिषेधः वक्तव्यः मातुः , पितुः इति ।

२३ - ३७ - उभयम् न वक्तव्यम् ।

२४ - ३७ - कथम् ।

२५ - ३७ - इह यः द्वयोः षष्ठीनिर्दिष्टयोः प्रसङ्गे भवति लभते असौ अन्यतरतः व्यपदेशम् ।

२६ - ३७ - तत् यथा देवदत्तस्य पुत्रः , देवदत्तायाः पुत्रः इति ।

२७ - ३७ - कथम् मातुः पितुः इति ।

२८ - ३७ - अस्तु अत्र रपरत्वम् ।

२९ - ३७ - का रूपसिद्दिः ।

३० - ३७ - रात् सस्य इति सकारस्य लोपः रेफस्य विसर्जनीयः ।

३१ - ३७ - न एवम् शक्यम् ।

३२ - ३७ - इह हि मातुः करोति , पितुः करोति इति अप्रत्ययविसर्जनीयस्य इति षत्वम् प्रसज्येत ।

३३ - ३७ - अप्रत्ययस्विसर्जनीयस्य इति उच्यते ।

३४ - ३७ - प्रत्ययविसर्जनीयः च अयम् ।

३५ - ३७ - लुप्यते अत्र प्रत्ययः रात् सस्य इति ।

३६ - ३७ - एवम् तर्हि भ्रातुष्पुत्रग्रहणम् ज्ञापकम् एकादेशनिमित्तात् षत्वप्रतिषेधस्य ।

३७ - ३७ - यत् अयम् कस्कादिषु भ्रातुष्पुत्रशब्दम् पठति तत् ज्ञापयति आचार्यः न एकादेशनिमित्त्तात् षत्वम् भवति इति.

१ - १०० - किम् पुनः अयम् पूर्वान्तः आहोस्वित् परादिः आहोस्वित् अभक्तः ।

२ - १०० - कथम् च अयम् पूर्वान्तः स्यात् कथम् वा परादिः कथम् वा अभक्तः ।

३ - १०० - यदि अन्तः इति वर्तते ततः पूर्वान्तः ।

४ - १०० - अथ आदिः इति वर्तते ततः परादिः ।

५ - १०० - अथ उभयम् निवृत्तम् ततः अभक्तः ।

६ - १०० - कः च अत्र विशेषः ।

७ - १०० - अभक्ते दीर्घलत्वयगभ्यस्तस्वरहलादिशेषविसर्जनीयप्रतिषेधः प्रत्ययाव्यवस्था च ।

८ - १०० - यदि अभक्तः दीर्घत्वम् न प्राप्नोति गीः , पूः ।

९ - १०० - रेफवकारान्तस्य धातोः इति दीर्घत्वम् न प्राप्नोति ।

१० - १०० - किम् पुनः कारणम् रेफवकाराभ्याम् धातुः विशेष्यते न पुनः पदम् विशेष्यते रेफवकारान्तस्य पदस्य इति ।

११ - १०० - न एवम् शक्यम् ।

१२ - १०० - इह अपि प्रसज्येत अग्निः , वायुः इति ।

१३ - १०० - एवम् तर्हि रेफवकाराभ्याम् पदम् विशेषयिष्यामः धातुना इकम् रेफवकारान्तस्य पदस्य इकः धातोः इति ।

१४ - १०० - एवम् अपि प्रियम् ग्रामणि कुलम् अस्य प्रियग्रामणिः , प्रियसेनानिः अत्र अपि प्राप्नोति ।

१५ - १०० - तस्मात् धातुः एव विशेष्यते ।

१६ - १०० - धातौ च विशेष्यमाणे इह दीर्घत्वम् न प्राप्नोति गीः , पूः ।

१७ - १०० - दीर्घ ।

१८ - १०० - लत्व लत्वम् च न सिध्यति निजेगिल्यते ।

१९ - १०० - ग्रः यङि इति लत्वम् न प्राप्नोति ।

२० - १०० - न एषः दोषः ।

२१ - १०० - ग्रः इति अनन्तरयोगा एषा षष्ठी ।

२२ - १०० - एवम् अपि स्वः जेगिल्यते इति अत्र अपि प्राप्नोति ।

२३ - १०० - एवम् तर्हि यङा आनन्तर्यम् विशेषयिष्यामः ।

२४ - १०० - अथ वा ग्रः इति पञ्चमी ।

२५ - १०० - लत्व ।

२६ - १०० - यक्स्वर यक्स्वरः च न सिध्यति ।

२७ - १०० - गीर्यते स्वयम् एव , पुर्यते स्वयम् एव ।

२८ - १०० - अचः कर्तृयकि इति एषः स्वरः न प्राप्नोति रेफेण व्यवहितत्वात् ।

२९ - १०० - न एषः दोषः ।

३० - १०० - स्वरविधौ व्यञ्जनम् अविद्यमानवत् इति न अस्ति व्यवधानम् ।

३१ - १०० - यक्स्वर ।

३२ - १०० - अभ्यस्तस्वर अभ्यस्तस्वरः च न सिध्यति म हि स्म ते पिपरुः , म हि स्म ते बिभरुः ।

३३ - १०० - अभ्यस्तानाम् आदिः उदात्तः भवति अजादौ लसार्वधातुके इति एषः स्वरः न प्राप्नोति रेफेण व्यवहितत्वात् ।

३४ - १०० - न एषः दोषः ।

३५ - १०० - स्वरविधौ व्यञ्जमम् अविद्यमानवत् इति न अस्ति व्यवधानम् ।

३६ - १०० - अभ्यस्तस्वर ।

३७ - १०० - हलादिशेष हलादिशेषः च न सिध्यति ववृते ववृधे ।

३८ - १०० - अभ्यासस्य इति हलादिशेषः न प्राप्नोति ।

३९ - १०० - हलादिशेष ।

४० - १०० - विसर्जनीय विसर्जनीयस्य च प्रतिषेधः वक्तव्यः नार्कुटः , नार्पत्यः ।

४१ - १०० - खरवसानयोः विसर्जनीयः इति विसर्जनीयः प्राप्नोति ।

४२ - १०० - विसर्जनीय ।

४३ - १०० - प्रत्ययाव्यवस्था प्रत्यये व्यवस्था न प्रकल्पते किरतः , गिरतः ।

४४ - १०० - रेफः अपि अभक्तः प्रत्ययः अपि ।

४५ - १०० - तत्र व्यवस्था न प्रकल्पते ।

४६ - १०० - एवम् तर्हि पूर्वान्तः करिष्यते ।

४७ - १०० - पूर्वान्ते र्ववधारणम् विसर्जनीयप्रतिषेधः यक्स्वरः च ।

४८ - १०० - यदि पूर्वान्तः रोः अवधारणम् कर्तव्यम् रोः सुपि ।

४९ - १०० - रोः एव सुपि न अन्यस्य रेफस्य सर्पिष्षु धनुष्षु ।

५० - १०० - इह मा भूत् गीर्षु पूर्षु ।

५१ - १०० - परादौ अपि सति अवधारणम् कर्तव्यम् चतुर्षु इति एवम् अर्थम् ।

५२ - १०० - विसर्जनीयप्रतिषेधः विसर्जनीयस्य च प्रतिषेधः वक्तव्यः नार्कुटः , नार्पत्यः ।

५३ - १०० - खरवसानयोः विसर्जनीयः इति विसर्जनीयः प्राप्नोति ।

५४ - १०० - परादौ अपि विसर्जनीयस्य प्रतिषेधः वक्तव्यः नार्कल्पिः इति एवमर्थम् ।

५५ - १०० - कल्पिपदसङ्घातभक्तः असौ न उत्सहते अवयवस्य पदान्तताम् विहन्तुम् इति कृत्वा विसर्जनीयः प्राप्नोति ।

५६ - १०० - यक्स्वरः यक्स्वरः च न सिध्यति गीर्यते स्वयम् एव , पुर्यते स्वयम् एव ।

५७ - १०० - अचः कर्तृयकि इति एषः स्वरः न प्राप्नोति ।

५८ - १०० - न एषः दोषः ।

५९ - १०० - उपदेशे इति वर्तते ।

६० - १०० - अथ वा पुनः अस्तु परादिः ।

६१ - १०० - परादौ अकारलोपौत्वपुक्प्रतिषेधः चङि उपधाह्रस्वत्वम् इटः अव्यवस्था अभ्यासलोपः अभ्यस्ततादिस्वरः दीर्घत्वम् च ।

६२ - १०० - यदि परादिः अकारलोपः प्रतिषेध्यः कर्ता हर्ता अतः लोपः आर्धधातुके इति अकारलोपः प्राप्नोति ।

६३ - १०० - न एषः दोषः ।

६४ - १०० - उपदेशे इति वर्तते ।

६५ - १०० - यदि उपदेशे इति वर्तते धिनुतः , कृणुतः अत्र लोपः न प्राप्नोति ।

६६ - १०० - न उपदेशग्रहणेन प्रकृतिः अभिसम्बध्यते ।

६७ - १०० - किम् तर्हि ।

६८ - १०० - आर्धधातुकम् अभिसम्बध्यते ।

६९ - १०० - आर्धधातुकोपदेशे यत् अकारान्तम् इति ।

७० - १०० - अकारलोप ।

७१ - १०० - औत्व औत्वम् च प्रतिषेध्यम् चकार जहार ।

७२ - १०० - आतः औ णलः इति औत्वम् प्राप्नोति ।

७३ - १०० - न एषः दोषः ।

७४ - १०० - निर्दिश्यमानस्य आदेशाः भवन्ति इति एवम् न भविष्यति ।

७५ - १०० - यः तर्हि निर्दिश्यते तस्य कस्मात् न भवति ।

७६ - १०० - रेफेन व्यवहितत्वात् ।

७७ - १०० - औत्व ।

७८ - १०० - पुक्प्रतिषेधः पुक् च प्रतिषेध्यः कारयति हारयति ।

७९ - १०० - आताम् पुक् इति पुक् प्राप्नोति ।

८० - १०० - पुक्प्रतिषेधः ।

८१ - १०० - चङि उपधाह्रस्वत्वम् च न सिध्यति अचीकरत् अजीहरत् ।

८२ - १०० - णौ चङि उपधायाः ह्रस्वः इति ह्रस्वत्वम् न प्राप्नोति ।

८३ - १०० - चङि उपधाह्रस्वत्वम् ।

८४ - १०० - इटः अव्यवस्था इटः च व्यवस्था न प्रकल्पते आस्तरिता निपरिता ।

८५ - १०० - इट् अपि परादिः रेफः अपि ।

८६ - १०० - तत्र व्यवस्था न प्रकल्पते ।

८७ - १०० - इटः अव्यवस्था ।

८८ - १०० - अभ्यासलोपः अभ्यासलोपः च वक्तव्यः ववृते ववृधे ।

८९ - १०० - अभ्यासस्य इति हलादिशेषः न प्राप्नोति ।

९० - १०० - अभ्यासलोपः ।

९१ - १०० - अभ्यस्तस्वर अभ्यस्तस्वरः च न सिध्यति म हि स्म ते पिपरुः , म हि स्म ते बिभरुः ।

९२ - १०० - अभ्यस्तानाम् आदिः उदात्तः भवति अजादौ लसार्वधातुके इति एषः स्वरः न प्राप्नोति ।

९३ - १०० - अभ्यस्तस्वर ।

९४ - १०० - तादिस्वरः तादिस्वरः च न सिध्यति प्रकर्ता प्रकर्तुम् , प्रहर्ता प्रहर्तुम् ।

९५ - १०० - तादौ च निति कृति अतौ इति एषः स्वरः न प्राप्नोति ।

९६ - १०० - न एषः दोषः ।

९७ - १०० - उक्तम् एतत् कृदुपदेशे वा ताद्यर्थम् इडर्थम् इति ।

९८ - १०० - तादिस्वरः ।

९९ - १०० - दीर्घत्वम् दीर्घत्वम् च न सिध्यति गीः , पूः ।

१०० - १०० - रेफवकारान्तस्य धातोः इति दीर्घत्वम् न प्राप्नोति ।

१ - १४ - किम् इदम् अल्ग्रहणम् अन्त्यविशेषणम् आहोस्वित् आदेशविशेषणम् ।

२ - १४ - किम् च अतः ।

३ - १४ - यदि अन्त्यविशेषणम् आदेशः अविशेषितः भवति ।

४ - १४ - तत्र कः दोषः ।

५ - १४ - अनेकाल् अपि आदेशः अन्त्यस्य प्रसज्येत ।

६ - १४ - यदि पुनः अल् अन्त्यस्य इति उच्येत ।

७ - १४ - तत्र अयम् अपि अर्थः अनेकाल् शित् सर्वस्य इति एतत् न वक्तव्यम् भवति ।

८ - १४ - इदम् नियमार्थम् भविष्यति अल् एव अन्त्यस्य भवति न अन्यः इति ।

९ - १४ - एवम् अपि अन्त्यः अविशेषितः भवति ।

१० - १४ - तत्र कः दोषः ।

११ - १४ - वाक्यस्य अपि पदस्य अपि अन्त्यस्य प्रसज्येत ।

१२ - १४ - यदि खलु अपि एषः अभिप्रायः तत् न क्रियेत इति अन्त्यविशेषणे अपि सति तत् न करिष्यते ।

१३ - १४ - कथम् ।

१४ - १४ - ङित् च अलः अन्त्यस्य इति एतत् नियमार्थम् भविष्यति ङित् एव अनेकाल् अन्त्यस्य भवति न अन्यः इति ।

१ - १२ - किमर्थम् पुनः इदम् उच्यते ।

२ - १२ - अलः अन्त्यस्य इति स्थाने विज्ञातस्य अनुसंहारः ।

३ - १२ - अलः अन्त्यस्य इति स्थाने विज्ञातस्य अनुसंहारः क्रियते स्थाने प्रसक्तस्य ।

४ - १२ - इतरथा हि अनिष्टप्रसङ्गः ।

५ - १२ - इतरथा हि अनिष्टप्रसङ्गः प्रसज्येत ।

६ - १२ - टित्किन्मितः अपि अन्त्यस्य स्युः ।

७ - १२ - यदि पुनः अयम् योगशेषः विज्ञायेत ।

८ - १२ - योगशेषे च ।

९ - १२ - किम् ।

१० - १२ - अनिष्टम् प्रसज्येते ।

११ - १२ - टित्किन्मितः अपि अन्त्यस्य स्युः ।

१२ - १२ - तस्मात् सुष्ठु उच्यते अलः अन्त्यस्य इति स्थाने विज्ञातस्य अनुसंहारः इतरथा हि अनिष्टप्रसङ्गः इति ।

१ - १२ - तातङ् अन्त्यस्य कस्मात् न भवति ।

२ - १२ - ङित् च अलः अन्त्यस्य इति प्राप्नोति ।

३ - १२ - तातङि ङित्करणस्य सावकाशत्वात् विप्रतिषेधात् सर्वादेशः ।

४ - १२ - तातङि ङित्करणस्य सावकाशम् ।

५ - १२ - कः अवकाशः ।

६ - १२ - गुणवृद्धिप्रतिषेधार्थः ङकारः ।

७ - १२ - तातङि ङित्करणस्य सावकाशत्वात् विप्रतिषेधात् सर्वादेशः भविष्यति ।

८ - १२ - प्रयोजनम् नाम तत् वक्तव्यम् यत् नियोगतः स्यात् ।

९ - १२ - यदि च अयम् नियोगतः सर्वादेशः स्यात् ततः एतत् प्रयोजनम् स्यात् ।

१० - १२ - कुतः नु खलु एतत् ङित्करणात् अयम् सर्वादेशः भविष्यति न पुनः अन्त्यस्य स्यात् इति ।

११ - १२ - एवम् तर्हि एतत् एव ज्ञापयति न तातङ् अन्त्यस्य स्थाने भवति इति यत् एतम् ङितम् करोति ।

१२ - १२ - इतरथा हि लोटः एरुप्रकरणे एव ब्रूयात् तिह्योः तात् आशिषि अन्यतरस्याम् इति ।

१ - १२ - अलः अन्त्यस्य अदेः परस्य अनेकाल् शित् सर्वस्य इति अपवादविप्रतिषेधात् सर्वादेशः ।

२ - १२ - अलः अन्त्यस्य इति उत्सर्गः ।

३ - १२ - तस्य आदेः परस्य अनेकाल्शित् सर्वस्य इति अपवादौ ।

४ - १२ - अपवादविप्रतिषेधात् तु सर्वादेशः भविष्यति ।

५ - १२ - आदेः परस्य इति अस्य अवकाशः द्व्यन्तरुपसर्गेभ्यः अपः ईत् द्वीपम् अन्वीपम् ।

६ - १२ - अनेकाल्शित् सर्वस्य इति अस्य अवकाशः अस्तेः भूः भविता भवितुम् ।

७ - १२ - इह उभयम् प्राप्नोति अतः भिसः ऐस् ।

८ - १२ - अनेकाल्शित् सर्वस्य इति एतत् भवति विप्रतिषेधेन ।

९ - १२ - शित् सर्वस्य इति अस्य अवकाशः इदमः इश् इतः , इह ।

१० - १२ - आदेः परस्य इति अस्य अवकाशः सः एव ।

११ - १२ - इह उभयम् प्राप्नोति अष्टाभ्यः औश् ।

१२ - १२ - शित् सर्वस्य इति एतत् भवति विप्रतिषेधेन ।

१ - २७ - शित् सर्वस्य इति किम् उदाहरणम् ।

२ - २७ - इदमः इश् इतः , इह ।

३ - २७ - न एतत् अस्ति प्रयोजनम् ।

४ - २७ - शित्करणात् एव अत्र सर्वादेशः भविष्यति ।

५ - २७ - इदम् तर्हि अष्टाभ्यः औश् ।

६ - २७ - ननु च अत्र अपि शित्करणात् एव सर्वादेशः भविष्यति ।

७ - २७ - इदम् तर्हि जसः शी जश्शसोः शिः ।

८ - २७ - ननु च अत्र अपि शित्करणात् एव सर्वादेशः भविष्यति ।

९ - २७ - अस्ति अन्यत् शित्करणे प्रयोजनम् ।

१० - २७ - किम् ।

११ - २७ - विशेषणार्थः ।

१२ - २७ - क्व विशेषणार्थेन अर्थः ।

१३ - २७ - शि सर्वनामस्थानम् विभाषा ङिश्योः इति ।

१४ - २७ - शित् सर्वस्य इति शक्यम् अकर्तुम् ।

१५ - २७ - कथम् ।

१६ - २७ - अन्त्यस्य अयम् स्थाने भवन् न प्रत्ययः स्यात् ।

१७ - २७ - असत्याम् प्रत्ययसञ्ज्ञायाम् इत्सञ्ज्ञा न स्यात् ।

१८ - २७ - असत्याम् इत्सञ्ज्ञायाम् लोपः न स्यात् ।

१९ - २७ - असति लोपे अनेकाल् ।

२० - २७ - यदा अनेकाल् तदा सर्वादेशः ।

२१ - २७ - यदा सर्वादेशः तद प्रत्ययः ।

२२ - २७ - यदा प्रत्ययः तदा इत्सञ्ज्ञा ।

२३ - २७ - यदा इत्सञ्ज्ञा तदा लोपः ।

२४ - २७ - एवम् तर्हि सिद्धे सति यत् शित् सर्वस्य इति आह तत् ज्ञापयति आचार्यः अस्ति एषा परिभाषा न अनुबन्धकृतम् अनेकाल्त्वम् भवति इति ।

२५ - २७ - किम् एतस्य ज्ञापने प्रयोजनम् ।

२६ - २७ - तत्र असरूपसर्वादेशाप्प्रतिषेधेषु पृथक्त्वनिर्देशः अनाकारान्तत्वात् इति उक्तम् ।

२७ - २७ - तत् न वक्तव्यम् भवति इति ।

१ - २६ - वत्करणम् किमर्थम् ।

२ - २६ - स्थानी आदेशः अनल्विधौ इति इयति उच्यमाने सञ्ज्ञाधिकरः अयम् तत्र स्थानी आदेशस्य सञ्ज्ञा स्यात् ।

३ - २६ - तत्र कः दोषः ।

४ - २६ - आङः यमहनः आत्मनेपदम् भवति इति वधेः एव स्यात् ।

५ - २६ - हन्तेः न स्यात् ।

६ - २६ - वत्करणे पुनः क्रियमाणे न दोषः भवति ।

७ - २६ - स्थानिकार्यम् आदेशे अतिदिश्यते गुरुवत् गुरुपुत्रः इति यथा ।

८ - २६ - अथ आदेशग्रहणम् किमर्थम् ।

९ - २६ - स्थानिवत् अनल्विधौ इति इयति उच्यमाने कः इदानीम् स्थानिवत् स्यात् ।

१० - २६ - यः स्थाने भवति ।

११ - २६ - कः च स्थाने भवति ।

१२ - २६ - आदेशः ।

१३ - २६ - इदम् तर्हि प्रयोजनम् आदेशमात्रम् स्थानिवत् यथा स्यात् ।

१४ - २६ - एकदेशविकृतस्य उपसङ्ख्यानम् चोदयिष्यति ।

१५ - २६ - तत् न वक्तव्यम् भवति ।

१६ - २६ - अथ विधिग्रहणम् किमर्थम्. सर्वविभक्त्यन्तः समासः यथा विज्ञायेत अलः परस्य विधिः अल्विधिः , अलः विधिः अल्विधिः , अलि विधिः अल्विधिः , अला विधिः अल्विधिः इति ।

१७ - २६ - न एतत् अस्ति प्रयोजनम् ।

१८ - २६ - प्रातिपदिकर्निर्देशः अयम् ।

१९ - २६ - प्रातिपदिकर्निर्देशाः च अर्थतन्त्राः भवन्ति ।

२० - २६ - न कां चित् प्राधान्येन विभक्तिम् आश्रयन्ति ।

२१ - २६ - तत्र प्रातिपदिकार्थे निर्दिष्टे याम् याम् विभक्तिम् आश्रयितुम् बुद्धिः उपजायते सा सा आश्रयितव्या ।

२२ - २६ - इदम् तर्हि प्रयोजनम् उत्तरपदलोपः यथा विज्ञायेत अलम् आश्रयते अलाशृअयः , अलाश्रयः विधिः अल्विधिः इति ।

२३ - २६ - यत्र प्राधान्येन अल् आश्रीयते तत्र एव प्रतिषेधः स्यात् ।

२४ - २६ - यत्र विशेषणत्वेन अल् आश्रीयते तत्र प्रतिषेधः न स्यात् ।

२५ - २६ - किम् प्रयोजनम् ।

२६ - २६ - प्रदीव्य प्रसीव्य इति वलादिलक्षणः इट् मा भूत् इति ।

१ - ३२ - किमर्थम् पुनः इदम् उच्यते ।

२ - ३२ - स्थान्यादेशपृथक्त्वात् आदेशे स्थानिवदनुदेशः गुरुवत् गुरुपुत्रे इति यथा ।

३ - ३२ - अन्यः स्थानी अन्यः आदेशः ।

४ - ३२ - स्थान्यादेशपृथक्त्वात् एतस्मात् कारणात् स्थानिकार्यम् आदेशे न प्राप्नोति ।

५ - ३२ - तत्र कः दोषः ।

६ - ३२ - आङः यमहनः आत्मनेपदम् भवति इति हन्तेः एव स्यात् वधेः न स्यात् ।

७ - ३२ - इष्यते च वधेः अपि स्यात् इति ।

८ - ३२ - तत् च अन्तरेण यत्नम् न सिध्यति ।

९ - ३२ - तस्मात् ।

१० - ३२ - स्थानिवदनुदेशः ।

११ - ३२ - एवमर्थम् इदम् उच्यते ।

१२ - ३२ - गुरुवत् गुरुपुत्रः इति यथा ।

१३ - ३२ - तत् यथा गुरुवत् अस्मिन् गुरुपुत्रे वर्तितव्यम् इति गुरौ यत् कार्यम् तत् गुरुपुत्रे अतिदिश्यते , एवम् इह अपि स्थानिकार्यम् आदेशे अतिदिश्यते ।

१४ - ३२ - न एतत् अस्ति प्रयोजनम् ।

१५ - ३२ - लोकतः एतत् सिद्धम् ।

१६ - ३२ - तत् यथा लोके यः यस्य प्रसङ्गे भवति लभते असौ तत्कार्याणि ।

१७ - ३२ - तत् यथा उपाध्यायस्य शिष्यः याज्यकुलानि गत्वा अग्रासनादीनि लभते ।

१८ - ३२ - यदि अपि तावत् लोके एषः दृष्टान्तः दृष्टान्तस्य अपि तु पुरुषारम्भः निवर्तकः भवति ।

१९ - ३२ - अस्ति च इह कः चित् पुरुषारम्भः ।

२० - ३२ - अस्ति इति आह ।

२१ - ३२ - कः ।

२२ - ३२ - स्वरूपविधिः ।

२३ - ३२ - हन्तेः आत्मनेपदम् उच्यमानम् हन्तेः एव स्यात् वधेः न स्यात् ।

२४ - ३२ - एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति स्थानिवत् आदेशः भवति इति यत् अयम् युष्मदस्मदोः अनादेशे इति आदेशप्रतिषेधम् शास्ति ।

२५ - ३२ - कथम् कृत्वा ज्ञापकम् ।

२६ - ३२ - युष्मदस्मदोः विभक्तौ कार्यम् उच्यमानम् कः प्रसङ्गः यत् आदेशे स्यात् ।

२७ - ३२ - पश्यति तु आचार्यः स्थानिवत् आदेशः भवति इति ।

२८ - ३२ - अतः आदेशे प्रतिषेधम् शास्ति ।

२९ - ३२ - इदम् तर्हि प्रयोजनम् अनल्विधौ इति प्रतिषेधम् वक्ष्यामि इति , इह मा भूत् द्यौः , पन्थाः , सः इति ।

३० - ३२ - एतत् अपि न अस्ति प्रयोजनम् ।

३१ - ३२ - आचार्यप्रवृत्तिः ज्ञापयति अल्विधौ स्थानिवद्भावः न भवति इति यत् अयम् अदः जग्धिः ल्यप् ति किति इति ति किति इति एव सिद्धे ल्यब्ग्रहणम् करोति ।

३२ - ३२ - तस्मात् न अर्थः अनेन योगेन ।

१ - ३६ - आरभ्यमाणे अपि एतस्मिन् योगे अल्विधौ प्रतिषेधे अविशेषणे अप्राप्तिः तस्य अदर्शनात् ।

२ - ३६ - अल्विधौ प्रतिषेधे असति अपि विशेषणे समाश्रीयमणे असति तस्मिन् विशेषणे अप्राप्तिः विधेः प्रदीव्य प्रसीव्य ।

३ - ३६ - किम् कारणम् ।

४ - ३६ - तस्य अदर्शनात् ।

५ - ३६ - वलादेः इति उच्यते न च अत्र वलादिम् पश्यामः ।

६ - ३६ - ननु च एवमर्थः एव अयम् यत्नः क्रियते अन्यस्य कार्यम् उच्यमानम् अन्यस्य यथा स्यात् इति ।

७ - ३६ - सत्यम् एवमर्थः न तु प्राप्नोति ।

८ - ३६ - किम् कारणम् ।

९ - ३६ - सामान्यातिदेशे विशेषानतिदेशः । सामन्ये हि अतिदिश्यमाने विशेषः न अतिदिष्टः भवति ।

१० - ३६ - तत् यथा ब्रह्मणवत् अस्मिन् क्षत्रिये वर्तितव्यम् इति सामान्यम् यत् ब्राह्मणकार्यम् तत् क्षत्रिये अतिदिश्यते ।

११ - ३६ - यत् विशिष्टम् माठरे कौण्डिन्ये वा न तत् अतिदिश्यते ।

१२ - ३६ - एवम् इह अपि सामान्यम् यत् प्रत्ययकार्यम् तत् अतिदिश्यते यत् विशिष्टम् वलादेः इति न तत् अतिदिश्यते ।

१३ - ३६ - यदि एवम् अग्रहीत् इति इटः ईटि इति सिचः लोपः न प्राप्नोति ।

१४ - ३६ - अनल्विधौ इति पुनः उच्यमाने इह अपि प्रतिषेधः भविष्यति प्रदीव्य प्रसीव्य इति ।

१५ - ३६ - विशिष्टम् हि एषः अलम् आश्रयते वलम् नाम ।

१६ - ३६ - इह च प्रतिषेधः न भविष्यति अग्रहीत् इति ।

१७ - ३६ - विशिष्टम् हि एषः अनलम् आश्रयति इटम् नाम ।

१८ - ३६ - यदि तर्हि सामान्यम् अपि अतिदिश्यते विशेषः च सति आश्रये विधिः इष्टः ।

१९ - ३६ - सति च वलादित्वे इटा भवितव्यम् अरुदिताम् अरुदितम् अरुदित ।

२० - ३६ - किम् अतः यत् सति भवितव्यम् ।

२१ - ३६ - प्रतिषेधः तु प्राप्नोति अल्विधित्वात् ।

२२ - ३६ - प्रतिषेधः तु प्राप्नोति ।

२३ - ३६ - किम् कारणम् ।

२४ - ३६ - अल्विधित्वात् ।

२५ - ३६ - अल्विधिः अयम् भवति ।

२६ - ३६ - तत्र अनल्विधौ इति प्रतिषेधः प्राप्नोति ।

२७ - ३६ - न वा आनुदेशिकस्य प्रतिषेधात् इतरेण भावः ।

२८ - ३६ - न वा एषः दोषः ।

२९ - ३६ - किम् कारणम् ।

३० - ३६ - आनुदेशिकस्य प्रतिषेधात् ।

३१ - ३६ - अस्तु अत्र आनुदेशिकस्य वलादित्वस्य प्रतिषेधः ।

३२ - ३६ - स्वाश्रयम् अत्र वलादित्वम् भविष्यति ।

३३ - ३६ - न एतत् विवदामहे वलादिः न वलादिः इति ।

३४ - ३६ - किम् तर्हि ।

३५ - ३६ - स्थानिवद्भावात् सार्वधातुकत्वम् एषितव्यम् ।

३६ - ३६ - तत्र अनल्विधौ इति प्रतिषेधः प्राप्नोति ।

१ - ३७ - किम् पुनः आदेशिनि अलि आश्रीयमाणे प्रतिषेधः भवति आहोस्वित् अविशेषेण आदेशे आदेशिनि च ।

२ - ३७ - कः च अत्र विशेषः ।

३ - ३७ - आदेश्यल्विधिप्रतिषेधे कुरुवधपिबाम् गुणवृद्धिप्रतिषेधः ।

४ - ३७ - आदेश्यल्विधिप्रतिषेधे कुरुवधपिबाम् गुणवृद्धिप्रतिषेधः वक्तव्यः ।

५ - ३७ - कुरु इति अत्र स्थानिवद्भावात् अङ्गसञ्ज्ञा श्वाश्रयम् च लघूपधत्वम् ।

६ - ३७ - तत्र लघूपधगुणः प्राप्नोति ।

७ - ३७ - वधकम् इति अत्र स्थानिवद्भावात् अङ्गसञ्ज्ञा श्वाश्रयम् च अदुपधत्वम् ।

८ - ३७ - तत्र वृद्धिः प्राप्नोति ।

९ - ३७ - पिब इति अत्र स्थानिवद्भावात् अङ्गसञ्ज्ञा श्वाश्रयम् च लघूपधत्वम् ।

१० - ३७ - तत्र गुणः प्राप्नोति ।

११ - ३७ - अस्तु तर्हि अविशेषेण आदेशे आदेशिनि च ।

१२ - ३७ - आदेश्यादेशे इति चेत् सुप्तिङ्कृदतिदिष्टेषु उपसङ्ख्यानम् ।

१३ - ३७ - आदेश्यादेशे इति चेत् सुप्तिङ्कृदतिदिष्टेषु उपसङ्ख्यानम् कर्तव्यम् ।

१४ - ३७ - सुप् वृक्षाय प्लक्षाय ।

१५ - ३७ - स्थानिवद्भावात् सुप्सञ्ज्ञा स्वाश्रयम् च यञादित्वम् ।

१६ - ३७ - तत्र प्रतिषेधः प्राप्नोति ।

१७ - ३७ - सुप् ।

१८ - ३७ - तिङ् अरुदिताम् अरुदितम् अरुदित ।

१९ - ३७ - स्थानिवद्भावात् सार्वधातुकसञ्ज्ञा स्वाश्रयम् च वलादित्वम् ।

२० - ३७ - तत्र प्रतिषेधः प्राप्नोति ।

२१ - ३७ - तिङ् ।

२२ - ३७ - कृदतिदिष्टम् भुवनम् , सुवनम् , धुवनम् ।

२३ - ३७ - स्थानिवद्भावात् प्रत्ययसञ्ज्ञा स्वाश्रयम् च अजादित्वम् ।

२४ - ३७ - तत्र प्रतिषेधः प्राप्नोति ।

२५ - ३७ - किम् पुनः अत्र ज्यायः ।

२६ - ३७ - आदेशिनि अलि आश्रीयमाणे प्रतिषेधः इति ज्यायः ।

२७ - ३७ - कुतः एतत् ।

२८ - ३७ - तथा हि अयम् विशिष्टम् स्थानिकार्यम् आदेशे अतिदिशति गुरुवत् गुरुपुत्रे इति यथा ।

२९ - ३७ - तत् यथा गुरुवत् गुरुपुत्रे वर्तितव्यम् अन्यत्र उच्छिष्टभोजनात् पादोपसङ्ग्रहणाच् च इति ।

३० - ३७ - यदि च गुरुपुत्रः अपि गुरुः भवति तत् अपि कर्तव्यम् ।

३१ - ३७ - अस्तु तर्हि आदेशिनि अलि आश्रीयमाणे प्रतिषेधः ।

३२ - ३७ - ननु च उक्तम् आदेश्यल्विधिप्रतिषेधे कुरुवधपिबाम् गुणवृद्धिप्रतिषेधः इति ।

३३ - ३७ - न एषः दोषः ।

३४ - ३७ - करोतौ तपरकरणनिर्देशात् सिद्धम् ।

३५ - ३७ - पिबतिः अदन्तः ।

३६ - ३७ - वधकम् इति न अयम् ण्वुल् ।

३७ - ३७ - अन्यः अयम् अकशब्दः कित् औणादिकः रुचकः इति यथा ।

१ - ४५ - एकदेशविकृतस्य उपसङ्ख्यानम् ।

२ - ४५ - एकदेशविकृतस्य उपसङ्ख्यानम् कर्तव्यम् ।

३ - ४५ - किम् प्रयोजनम् ।

४ - ४५ - पचतु पचन्तु ।

५ - ४५ - तिङ्ग्रहणेन ग्रहणम् यथा स्यात् ।

६ - ४५ - एकदेशविकृतस्य अनन्यत्वात् सिद्धम् ।

७ - ४५ - एकदेशविकृतम् अनन्यवत् भवति इति तिङ्ग्रहणेन ग्रहणम् भविष्यति ।

८ - ४५ - तत् यथ श्वा कर्णे वा पुच्छे वा छिन्ने श्वा एव भवति न अश्वः न गर्दभः इति ।

९ - ४५ - अनित्यत्वविज्ञानम् तु तस्मात् उपसङ्ख्यनम् ।

१० - ४५ - अनित्यत्वविज्ञानम् तु भवति ।

११ - ४५ - नित्याः शब्दाः ।

१२ - ४५ - नित्येषु नाम शब्देषु कूटस्थैः अविचालिभिः वर्णैः भवितव्यम् अनपायोपजनविकारिभिः ।

१३ - ४५ - तत्र सः एव अयम् विकृतः च एतत् नित्येषु न उपपद्यते ।

१४ - ४५ - तस्मात् उपसङ्ख्यनम् कर्तव्यम् ।

१५ - ४५ - भारद्वाजीयाः पठन्ति एकदेशविकृतेषु उपसङ्ख्यानम् ।

१६ - ४५ - एकदेशविकृतेषु उपसङ्ख्यानम् कर्तव्यम् ।

१७ - ४५ - किम् प्रयोजनम् ।

१८ - ४५ - पचतु पचन्तु तिङ्ग्रहणेन ग्रहणम् यथा स्यात् ।

१९ - ४५ - किम् च कारणम् न स्यात् ।

२० - ४५ - अनादेशत्वात् ।

२१ - ४५ - आदेशः स्थानिवत् इति उच्यते , न च इमे आदेशाः ।

२२ - ४५ - रूपान्यत्वात् च ।

२३ - ४५ - अन्यत् खलु अपि रूपम् पचति इति अन्यत् पचतु इति ।

२४ - ४५ - इमे अपि आदेशाः ।

२५ - ४५ - कथम् ।

२६ - ४५ - आदिश्यते यः सः आदेशः ।

२७ - ४५ - इमे च अपि आदिश्यन्ते ।

२८ - ४५ - आदेशः स्थानिवत् इति चेत् न अनाश्रितत्वात् ।

२९ - ४५ - आदेशः स्थानिवत् इति चेत् तत् न ।

३० - ४५ - किम् कारणम् ।

३१ - ४५ - अनाश्रितत्वात् ।

३२ - ४५ - यः अत्र आदेशः न असौ आश्रीयते यः च आश्रीयते न असौ आदेशः ।

३३ - ४५ - न एतत् मन्तव्यम् समुदाये आश्रीयमाणे अवयवः न आश्रीयते इति ।

३४ - ४५ - अभ्यन्तरः हि समुदायस्य अवयवः ।

३५ - ४५ - तत् यथा वृक्षः प्रचलन् सह अवयवैः प्रचलति ।

३६ - ४५ - आश्रयः इति चेत् अल्विधिप्रसङ्गः । आश्रयः इति चेत् अल्विधिः अयम् भवति ।

३७ - ४५ - तत्र अनल्विधौ इति प्रतिषेधः प्राप्नोति ।

३८ - ४५ - न एषः दोषः ।

३९ - ४५ - न एवम् सति कः चित् अपि अनल्विधिः स्यात् ।

४० - ४५ - उच्यते च इदम् अनल्विधौ इति ।

४१ - ४५ - तत्र प्रकर्षगतिः विज्ञास्यते साधीयः यः अल्विधिः इति ।

४२ - ४५ - कः च साधीयः अल्विधिः ।

४३ - ४५ - यत्र प्राधान्येन अल् आश्रीयते ।

४४ - ४५ - यत्र नान्तरीयकः अल् आश्रीयते न असौ अल्विधिः ।

४५ - ४५ - अथ वा उक्तम् आदेशग्रहणस्य प्रयोजनम् आदेशमात्रम् स्थानिवत् यथा स्यात् इति ।

१ - ४० - अनुपपन्नम् स्थान्यादेशत्वम् नित्यत्वात् ।

२ - ४० - स्थानी आदेशः इति एतत् नित्येषु शब्देषु न उपपद्यते ।

३ - ४० - किम् कारणम् ।

४ - ४० - नित्यत्वात् ।

५ - ४० - स्थानी हि नाम् यः भूत्वा न भवति ।

६ - ४० - आदेशः हि नाम यः अभूत्वा भवति ।

७ - ४० - एतत् च नित्येषु शब्देषु न उपपद्यते यत् सतः नाम विनाशः स्यात् असतः वा प्रादुर्भावः इति ।

८ - ४० - सिद्धम् तु यथा लौकिकवैदिकेषु अभूतपूर्वे अपि स्थानशब्दप्रयोगात् ।

९ - ४० - सिद्धम् एतत् ।

१० - ४० - कथम् ।

११ - ४० - यथा लौकिकेषु वैदिकेषु च कृतान्तेषु अभूतपूर्वे अपि स्थानशब्दः वर्तते ।

१२ - ४० - लोके तावत् उपाध्यायस्य स्थाने शिष्यः इति उच्यते न च तत्र उपाध्यायः भूतपूर्वः भवति ।

१३ - ४० - वेदे अपि सोमस्य स्थाने पूतीकतृणानि अभिषुणुयात् इति उच्यते न च तत्र सोमः भूतपूर्वः भवति ।

१४ - ४० - कार्यविपरिणामात् वा सिद्धम् ।

१५ - ४० - अथ वा कार्यविपरिणामात् सिद्धम् एतत् ।

१६ - ४० - किम् इदम् कार्यविपरिणामात् इति ।

१७ - ४० - कार्या बुद्धिः ।

१८ - ४० - सा विपरिणम्यते ।

१९ - ४० - ननु च कार्याविपरिणामात् इति भवितव्यम् ।

२० - ४० - सन्ति च एव हि औत्तर्पदिकानि ह्रस्वत्वानि ।

२१ - ४० - अपि च बुद्धिः सम्प्रत्ययः इति अनर्थान्तरम् ।

२२ - ४० - कार्या बुद्धिः कार्यः सम्प्रत्ययः कार्यस्य सम्प्रत्ययस्य विपरिणामः कार्यविपरिणामः कार्यविपरिणामात् इति ।

२३ - ४० - परिहारन्तरम् एव इदम् मत्वा पठितम् ।

२४ - ४० - कथम् च इदम् परिहारान्तरम् स्यात् ।

२५ - ४० - यदि भूतपूर्वे स्थानशब्दः वर्तते ।

२६ - ४० - भूतपूर्वे च अपि स्थानशब्दः वर्तते ।

२७ - ४० - कथम् ।

२८ - ४० - बुद्ध्या ।

२९ - ४० - तत् यथा कः चित् कस्मै चित् उपदिशति प्राचीनम् ग्रामात् आम्राः इति ।

३० - ४० - तस्य सर्वत्र आम्रबुद्धिः प्रसक्ता ।

३१ - ४० - ततः पश्चात् अह ये क्षीरिणः अवरोहवन्तः पृथुपर्णाः ते न्यग्रोधाः इति. सः तत्र आम्रबुद्ध्याः न्यग्रोधबुद्धिम् प्रतिपद्यते ।

३२ - ४० - सः ततः पश्यति बुद्ध्या आम्रान् च अपकृष्यमाणान् न्यग्रोधान् च आधीयमानान् ।

३३ - ४० - नित्याः एव च स्वस्मिन् विषये आम्राः नित्याः च न्यग्रोधाः ।

३४ - ४० - बुद्धिः तु अस्य विपरिणम्यते ।

३५ - ४० - एवम् इह अपि अस्तिः अस्मै अविशेषेण उपदिष्टः ।

३६ - ४० - तस्य सर्वत्र अस्तिबुद्धिः प्रसक्ता ।

३७ - ४० - सः अस्तेः भूः इति अस्तिबुद्ध्याः भवतिबुद्धिम् प्रतिपद्यते ।

३८ - ४० - सः ततः पश्यति बुद्ध्या अस्तिम् च अपकृष्यमाणम् भवतिम् च आधीयमानम् ।

३९ - ४० - नित्यः एव स्वस्मिन् विषये अस्तिः नित्यः भवतिः ।

४० - ४० - बुद्धिः तु अस्य विपरिणम्यते ।

१ - १९ - अपवादप्रसङ्गः तु स्थानिवत्त्वात् ।

२ - १९ - अपवादे उत्सर्गकृतम् च प्राप्नोति ।

३ - १९ - कर्मणि अण् आतः अनुपसर्गे कः इति के अपि अणि कृतम् प्राप्नोति ।

४ - १९ - किम् कारणम् ।

५ - १९ - स्थानिवत्त्वात् ।

६ - १९ - उक्तम् वा ।

७ - १९ - किम् उक्तम् ।

८ - १९ - विषयेण तु नानालिङ्गकरणात् सिद्धम् इति ।

९ - १९ - अथ वा ।

१० - १९ - सिद्धम् तु षष्ठीनिर्दिष्टस्य स्थानिवद्वचनात् ।

११ - १९ - सिद्धम् एतत् ।

१२ - १९ - कथम् ।

१३ - १९ - षष्ठीनिर्दिष्टस्य आदेशः स्थानिवत् इति वक्तव्यम् ।

१४ - १९ - तत् तर्हि षष्ठीनिर्दिष्टग्रहणम् कर्तव्यम् ।

१५ - १९ - न कर्तव्यम् ।

१६ - १९ - प्रकृतम् अनुवर्तते ।

१७ - १९ - क्व प्रकृतम् ।

१८ - १९ - षष्ठी स्थानेयोगा इति ।

१९ - १९ - अथ वा आचार्यप्रवृत्तिः ज्ञापयति न अपवादे उत्सर्गकृतम् भवति इति यत् अयम् श्यनादीनाम् कान् चित् शितः करोति श्यन् , श्नम् , श्ना , शः , श्नुः इति ।

१ - १३७ - तस्य दोषः तयादेशे उभयप्रतिषेधः । तस्य एतस्य लक्षणस्य दोषः तयादेशे उभयप्रतिषेधः वक्तव्यः उभये देवमनुष्याः ।

२ - १३७ - तयपः ग्रहणेन ग्रहणात् जसि विभाषा प्राप्नोति ।

३ - १३७ - न एषः दोषः ।

४ - १३७ - अयच् प्रत्ययान्तरम् ।

५ - १३७ - यदि प्रत्ययान्तरम् उभयी इति ईकारः न प्राप्नोति ।

६ - १३७ - मा भूत् एवम् ।

७ - १३७ - मात्रचः इति एवम् भविष्यति ।

८ - १३७ - कथम् ।

९ - १३७ - मात्रच् इति न इदम् प्रत्ययग्रहणम् ।

१० - १३७ - किम् तर्हि ।

११ - १३७ - प्रत्याहारग्रहणम् ।

१२ - १३७ - क्व सन्निविष्टानाम् प्रत्याहारः ।

१३ - १३७ - मात्रशब्दात् प्रभृति आ आयचः चकारात् ।

१४ - १३७ - यदि प्रत्याहारग्रहणम् कति तिष्ठन्ति अत्र अपि प्राप्नोति ।

१५ - १३७ - अतः इति वर्तते ।

१६ - १३७ - एवम् अपि तैलमात्रा घ्र्तमात्रा इति अत्र अपि प्राप्नोति ।

१७ - १३७ - सदृशस्य अपि असन्निविष्टस्य न भविष्यति प्रत्याहारेण ग्रहणम् ।

१८ - १३७ - जात्यख्यायाम् वचनातिदेशे स्थानिवद्भावप्रतिषेधः ।

१९ - १३७ - जात्यख्यायाम् वचनातिदेशे स्थानिवद्भावस्य प्रतिषेधः वक्तव्यः ।

२० - १३७ - व्रीहिभ्यः आगतः इति अत्र घेः ङिति इत् गुणः प्राप्नोति ।

२१ - १३७ - न एषः दोषः ।

२२ - १३७ - उक्तम् एतत् अर्थातिदेशात् सिद्धम् इति ।

२३ - १३७ - ङ्याब्ग्रहणे अदीर्घः । ङ्याब्ग्रहणे अदीर्घः आदेशः न स्थानिवत् इति वक्तव्यम् ।

२४ - १३७ - किम् प्रयोजनम् ।

२५ - १३७ - निष्कौशाम्बिः , अतिखट्वः ।

२६ - १३७ - ङ्याब्ग्रहणेन ग्रहणात् सुलोपः मा भूत् इति ।

२७ - १३७ - ननु च दीर्घात् इति उच्यते ।

२८ - १३७ - तत् न वक्तव्यम् भवति ।

२९ - १३७ - किम् पुनः अत्र ज्यायः ।

३० - १३७ - स्थानिवत्प्रतिषेधः एव ज्यायान् ।

३१ - १३७ - इदम् अपि सिद्धम् भवति अतिखट्वाय अतिमालाय ।

३२ - १३७ - याट् आपः इति याट् न भवति ।

३३ - १३७ - अथ इदानीम् असति अपि स्थानिवद्भावे दीर्घत्वे कृते पित् च असौ भूतपूर्वः इति कृत्वा याट् आपः इति याट् कस्मात् न भवति ।

३४ - १३७ - लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति ।

३५ - १३७ - ननु च इदानीम् सति अपि स्थानिवद्भावे एतया परिभाषया शक्यम् इह उपस्थातुम् ।

३६ - १३७ - न इति आह ।

३७ - १३७ - न हि इदानीम् क्व चित् अपि स्थानिवद्भावः स्यात् ।

३८ - १३७ - तत् तर्हि वक्तव्यम् ।

३९ - १३७ - न वक्तव्यम्. प्रश्लिष्टनिर्देशात् सिद्धम् ।

४० - १३७ - प्रश्लिष्टनिर्देशः अयम् ङी ई ईकारान्तात् आ आप् आकारान्तात् इति ।

४१ - १३७ - आहिभुवोः ईट्प्रतिषेधः ।

४२ - १३७ - आहिभुवोः ईट्प्रतिषेधः वक्तव्यः आत्थ अभूत् ।

४३ - १३७ - अस्तिब्रूग्रहणेन ग्रहणात् ईट् प्राप्नोति ।

४४ - १३७ - आहेः तावत् न वक्तव्यः ।

४५ - १३७ - आचार्यप्रवृत्तिः ज्ञापयति न आहेः ईट् भवति इति यत् अयम् आहः थः इति झलादिप्रकरणे थत्वम् शास्ति ।

४६ - १३७ - न एतत् अस्ति प्रयोजनम्. अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् ।

४७ - १३७ - किम् ।

४८ - १३७ - भूतपूर्वगतिः यथा विज्ञायेत झलादिः यः भूतपूर्वः इति ।

४९ - १३७ - यदि एवम् थवचनम् अनर्थकम् स्यात् ।

५० - १३७ - आथिम् एव अयम् उच्चारयेत् ब्रुवः पञ्चानाम् आदितः आथः ब्रुवः इति ।

५१ - १३७ - भवतेः च अपि न वक्तव्यः ।

५२ - १३७ - अस्तिसिचः अपृक्ते इति द्विसकारकः निर्देशः अस्तेः सकारान्तात् इति ।

५३ - १३७ - वध्यादेशे वृद्धितत्वप्रतिषेधः ।

५४ - १३७ - वध्यादेशे वृद्धितत्वप्रतिषेधः वक्तव्यः वधकम् पुष्करम् इति ।

५५ - १३७ - स्थानिवद्भावात् वृद्धितत्वे प्राप्नुतः ।

५६ - १३७ - न एषः दोषः ।

५७ - १३७ - उक्तम् एतत् न अयम् ण्वुल् ।

५८ - १३७ - अन्यः अयम् अकशब्दः कित् औणादिकः रुचकः इति यथा ।

५९ - १३७ - इड्विधिः च ।

६० - १३७ - इड्विधेयः आवधिषीष्ट ।

६१ - १३७ - एकाचः उपदेशे अनुदात्तात् इति प्रतिषेधः प्राप्नोति ।

६२ - १३७ - न एषः दोषः ।

६३ - १३७ - आद्युदात्तनिपातनम् करिष्यते ।

६४ - १३७ - स निपातनस्वरः प्रकृतिस्वरस्य बाधकः भविष्यति ।

६५ - १३७ - एवम् अपि उपदेशिवद्भावः वक्तव्यः ।

६६ - १३७ - यथा एव हि निपातनस्वरः प्रकृतिस्वरम् बाधते एवम् प्रत्ययस्वरम् अपि बाधेत आवधिषीष्ट इति ।

६७ - १३७ - न एषः दोषः ।

६८ - १३७ - आर्धधातुकीयाः सामान्येन भवन्ति अनवस्थितेषु प्रत्ययेषु ।

६९ - १३७ - तत्र आर्धधातुकसामान्ये वधिभावे कृते सति शिष्टत्वात् प्रत्ययस्वरः भविष्यति ।

७० - १३७ - आकारान्तात् नुक्षुक्प्रतिषेधः ।

७१ - १३७ - आकारान्तात् नुक्षुकोः प्रतिषेधः वक्तव्यः विलापयति भापयते ।

७२ - १३७ - लीभीग्रहणेन ग्रहणात् नुक्षुकौ प्राप्नुतः ।

७३ - १३७ - लीभियोः प्रश्लिष्टनिर्देशात् सिद्धम् ।

७४ - १३७ - लीभियोः प्रश्लिष्टनिर्देशः अयम् ली ई ईकारान्तस्य भी ई ईकारान्तस्य च इति ।

७५ - १३७ - लोडादेशे शाभावजभावधित्वहिलोपैत्त्वप्रतिषेधः ।

७६ - १३७ - लोडादेशे एषाम् प्रतिषेधः वक्तव्यः शिष्टात् , हतात् , भिन्तात् , कुरुतात् , स्तात् ।

७७ - १३७ - लोडादेशे कृते शाभावः जभावः धित्वम् हिलोपः एत्त्वम् इति एते विधयः प्राप्नुवन्ति ।

७८ - १३७ - न एषः दोषः ।

७९ - १३७ - इदम् इह सम्प्रधार्यम् लोडादेशः क्रियताम् एते विधयः इति किम् अत्र कर्तव्यम् ।

८० - १३७ - परत्वात् लोडादेशः ।

८१ - १३७ - अथ इदानीम् लोडादेशे कृते पुनःप्रसङ्गविज्ञानात् कस्मात् एते विधयः न भवन्ति ।

८२ - १३७ - सकृद्गतौ विप्रतिषेधे यत् बाधितम् तत् बाधितम् एव इति कृत्वा ।

८३ - १३७ - त्रयादेशे स्रन्तप्रतिषेधः ।

८४ - १३७ - त्रयादेशे स्रन्तस्य प्रतिषेधः वक्तव्यः तिसृणाम् ।

८५ - १३७ - तिसृभावे कृते त्रेः त्रयः इति त्रयादेशः प्राप्नोति ।

८६ - १३७ - न एषः दोषः ।

८७ - १३७ - इदम् इह सम्प्रधार्यम् तिसृभावः क्रियताम् त्रयादेशः इति किम् अत्र कर्तव्यम् ।

८८ - १३७ - परत्वात् तिसृभावः ।

८९ - १३७ - अथ इदानीम् तिसृभावे कृते पुनःप्रसङ्गविज्ञानात् त्रयादेशः कस्मात् न भवति ।

९० - १३७ - सकृद्गतौ विप्रतिषेधे यत् बाधितम् तत् बाधितम् एव इति ।

९१ - १३७ - आम्विधौ च ।

९२ - १३७ - आम्विधौ च स्रन्तस्य प्रतिषेधः वक्तव्यः चतस्रः तिष्ठन्ति ।

९३ - १३७ - चतसृभावे कृते चतुरनडुहोः आम् उदात्तः इति आम् प्राप्नोति ।

९४ - १३७ - न एषः दोषः ।

९५ - १३७ - इदम् इह सम्प्रधार्यम् चतसृभावः क्रियताम् चतुरनडुहोः आम् उदात्तः इति आम् इति किम् अत्र कर्तव्यम् ।

९६ - १३७ - परत्वात् चतसृभावः ।

९७ - १३७ - अथ इदानीम् चतसृभावे कृते पुनःप्रसङ्गविज्ञानात् आम् कस्मात् न भवति ।

९८ - १३७ - सकृद्गतौ विप्रतिषेधे यत् बाधितम् तत् बाधितम् एव इति ।

९९ - १३७ - स्वरे वस्वादेशे ।

१०० - १३७ - स्वरे वस्वादेशे प्रतिषेधः वक्तव्यः विदुषः पश्य ।

१०१ - १३७ - शतुः अनुमः नद्यजादी अन्तोदात्तात् इति एषः स्वरः प्राप्नोति ।

१०२ - १३७ - न एषः दोषः ।

१०३ - १३७ - अनुमः इति प्रतिषेधः भविष्यति ।

१०४ - १३७ - अनुमः इति उच्यते न च अत्र नुमम् पश्यामः ।

१०५ - १३७ - अनुमः इति न इदम् आगमग्रहणम् ।

१०६ - १३७ - किम् तर्हि ।

१०७ - १३७ - प्रत्याहारग्रहणम् ।

१०८ - १३७ - क्व सन्निविष्टानाम् प्रत्याहारः ।

१०९ - १३७ - उकारात् प्रभृति आ नुमः मकारात् ।

११० - १३७ - यदि प्रत्याहारग्रहणम् लुनत पुनत अत्र अपि प्राप्नोति ।

१११ - १३७ - अनुम्ग्रहणेन न शत्रन्तम् विशेष्यते ।

११२ - १३७ - किम् तर्हि ।

११३ - १३७ - शता एव विशेष्यते शता यः अनुम्कः इति ।

११४ - १३७ - अवश्यम् च एतत् एवम् विज्ञेयम् ।

११५ - १३७ - आगमग्रहणे हि सति इह प्रसज्येत मुञ्चता मुञ्चतः इति ।

११६ - १३७ - गोः पूर्वणित्त्वात्वस्वरेषु ।

११७ - १३७ - गोः पूर्वणित्त्वात्वस्वरेषु प्रतिषेधः वक्तव्यः चित्रग्वग्रम् , शबलग्वग्रम् ।

११८ - १३७ - सर्वत्र विभाषा गोः इति विभाषा पूर्वत्वम् प्राप्नोति ।

११९ - १३७ - न एषः दोषः ।

१२० - १३७ - एङः इति वर्तते ।

१२१ - १३७ - तत्र अनल्विधौ इति प्रतिषेधः भविष्यति ।

१२२ - १३७ - एवम् अपि हे चित्रगो अग्रम् अत्र प्राप्नोति ।

१२३ - १३७ - णित्त्वम् चित्रगुः , चित्रगू चित्रगवः ।

१२४ - १३७ - गोतो णित् इति णित्त्वम् प्राप्नोति ।

१२५ - १३७ - आत्वम् चित्रगुम् पश्य शबलगुम् पश्य ।

१२६ - १३७ - आ ओतः इति आत्वम् प्राप्नोति ।

१२७ - १३७ - न एषः दोषः ।

१२८ - १३७ - तपरकरणात् सिद्धम् ।

१२९ - १३७ - तपरकरणसामार्थ्यात् णित्त्वात्वे न भविष्यतः ।

१३० - १३७ - स्वर बहुगुमान् ।

१३१ - १३७ - न गोश्वन्साववर्ण इति प्रतिषेधः प्राप्नोति ।

१३२ - १३७ - करोतिपिब्योः प्रतिषेधः ।

१३३ - १३७ - करोतिपिब्योः प्रतिषेधः वक्तव्यः कुरु पिब इति ।

१३४ - १३७ - स्थानिवद्भावात् लघूपधगुणः प्राप्नोति ।

१३५ - १३७ - उक्तम् वा ।

१३६ - १३७ - किम् उक्तम् ।

१३७ - १३७ - करोतौ तपरकरणनिर्देशात् सिद्धम् , पिबतिः अदन्तः इति ।

१ - १३४ - अचः इति किमर्थम् ।

२ - १३४ - प्रश्नः , द्यूत्वा , आक्राष्टाम् आगत्य ।

३ - १३४ - प्रश्नः , विश्नः इति अत्र छकारस्य शकारः परनिमित्तकः ।

४ - १३४ - तस्य स्थानिवद्भावात् छे च इति तुक् प्राप्नोति ।

५ - १३४ - अचः इति वचनात् न भवति ।

६ - १३४ - न एतत् अस्ति प्रयोजनम् ।

७ - १३४ - क्रियमाणे अपि वै अज्ग्रहणे अवश्यम् अत्र तुगभावे यत्नः कर्तव्यः ।

८ - १३४ - अन्तरङ्गत्वात् हि तुक् प्राप्नोति ।

९ - १३४ - इदम् तर्हि द्यूत्वा ।

१० - १३४ - वकारस्य ऊठ् परनिमित्तकः ।

११ - १३४ - तस्य स्थानिवद्भावात् अचि इति यणादेशः न प्राप्नोति ।

१२ - १३४ - अचः इति वचनात् भवति ।

१३ - १३४ - एतत् अपि न अस्ति प्रयोजनम् ।

१४ - १३४ - स्वाश्रयम् अत्र अच्त्वम् भविष्यति ।

१५ - १३४ - अथ वा यः अत्र आदेशः न असौ आश्रीयते यः च आश्रीयते न असौ आदेशः ।

१६ - १३४ - इदम् तर्हि प्रयोजनम् आक्राष्टाम् ।

१७ - १३४ - सिचः लोपः परनिमित्तकः ।

१८ - १३४ - तस्य स्थानिवद्भावात् षढोः कः सि इति कत्वम् प्राप्नोति ।

१९ - १३४ - अचः इति वचनात् भवति ।

२० - १३४ - एतत् अपि न अस्ति प्रयोजनम् ।वक्ष्यति एतत् पूर्वत्रासिद्धे न स्थानिवत् इति ।

२१ - १३४ - इदम् तर्हि प्रयोजनम् आगत्य , अभिगत्य ।

२२ - १३४ - अनुनासिकलोपः परनिमित्तकः ।

२३ - १३४ - तस्य स्थानिवद्भावात् ह्रस्वस्य इति तुक् न प्राप्नोति ।

२४ - १३४ - अचः इति वचनात् भवति ।

२५ - १३४ - अथ परस्मिन् इति किमर्थम् ।

२६ - १३४ - युवजानिः , द्विपदिका , वैयाघ्रपद्यः , आदीध्ये ।

२७ - १३४ - युवजानिः , वधूजानिः इति जायायाः निङ् न परनिमित्तकः ।

२८ - १३४ - तस्य स्थानिवद्भावात् वलि इति यलोपः न प्राप्नोति ।

२९ - १३४ - परस्मिन् इति वचनात् भवति ।

३० - १३४ - न एतत् अस्ति प्रयोजनम् ।

३१ - १३४ - स्वाश्रयम् अत्र वल्तम् भविष्यति ।

३२ - १३४ - अथ वा यः अत्र आदेशः न असौ आश्रीयते यः च आश्रीयते न असौ आदेशः ।

३३ - १३४ - इदम् तर्हि प्रयोजनम् द्विपदिका त्रिपदिका ।

३४ - १३४ - पादस्य लोपः न परनिमित्तकः ।

३५ - १३४ - तस्य स्थानिवद्भावात् पद्भावः न प्राप्नोति ।

३६ - १३४ - परस्मिन् इति वचनात् भवति ।

३७ - १३४ - एतत् अपि न अस्ति प्रयोजनम् ।

३८ - १३४ - पुनर्लोपवचनसामर्थ्यात् स्थानिवद्भावः न भविष्यति ।

३९ - १३४ - इदम् तर्हि प्रयोजनम् वैयाघ्रपद्यः ।

४० - १३४ - ननु च अत्र अपि पुनर्वचनसामर्थ्यात् एव न भविष्यति ।

४१ - १३४ - अस्ति हि अन्यत् पुनर्लोपवचने प्रयोजनम् ।

४२ - १३४ - किम् ।

४३ - १३४ - यत्र भसञ्ज्ञा न व्याघ्रपात् , श्येनपात् इति ।

४४ - १३४ - इदम् च अपि उदाहरणम् आदीध्ये , आवेव्ये ।

४५ - १३४ - इकारस्य एकारः न परनिमित्तकः ।

४६ - १३४ - तस्य स्थानिवद्भावात् यीवर्णयोः दीधीवेव्योः इति लोपः प्राप्नोति ।

४७ - १३४ - परस्मिन् इति वचनात् भवति ।

४८ - १३४ - अथ पूर्वविधौ इति किम् अर्थम् ।

४९ - १३४ - हे गौः , बाभ्रवीयाः , नैधेयः ।

५० - १३४ - हे गौः इति औकारः परनिमित्तकः ।

५१ - १३४ - तस्य स्थानिवद्भावात् एङ्ह्रस्वात् सम्बुद्धेः इति लोपः प्राप्नोति ।

५२ - १३४ - पूर्वविधौ इति वचनात् न भवति ।

५३ - १३४ - न एतत् अस्ति प्रयोजनम् ।

५४ - १३४ - आचार्यप्रवृत्तिः ज्ञापयति न सम्बुद्धिलोपे स्थानिवद्भावः भवति इति यत् अयम् एङ्ह्रस्वात् सम्बुद्धेः इति एङ्ग्रहणम् करोति ।

५५ - १३४ - न एतत् अस्ति ज्ञापकम् ।

५६ - १३४ - गोर्थम् एतत् स्यात् ।

५७ - १३४ - यत् तर्हि प्रत्याहारग्रहणम् करोति ।

५८ - १३४ - इतरथा हि ओह्रस्वात् इति एव ब्रूयात् ।

५९ - १३४ - इदम् तर्हि प्रयोजनम् बाभ्रवीयाः , माधवीयाः ।

६० - १३४ - वान्तादेशः परनिमित्तकः ।

६१ - १३४ - तस्य स्थानिवद्भावात् हलः तद्धितस्य इति यलोपः न प्राप्नोति ।

६२ - १३४ - पूर्वविधौ इति वचनात् न भवति ।

६३ - १३४ - एतत् अपि न अस्ति प्रयोजनम् ।

६४ - १३४ - स्वाश्रयम् अत्र हल्त्वम् भविष्यति ।

६५ - १३४ - अथ वा यः अत्र आदेशः न असौ आश्रीयते यः च आश्रीयते न असौ आदेशः ।

६६ - १३४ - इदम् तर्हि प्रयोजनम् नैधेयः ।

६७ - १३४ - आकारलोपः परनिमित्तकः ।

६८ - १३४ - तस्य स्थानिवद्भावात् द्व्यज्लक्षणः ढक् न प्राप्नोति ।

६९ - १३४ - पूर्वविधौ इति वचनात् न भवति ।

७० - १३४ - अथ विधिग्रहणम् किमर्थम् ।

७१ - १३४ - सर्वविभक्त्यन्तः समासः यथा विज्ञायेत पूर्वस्य विधिः पूर्वविधिः , पूर्वस्मात् विधिः पूर्वविधिः इति ।

७२ - १३४ - कानि पुनः पूर्वस्मात् विधौ स्थानिवद्भावस्य प्रयोजनानि ।

७३ - १३४ - बेभिदिता , माथितिकः , अपीपचन् ।

७४ - १३४ - बेभिदिता , चेच्छिदिता इति अकारलोपे कृते एकाज्लक्षणः इट्प्रतिषेधः प्राप्नोति ।

७५ - १३४ - स्थानिवद्भावात् न भवति ।

७६ - १३४ - माथितिकः इति अकारलोपे कृते तान्तात् कः इति कादेशः प्राप्नोति ।

७७ - १३४ - स्थानिवद्भावात् न भवति ।

७८ - १३४ - अपीपचन् इति एकादेशे कृते अभ्यस्तात् झेः जुस् भवति इति जुस्भावः प्राप्नोति ।

७९ - १३४ - स्थानिवद्भावात् न भवति ।

८० - १३४ - न एतानि सन्ति प्रयोजनानि ।

८१ - १३४ - कुतः ।

८२ - १३४ - प्रातिपदिकर्निर्देशः अयम् ।

८३ - १३४ - प्रातिपदिकर्निर्देशाः च अर्थतन्त्राः भवन्ति ।

८४ - १३४ - न कां चित् प्राधान्येन विभक्तिम् आश्रयन्ति ।

८५ - १३४ - तत्र प्रातिपदिकार्थे निर्दिष्टे याम् याम् विभक्तिम् आश्रयितुम् बुद्धिः उपजायते सा सा आश्रयितव्या ।

८६ - १३४ - इदम् तर्हि प्रयोजनम् विधिमात्रे स्थानिवत् यथा स्यात् अनाश्रीयमाणायाम् अपि प्रकृतौ वाय्वोः , अध्वर्य्वोः ।

८७ - १३४ - लोपः व्योः वलि इति यलपः मा भूत् इति ।

८८ - १३४ - अस्ति प्रयोजनम् एतत् ।

८९ - १३४ - किम् तर्हि इति ।

९० - १३४ - अपरविधौ इति तु वक्तव्यम् ।

९१ - १३४ - किम् प्रयोजनम् ।

९२ - १३४ - स्वविधौ अपि स्थानिवद्भावः यथा स्यात् ।

९३ - १३४ - कानि पुनः स्वविधौ स्थानिवद्भावस्य प्रयोजनानि ।

९४ - १३४ - आयन् , आसन् , धिन्वन्ति कृण्वन्ति दधि अत्र , मधु अत्र चक्रतुः , चक्रुः ।

९५ - १३४ - इह तावत् आयन् , आसन् इति इणस्त्योः यण्लोपयोः कृतयोः अनजादित्वात् आट् अजादीनाम् इति आट् न प्राप्नोति ।

९६ - १३४ - स्थानिवद्भावात् भवति ।

९७ - १३४ - धिन्वन्ति कृण्वन्ति इति यणादेशे कृते वलादिलक्षणः इट् प्राप्नोति ।

९८ - १३४ - स्थानिवद्भावात् न भवति ।

९९ - १३४ - दधि अत्र मधु अत्र इति यणादेशे कृते संयोगान्तलोपः प्राप्नोति ।

१०० - १३४ - स्थानिवद्भावात् न भवति ।

१०१ - १३४ - चक्रतुः , चक्रुः इति यणादेशे कृते अनच्त्वात् द्विर्वचनम् न प्राप्नोति ।

१०२ - १३४ - स्थानिवद्भावात् भवति ।

१०३ - १३४ - यदि तर्हि स्वविधौ अपि स्थानिवद्भावः भवति द्वाभ्याम् , देयम् , लवनम् अत्र अपि प्राप्नोति ।

१०४ - १३४ - द्वाभ्याम् इति अत्र अत्वस्य स्थानिवद्भावात् दीर्घत्वम् न प्राप्नोति ।

१०५ - १३४ - देयम् इति ईत्त्वस्य स्थानिवद्भावात् गुणः न प्राप्नोति ।

१०६ - १३४ - लवनम् इति गुणस्य स्थानिवद्भावात् अवादेशः न प्राप्नोति ।

१०७ - १३४ - न एषः दोषः ।

१०८ - १३४ - स्वाश्रयाः अत्र एते विधयः भविष्यन्ति ।

१०९ - १३४ - तत् तर्हि वक्तव्यम् अपरविधौ इति ।

११० - १३४ - न वक्तव्यम् ।

१११ - १३४ - पूर्वविधौ इति एव सिद्धम् ।

११२ - १३४ - कथम् ।

११३ - १३४ - न पूर्व्ग्रहणेन आदेशः अभिसम्बध्यते अजादेशः परनिमित्तकः पूर्वस्य विधिम् प्रति स्थानिवत् भवति ।

११४ - १३४ - कुतः पूर्वस्य ।

११५ - १३४ - आदेशात् इति ।

११६ - १३४ - किम् तर्हि ।

११७ - १३४ - निमित्तम् अभिसम्बध्यते अजादेशः परनिमित्तकः पूर्वस्य विधिम् प्रति स्थानिवत् भवति ।

११८ - १३४ - कुतः पूर्वस्य ।

११९ - १३४ - निमित्तात् इति ।

१२० - १३४ - अथ निमित्ते अभिसम्बध्यमाने यत् तत् अस्य योगस्य मूर्धाभिषिक्तम् उदाहरणम् तत् अपि सङ्गृहीतम् भवति ।

१२१ - १३४ - किम् पुनः तत् ।

१२२ - १३४ - पट्व्या मृद्व्या इति ।

१२३ - १३४ - बाढम् सङ्गृहीतम् ।

१२४ - १३४ - ननु च ईकारयणा व्यवहितत्वात् न असौ निमित्तात् पूर्वः भवति ।

१२५ - १३४ - व्यवहिते अपि पूर्वशब्दः वर्तते ।

१२६ - १३४ - तत् यथा पूर्वम् मथुरायाः पाटलिपुत्रम् इति ।

१२७ - १३४ - अथ वा आदेशः एव अभिसम्बध्यते ।

१२८ - १३४ - कथम् यानि स्वविधौ स्थानिवद्भावस्य प्रयोजनानि ।

१२९ - १३४ - न एतानि सन्ति ।

१३० - १३४ - इह तावत् आयन् , आसन् , धिन्वन्ति कृण्वन्ति इति ।

१३१ - १३४ - अयम् विधिशब्दः अस्ति एव कर्मसाधनः विधीयते विधिः ।

१३२ - १३४ - अस्ति भावसाधनः विधानम् विधिः इति ।

१३३ - १३४ - कर्मसाधनस्य विधिशब्दस्य उपादाने न सर्वम् इष्टम् सङ्गृहीतम् इति कृत्वा भावसाधनस्य विधिशब्दस्य उपादानम् विज्ञास्यते पूर्वस्य विधानम् प्रति पूर्वस्य भावम् प्रति पूर्वः स्यात् इति स्थानिवत् भवति इति एवम् आट् भविष्यति इट् च न भविष्यति ।

१३४ - १३४ - दधि अत्र मधु अत्र चक्रतुः चक्रुः इति परिहारम् वक्ष्यति

१ - ६४ - कानि पुनः अस्य योगस्य प्रयोजनानि ।

२ - ६४ - स्तोष्यामि अहम् पादिकम् औदवाहिम् ततः श्वोभूते शातनीम् पातनीम् च ।

३ - ६४ - नेतारौ आगच्छतम् धारणिम् रावणिम् च ततः पश्चात् स्रंस्यते ध्वंस्यते च ।

४ - ६४ - इह तावत् पादिकम् औदवाहिम् शातनीम् पातनीम् धारणिम् रावणिम् इति अकारलोपे कृते पद्भावः ऊठ् अल्लोपः टिलोपः इति एते विधयः प्राप्नुवन्ति ।

५ - ६४ - स्थानिवद्भावात् न भवन्ति ।

६ - ६४ - स्रंस्यते ध्वंस्यते णिलोपे कृते अनिदिताम् हलः उपधायाः क्ङिति इति नलोपः प्राप्नोति ।

७ - ६४ - स्थानिवद्भावात् न भवति ।

८ - ६४ - न एतानि सन्ति प्रयोजनानि ।

९ - ६४ - असिद्धवत् अत्र आ भात् इति अनेन अपि एतानि सिद्धानि ।

१० - ६४ - इदम् तर्हि प्रयोजनम् याज्यते वाप्यते ।

११ - ६४ - णिलोपे कृते यजादीनाम् किति इति सम्प्रसारणम् प्राप्नोति ।

१२ - ६४ - स्थानिवद्भावात् न भवति ।

१३ - ६४ - एतत् अपि न अस्ति प्रयोजनम् ।

१४ - ६४ - यजादिभिः अत्र कितम् विशेषयिष्यामः यजादीनाम् यः कित् इति ।

१५ - ६४ - कः च यजादीनाम् कित् ।

१६ - ६४ - यजादिभ्यः यः विहितः इति ।

१७ - ६४ - इदम् तर्हि प्रयोजनम् पट्व्या मृद्व्या इति ।

१८ - ६४ - परस्य यणादेशे कृते पूर्वस्य न प्राप्नोति ईकारयणा व्यवहितत्वात् ।

१९ - ६४ - स्थानिवद्भावात् भवति ।

२० - ६४ - किम् पुनः कारणम् परस्य तावत् भवति न पुनः पूर्वस्य ।

२१ - ६४ - नित्यत्वात् ।

२२ - ६४ - नित्यः परयणादेशः ।

२३ - ६४ - कृते अपि पूर्वयणादेशे प्राप्नोति अकृते अपि प्राप्नोति ।

२४ - ६४ - नित्यत्वात् परयणादेशे कृते पूर्वस्य न प्राप्नोति ।

२५ - ६४ - स्थानिवद्भावात् भवति ।

२६ - ६४ - एतत् अपि न अस्ति प्रयोजनम् ।

२७ - ६४ - असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति असिद्धत्वात् बहिरङ्गलक्षणस्य परयणादेशस्य अन्तरङ्गलक्षणः पूर्वयणादेशः भविष्यति ।

२८ - ६४ - अवश्यम् च एषा परिभाषा आश्रयितव्या स्वरार्थम् कर्त्र्य हर्त्र्य इति उदात्तयणः हल्पूर्वात् इति एषः स्वरः यथा स्यात् ।

२९ - ६४ - अनेन अपि सिद्धः स्वरः ।

३० - ६४ - कथम् ।

३१ - ६४ - आरभ्यमाणे नित्यः असौ ।

३२ - ६४ - आरभ्यमाणे तु अस्मिन् योगे नित्यः पूर्वयणादेशः ।

३३ - ६४ - कृते अपि परयणादेशे प्राप्नोति अकृते अपि ।

३४ - ६४ - परयणादेशः अपि नित्यः ।

३५ - ६४ - कृते अपि पूर्वयणादेशे प्राप्नोति अकृते अपि ।

३६ - ६४ - परः च असौ व्यवस्था ।

३७ - ६४ - व्यवस्थया च असौ परः ।

३८ - ६४ - युगपत्सम्भवः न अस्ति ।

३९ - ६४ - न च अस्ति यौगपद्येन सम्भवः ।

४० - ६४ - कथम् च सिध्यति ।

४१ - ६४ - बहिरङ्गेण सिध्यति ।

४२ - ६४ - असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति अनेन सिध्यति ।

४३ - ६४ - एवम् तर्हि यः अत्र उदात्तयण् तदाश्रयः स्वरः भविष्यति ।

४४ - ६४ - ईकारयणा व्यवहितत्वात् न प्राप्नोति ।

४५ - ६४ - स्वरविधौ व्यञ्जनम् अविद्यमानवत् भवति इति न अस्ति व्यवधानम् ।

४६ - ६४ - सा तर्हि एषा परिभाषा कर्तव्या ।

४७ - ६४ - ननु च इयम् अपि कर्तव्या असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति ।

४८ - ६४ - बहुप्रयोजना एषा परिभाषा ।

४९ - ६४ - अवश्यम् एषा कर्तव्या ।

५० - ६४ - सा च अपि एषा लोकतः सिद्धा ।

५१ - ६४ - कथम् ।

५२ - ६४ - प्रत्यङ्गवर्ती लोकः लक्ष्यते ।

५३ - ६४ - तत् यथा पुरुषः अयम् प्रातः उत्थाय यानि अस्य प्रतिशरीरम् कार्याणि तानि तावत् करोति ततः सुहृदाम् ततः सम्बन्धिनाम् ।

५४ - ६४ - प्रातिपदिकम् च अपि उपदिष्टम् सामान्यभूते अर्थे वर्तते ।

५५ - ६४ - सामन्ये वर्तमानस्य व्यक्तिः उपजायते ।

५६ - ६४ - व्यक्तस्य सतः लिङ्गसङ्ख्याभ्याम् अन्वितस्य बाह्येन अर्थेन योगः भवति ।

५७ - ६४ - यया एव आनुपूर्व्या अर्थानाम् प्रादुर्भावः तया एव शब्दानाम् अपि तद्वत् कार्यैः अपि भवितव्यम् ।

५८ - ६४ - इमानि तर्हि प्रयोजनानि पटयति , अवधीत् , बहुखट्वकः ।

५९ - ६४ - पटयति लघयति इति टिलोपे कृते अतः उपधायाः इति वृद्धिः प्राप्नोति ।

६० - ६४ - स्थानिवद्भावात् न भवति ।

६१ - ६४ - अवधीत् इति अकारलोपे कृते अतः हलादेः लघोः इति विभाषा वृद्धिः प्राप्नोति ।

६२ - ६४ - स्थानिवद्भावात् न भवति ।

६३ - ६४ - बहुखट्वकः इत् आपः अन्यतरस्याम् ह्रस्वत्वे कृते ह्रस्वान्ते अन्त्यात् पूर्वम् इति एषः स्वरः प्राप्नोति ।

६४ - ६४ - स्थानिवद्भावात् न भवति ।

१ - २२ - इह वैयाकरणः , सौवश्वः इति य्वोः स्थानिवद्भावात् आयावौ प्राप्नुतः ।

२ - २२ - तयोः प्रतिषेधः वक्तव्यः ।

३ - २२ - अचः पूर्वविज्ञानात् ऐचोः सिद्धम् ।

४ - २२ - यः अनादिष्टात् अचः पूर्वः तस्य विधिम् प्रति स्थानिवद्भावः ।

५ - २२ - आदिष्टात् च एषः अचः पूर्वः ।

६ - २२ - किम् वक्तव्यम् एतत् ।

७ - २२ - न हि ।

८ - २२ - कथम् अनुच्यमानम् गंस्यते ।

९ - २२ - अचः इति पञ्चमी अचः पूर्वस्य ।

१० - २२ - यदि एवम् आदेशः अविशेषितः भवति ।

११ - २२ - आदेशः च विशेषितः ।

१२ - २२ - कथम् ।

१३ - २२ - न ब्रूमः यत् षष्ठीनिर्दिष्टम् अज्ग्रहणम् तत् पञ्चमीनिर्दिष्टम् कर्तव्यम् ।

१४ - २२ - किम् तर्हि अन्यत् कर्तव्यम् ।

१५ - २२ - अन्यत् च न कर्तव्यम् ।

१६ - २२ - यत् एव अदः षष्ठीनिर्दिष्टम् अज्ग्रहणम् तस्य दिक्शब्दैः योगे पञ्चमी भवति अजादेशः परनिमित्तकः पूर्वस्य विधिम् प्रति स्थानिवत् भवति ।

१७ - २२ - कुतः पूर्वस्य ।

१८ - २२ - अचः इति ।

१९ - २२ - तत् यथा आदेशः प्रथमानिर्दिष्टः ।

२० - २२ - तस्य दिक्शब्दैः योगे पञ्चमी भवति अजादेशः परनिमित्तकः पूर्वस्य विधिम् प्रति स्थानिवत् भवति ।

२१ - २२ - कुतः पूर्वस्य ।

२२ - २२ - आदेशात् इति ।

१ - ४१ - तत्र आदेशलक्षणप्रतिषेधः ।

२ - ४१ - तत्र आदेशलक्षणम् कार्यम् प्राप्नोति ।

३ - ४१ - तस्य प्रतिषेधः वक्तव्यः वाय्वोः , अध्वर्य्वोः ।

४ - ४१ - लोपः व्योः वलि इति यलोपः प्राप्नोति ।

५ - ४१ - असिद्धवचनात् सिद्धम् ।

६ - ४१ - अजादेशः परनिमित्तकः पूर्वस्य विधिम् प्रति असिद्धः भवति इति वक्तव्यम् ।

७ - ४१ - असिद्धवचनात् सिद्धम् इति चेत् उत्सर्गलक्षणानाम् अनुदेशः ।

८ - ४१ - असिद्धवचनात् सिद्धम् इति चेत् उत्सर्गलक्षणानाम् अनुदेशः कर्तव्यः पट्व्या म्र्द्व्या इति ।

९ - ४१ - ननु च एतत् अपि असिद्धवचनात् सिद्धम् ।

१० - ४१ - असिद्धवचनात् सिद्धम् इति चेत् न अन्यस्य असिद्धवचनात् अन्यस्य भावः ।

११ - ४१ - असिद्धवचनात् सिद्धम् इति चेत् तत् न ।

१२ - ४१ - किम् कारणम् ।

१३ - ४१ - न अन्यस्य असिद्धवचनात् अन्यस्य भावः ।

१४ - ४१ - न हि अन्यस्य असिद्धवचनात् अन्यस्य प्रादुर्भावः भवति ।

१५ - ४१ - न हि देवदत्तस्य हन्तरि हते देवदत्तस्य प्रादुर्भावः भवति ।

१६ - ४१ - तस्मात् स्थानिवद्वचनम् असिद्धत्वम् च ।

१७ - ४१ - तस्मात् स्थानिवद्भावः वक्तव्यः असिद्धत्वम् च ।

१८ - ४१ - पट्व्या मृद्व्या इति अत्र स्थानिवद्भावः ।

१९ - ४१ - वाय्वोः , अध्वर्य्वोः इति असिद्धत्वम् ।

२० - ४१ - उक्तम् वा ।

२१ - ४१ - किम् उक्तम् ।

२२ - ४१ - स्थानिवद्वचनानर्थक्यम् शास्त्रासिद्धत्वात् इति ।

२३ - ४१ - विषमः उपन्यासः ।

२४ - ४१ - युक्तम् तत्र यत् एकादेशशास्त्रम् तुक्शास्त्रे असिद्धम् स्यात् अन्यत् अन्यस्मिन् ।

२५ - ४१ - इह पुनः न युक्तम् ।

२६ - ४१ - कथम् हि तद् एव नाम तस्मिन् असिद्धम् स्यात् ।

२७ - ४१ - तद् एव च अपि तस्मिन् असिद्धम् भवति ।

२८ - ४१ - वक्ष्यति हि आचार्यः चिणः लुकि तग्रहणानर्थक्यम् सङ्घातस्य अप्रत्ययत्वात् तलोपस्य च असिद्धत्वात् इति ।

२९ - ४१ - चिणः लुक् चिणः लुकि एव असिद्धः भवति ।

३० - ४१ - कामम् अतिदिश्यताम् वा सत् च असत् च अपि न इह भारः अस्ति ।

३१ - ४१ - कल्प्यः हि वाक्यशेषः वाक्यम् वक्तरि अधीनम् हि ।

३२ - ४१ - अथ वा वतिनिर्देशः अयम् ।

३३ - ४१ - कामचारः च वतिनिर्देशे वाक्यशेषम् समर्थयितुम् ।

३४ - ४१ - तत् यथा ।

३५ - ४१ - उशीनरवत् मद्रेषु यवाः ।

३६ - ४१ - सन्ति न सन्ति इति ।

३७ - ४१ - मातृवत् अस्याः कलाः ।

३८ - ४१ - सन्ति न सन्ति ।

३९ - ४१ - एवम् इह अपि स्थानिवत् भवति स्थानिवत् न भवति इति वाक्यशेषम् समर्थयिष्यामहे ।

४० - ४१ - इह तावत् पट्व्या मृद्व्या इति यथा स्थानिनि यणादेशः भवति एवम् आदेशे अपि ।

४१ - ४१ - इह इदानीम् वाय्वोः अध्वर्य्वोः इति यथा स्थानिनि यलोपः न भवति एवम् आदेशे अपि न भवति ।

१ - ४० - किम् पुनः अनन्तरस्य विधिम् प्रति स्थानिवद्भावः आहोस्वित् पूर्वमात्रस्य ।

२ - ४० - कः च अत्र विशेषः ।

३ - ४० - अनन्तरस्य चेत् एकाननुदात्तद्विगुस्वरगतिनिघातेषु उपसङ्ख्यानम् ।

४ - ४० - अनन्तरस्य चेत् एकाननुदात्तद्विगुस्वरगतिनिघातेषु उपसङ्ख्यानम् कर्तव्यम् ।

५ - ४० - एकाननुदात्त लुनीहि अत्र पुनीहि अत्र ।

६ - ४० - अनुदात्तम् पदम् एकवर्जम् इति एषः स्वरः न प्राप्नोति ।

७ - ४० - द्विगुस्वर पञ्चारत्न्यः , दशारत्न्यः ।

८ - ४० - इगन्तकाल इति एषः स्वरः न प्राप्नोति ।

९ - ४० - गतिनिघात यत् प्रलुनीहि अत्र , यत् प्रपुनीहि अत्र ।

१० - ४० - तिङि चोदात्तवति इति एषः स्वरः न प्राप्नोति ।

११ - ४० - अस्तु तर्हि पूर्वमात्रस्य ।

१२ - ४० - पूर्वमात्रस्य इति चेत् उपधाह्रस्वत्वम् । पूर्वमात्रस्य इति चेत् उपधाह्रस्वत्वम् वक्तव्यम् वादितवन्तम् प्रयोजितवान् अवीवदत् वीणाम् परिवादकेन ।

१३ - ४० - किम् पुनः कारणम् न सिध्यति ।

१४ - ४० - यः असौ णौ णिः लुप्यते तस्य स्थानिवद्भावात् ह्रस्वत्वम् न प्राप्नोति ।

१५ - ४० - गुरुसञ्ज्ञा च ।

१६ - ४० - गुरुसञ्ज्ञा च न सिध्यति श्लेष्मा३घ्न पित्ता३घ्न दा३ध्यश्व मा३ध्वश्व ।

१७ - ४० - हलः अनन्तराः संयोगः इति संयोगसञ्ज्ञा ।

१८ - ४० - संयोगे गुरु इति गुरुसञ्ज्ञा ।

१९ - ४० - गुरोः इति प्लुतः न प्राप्नोति ।

२० - ४० - ननु च यस्य अपि अनन्तरस्य विधिम् प्रति स्थानिवद्भावः तस्य अपि अनन्तरलक्षणः विधिः संयोगसञ्ज्ञा विधेया ।

२१ - ४० - न वा संयोगस्य अपूर्वविधित्वात् ।

२२ - ४० - न वा एषः दोषः ।

२३ - ४० - किम् कारणम् ।

२४ - ४० - संयोगस्य अपूर्वविधित्वात् ।

२५ - ४० - न पूर्वविधिः संयोगः ।

२६ - ४० - किम् तर्हि ।

२७ - ४० - पूर्वपरविधिः संयोगः ।

२८ - ४० - एकादेशस्य उपसङ्ख्यानम् ।

२९ - ४० - एकादेशस्य उपसङ्ख्यानम् कर्तव्यम् श्रायसौ गौमतौ चातुरौ , आनडुहौ पादे , उदवाहे ।

३० - ४० - एकादेशे कृते नुमामौ पद्भावः ऊठ् इति एते विधयः प्राप्नुवन्ति ।

३१ - ४० - किम् पुनः कारणम् न सिध्यति ।

३२ - ४० - उभयनिमित्तत्वात् ।

३३ - ४० - अजादेशः परनिमित्तकः इति उच्यते उभयनिमित्तः च अयम् ।

३४ - ४० - उभयादेशत्वात् च ।

३५ - ४० - अचः आदेशः इचि उच्यते अचोः च अयम् आदेशः ।

३६ - ४० - न एषः दोषः ।

३७ - ४० - यत् तावत् उच्यते उभयनिमित्तत्वात् इति इह यस्य ग्रामे नगरे वा अनेकम् कार्यम् भवति शक्नोति असौ ततः अन्यतरत् व्यपदेष्टुम् गुरुनिमित्तम् वसामः ।

३८ - ४० - अध्ययननिमित्तम् वसामः इति ।

३९ - ४० - यत् अपि उच्यते उभयादेशत्वात् च इति ।॒िह यः द्वयोः षष्ठीनिर्दिष्टयोः प्रसङ्गे भवति लभते असौ अन्यतरतः व्यपदेशम् ।

४० - ४० - तत् यथा देवदत्तस्य पुत्रः , देवदत्तायाः पुत्रः इति. ।

१ - १९ - अथ हलचोः आदेशः स्थानिवत् भवति उताहो न ।

२ - १९ - कः च अत्र विशेषः ।

३ - १९ - हलचोः आदेशः स्थानिवत् इति चेत् विंशतेः तिलोपः एकादेशः ।

४ - १९ - हलचोः आदेशः स्थानिवत् इति चेत् विंशतेः तिलोपे एकादेशः वक्तव्यः विंशकः , विंशम् शतम् , विंशः ।

५ - १९ - स्थूलादीनाम् यणादिलोपे अवादेशः ।

६ - १९ - स्थूलादीनाम् यणादिलोपे कृते अवादेशः वक्तव्यः स्थवीयान् , दवीयान् ।

७ - १९ - केकयिमित्रय्वोः इयादेशे एत्वम् ।

८ - १९ - केकयिमित्रय्वोः इयादेशे एत्वम् न सिध्यति कैकेयः , मैत्रेयः ।

९ - १९ - अचि इति एत्वम् न सिध्यति ।

१० - १९ - उत्तरपदलोपे च ।

११ - १९ - उत्तरपदलोपे च दोषः भवति दध्युपसिक्ताः सक्तवः दधिसक्तवः ।

१२ - १९ - अचि इति यणादेशः प्राप्नोति ।

१३ - १९ - यङ्लोपे यणियङुवङः ।

१४ - १९ - यङ्लोपे यणियङुवङः न सिध्यन्ति चेच्यः , नेन्यः , चेक्रियः , लोलुवः , पोपुवः ।

१५ - १९ - अचि इति यणियङुवङः न सिध्यन्ति ।

१६ - १९ - अस्तु तर्हि न स्थानिवत् ।

१७ - १९ - अस्थानिवत्त्वे यङ्लोपे गुणवृद्धिप्रतिषेधः । अस्थानिवत्त्वे यङ्लोपे गुणवृद्धिप्रतिषेधः वक्तव्यः लोलुवः , पोपुवः , सरीसृपः , मरीमृजः इति ।

१८ - १९ - न एषः दोषः ।

१९ - १९ - न धातुलोपे आर्धधातुके इति प्रतिषेधः भविष्यति ।

१ - ४४ - किम् पुनः आश्रीयमाणायाम् प्रकृतौ स्थानिवत् भवति आहोस्वित् अविशेषेण ।

२ - ४४ - कः च अत्र विशेषः ।

३ - ४४ - अविशेषेण स्थानिवत् इति चेत् लोपयणादेशे गुरुविधिः ।

४ - ४४ - अविशेषेण स्थानिवत् इति चेत् लोपयणादेशे गुरुविधिः न सिध्यति श्लेष्मा३घ्न पित्ता३घ्न दा३ध्यश्व मा३ध्वश्व ।

५ - ४४ - हलः अनन्तराः संयोगः इति संयोगसञ्ज्ञा संयोगे गुरु इति गुरुसञ्ज्ञा गुरोः इति प्लुतः न प्राप्नोति ।

६ - ४४ - द्विर्वचनादयः च प्रतिषेधे ।

७ - ४४ - द्विर्वचनादयः च प्रतिषेधे वक्तव्याः द्विर्वचनवरेयलोप इति ।

८ - ४४ - क्सलोपे लुग्वचनम् ।

९ - ४४ - क्सलोपे लुक् वक्तव्यः अदुग्ध , अदुग्धाः लुक् वा दुहदिहलिहगुहाम् आत्मनेपदे दन्त्ये इति ।

१० - ४४ - हन्तेः घत्वम् ।

११ - ४४ - हन्तेः च घत्वम् वक्तव्यम् घ्नन्ति घ्नन्तु , अघ्नन् ।

१२ - ४४ - अस्तु तर्हि आश्रीयमाणायाम् प्रकृतौ इति ।

१३ - ४४ - ग्रहणेषु स्थानिवत् इति चेत् जग्ध्यादिषु आदेशप्रतिषेधः ।

१४ - ४४ - ग्रहणेषु स्थानिवत् इति चेत् जग्ध्यादिषु आदेशस्य प्रतिषेधः वक्तव्यः निराद्य समाद्य ।

१५ - ४४ - अदः जग्धिः ल्यप् ति किति इति जग्धिभावः प्राप्नोति ।

१६ - ४४ - यणादेशे युलोपेत्वानुनासिकात्त्वप्रतिषेधः ।

१७ - ४४ - यणादेशे युलोपेत्वानुनासिकात्त्वानाम् प्रतिषेधः वक्तव्यः ।

१८ - ४४ - यलोप वाय्वोः , अध्वर्य्वोः ।

१९ - ४४ - लोपः व्योः वलि इति यलोपः प्राप्नोति ।

२० - ४४ - उलोप अकुर्वि आशाम् अकुर्व्य् आशाम् ।

२१ - ४४ - नित्यम् करोतेः ये च इति उकारलोपः प्राप्नोति ।

२२ - ४४ - ईत्व अलुनि आशाम् अलुन्य् आशाम् ।

२३ - ४४ - ई हलि अघोः इति ईत्वम् प्राप्नोति ।

२४ - ४४ - अनुनासिकात्त्व अजज्ञि आशाम् अजज्ञ्य् आशाम् ।

२५ - ४४ - ये विभाषा इति अनुनासिकात्त्वम् प्राप्नोति ।

२६ - ४४ - रायात्वप्रतिषेधः च ।

२७ - ४४ - रायः आत्वस्य च प्रतिषेधः वक्तव्यः रायि आशाम् राय्य् आशाम् ।

२८ - ४४ - रायः हलि इति आत्वम् प्राप्नोति ।

२९ - ४४ - दीर्घे यलोपप्रतिषेधः ।

३० - ४४ - दीर्घे यलोपस्य प्रतिषेधः वक्तव्यः सौर्ये नाम हिमवतः श्र्ङ्गे तद्वान् सौर्यी हिमवान् इति सौ इनाश्रये दीर्घत्वे कृते ईति यलोपः प्राप्नोति ।

३१ - ४४ - अतः दीर्घे यलोपवचनम् ।

३२ - ४४ - अतः दीर्घे यलोपः वक्तव्यः गार्गाभ्याम् , वात्साभ्याम् ।

३३ - ४४ - दीर्घे कृते आपत्यस्य च तद्धिते अनाति इति प्रतिषेधः प्राप्नोति ।

३४ - ४४ - न एषः दोषः ।

३५ - ४४ - आश्रीयते तत्र प्रकृतिः तद्धिते इति ।

३६ - ४४ - सर्वेषाम् एषाम् परिहारः उक्तम् विधिग्रहणस्य प्रयोजनम् विधिमात्रे स्थानिवत् यथा स्यात् अनाश्रीयमाणायाम् अपि प्रकृतौ इति ।

३७ - ४४ - अथ वा पुनः अस्तु अविशेषेण स्थानिवत् इति ।

३८ - ४४ - ननु च उक्तम् अविशेषेण स्थानिवत् इति चेत् लोपयणादेशे गुरुविधिः द्विर्वचनादयः च प्रतिषेधे , क्सलोपे लुग्वचनम् , हन्तेः घत्वम् इति ।

३९ - ४४ - न एषः दोषः ।

४० - ४४ - यत् तावत् उच्यते अविशेषेण स्थानिवत् इति चेत् लोपयणादेशे गुरुविधिः इति उक्तम् एतत् न वा संयोगस्य अपूर्वविधित्वात् इति ।

४१ - ४४ - यत् अपि उच्यते द्विर्वचनादयः च प्रतिषेधे वक्तव्याः इति उच्यन्ते न्यासे एव ।

४२ - ४४ - क्सलोपे लुग्वचनम् इति क्रियते न्यासे एव ।

४३ - ४४ - हन्तेः घत्वम् इति ।

४४ - ४४ - सप्तमे परिहारम् वक्ष्यति ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-01-17T19:36:13.8770000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

organic radical

  • कार्बनी मूलक 
RANDOM WORD

Did you know?

lagn lagat astana navarichi aai tulshila pani ghalte..te kashasathi..??? tya magcha udeshshy kay asto..?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.