पाद १ - खण्ड ५

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - ३५ - किम् उदाहरणम् ।

२ - ३५ - प्रियविश्वाय ।

३ - ३५ - न एतत् अस्ति प्रयोजनम् ।

४ - ३५ - सर्वाद्यन्तस्य बहुव्रीहेः प्रतिषेधेन भवितव्यम् ।

५ - ३५ - वक्ष्यति च एतत् बहुव्रीहौ सर्वनामसङ्ख्ययोः उपसङ्ख्यानम् इति ।

६ - ३५ - तत्र विश्वप्रियाय इति भवितव्यम् ।

७ - ३५ - इदम् तर्हि द्व्यन्याय त्र्यन्याय ।

८ - ३५ - ननु च अत्र अपि सर्वनाम्नः एव पूर्वनिपातेन भवितव्यम् ।

९ - ३५ - न एषः दोषः ।

१० - ३५ - वक्ष्यति एतत् सङ्ख्यासर्वनाम्नोः यः बहुव्रीहिः परत्वात् तत्र सङ्ख्यायाः पूर्वनिपातः भवति इति ।

११ - ३५ - इदम् च अपि उदाहरणम् प्रियविश्वाय ।

१२ - ३५ - ननु च उक्तम् विश्वप्रियाय इति भवितव्यम् इति ।

१३ - ३५ - वक्ष्यति एतत् वा प्रियस्य इति ।

१४ - ३५ - न खलु अपि अवश्यम् सर्वाद्यन्तस्य एव बहुव्रीहेः प्रतिषेधेन भवितव्यम् ।

१५ - ३५ - किम् तर्हि ।

१६ - ३५ - असर्वाद्यन्तस्य अपि भवितव्यम् ।

१७ - ३५ - किम् प्रयोजनम् ।

१८ - ३५ - अकच् मा भूत् ।

१९ - ३५ - किम् च स्यात् यदि अकच् स्यात् ।

२० - ३५ - कः न स्यात् ।

२१ - ३५ - कः च इदानीम् काकचोः विशेषः ।

२२ - ३५ - व्यञ्जनान्तेषु विशेषः ।

२३ - ३५ - अहकम् पिता अस्य मकत्पितृकः , त्वकम् पिता अस्य त्वकत्पितृकः इति प्राप्नोति , मत्कपितृकः त्वत्कपितृकः इति च इष्यते ।

२४ - ३५ - कथम् पुनः इच्छता अपि भवता बहिरङ्गेन प्रतिषेधेन अन्तरङ्गः विधिः शख्यः बाधितुम् ।

२५ - ३५ - अन्तरङ्गान् अपि विधीन् बहिरङ्गः विधिः बाधते गोमत्प्रियः इति यथा ।

२६ - ३५ - क्रियते तत्र यत्नः प्रत्ययोत्तरपदयोः च इति ।

२७ - ३५ - ननु च इह अपि क्रियते न बहुव्रीहौ इति ।

२८ - ३५ - अस्ति अन्यत् एतस्य वचने प्रयोजनम् ।

२९ - ३५ - किम् ।

३० - ३५ - प्रियविश्वाय ।

३१ - ३५ - उपसर्जनप्रतिषेधेन अपि एतत् सिद्धम् ।

३२ - ३५ - अयम् खलु अपि बहुव्रीहिः अस्ति एव प्राथमकल्पिकः यस्मिन् ऐकपद्यम् ऐकस्वर्यम् ऐकविभक्तिकत्वम् च ।

३३ - ३५ - अस्ति तादर्थ्यात् ताच्छब्द्यम् बहुव्रीह्यर्थानि पदानि बहुव्रीहिः इति ।

३४ - ३५ - तत् यत् तादर्थ्यात् ताच्छब्द्यम् तस्य इदम् ग्रहणम् ।

३५ - ३५ - गोनर्दीयः आह अकच्स्वरौ तु कर्तव्यौ प्रत्यङ्गम् मुक्तसंशयौ । त्वकत्पितृकः मकत्पितृकः इति एव भवितव्यम् इति ।

१ - ९ - प्रतिषेधे भूतपूर्वस्य उपसङ्ख्यानम् ।

२ - ९ - प्रतिषेधे भूतपूर्वस्य उपसङ्ख्यानम् कर्तव्यम् ।

३ - ९ - आढ्यः भूतपूर्वः आढ्यपूर्वः , आढ्यपूर्वाय देहि इति ।

४ - ९ - प्रतिषेधे भूतपूर्वस्य उपसङ्ख्यानानर्थक्यम् पूर्वादीनाम् व्यवस्थायाम् इति वचनात् ।

५ - ९ - प्रतिषेधे भूतपूर्वस्य उपसङ्ख्यानम् नर्थकम् ।

६ - ९ - किम् कारणम् ।

७ - ९ - पूर्वादीनाम् व्यवस्थायाम् इति वचनात् ।

८ - ९ - पूर्वादीनाम् व्यवस्थायाम् सर्वनामस्ञ्ज्ञा उच्यते ।

९ - ९ - न च अत्र व्यवस्था गम्यते ।

१ - १२ - समासे इति वर्तमाने पुनः समासग्रहणम् किमर्थम् ।

२ - १२ - अयम् तृतीयासमासः अस्ति एव प्राथमकल्पिकः यस्मिन् ऐकपद्यम् ऐकस्वर्यम् ऐकविभक्तिकत्वम् च ।

३ - १२ - अस्ति तादर्थ्यात् ताच्छब्द्यम् तृतीयासमासार्थानि पदानि तृतीयासमासः इति ।

४ - १२ - तत् यत् तादर्थ्यात् ताच्छब्द्यम् तस्य इदम् ग्रहणम् ।

५ - १२ - अथ वा समसे इति वर्तमाने पुनः समासग्रहणस्य एतत् प्रयोजनम् योगाङ्गम् यथा उपजायेत ।

६ - १२ - सति योगाङ्गे योगविभागः करिष्यते ।

७ - १२ - तृतीया ।

८ - १२ - तृतीयासमासे सर्वादीनि सर्वनामसञ्ज्ञानि न भवन्ति ।

९ - १२ - मासपूर्वाय देहि संवत्सरपूर्वाय देहि ।

१० - १२ - ततः असमासे ।

११ - १२ - असमासे च तृतीयायाः सर्वादीनि सर्वनामसञ्ज्ञानि न भवन्ति ।

१२ - १२ - मासेन पूर्वाय इति

१ - १ - जसः कार्यम् प्रति विभाषा , अकच् हि न भवति ।

१ - १८ - अवरादीनाम् च पुनः सूत्रपाठे ग्रहणानर्थक्यम् गणे पठितत्वात् ।

२ - १८ - अवरादीनाम् च पुनः सूत्रपाठे ग्रहणम् अनर्थकम् ।

३ - १८ - किम् कारणम् ।

४ - १८ - गणे पठितत्वात् ।

५ - १८ - गणे हि एतानि पठ्यन्ते ।

६ - १८ - कथम् पुनः ज्ञायते सः पूर्वः पाठः अयम् पुनः पाठः इति ।

७ - १८ - तानि हि पूर्वादीनि इमानि अवरादीनि ।

८ - १८ - इमानि अपि पूर्वादीनि ।

९ - १८ - एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति सः पूर्वः पाठः अयम् पुनः पाठः इति यत् अयम् पूर्वादिभ्यः नवभ्यः वा इति नवग्रहणम् करोति ।

१० - १८ - नव एव पूर्वादीनि ।

११ - १८ - इदम् तर्हि प्रयोजनम् व्यवस्थायाम् असञ्ज्ञायाम् इति वक्ष्यामि इति ।

१२ - १८ - एतत् अपि न अस्ति प्रयोजनम् ।

१३ - १८ - एवंविशिष्टानि एव एतानि गणे पठ्यन्ते ।

१४ - १८ - इदम् तर्हि प्रयोजनम् द्व्यादिपर्युदासेन पर्युदासः मा भूत् इति ।

१५ - १८ - एतत् अपि न अस्ति प्रयोजनम् ।

१६ - १८ - आचार्यप्रवृत्तिः ज्ञापयति न एषाम् द्व्यादिपर्युदासेन पर्युदासः भवति इति यत् अयम् पूर्वत्र असिद्धम् इति निपातनम् करोति ।

१७ - १८ - वार्त्तिककारः च पठति जश्भावात् इति चेत् उत्तरत्र अभावात् अपवादप्रसङ्गः इति ।

१८ - १८ - इदम् तर्हि प्रयोजनम् जसि विभाषाम् वक्ष्यामि इति ।

१ - ३ - आख्याग्रहणम् किमर्थम् ।

२ - ३ - ज्ञातिधनपर्यायवाची यः स्वशब्दः तस्य यथा स्यात् ।

३ - ३ - इह मा भूत् स्वे पुत्राः स्वाः पुत्राः स्वे गावः स्वाः गावः ।

१ - १० - उपसंव्यानग्रहणम् अनर्थकम् बहिर्योगेण कृतत्वात् ।

२ - १० - उपसंव्यानग्रहणम् अनर्थकम् ।

३ - १० - किम् कारणम् ।

४ - १० - बहिर्योगेण कृतत्वात् ।

५ - १० - बहिर्योगे इति एव सिद्धम् ।

६ - १० - न वा शाटकयुगाद्यर्थम् ।

७ - १० - न वा अनर्थकम् ।

८ - १० - किम् कारणम् ।

९ - १० - शाटकयुगाद्यर्थम् ।

१० - १० - शाटकयुगाद्यर्थम् तर्हि इदम् वक्तव्यम् यत्र एतत् न ज्ञायते किम् अन्तरीयम् किम् उत्तरीयम् इति. अत्र अपि यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति निर्ज्ञातम् तस्य भवति इदम् अन्तरीयम् इदम् उत्तरीयम् इति ।

१ - ७ - अपुरि इति वक्तव्यम् ।

२ - ७ - इह मा भूत् अन्तरायाम् पुरि वसति इति ।

३ - ७ - वाप्रकरणे तीयस्य ङित्सु उपसङ्ख्यानम् । वाप्रकरणे तीयस्य ङित्सु उपसङ्ख्यानम् कर्तव्यम् द्वितीयायै द्वितीयस्यै तृतीयायै तृतीयस्यै ।

४ - ७ - विभाषा द्वितीयातृतीयाभ्याम् इति एतत् न वक्तव्यम् भवति ।

५ - ७ - किम् पुनः अत्र ज्यायः ।

६ - ७ - उपसङ्ख्यानम् एव अत्र ज्यायः ।

७ - ७ - इदम् अपि सिद्धम् भवति द्वितीयाय द्वितीयस्मै तृतीयाय तृतीयस्मै ।

१ - ११ - किमर्थम् पृथक् ग्रहणम् स्वरादीनाम् क्रियते न चादिषु एव पठ्येरन् ।

२ - ११ - चादीनाम् वै असत्त्ववचनानाम् निपातसञ्ज्ञा स्वरादीनाम् पुनः सत्त्ववचनानाम् असत्त्ववचनानाम् च ।

३ - ११ - अथ किमर्थम् उभे सञ्ज्ञे क्रियेते न निपात्सञ्ज्ञा एव स्यात् ।

४ - ११ - न एवम् शक्यम् ।

५ - ११ - निपातः एकाच् अनाङ् इति प्रगृह्यसञ्ज्ञा उक्ता ।

६ - ११ - सा स्वरादीनाम् अपि एकाचाम् प्रसज्येत ।

७ - ११ - एवम् तर्हि अव्ययसञ्ज्ञा एव अस्तु ।

८ - ११ - तत् च अशक्यम् ।

९ - ११ - वक्ष्यति एतत् अव्यये नञ्कुनिपातानाम् इति ।

१० - ११ - तत् गरीयसा न्यासेन परिगणनम् कर्तव्यम् स्यात् ।

११ - ११ - तस्मात् पृथक् ग्रहणम् कर्तव्यम् उभे च सञ्ज्ञे कर्तव्ये ।

१ - १२ - असर्वविभक्तौ अविभक्तिनिमित्तस्य उपसङ्ख्यानम् ।

२ - १२ - असर्वविभक्तौ अविभक्तिनिमित्तस्य उपसङ्ख्यानम् कर्तव्यम् नाना विना ।

३ - १२ - किम् पुनः कारणम् न सिध्यति ।

४ - १२ - सर्वविभक्तिः हि अविशेषात् । सर्वविभक्तिः हि एषः भवति ।

५ - १२ - किम् कारणम् ।

६ - १२ - अविशेषात् ।

७ - १२ - अविशेषेण विहितत्वात् ।

८ - १२ - त्रलादीनाम् च उपसङ्ख्यानम् ।

९ - १२ - त्रलादीनाम् च उपसङ्ख्यानम् कर्तव्यम् ।

१० - १२ - तत्र यत्र ततः यतः ।

११ - १२ - ननु च विशेषेण एते विधीयन्ते पञ्चम्याः तसिल् सप्तम्याः त्रल् इति ।

१२ - १२ - वक्ष्यति एतत् इतराभ्यः अपि दृश्यन्ते इति ।

१ - २३ - यदि पुनः अविभक्तिः शब्दः अव्ययसञ्ज्ञः भवति इति उच्येत ।

२ - २३ - अविभक्तौ इतरेतराश्रयत्वात् अप्रसिद्धिः ।

३ - २३ - अविभक्तौ इतरेतराश्रयत्वात् अप्रसिद्धिः सञ्ज्ञायाः ।

४ - २३ - का इतरेतराश्रयता ।

५ - २३ - सति अविभक्तित्वे सञ्ज्ञया भवितव्यम् सञ्ज्ञया च अविभक्तित्वम् भाव्यते ।

६ - २३ - तत् इतरेतराश्रयम् भवति , इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते ।

७ - २३ - अलिङ्गम् असङ्ख्यम् इति वा ।

८ - २३ - अथ वा अलिङ्गम् असङ्ख्यम् अव्ययम् इति वक्तव्यम् ।

९ - २३ - एवम् अपि इतरेतराश्रयम् एव भवति ।

१० - २३ - का इतरेतराश्रयता ।

११ - २३ - सति अलिङ्गासङ्ख्यत्वे सञ्ज्ञया भवितव्यम् सञ्ज्ञया च अलिङ्गासङ्ख्यत्वम् भाव्यते ।

१२ - २३ - तत् इतरेतराश्रयम् भवति , इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते ।

१३ - २३ - न इदम् वाचनिकम् अलिङ्गता असङ्ख्यता च ।

१४ - २३ - किम् तर्हि ।

१५ - २३ - स्वाभाविकम् एतत् ।

१६ - २३ - तत् यथा समानम् ईहमानानाम् अधीयानानाम् च के चित् अर्थैः युज्यन्ते अपरे न ।

१७ - २३ - तत्र किम् अस्माभिः कर्तुम् शक्यम् ।

१८ - २३ - स्वाभाविकम् एतत् ।

१९ - २३ - तत् तर्हि वक्तव्यम् अलिङ्गम् असङ्ख्यम् इति ।

२० - २३ - न वक्तव्यम् ।

२१ - २३ - सिद्धम् तु पाठात् ।

२२ - २३ - पाठात् वा सिद्धम् एतत्. कथम् पाठः कर्तव्यः ।

२३ - २३ - तसिलादयः प्राक् पासपः , शस्प्रभृतयः प्राक् समासान्तेभ्यः , मान्तः , कृत्वोर्थः , तसिवती , नानाञौ इति ।

१ - १४ - अथ वा पुनः अस्तु अविभक्तिः शब्दः अव्ययसञ्ज्ञः भवति इति एव ।

२ - १४ - ननु च उक्तम् अविभक्तौ इतरेतराश्रयत्वात् अप्रसिद्धिः इति ।

३ - १४ - न एषः दोषः ।

४ - १४ - इदम् तावत् अयम् प्रष्टव्यः ।

५ - १४ - यदि अपि वैयाकरणाः विभक्तिलोपम् आरभमाणाः अविभक्तिकान् शब्दाञ् प्रयुञ्जते ये तु एते वैयाकरणेभ्यः अन्ये मनुष्याः कथम् ते अविभक्तिकान् शब्दान् प्रयुञ्जते इति ।

६ - १४ - अभिज्ञाः च पुनः लौकिकाः एकत्वादीनाम् अर्थानाम् ।

७ - १४ - आतः च अभिज्ञाः अन्येन हि वस्नेन एकम् गाम् क्रीणन्ति , अन्येन द्वौ , अन्येन त्रीन् ।

८ - १४ - अभिज्ञाः च न च प्रयुञ्जते ।

९ - १४ - तत् एतत् एवम् सन्दृश्यताम् अर्थरूपम् एतत् एवञ्जातीयकम् येन अत्र विभक्तिः न भवति इति ।

१० - १४ - तत् च अपि एतत् एवम् अनुगम्यमानम् दृश्यताम् किम् चित् अव्ययम् विभक्त्यर्थप्रधानम् किम् चित् क्रियाप्रधानम् ।

११ - १४ - उच्चैः , नीचैः इति विभक्त्यर्थप्रधानम् , हिरुक् पृथक् इति क्रियाप्रधानम् ।

१२ - १४ - तद्धितः च अपि कः चित् विभक्त्यर्थप्रधानः कः चित् क्रियाप्रधानः ।

१३ - १४ - तत्र यत्र इति विभक्त्यर्थप्रधानः , नाना विन इति क्रियाप्रधानः ।

१४ - १४ - न च एतयोः अर्थयोः लिङ्गसङ्ख्याभ्याम् योगः अस्ति ।

१ - १६ - अथ अपि असर्वविभक्तिः इति उच्यते एवम् अपि न दोषः ।

२ - १६ - कथम् ।

३ - १६ - इदम् च अपि अद्यत्वे अतिबहु क्रियते एकस्मिन् एकवचनम् , द्वयोः द्विवचनम् , बहुषु बहुवचनम् इति ।

४ - १६ - कथम् तर्हि ।

५ - १६ - एकवचनम् उत्सर्गः करिष्यते ।

६ - १६ - तस्य द्विबह्वोः अर्थयोः द्विवचनबहुवचने बाधके भविष्यतः ।

७ - १६ - न च अपि एवम् विग्रहः करिष्यते न सर्वाः असर्वाः , असर्वाः विभक्तयः अस्मात् इति ।

८ - १६ - कथम् तर्हि ।

९ - १६ - न सर्वा असर्वा , असर्वा विभक्तिः अस्मात् इति ।

१० - १६ - त्रिकम् पुनः विभक्तिसञ्ज्ञम् ।

११ - १६ - एवम् गते कृति अपि तुल्यम् एतत् मान्तस्य कार्यम् ग्रहणम् न तत्र ।

१२ - १६ - ततः परे च अभिमताः कार्याः त्रयः कृदर्थाः ग्रहणेन योगाः ।

१३ - १६ - कृत्तद्धितानाम् ग्रहणम् तु कार्यम् सङ्ख्याविशेषम् हि अभिनिश्रिताः ये ।

१४ - १६ - तेषाम् प्रतिषेधः भवति इति वक्तव्यम् ।

१५ - १६ - इह मा भूत् एकः , द्वौ , बहवः इति ।

१६ - १६ - तस्मात् स्वरादिग्रहणम् च कार्यम् कृत्तद्धितानाम् च पाठे ।

१ - २२ - पाठेन इयम् अव्ययसञ्ज्ञा क्रियते ।

२ - २२ - सा इह न प्राप्नोति परमोच्चैः , परमनीचैः इति ।

३ - २२ - तदन्तविधिना भविष्यति ।

४ - २२ - इह अपि तर्हि प्राप्नोति अत्युच्चैः अत्युच्चैसौ अत्युच्चैसः इति ।

५ - २२ - उपसर्जनस्य न इति प्रतिषेधः भविष्यति ।

६ - २२ - सः तर्हि प्रतिषेधः वक्तव्यः ।

७ - २२ - न वक्तव्यः ।

८ - २२ - सर्वनामसञ्ज्ञायाम् प्रकृतः प्रतिषेधः इह अनुवर्तिष्यते ।

९ - २२ - सः वै तत्र प्रत्याख्यायते ।

१० - २२ - यथा सः तत्र प्रत्याख्यायते इह अपि तथा शक्यः प्रत्याख्यातुम् ।

११ - २२ - कथम् सः तत्र प्रत्याख्यायते ।

१२ - २२ - महती इयम् सञ्ज्ञा क्रियते ।

१३ - २२ - इयम् अपि च महती सञ्ज्ञा क्रियते ।

१४ - २२ - सञ्ज्ञा च नाम यतः न लघीयः ।

१५ - २२ - कुतः एतत् ।

१६ - २२ - लघ्वर्थम् हि सञ्ज्ञाकरणम् ।

१७ - २२ - तत्र महत्याः सञ्ज्ञायाः करणे एतत् प्रयोजनम् अन्वर्थसञ्ज्ञा यथा विज्ञायेत न व्येति इति अव्ययम् इति ।

१८ - २२ - क्व पुनः न व्येति ।

१९ - २२ - स्त्रीपुंनपुंसकानि सत्त्वगुणाः एकत्वद्वित्वबहुत्वानि च ।

२० - २२ - एतान् अर्थान् के चित् वियन्ति के चित् न वियन्ति ।

२१ - २२ - ये न वियन्ति तद् अव्ययम् ।

२२ - २२ - सदृशम् त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु वचनेषु च सर्वेषु यत् न व्येति तत् अव्ययम् ।

१ - २२ - कथम् इदम् विज्ञायते कृत् यः मान्तः इति आहोस्वित् कृदन्तम् यत् मान्तम् इति ।

२ - २२ - किम् च अतः ।

३ - २२ - यदि विज्ञायते कृत् यः मान्तः इति कारयाम् चकार हारयाम् चकार इति अत्र न प्राप्नोति ।

४ - २२ - अथ विज्ञायते कृदन्तम् यत् मान्तम् इति प्रतामौ प्रतामः इति अत्र अपि प्राप्नोति ।

५ - २२ - यथा इच्छसि तथा अस्तु ।

६ - २२ - अस्तु तावत् कृत् यः मान्तः इति ।

७ - २२ - कथम् कारयाम् चकार हारयाम् चकार इति ।

८ - २२ - किम् पुनः अत्र अव्ययसञ्ज्ञया प्रार्थ्यते ।

९ - २२ - अव्ययात् इति लुक् यथा स्यात् ।

१० - २२ - मा भूत् एवम् ।

११ - २२ - आमः इति एवम् भविष्यति ।

१२ - २२ - न सिध्यति ।

१३ - २२ - लिग्रहणम् तत्र अनुवर्तते ।

१४ - २२ - लिग्रहणम् निवर्तिष्यते ।

१५ - २२ - यदि निवर्तते प्रत्ययमात्रस्य लुक् प्राप्नोति ।

१६ - २२ - इष्यते च प्रत्ययमात्रस्य ।

१७ - २२ - आतः च इष्यते ।

१८ - २२ - एवम् हि आह कृञ् च अनुप्रयुज्यते लिटि इति ।

१९ - २२ - यदि च प्रत्ययमात्रस्य लुक् भवति ततः एतत् उपपन्नम् भवति ।

२० - २२ - अथ वा पुनः अस्तु कृदन्तम् यत् मान्तम् इति ।

२१ - २२ - कथम् प्रतामौ प्रतामः इति ।

२२ - २२ - आचार्यप्रवृत्तिः ज्ञापयति न प्रत्ययलक्षणेन अव्ययसञ्ज्ञा भवति इति यत् अयम् प्रशान्शब्दम् स्वरादिषु पठति ।

१ - १२३ - कृत् मेजन्तः च अनिकारोकारप्रकृतिः ।

२ - १२३ - कृत् मेजन्तः च अनिकारोकारप्रकृतिः इति वक्तव्यम् ।

३ - १२३ - इह मा भूत् आधये , आधेः , चिकीर्षवे , चिकीर्षोः इति ।

४ - १२३ - अनन्यप्रकृतिः इति वा ।

५ - १२३ - अथ वा अनन्यप्रकृतिः कृत् अव्ययसञ्ज्ञः भवति इति वक्तव्यम् ।

६ - १२३ - किम् पुनः अत्र ज्यायः ।

७ - १२३ - अनन्यप्रकृतिवचनम् एव ज्यायः ।

८ - १२३ - इदम् अपि सिद्धम् भवति कुम्भकारेभ्यः , नगरकारेभ्यः इति ।

९ - १२३ - तत् तर्हि वक्तव्यम् ।

१० - १२३ - न वा सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य ।

११ - १२३ - न वा वक्तव्यम् ।

१२ - १२३ - किम् कारणम् ।

१३ - १२३ - सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति एषा परिभाषा कर्तव्या ।

१४ - १२३ - कः पुनः अत्र विशेषः एषा वा परिभाषा क्रियेत अनन्यप्रकृतिः इति वा उच्येत ।

१५ - १२३ - अवश्यम् एषा परिभाषा कर्तव्या ।

१६ - १२३ - बहूनि एतस्याः परिभाषायाः प्रयोजनानि ।

१७ - १२३ - कानि पुनः तानि ।

१८ - १२३ - प्रयोजनम् ह्रस्वतम् तुग्विधेः ग्रामणिकुलम् ।

१९ - १२३ - ग्रामणिकुलम् , सेनानिकुलम् इति अत्र ह्रस्वत्वे कृते ह्रस्वस्य पिति कृति तुक् भवति इति तुक् प्राप्नोति ।

२० - १२३ - सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति ।

२१ - १२३ - न एतत् अस्ति प्रयोजनम् ।

२२ - १२३ - बहिरङ्गम् ह्रस्वत्वम् ।

२३ - १२३ - अन्तरङ्गः तुक् ।

२४ - १२३ - असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

२५ - १२३ - नलोपः वृत्रहभिः ।

२६ - १२३ - वृत्र्हभिः , भ्रूण्हभिः इति अत्र नलोपे कृते ह्रस्वस्य पिति कृति तुक् भवति इति तुक् प्राप्नोति ।

२७ - १२३ - सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति ।

२८ - १२३ - एतत् अपि न अस्ति प्रयोजनम् ।

२९ - १२३ - असिद्धः नलोपः ।

३० - १२३ - तस्य असिद्धत्वात् न भविष्यति ।

३१ - १२३ - उदुपधत्वम् अकित्त्वस्य निकुचिते ।

३२ - १२३ - उदुपधत्वम् अकित्त्वस्य अनिमित्तम् ।

३३ - १२३ - क्व ।

३४ - १२३ - निकुचिते ।

३५ - १२३ - निकुचितः इति अत्र नलोपे कृते उदुपधात् भावादिकर्मणोः अन्यतरस्याम् इति अकित्त्वम् प्राप्नोति ।

३६ - १२३ - सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति ।

३७ - १२३ - एतत् अपि न अस्ति प्रयोजनम् ।

३८ - १२३ - अस्तु अत्र अकित्त्वम् ।

३९ - १२३ - न धातुलोपे आर्धधातुके इति प्रतिषेधः भविष्यति ।

४० - १२३ - नाभावः यञि दीर्घत्वस्य अमुना ।

४१ - १२३ - नाभावः यञि दीर्घत्वस्य अस्निमित्तम् ।

४२ - १२३ - क्व ।

४३ - १२३ - अमुना ।

४४ - १२३ - नाभावे कृते अतः दीर्घः यञि सुपि च इति दीर्घत्वम् प्राप्नोति ।

४५ - १२३ - सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति ।

४६ - १२३ - एतत् अपि न अस्ति प्रयोजनम् ।

४७ - १२३ - वक्ष्यति एतत् न मु टादेशे इति ।

४८ - १२३ - आत्त्वम् कित्त्वस्य उपादास्त ।

४९ - १२३ - आत्त्वम् कित्त्वस्य अनिमित्तम् ।

५० - १२३ - क्व ।

५१ - १२३ - उपादास्त अस्य स्वरः शिक्षकस्य इति ।

५२ - १२३ - आत्त्वे कृते स्थाघ्वोः इत् च इति इत्त्वम् प्राप्नोति ।

५३ - १२३ - सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति ।

५४ - १२३ - एतत् अपि न अस्ति प्रयोजनम् ।

५५ - १२३ - उक्तम् एतत् दीङः प्रतिषेधः स्थाघ्वोः इत्त्वे इति ।

५६ - १२३ - तिसृचतसृत्वम् ङीब्विधेः ।

५७ - १२३ - तिसृचतसृत्वम् ङीब्विधेः अनिमित्तम् ।

५८ - १२३ - तिस्रः तिष्ठन्ति चतस्रः तिष्ठन्ति ।

५९ - १२३ - तिसृचतसृभावे कृते ऋन्नेभ्यः ङीप् इति ङीप् प्राप्नोति ।

६० - १२३ - सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति ।

६१ - १२३ - एतत् अपि न अस्ति प्रयोजनम् ।

६२ - १२३ - आचार्यप्रवृत्तिः ज्ञापयति न तिसृचतसृभावे कृते ङीप् भवति इति यत् अयम् न तिसृचतसृ इति नामि दीर्घत्वप्रतिषेधम् शास्ति ।

६३ - १२३ - इमानि तर्हि प्रयोजनानि शतानि सहस्राणि ।

६४ - १२३ - नुमि कृते ष्णान्ता षट् इत् षट्सञ्ज्ञा प्राप्नोति ।

६५ - १२३ - सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति ।

६६ - १२३ - शकटौ पद्धतौ ।

६७ - १२३ - अत्त्वे कृते अतः इति टाप् प्राप्नोति ।

६८ - १२३ - सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति ।

६९ - १२३ - इयेष , उवोष ।

७० - १२३ - गुणे कृते इजादेः च गुरुमतः अनृच्छः इति आम् प्राप्नोति ।

७१ - १२३ - सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति ।

७२ - १२३ - तस्य दोषः वर्णाश्रयः प्रत्ययः वर्णविचालस्य ।

७३ - १२३ - तस्य एतस्य लक्षणस्य दोषः वर्णाश्रयः प्रत्ययः वर्णविचालस्य अनिमित्तम् स्यात् ।

७४ - १२३ - क्व ।

७५ - १२३ - अत इञ् दाक्षिः , प्लाक्षिः ।

७६ - १२३ - न प्रत्ययः सन्निपातलक्षणः ।

७७ - १२३ - अङ्गसञ्ज्ञा तर्हि अनिमित्तम् स्यात् ।

७८ - १२३ - आत्त्वम् पुग्विधेः क्रापयति ।

७९ - १२३ - आत्त्वम् पुग्विधेः अनिमित्तम् स्यात् ।

८० - १२३ - क्व ।

८१ - १२३ - क्रापयति इति ।

८२ - १२३ - पुग् ह्रस्वत्वस्य अदीदपत् ।

८३ - १२३ - पुक् ह्रस्वत्वस्य अनिमित्तम् स्यात् ।

८४ - १२३ - क्व ।

८५ - १२३ - अदीदपत् इति ।

८६ - १२३ - त्यदाद्यकारः टाब्विधेः ।

८७ - १२३ - त्यदाद्यकारः टाब्विधेः अनिमित्तम् स्यात् ।

८८ - १२३ - क्व ।

८९ - १२३ - या सा ।

९० - १२३ - इड्विधिः आकारलोपस्य पपिवान् ।

९१ - १२३ - इड्विधिः आकारलोपस्य अनिमित्तम् स्यात् ।

९२ - १२३ - क्व ।

९३ - १२३ - पपिवान् तस्थिवान् इति ।

९४ - १२३ - मतुब्विभक्त्युदात्तत्वम् पूर्वनिघातस्य ।

९५ - १२३ - मतुब्विभक्त्युदात्तत्वम् पूर्वनिघातस्य अनिमित्तम् स्यात् ।

९६ - १२३ - क्व ।

९७ - १२३ - अग्निमान् वायुमान् परमवाचा परमवाचे ।

९८ - १२३ - नदीह्रस्व्रत्वम् सम्बुद्धिलोपस्य ।

९९ - १२३ - नदीह्रस्व्रत्वम् सम्बुद्धिलोपस्य अनिमित्तम् स्यात् ।

१०० - १२३ - क्व ।

१०१ - १२३ - नदि कुमारि किशोरि ब्राह्मणि ब्रह्मबन्धु ।

१०२ - १२३ - ह्रस्वत्वे कृते एङ्ह्रस्वात् सम्बुद्धेः इति लोपः न प्राप्नोति ।

१०३ - १२३ - मा भूत् एवम् ।

१०४ - १२३ - ङ्यन्तात् इति एवम् भविष्यति ।

१०५ - १२३ - न सिध्यति ।

१०६ - १२३ - दीर्घात् इति उच्यते ।

१०७ - १२३ - ह्रस्वान्तात् च न प्राप्नोति ।

१०८ - १२३ - इदम् इह सम्प्रधार्यम् ह्रस्वत्वम् क्रियताम् सम्बुद्धिलोपः इति किम् अत्र कर्तव्यम् ।

१०९ - १२३ - परत्वात् ह्रस्वत्वम् ।

११० - १२३ - नित्यः सम्बुद्धिलोपः ।

१११ - १२३ - कृते अपि ह्रस्वत्वे प्राप्नोति अकृते अपि ।

११२ - १२३ - अनित्यः सम्बुद्धिलोपः ।

११३ - १२३ - न हि कृते ह्रस्वत्वे प्राप्नोति ।

११४ - १२३ - किम् कारणम् ।

११५ - १२३ - सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति ।

११६ - १२३ - एते दोषाः समाः भूयांसः वा ।

११७ - १२३ - तस्मात् न अर्थः अनया परिभाषया ।

११८ - १२३ - न हि दोषाः सन्ति इति परिभाषा न कर्तव्या लक्षणम् वा न प्रणेयम् ।

११९ - १२३ - न हि भिक्षुकाः सन्ति इति स्थाल्यः न अधिश्रीयन्ते न च मृगाः सन्ति इति यवाः न उप्यन्ते ।

१२० - १२३ - दोषाः खलु अपि साकल्येन परिगणिताः प्रयोजनानाम् उदाहरणमात्रम् ।

१२१ - १२३ - कुतः एतत् ।

१२२ - १२३ - न हि दोषाणाम् लक्षणम् अस्ति ।

१२३ - १२३ - तस्मात् यानि एतस्याः परिभाषायाः प्रयोजनानि तदर्थम् एषा परिभाषा कर्तव्या प्रतिविधेयम् च दोषेषु ।

१ - ३२ - अव्ययीभावस्य अव्ययत्वे प्रयोजनम् लुग्मुख्स्वरोपचाराः ।

२ - ३२ - अव्ययीभावस्य अव्ययत्वे प्रयोजनम् किम् ।

३ - ३२ - लुग्मुख्स्वरोपचाराः ।

४ - ३२ - लुक् उपाग्नि प्रत्यग्नि ।

५ - ३२ - अव्ययात् इति लुक् सिद्धः भवति ।

६ - ३२ - मुखस्वरः ।

७ - ३२ - उपाग्निमुखः , प्रत्यग्निमुखः ।

८ - ३२ - न अव्ययदिक्शब्द्गोमहत्स्थूलपृथुवत्सेभ्यः इति प्रतिषेधः सिद्धः भवति ।

९ - ३२ - उपचारः उपपयःकारः , उपपयःकामः इति ।

१० - ३२ - अतः कृकमिकंसकुम्भपात्रकुशाकर्णीषु अनव्ययस्य इति प्रतिषेधः सिद्धः भवति ।

११ - ३२ - किम् पुनः इदम् परिगणनम् आहोस्वित् उदाहरणमात्रम् ।

१२ - ३२ - परिगणनम् इति आह ।

१३ - ३२ - अपि खलु अपि आहुः ।

१४ - ३२ - यत् अन्यत् अव्ययीभावस्य अव्ययकृतम् प्राप्नोति तस्य प्रतिषेधः वक्तव्यः इति ।

१५ - ३२ - किम् पुनः तत् ।

१६ - ३२ - पराङ्गवद्भावः ।

१७ - ३२ - पराङ्गवद्भावे अव्ययप्रतिषेधः चोदितः उच्चैः अधीयान नीचैः अधीयान इति एवमर्थम् ।

१८ - ३२ - सः इह अपि प्राप्नोति उपाग्नि अधीयान प्रत्यग्नि अधीयान ।

१९ - ३२ - अकचि अव्ययग्रहणम् क्रियते उच्चकैः , नीचकैः इति एवमर्थम् ।

२० - ३२ - तत् इह अपि प्राप्नोति उपाग्निकम् , प्रत्यग्निकम् इति ।

२१ - ३२ - मुमि अव्ययप्रतिषेधः उच्यते दोषामन्यम् अहः , दिवामन्या रात्रिः इति एवमर्थम् ।

२२ - ३२ - सः इह अपि प्राप्नोति औपकुम्भम्मन्यः , उपमणिकम्मन्यः ।

२३ - ३२ - अस्य च्वौ अव्ययप्रतिषेधः उच्यते दोषाभूतम् अहः , दिवाभूता रात्रिः इति एवमर्थम् ।

२४ - ३२ - सः इह अपि प्राप्नोति उपकुम्भीभूतम् उपमणिकीभूतम् ।

२५ - ३२ - यदि परिगणनम् क्रियते न अर्थः अव्ययीभावस्य अव्ययसञ्ज्ञया ।

२६ - ३२ - कथम् यानि अव्ययीभावस्य अव्ययत्वे प्रयोजनानि ।

२७ - ३२ - न एतानि सन्ति ।

२८ - ३२ - यत् तावत् उच्यते लुक् इति आचार्यप्रवृत्तिः ज्ञापयति भवति अव्ययीभावात् लुक् इति यद् अयम् न अव्ययीभावात् अतः इति प्रतिषेधम् शास्ति ।

२९ - ३२ - उपचारः अनुत्तरपदस्थस्य इति वर्तते ।

३० - ३२ - तत्र मुखस्वरः एकः प्रयोजयति ।

३१ - ३२ - न च एकम् प्रयोजनम् योगारम्भम् प्रयोजयति ।

३२ - ३२ - यदि एतावत् प्रयोजनम् स्यात् तत्र एव अयम् ब्रूयात् नाव्ययात् अव्ययीभावात् च इति ।

१ - २५ - शि सर्वनामस्थानम् सुट् अनपुंसकस्य इति चेत् जसि शिप्रतिषेधः ।

२ - २५ - शि सर्वनामस्थानम् सुट् अनपुंसकस्य इति चेत् जसि शेः प्रतिषेधः प्राप्नोति कुण्डानि तिष्ठन्ति वनानि तिष्ठन्ति ।

३ - २५ - असमर्थसमासः च अयम् द्रष्टव्यः अनपुंसकस्य इति ।

४ - २५ - न हि नञः नपुंसकेन सामर्थ्यम्. केन तर्हि ।

५ - २५ - भवतिना न भवति नपुंसकस्य इति ।

६ - २५ - यत् तावत् उच्यते शि सर्वनामस्थानम् सुट् अनपुंसकस्य इति चेत् जसि शिप्रतिषेधः इति ।

७ - २५ - न अप्रतिषेधात् ।

८ - २५ - न अयम् प्रसज्यप्रतिषेधः नपुंसकस्य न इति ।

९ - २५ - किम् तर्हि ।

१० - २५ - पर्युदासः अयम् यत् अन्यत् नपुंसकात् इति ।

११ - २५ - नपुंसके अव्यापारः ।

१२ - २५ - यदि केन चित् प्राप्नोति तेन भविष्यति ।

१३ - २५ - पूर्वेण च प्राप्नोति ।

१४ - २५ - अप्राप्तेः वा ।

१५ - २५ - अथ वा अनन्तरा या प्राप्तिः सा प्रतिषिध्यते ।

१६ - २५ - कुतः एतत् ।

१७ - २५ - अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति ।

१८ - २५ - पूर्वा प्राप्तिः अप्रतिषिद्धा ।

१९ - २५ - तया भविष्यति ।

२० - २५ - ननु च इयम् प्राप्तिः पूर्वाम् प्राप्तिम् बाधते ।

२१ - २५ - न उत्सहते प्रतिषिद्धा सती बाधितुम् ।

२२ - २५ - यत् अपि उच्यते ।

२३ - २५ - असमर्थसमासः च अयम् द्रष्टव्यः इति यदि अपि वक्तव्यः अथ वा एतर्हि बहूनि प्रयोजनानि ।

२४ - २५ - कानि ।

२५ - २५ - असूर्यम्पश्यानि मुखानि , अपुनर्गेयाः श्लोकाः , अश्राद्धभोजी ब्राह्मणः इति ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP