पाद १ - खण्ड २

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - २२ - धातुग्रहणम् किमर्थम् ।

२ - २२ - इह मा भूत्लूञ् लविता लवितुम् पूञ् पविता पवितुम् ।

३ - २२ - आर्धधातुके इति किमर्थम् ।

४ - २२ - त्रिधा बद्धः वृषभः रोरवीति ।

५ - २२ - किम् पुनः इदम् आर्धधातुकग्रहणम् लोपविशेषणम् आर्धधातुकनिमित्ते लोपे सति ये गुणवृद्धी प्राप्नुतः ते न भवतः इति , आहोस्वित् गुणवृद्धिविशेषणम् आर्धधातुकग्रहणम् धातुलोपे सति आर्धधातुकनिमित्ते ये गुणवृद्धी प्राप्नुतः ते न भवतः इति ।

६ - २२ - किम् च अतः ।

७ - २२ - यदि लोपविशेषणम् उपेद्धः प्रेद्धः अत्र अपि प्राप्नोति ।

८ - २२ - अथ गुणवृद्धिविशेषणम् क्नोपयति इति अत्र अपि प्राप्नोति ।

९ - २२ - यथा इच्छसि तथा अस्तु ।

१० - २२ - अस्तु लोपविशेषणम् ।

११ - २२ - कथम् उपेद्धः प्रेद्धः इति ।

१२ - २२ - बहिरङ्गः गुणः अन्तरङ्गः प्रतिषेधः ।

१३ - २२ - असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

१४ - २२ - यदि एवम् न अर्थः धातुग्रहणेन ।

१५ - २२ - इह कस्मात् न भवतिलूञ् लविता लवितुम् ।

१६ - २२ - आर्धधातुकनिमित्ते लोपे प्रतिषेधः न च एषः आर्धधातुकनिमित्तः लोपः ।

१७ - २२ - अथ वा पुनः अस्तु गुणवृद्धिविशेषणम् ।

१८ - २२ - ननु च उक्तम् क्नोपयति इति अत्र अपि प्राप्नोति इति ।

१९ - २२ - न एषः दोषः ।

२० - २२ - निपातनात् सिद्धम् ।

२१ - २२ - किम् निपातनम् ।

२२ - २२ - चेले क्नोपेः इति

१ - ४७ - परिगणनम् कर्तव्यम् ।

२ - ४७ - यङ्यक्क्यवलोपे प्रतिषेधः ।

३ - ४७ - यङ्यक्क्यवलोपे प्रतिषेधः वक्तव्यः ।

४ - ४७ - यङ्बेभिदिता मरीमृजः ।

५ - ४७ - यक्कुषुभिता मगधकः ।

६ - ४७ - क्यसमिधिता दृषदकः ।

७ - ४७ - वलोपे जीरदानुः ।

८ - ४७ - किम् प्रयोजनम् ।

९ - ४७ - नुम्लोपस्रिव्यनुबन्धलोपे अप्रतिषेधार्थम् ।

१० - ४७ - नुम्लोपे स्रिव्यनुबन्धलोपे च प्रतिषेधः मा भूत् इति ।

११ - ४७ - नुम्लोपेअभाजि रागः उपबर्हणम् ।

१२ - ४७ - स्रिवेः आस्रेमाणम् ।

१३ - ४७ - अनुबन्धलोपे लूञ् लविता लवितुम् ।

१४ - ४७ - यदि परिगणनम् क्रियते स्यदः, प्रश्रथः, हिमश्रथः इति अत्र अपि प्राप्नोति ।

१५ - ४७ - वक्ष्यति एतत् निपातनात् स्यदादिषु इति ।

१६ - ४७ - तत् तर्हि परिगणनम् कर्तव्यम् ।

१७ - ४७ - न कर्तव्यम् ।

१८ - ४७ - नुम्लोपे कस्मात् न भवति ।

१९ - ४७ - इक्प्रकरणात् नुम्लोपे वृद्धिः ।

२० - ४७ - इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः न च एषा इग्लक्षणा वृद्धिः ।

२१ - ४७ - यदि इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः स्यदः, प्रश्रथः, हिमश्रथः इति अत्र न प्राप्नोति ।

२२ - ४७ - इह च प्राप्नोतिअवोदः, एधः, ओद्मः इति ।

२३ - ४७ - निपातनात् स्यदादिषु । निपातनात् स्यदादिषु प्रतिषेधः भविष्यति न च भविष्यति ।

२४ - ४७ - यदि इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः स्रिव्यनुबन्धलोपे कथम् स्रिवेः आस्रेमाणम् लूञ् लविता ।

२५ - ४७ - प्रत्ययाश्रयत्वात् अन्यत्र सिद्धम् ।

२६ - ४७ - आर्धधातुकनिमित्ते लोपे प्रतिषेधः न च एषः आर्धधातुकनिमित्तः लोपः ।

२७ - ४७ - यदि आर्धधातुकनिमित्ते लोपे प्रतिषेधः जीरदानुः अत्र न प्राप्नोति ।

२८ - ४७ - रकि ज्यः प्रसारणम् । न एतत् जीवेः रूपम् ।

२९ - ४७ - रकि एतत् ज्यः प्रसारणम् ।

३० - ४७ - यावता च इदानीम् रकि जीवेः अपि सिद्धम् भवति ।

३१ - ४७ - कथम् उपबर्हणम् ।

३२ - ४७ - बृहिः प्रकृत्यन्तरम् ।

३३ - ४७ - कथम् ज्ञायते बृहिः प्रकृत्यन्तरम् इति ।

३४ - ४७ - अचि इति हि लोपः उच्यते अनजादौ अपि दृश्यतेनिबृह्यते ।

३५ - ४७ - अनिटि इति च उच्यते ।

३६ - ४७ - इडादौ अपि दृश्यतेनिबर्हिता निबर्हितुम् इति ।

३७ - ४७ - अजादौ अपि न दृश्यतेबृंहयति बृंहकः ।

३८ - ४७ - तस्मात् न अर्थः परिगणनेन ।

३९ - ४७ - यदि परिगणनम् न क्रियते भेद्यते छेद्यते अत्र अपि प्राप्नोति ।

४० - ४७ - न एषः दोषः ।

४१ - ४७ - धातुलोपे इति न एवम् विज्ञायतेधातोः लोपः धातुलोपः, धातुलोपे इति ।

४२ - ४७ - कथम् तर्हि ।

४३ - ४७ - धातोः लोपः अस्मिन् तत् इदम् धातुलोपम्, धातुलोपे इति ।

४४ - ४७ - तस्मात् इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः ।

४५ - ४७ - यदि तर्हि इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः पापचकः, पापठकः, मगधकः, दृषदकः अत्र न प्राप्नोति ।

४६ - ४७ - अल्लोपस्य स्थानिवत्वात् ।

४७ - ४७ - अकारलोपे कृते तस्य स्थानिवत्वात् गुणवृद्धी न भविष्यतः ।

१ - ४१ - अनारम्भः वा ।

२ - ४१ - अनारम्भः वा पुनः अस्य योगस्य न्याय्यः ।

३ - ४१ - कथम् बेभिदिता, मरीमृजकः, कुषुभिता समिधिता इति ।

४ - ४१ - अत्र अपि अकारलोपे कृते तस्य स्थानिवत्वात् गुणवृद्धी न भविष्यतः ।

५ - ४१ - यत्र तर्हि स्थानिवद्भावः न अस्ति तदर्थम् अयम् योगः वक्तव्यः ।

६ - ४१ - क्व च स्थानिवद्भावः न अस्ति ।

७ - ४१ - यत्र हलचोः आदेशःलोलुवः पोपुवः मरीमृजः सरीसृपः इति ।

८ - ४१ - अत्र अपि अकारलोपे कृते तस्य स्थानिवत्वात् गुणवृद्धी न भविष्यतः ।

९ - ४१ - लुकि कृते न प्राप्नोति ।

१० - ४१ - इदम् इह सम्प्रधार्यम्लुक् क्रियताम् अल्लोपः इति किम् अत्र कर्तव्यम् ।

११ - ४१ - परत्वात् अल्लोपः ।

१२ - ४१ - नित्यः लुक् ।

१३ - ४१ - कृते अपि अल्लोपे प्राप्नोति अकृते अपि प्राप्नोति ।

१४ - ४१ - लुक् अपि अनित्यः ।

१५ - ४१ - कथम् ।

१६ - ४१ - अन्यस्य कृते अल्लोपे प्राप्नोति अन्यस्य अकृते ।

१७ - ४१ - शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

१८ - ४१ - अनवकाशः तर्हि लुक्. सावकाशः लुक् ।

१९ - ४१ - कः अवकाशः ।

२० - ४१ - अवशिष्टः ।

२१ - ४१ - अथम् कथम् चित् अनवकाशः लुक् स्यात् एवम् अपि न दोषः ।

२२ - ४१ - अल्लोपे योगविभागः करिष्यते अतः लोपः ।

२३ - ४१ - ततः यस्य यस्य च लोपः भवति ।

२४ - ४१ - अतः इति एव ।

२५ - ४१ - किमर्थम् इदम् ।

२६ - ४१ - लुकम् वक्ष्यति तद्बाधनार्थम् ।

२७ - ४१ - ततो हलः ।

२८ - ४१ - हलः उत्तरस्य च यस्य लोपः भवति इति ।

२९ - ४१ - इह अपि परत्वात् योगविभागात् व लोपः लुकम् बाधेतकृष्णः नोनाव वृषभः यदि इदम् ।

३० - ४१ - नोनूयतेः नोनाव ।

३१ - ४१ - समानाश्रयः लुक् लोपेन बाध्यते ।

३२ - ४१ - कः च समानाश्रयः ।

३३ - ४१ - यः प्रत्ययाश्रयः ।

३४ - ४१ - अत्र च प्राक् एव प्रत्ययोत्पत्तेः लुक् भवति ।

३५ - ४१ - कथम् स्यदः, प्रश्रथः, हिमश्रथः, जीरदानुः, निकुचितः इति ।

३६ - ४१ - उक्तम् शेषे ।

३७ - ४१ - किम् उक्तम् ।

३८ - ४१ - निपातनात् स्यदादिषु ।

३९ - ४१ - प्रत्ययाश्रत्वात् अन्यत्र सिद्धम् ।

४० - ४१ - रकि ज्यः प्रसारणम् इति ।

४१ - ४१ - निकुचिते अपि उक्तम् सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति ।

१ - ३४ - क्ङिति प्रतिषेधे तन्निमित्तग्रहणम् ।

२ - ३४ - क्ङिति प्रतिषेधे तन्निमित्तग्रहणम् कर्तव्यम् ।

३ - ३४ - क्ङिन्निमित्ते ये गुणवृद्धी प्राप्नुतः ते न भवतः इति वक्तव्यम् ।

४ - ३४ - किम् प्रयोजनम् ।

५ - ३४ - उपधारोरवीत्यर्थम् । उपधार्थम् रोरवीत्यर्थम् च ।

६ - ३४ - उपधार्थम् तावत् भिन्नः , भिन्नवान् इति ।

७ - ३४ - किम् पुनः कारणम् न सिध्यति ।

८ - ३४ - क्ङिति इति उच्यते ।

९ - ३४ - तेन यत्र क्ङिति अनन्तरः गुणभावी अस्ति तत्र एव स्यात्चितम् स्तुतम् ।

१० - ३४ - इह तु न स्यात्भिन्नः , भिन्नवान् इति ।

११ - ३४ - ननु च यस्य गुणः उच्यते तत् क्ङित्परत्वेन विशेषयिष्यामः ।

१२ - ३४ - पुगन्तलघूपधस्य च गुणः उच्यते तत् च अत्र क्ङित्परम् ।

१३ - ३४ - पुगन्तलघूपधस्य इति न एवम् विज्ञायते पुगन्तस्य अङ्गस्य लघूपधस्य च इति ।

१४ - ३४ - कथम् तर्हि ।

१५ - ३४ - पुकि अन्तः पुगन्तः , लघ्वी उपधा लघूपधा , पुगन्तः च लघूपधा च पुगन्तलघूपधम् , पुगन्तलघूपधस्य इति ।

१६ - ३४ - अवश्यम् च एतत् एवम् विज्ञेयम् ।

१७ - ३४ - अङ्गविशेषणे हि सति इह प्रसज्येत भिनत्ति छिनत्ति इति ।

१८ - ३४ - रोरवीत्यर्थम् च ।

१९ - ३४ - त्रिधा बद्धः वृषभः रोरवीति इति ।

२० - ३४ - यदि तन्निमित्तग्रहणम् क्रियते शचङन्ते दोषः ।

२१ - ३४ - रियति पियति धियति ।

२२ - ३४ - प्रादुद्रुवत् प्रासुस्रुवत् ।

२३ - ३४ - अत्र प्राप्नोति ।

२४ - ३४ - शचङन्तस्य अन्तरङ्गलक्षणत्वात् ।

२५ - ३४ - अन्तरङ्गलक्षणत्वात् अत्र इयङुवङोः कृतयोः अनुपधात्वात् गुणः न भविष्यति ।

२६ - ३४ - एवम् क्रियते च इदम् तन्निमित्तग्रहणम् न च कः चित् दोषः भवति ।

२७ - ३४ - इमानि च भूयः तन्निमित्तग्रहणस्य प्रयोजनानि हतः , हथः , उपोयते , औयत , लौयमानिः , पौयमानिः , नेनिक्ते इति ।

२८ - ३४ - न एतानि सन्ति प्रयोजनानि ।

२९ - ३४ - इह तावत् हतः , हथः इति ।

३० - ३४ - प्रसक्तस्य अनभिनिर्वृत्तस्य प्रतिषेधेन निवृत्तिः शक्या कर्तुम् अत्र च धातूपदेशावस्थायाम् एव अकारः ।

३१ - ३४ - इह च उपोयते , औयत , लौयमानिः , पौयमानिः इति ।

३२ - ३४ - बहिरङ्गे गुणवृद्धी अन्तरङ्गः प्रतिषेधः ।

३३ - ३४ - असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

३४ - ३४ - नेनिक्ते इति परेण रूपेण व्यवहितत्वात् न भविष्यति ।

१ - ४२ - उपधार्थेन तावत् न अर्थः ।

२ - ४२ - धातोः इति वर्तते ।

३ - ४२ - धातुम् क्ङित्परत्वेन विशेषयिष्यामः ।

४ - ४२ - यदि धातुः विशेष्यते विकरणस्य न प्राप्नोति चिनुतः , सुनुतः , लुनीतः , पुनीतः इति ।

५ - ४२ - न एषः दोषः ।

६ - ४२ - विहितविशेषणम् धातुग्रहणम् ।

७ - ४२ - धातोः यः विहितः इति ।

८ - ४२ - धातोः एव तर्हि न प्राप्नोति ।

९ - ४२ - न एवम् विज्ञायते धातोः विहितस्य क्ङिति इति ।

१० - ४२ - कथम् तर्हि ।

११ - ४२ - धातोः विहिते क्ङिति इति ।

१२ - ४२ - अथ वा कार्यकालम् हि सञ्ज्ञापरिभाषम् ।

१३ - ४२ - यत्र कार्यम् तत्र द्रष्टव्यम् ।

१४ - ४२ - पुगन्तलघूपधस्य गुणः भवति इति उपस्थितम् इदम् भवति क्ङिति न इति ।

१५ - ४२ - अथ वा यत् एतस्मिन् योगे क्ङिद्ग्रहणम् तद् अनवकाशम् ।

१६ - ४२ - तस्य अनवकाशत्वात् गुणवृद्धी न भविष्यतः ।

१७ - ४२ - अथ वा आचार्यप्रवृत्तिः ज्ञापयति भवति उपधालक्षणस्य गुणस्य प्रतिषेधः इति यत् अयम् त्रसिगृधिधृषिक्षिपेः क्नुः इकः झल् हलन्तात् च इति क्नुसनौ कितौ करोति ।

१८ - ४२ - कथम् कृत्वा ज्ञापकम् ।

१९ - ४२ - कित्करणे एतत् प्रयोजनम् गुणः कथम् न स्यात् इति ।

२० - ४२ - यदि च अत्र गुणप्रतिषेधः न स्यात् कित्करणम् अनर्थकम् स्यात् ।

२१ - ४२ - पश्यति तु आचार्यः भवति उपधालक्षणस्य गुणस्य प्रतिषेधः इति ।

२२ - ४२ - ततः क्नुसनौ कितौ करोति ।

२३ - ४२ - रोरवीत्यर्थेन अपि न अर्थः ।

२४ - ४२ - क्ङिति इति उच्यते ।

२५ - ४२ - न च अत्र क्ङितम् पश्यामः ।

२६ - ४२ - प्रत्ययलक्षणेन प्राप्नोति ।

२७ - ४२ - न लुमता तस्मिन् इति प्रत्ययलक्षणप्रतिषेधः ।

२८ - ४२ - अथ अपि न लुमता अङ्गस्य इति उच्यते एवम् अपि न दोषः ।

२९ - ४२ - कथम् ।

३० - ४२ - न लुमता लुप्ते अङ्गाधिकारः प्रतिनिर्दिश्यते ।

३१ - ४२ - किम् तर्हि ।

३२ - ४२ - यः असौ लुमता लुप्यते तस्मिन् यत् अङ्गम् तस्य यत् कार्यम् तत् न भवति इति ।

३३ - ४२ - अथ अपि आङ्गाधिकारः प्रतिनिर्दिश्यते एवम् अपि न दोषः ।

३४ - ४२ - कथम् ।

३५ - ४२ - कार्यकालम् हि सञ्ज्ञापरिभाषम् यत्र कार्यम् तत्र द्रष्टव्यम् ।

३६ - ४२ - सार्वधातुकार्धधातुकयोः गुणः भवति इति उपस्थितम् इदम् भवति क्ङिति न इति ।

३७ - ४२ - अथ वा छान्दसम् एतत् ।

३८ - ४२ - दृष्टानुविधिः च छन्दसि भवति ।

३९ - ४२ - अथ वा बहिरङ्गः गुणः अन्तरङ्गः प्रतिषेधः ।

४० - ४२ - असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

४१ - ४२ - अथ वा पूर्वस्मिन् योगे यद् आर्धधातुकग्रहणम् तत् अनवकाशम् ।

४२ - ४२ - तस्य अनवकाशत्वात् गुणः भविष्यति ।

१ - १४ - इह कस्मात् न भवति लैगवायनः , कामयते ।

२ - १४ - तद्धितकाम्योः इक्प्रकरणात् ।

३ - १४ - इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः न च एते इग्लक्षणे ।

४ - १४ - लकारस्य ङित्त्वात् आदेशेषु स्थानिवद्भावप्रसङ्गः ।

५ - १४ - लकारस्य ङित्त्वात् आदेशेषु स्थानिवद्भावः प्राप्नोति अचिनवम् असुनवम् अकरवम् ।

६ - १४ - लकारस्य ङित्त्वात् आदेशेषु स्थानिवद्भावप्रसङ्गः इति चेत् यासुटः ङिद्वचनात् सिद्धम् । यत् अयम् यासुटः ङिद्वचनम् शास्ति तत् ज्ञापयति आचार्यः न ङिदादेशाः ङितः भवन्ति इति ।

७ - १४ - यदि एतत् ज्ञाप्यते कथम् नित्यम् ङितः इतः च इति ।

८ - १४ - ङितः यत् कार्यम् तत् भवति ङिति यत् कार्यम् तत् न भवति इति ।

९ - १४ - किम् वक्तव्यम् एतत् ।

१० - १४ - न हि ।

११ - १४ - कथम् अनुच्यमानम् गंस्यते ।

१२ - १४ - यासुटः एव ङिद्वचनात् ।

१३ - १४ - अपर्याप्तः च एव हि यासुट् समुदायस्य ङित्त्वे ङितम् च एनम् करोति ।

१४ - १४ - तस्य एतत् प्रयोजनम् ङितः यत् कार्यम् तत् यथा स्यात् ङिति यत् कार्यम् तत् मा भूत् इति ।

१ - ४० - किमर्थम् इदम् उद्यते ।

२ - ४० - गुणवृद्धी मा भूताम् इति आदीध्यनम् आदीध्यकः , आवेव्यनम् आवेव्यकः इति ।

३ - ४० - अयम् योगः शक्यः अकर्तुम् ।

४ - ४० - कथम् ।

५ - ४० - दीधीवेव्योः छन्दोविषयत्वात् दृष्टानुविधित्वात् च छन्दसः अदीधेत् अदीधयुः इति च गुणदर्शनात् अप्रतिषेधः ।

६ - ४० - दीधीवेव्योः छन्दोविषयत्वात् ।

७ - ४० - दीधीवेव्यौ छन्दोविषयौ ।

८ - ४० - दृष्टानुविधित्वात् च छन्दसः ।

९ - ४० - दृष्टानुविधिः च छन्दसि भवति ।

१० - ४० - अदीधेत् , अदीधयुः इति च गुणदर्शनात् अप्रतिषेधः ।

११ - ४० - अनर्थकः प्रतिषेधः अप्रतिषेधः ।

१२ - ४० - प्रजपतिः वै यत् किम् चन मनसा अदीधेत् ।

१३ - ४० - होत्रय वृतः कृपयन् अदीधेत् ।

१४ - ४० - अदीधयुः दाशराज्ञे वृतसः ।

१५ - ४० - भवेत् इदम् युक्तम् उदाहरणम् अदीधेत् इति ।

१६ - ४० - इदम् तु अयुक्तम् अदीधयुः इति ।

१७ - ४० - अयम् जुसि गुणः प्रतिषेधविषये [प्रतिषेधविषयः] आरभ्यते ।

१८ - ४० - सः यथा एव क्ङिति न इति एतम् प्रतिषेधम् बाधते एवम् इमम् अपि बाधते ।

१९ - ४० - न एषः दोषः ।

२० - ४० - जुसि गुणः प्रतिषेधविषये आरभ्यमाणः तुल्यजातीयम् प्रतिषेधम् बाधते ।

२१ - ४० - कः च तुल्यजातीयः प्रतिषेधः ।

२२ - ४० - यः प्रत्ययाश्रयः ।

२३ - ४० - प्रकृत्याश्रयः च अयम् ।

२४ - ४० - अथ वा येन न अप्राप्ते तस्य बाधनम् भवति ।

२५ - ४० - न च अप्राप्ते क्ङिति न इति एतस्मिन् प्रतिषेधे जुसि गुणः आरभ्यते ।

२६ - ४० - अस्मिन् पुनः प्राप्ते च अप्राप्ते च ।

२७ - ४० - यदि तर्हि अयम् योगः न आरभ्यते कथम् दीध्यत् इति ।

२८ - ४० - दीध्यत् इति श्यन्व्यत्ययेन ।

२९ - ४० - दीध्यत् इति श्यन् एषः व्यत्ययेन भविष्यति ।

३० - ४० - इटः च अपि ग्रहणम् शक्यम् अकर्तुम् ।

३१ - ४० - कथम् अकणिषम् अरणिषम् , कणिता श्वः , रणिता श्वः इति ।

३२ - ४० - आर्धधातुकस्य इट् वलादेः इति अत्र इट् इति वर्तमाने पुनः इड्ग्रहणस्य प्रयोजनम् इट् एव यथा स्यात् यत् अन्यत् प्राप्नोति तत् मा भूत् इति ।

३३ - ४० - किम् च अन्यत् प्राप्नोति ।

३४ - ४० - गुणः ।

३५ - ४० - यदि नियमः क्रियते पिपठिषतेः अप्रत्ययः पिपट्ःीः दीर्घत्वम् न प्राप्नोति ।

३६ - ४० - न एषः दोषः ।

३७ - ४० - आङ्गम् यत् कार्यम् तत् नियम्यते ।

३८ - ४० - न च एतत् आङ्गम् ।

३९ - ४० - अथ वा असिद्धम् दीर्घत्वम् ।

४० - ४० - तस्य असिद्धत्वात् नियमः न भविष्यति

१ - १० - अनन्तराः इति कथम् इदम् विज्ञायते अविद्यमानम् अन्तरम् एषाम् इति आहोस्वित् अविद्यमानाः अन्तरा एषाम् इति ।

२ - १० - किम् च अतः ।

३ - १० - यदि विज्ञायते अविद्यमानम् अन्तरम् एषाम् इति अवग्रहे संयोगसञ्ज्ञा न प्राप्नोति अप्सु इति अप्-सु इति ।

४ - १० - विद्यते हि अत्र अन्तरम् ।

५ - १० - अथ विज्ञायते अविद्यमानाः अन्तरा एषाम् इति न दोषः भवति ।

६ - १० - यथा न दोषः तथा अस्तु ।

७ - १० - अथ वा पुनः अस्तु अविद्यमानम् अन्तरम् एषाम् इति ।

८ - १० - ननु च उक्तम् अवग्रहे संयोगसञ्ज्ञा न प्राप्नोति अप्-सु इति अप्सु इति ।

९ - १० - विद्यते हि अत्र अन्तरम् इति ।

१० - १० - न एव दोषः न प्रयोजनम् ।

१ - ४५ - संयोगसञ्ज्ञायाम् सहवचनम् यथा अन्यत्र ।

२ - ४५ - संयोगसञ्ज्ञायाम् सहवचनम् कर्तव्यम् ।

३ - ४५ - हलः अनन्तराः संयोगः सह इति वक्तव्यम् ।

४ - ४५ - किम् प्रयोजनम् ।

५ - ४५ - सहभूतानाम् संयोगसञ्ज्ञा यथा स्यात् एकैकस्य मा भूत् इति ।

६ - ४५ - यथा अन्यत्र ।

७ - ४५ - तत् यथा अन्यत्र अपि यत्र इच्छति सहबूतानाम् कार्यम् करोति तत्र सहग्रहणम् ।

८ - ४५ - तत् यथा ।

९ - ४५ - सह सुपा ।

१० - ४५ - उभे अभ्यस्तम् सह इति ।

११ - ४५ - किम् च स्यात् यदि एकैकस्य हलः संयोगसञ्ज्ञा स्यात् ।

१२ - ४५ - इह निर्यायात् , निर्वायात् , वा अन्यस्य संयोगादेः इति एत्त्वम् प्रसज्येत ।

१३ - ४५ - इह च संहृषीष्ट इति ऋतः च संयोगादेः इति इट् प्रसज्येत ।

१४ - ४५ - इह च संह्रियते इति गुणः अर्तिसंयोगाद्योः इति गुणः प्रसज्येत ।

१५ - ४५ - इह च दृषत् करोति समित् करोति इति संयोगान्तस्य लोपः प्रसज्येत ।

१६ - ४५ - इह च शक्ता वस्ता इति स्कोः संयोगाद्योः इति लोपः प्रसज्येत ।

१७ - ४५ - इह च निर्यातः , निर्वातः संयोगादेः आतः धातोः यण्वतः इति निष्ठानत्वम् प्रसज्येत ।

१८ - ४५ - न एषः दोषः ।

१९ - ४५ - यत् तावत् उच्यते इह तावत् निर्यायात् , निर्वायात् वा अन्यस्य संयोगादेः इति एत्त्वम् प्रसज्येत इति ।

२० - ४५ - न एवम् विज्ञायते संयोगः आदिः यस्य सः अयम् संयोगादिः , संयोगादेः इति ।

२१ - ४५ - कथम् तर्हि ।

२२ - ४५ - संयोगौ आदी यस्य सः अयम् संयोगादिः , संयोगादेः इति ।

२३ - ४५ - एवम् तावत् सर्वम् आङ्गम् परिहृतम् ।

२४ - ४५ - यत् अपि उच्यते इह च दृषत् करोति समित् करोति इति संयोगान्तस्य लोपः प्रसज्येत इति ।

२५ - ४५ - न एवम् विज्ञायते संयोगः अन्तः यस्य तत् इदम् संयोगान्तम् , संयोगान्तस्य इति ।

२६ - ४५ - कथम् तर्हि ।

२७ - ४५ - संयोगौ अन्तौ अस्य तद् इदम् संयोगान्तम् , संयोगान्तस्य इति ।

२८ - ४५ - यत् अपि उच्यते इह च शक्ता वस्ता इति स्कोः संयोगाद्योः इति लोपः प्रसज्येत इति ।

२९ - ४५ - न एवम् विज्ञायते संयोगौ आदी संयोदादी संयोगाद्योः इति ।

३० - ४५ - कथम् तर्हि ।

३१ - ४५ - संयोगयोः आदी संयोगादी संयोगाद्योः इति ।

३२ - ४५ - यत् अपि उच्यते इह च निर्यातः , निर्वातः संयोगादेः आतः धातोः यण्वतः इति निष्ठानत्वम् प्रसज्येत इति ।

३३ - ४५ - न एवम् विज्ञायते संयोगः आदिः यस्य सः अयम् संयोगादिः , संयोगादेः इति ।

३४ - ४५ - कथम् तर्हि ।

३५ - ४५ - संयोगौ आदी यस्य सः अयम् संयोगादिः , संयोगादेः इति ।

३६ - ४५ - कथम् कृत्वा एकैकस्य संयोगसञ्ज्ञा प्राप्नोति ।

३७ - ४५ - प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा ।

३८ - ४५ - तत् यथा ।

३९ - ४५ - वृद्धिगुणसञ्ज्ञे प्रत्येकम् भवतः ।

४० - ४५ - ननु च अयम् अपि अस्ति दृष्टान्तः समुदाये वाक्यपरिसमाप्तिः इति ।

४१ - ४५ - तत् यथा ।

४२ - ४५ - गर्गाः शतम् दण्ड्यन्ताम् इति ।

४३ - ४५ - अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकम् दण्डयन्ति ।

४४ - ४५ - सति एतस्मिन् दृष्टान्ते यदि तत्र प्रत्येकम् इति उच्यते इह अपि सहग्रहणम् कर्तव्यम् ।

४५ - ४५ - अथ तत्र अन्तरेण प्रत्येकम् इति वचनम् प्रत्येकम् वृद्धिगुणसञ्ज्ञे भवतः इह अपि न अर्थः सहग्रहणेन

१ - ४३ - अथ यत्र बहूनाम् आनन्तर्यम् किम् तत्र द्वयोः द्वयोः संयोगस्ञ्ज्ञा भवति आहोस्वित् अविशेषेण ।

२ - ४३ - कः च अत्र विशेषः ।

३ - ४३ - समुदाये संयोगादिलोपः मस्जेः ।

४ - ४३ - समुदाये संयोगादिलोपः मस्जेः न सिध्यति ।

५ - ४३ - मङ्क्ता मङ्क्तुम् ।

६ - ४३ - इह च निर्ग्लेयात् , निर्ग्लायात् , निर्म्लेयात् , निर्म्लायात् वा अन्यस्य संयोगादेः इति एत्त्वम् न प्राप्नोति ।

७ - ४३ - इह च संस्वरिषीष्ट इति ऋतः च संयोगादेः इति इट् न प्राप्नोति ।

८ - ४३ - इह च संस्वर्यते इति गुणः अर्तिसंयोगाद्योः इति गुणः न प्राप्नोति ।

९ - ४३ - इह च गोमान् करोति यवमान् करोति इति संयोगान्तस्य लोपः इति लोपः न प्राप्नोति ।

१० - ४३ - इह च निर्ग्लानः , निर्म्लानः इति संयोगादेः आतः धातोः यण्वतः इति निष्ठानत्वम् न प्राप्नोति ।

११ - ४३ - अस्तु तर्हि द्वयोः द्वयोः ।

१२ - ४३ - द्वयोः हलोः संयोगः इति चेत् द्विर्वचनम् । द्वयोः हलोः संयोगः इति चेत् द्विर्वचनम् न सिध्यति ।

१३ - ४३ - इन्द्रम् इच्छति इन्द्रीयति ।

१४ - ४३ - इन्द्रीयतेः सन् इन्दिद्रीयिषति ।

१५ - ४३ - न न्द्राः संयोगादयः इति दकारस्य द्विर्वचनम् न प्राप्नोति ।

१६ - ४३ - न वा अज्विधेः ।

१७ - ४३ - न वा एषः दोषः ।

१८ - ४३ - किम् कारणम् ।

१९ - ४३ - अज्विधेः ।

२० - ४३ - न्द्राः संयोगादयः न द्विः उच्यन्ते ।

२१ - ४३ - अजादेः इति वर्तते ।

२२ - ४३ - अथ यदि एव बहूनाम् संयोगस्ञ्ज्ञा अथ अपि द्वयोः द्वयोः किम् गतम् एतत् इयता सूत्रेण आहोस्वित् अन्यतरस्मिन् पक्षे भूयः सूत्रम् कर्तव्यम् ।

२३ - ४३ - गतम् इति आह ।

२४ - ४३ - कथम् ।

२५ - ४३ - यद तावत् बहूनाम् संयोगस्ञ्ज्ञा तदा एवम् विग्रहः करिष्यते अविद्यमानम् अन्तरम् एषाम् इति ।

२६ - ४३ - यदा द्वयोः द्वयोः तदा एवम् विग्रहः करिष्यते अविद्यमानाः अन्तरा एषाम् इति ।

२७ - ४३ - द्वयोः च एव अन्तरा कः चित् विद्यते न वा ।

२८ - ४३ - एवम् अपि बहूनाम् एव प्राप्नोति ।

२९ - ४३ - यान् हि भवान् षष्ठ्या प्रतिनिर्दिशति एतेषाम् अन्येन व्यवाये न भवितव्यम् ।

३० - ४३ - अस्तु तर्हि समुदाये सञ्ज्ञा ।

३१ - ४३ - ननु च उक्तम् समुदाये संयोगादिलोपः मस्जेः इति ।

३२ - ४३ - न एषः दोषः ।

३३ - ४३ - वक्ष्यति एतत् ।

३४ - ४३ - अन्त्यात् पूर्वः मस्जेः मित् अनुषङ्गसंयोगादिलोपार्थम् इति ।

३५ - ४३ - अथ वा अविशेषेण संयोगसञ्ज्ञा विज्ञास्यते द्वयोः अपि बहूनाम् अपि ।

३६ - ४३ - तत्र द्वयोः या संयोगस्ञ्ज्ञा तदाश्रयः लोपः भविष्यति ।

३७ - ४३ - यत् अपि उच्यते इह च निर्ग्लेयात् , निर्ग्लायात् , निर्म्लेयात् , निर्म्लायात् वा अन्यस्य संयोगादेः इति एत्त्वम् न प्राप्नोति इति अङ्गेन संयोगादिम् विशेषयिष्यामः ।

३८ - ४३ - अङ्गस्य संयोगादेः इति ।

३९ - ४३ - एवम् तावत् सर्वम् आङ्गम् परिहृतम् ।

४० - ४३ - यत् अपि उच्यते इह च गोमान् करोति यवमान् करोति इति संयोगान्तस्य लोपः इति लोपः न प्राप्नोति इति पदेन संयोगान्तम् विशेषयिष्यामः ।

४१ - ४३ - पदस्य संयोगान्तस्य ।

४२ - ४३ - यत् अपि उच्यते इह च निर्ग्लानः , निर्म्लानः इति संयोगादेः आतः धातोः यण्वतः इति निष्ठानत्वम् न प्राप्नोति इति धातुन संयोगादिम् विशेषयिष्यामः ।

४३ - ४३ - धातोः संयोगादेः इति

१ - ४२ - स्वरानन्तर्हितवचनम् ।

२ - ४२ - स्वरैः अनन्तर्हिताः हलः संयोगसञ्ज्ञाः भवन्ति इति वक्तव्यम् ।

३ - ४२ - किम् प्रयोजनम् ।

४ - ४२ - व्यवहितानाम् मा भूत् ।

५ - ४२ - पचति पनसम् ।

६ - ४२ - ननु च अनन्तराः इति उच्यते ।

७ - ४२ - तेन व्यवहितानाम् न भविष्यति ।

८ - ४२ - दृष्टम् आनन्तर्यम् व्यवहिते ।

९ - ४२ - व्यवहिते अपि अनन्तरशब्दः दृश्यते ।

१० - ४२ - तत् यथा अनन्तरौ इमौ ग्रामौ इति उच्यते ।

११ - ४२ - तयोः च एव अन्तरा नद्यः च पर्वताः च भवन्ति ।

१२ - ४२ - यदि तर्हि व्यवहिते अपि अनन्तरशब्दः भवति आनन्तर्यवचनम् इदानीम् किमर्थम् स्यात् ।

१३ - ४२ - आनन्तर्यवचनम् किमर्थम् इति चेत् एकप्रतिषेधार्थम् ।

१४ - ४२ - एकस्य हलः संयोगसञ्ज्ञा मा भूत् इति ।

१५ - ४२ - किम् च स्यात् यदि एकस्य हलः संयोगसञ्ज्ञा स्यात् ।

१६ - ४२ - इयेष , उवोष ।

१७ - ४२ - इजादेः च गुरुमतः अनृच्छः इति आम् प्रसज्येत ।

१८ - ४२ - न वा अतज्जातीयव्यवायात् ।

१९ - ४२ - न वा एषः दोषः ।

२० - ४२ - किम् कारणम् ।

२१ - ४२ - अतज्जातीयस्य व्यवायात् ।

२२ - ४२ - अतज्जातीयकम् हि लोके व्यवधायकम् भवति ।

२३ - ४२ - कथम् पुनः ज्ञायते अतज्जातीयकम् लोके व्यवधायकम् भवति इति ।

२४ - ४२ - एवम् हि कम् चित् कः चित् पृच्छति ।

२५ - ४२ - अनन्तरे* एते ब्राह्मणकुले* इति ।

२६ - ४२ - सः आह ।

२७ - ४२ - न अनन्तरे ।

२८ - ४२ - वृषलकुलम् अनयोः अन्तरा इति ।

२९ - ४२ - किम् पुनः कारणम् क्व चित् अतज्जातीयकम् व्यवधायकम् भवति क्व चित् न ।

३० - ४२ - सर्वत्र एव हि अतज्जातीयकम् व्यवधायकम् भवति ।

३१ - ४२ - कथम् अनन्तरौ इमौ ग्रामौ इति ।

३२ - ४२ - ग्रामशब्दः अयम् बह्वर्थः ।

३३ - ४२ - अस्ति एव शालासमुदाये वर्तते ।

३४ - ४२ - तत् यथा ग्रामः दग्धः इति ।

३५ - ४२ - अस्ति वाटपरिक्षेपे वर्तते ।

३६ - ४२ - तत् यथा ग्रामम् प्रविष्टः ।

३७ - ४२ - अस्ति मनुष्येषु वर्तते ।

३८ - ४२ - तत् यथा ग्रामः गतः , ग्रामः आगतः इति ।

३९ - ४२ - अस्ति सारण्यके ससीमके सस्थण्डिलके वर्तते ।

४० - ४२ - तत् यथा ग्रामः लब्धः इति ।

४१ - ४२ - तत् यः सारण्यके ससीमके सस्थण्डिलके वर्तते तम् अभिसमीक्ष्य एतत् प्रयुज्यते अनन्तरौ इमौ ग्रामौ इति ।

४२ - ४२ - सर्वत्र एव हि अतज्जातीयकम् व्यवधायकम् भवति ।

१ - ११ - किम् इदम् मुखनासिकावचनः इति ।

२ - ११ - मुखम् च नासिका च मुखनासिकम् ।

३ - ११ - मुखनासिकम् वचनम् अस्य सः अयम् मुखनासिकावचनः ।

४ - ११ - यदि एवम् मुखनासिकवचनः इति प्राप्नोति ।

५ - ११ - निपातनात् दीर्घत्वम् भविष्यति ।

६ - ११ - अथ वा मुखनासिकम् आवचनम् अस्य सः अयम् मुखनासिकावचनः ।

७ - ११ - किम् इदम् आवचनम् इति ।

८ - ११ - ईषद्वचनम् आवचनम् ।

९ - ११ - किम् चित् मुखवचनम् किम् चित् नासिकावचनम् ।

१० - ११ - मुखद्वितीया वा नासिका वचनम् अस्य सः अयम् मुखनासिकावचनः ।

११ - ११ - मुखोपसंहिता वा नासिका वचनम् अस्य सः अयम् मुखनासिकावचनः ।

१ - २० - अथ मुखग्रहणम् किमर्थम् ।

२ - २० - नासिकावचनः अनुनासिकः इति इयति उच्यमाने यमानुस्वाराणाम् एव प्रसज्येत ।

३ - २० - मुखग्रहणे पुनः क्रियमाणे न दोषः भवति ।

४ - २० - अथ नासिकाग्रहणम् किमर्थम् ।

५ - २० - मुखवचनः अनुनासिकः इति इयति उच्यमाने कचटतपानाम् एव प्रसज्येत ।

६ - २० - नासिकाग्रहणे पुनः क्रियमाणे न दोषः भवति ।

७ - २० - मुखग्रहणम् शक्यम् अकर्तुम् ।

८ - २० - केन इदानीम् उभयवचनानाम् भविष्यति ।

९ - २० - प्रासादवासिन्यायेन ।

१० - २० - तत् यथा ।

११ - २० - के चित् प्रासादवासिनः के चित् भूमिवासिनः के चित् उभयवासिनः ।

१२ - २० - ये प्रासादवासिनः गृह्यन्ते ते प्रासादवासिग्रहणेन ।

१३ - २० - ये भूमिवासिनः गृह्यन्ते ते भूमिवासिन्यायेन ।

१४ - २० - ये उभयवासिनः गृह्यन्ते ते प्रासादवासिग्रहणेन भूमिवासिन्यायेन च ।

१५ - २० - एवम् इह अपि के चित् मुखवचनाः के चित् नासिकावचनाः के चित् उभयवचनाः ।

१६ - २० - तत्र ये मुखवचनाः गृह्यन्ते ते मुखग्रहणेन ।

१७ - २० - ये नासिकावचनाः गृह्यन्ते ते नासिकाग्रहणेन ।

१८ - २० - ये उभयवचनाः गृह्यन्ते एव ते मुखग्रहणेन नासिकाग्रहणेन च. भवेत् उभयवचनानाम् सिद्धम् ।

१९ - २० - यमानुस्वाराणाम् अपि प्राप्नोति ।

२० - २० - न एव दोषः न प्रयोजनम् ।

१ - १८ - इतरेतराश्रयम् तु भवति ।

२ - १८ - का इतरेतराश्रयता ।

३ - १८ - सतः अनुनासिकस्य सञ्ज्ञया भवितव्यम् सञ्ज्ञया च नाम अनुनासिकः भाव्यते ।

४ - १८ - तत् इतरेतराश्रयम् भवति ।

५ - १८ - इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते ।

६ - १८ - अनुनासिकसञ्ज्ञायाम् इतरेतराश्रये उक्तम् ।

७ - १८ - सिद्धम् तु नित्यशब्दत्वात् इति ।

८ - १८ - नित्याः शब्दाः ।

९ - १८ - नित्येषु शब्देषु सतः अनुनासिकस्य सञ्ज्ञा क्रियते ।

१० - १८ - न सञ्ज्ञया अनुनासिकः भाव्यते ।

११ - १८ - यदि तर्हि नित्याः शब्दाः किमर्थम् शास्त्रम् ।

१२ - १८ - किमर्थम् शास्त्रम् इति चेत् निवर्तकत्वात् सिद्धम् ।

१३ - १८ - निवर्तकम् शास्त्रम् ।

१४ - १८ - कथम् ।

१५ - १८ - आङ् अस्मै अविशेषेण उपदिष्टः अननुनासिकः ।

१६ - १८ - तस्य सर्वत्र अननुनासिकबुद्धिः प्रसक्ता ।

१७ - १८ - तत्र अनेन निवृत्तिः क्रियते ।

१८ - १८ - छन्दसि अचि परतः आङः अननुनासिकस्य प्रसङ्गे अनुनासिकः साधुः भवति इति ।

१ - १४ - तुलया सम्मितम् तुल्यम् ।

२ - १४ - आस्यम् च प्रयत्नः च आस्यप्रयत्नम् ।

३ - १४ - तुल्यास्यम् तुल्यप्रयत्नम् च सवर्णसञ्ज्ञम् भवति ।

४ - १४ - किम् पुनः आस्यम् ।

५ - १४ - लौकिकम् आस्यम् ओष्ठात् प्रभृति प्राक् काकलकात् ।

६ - १४ - कथम् पुनः आस्यम् ।

७ - १४ - अस्यन्ति अनेन वर्णान् इति आस्यम् ।

८ - १४ - अन्नम् एतत् आस्यन्दते इति वा आस्यम् ।

९ - १४ - अथ कः प्रयत्नः ।

१० - १४ - प्रयतनम् प्रयत्नः ।

११ - १४ - प्रपूर्वात् यततेः भावसाधनः नङ्प्रत्ययः ।

१२ - १४ - यदि लौकिकम् आस्यम् किम् आस्योपादाने प्रयोजनम् ।

१३ - १४ - सर्वेषाम् हि तत् तुल्यम् भवति ।

१४ - १४ - वक्ष्यति एतत् प्रयत्नविशेषणम् आस्योपादानम् इति ।

१ - ६९ - सवर्णसञ्ज्ञायाम् भिन्नदेशेषु अतिप्रसङ्गः प्रयत्नसामान्यात् ।

२ - ६९ - सवर्णसञ्ज्ञायाम् भिन्नदेशेषु अतिप्रसङ्गः भवति जबगडदशाम् ।

३ - ६९ - किम् कारणम् ।

४ - ६९ - प्रयत्नसामान्यात् ।

५ - ६९ - एतेषाम् हि समानः प्रयत्नः ।

६ - ६९ - सिद्धम् तु आस्ये तुल्यदेशप्रयत्नम् सवर्णम् ।

७ - ६९ - सिद्धम् एतत्. कथम् ।

८ - ६९ - आस्ये येषाम् तुल्यः देशः यत्नः च ते सवर्णसञ्ज्ञाः भवन्ति इति वक्तव्यम् ।

९ - ६९ - एवम् अपि किम् आस्योपादाने प्रयोजनम् ।

१० - ६९ - सर्वेषाम् हि तत् तुल्यम् ।

११ - ६९ - प्रयत्नविशेषणम् आस्योपादानम् ।

१२ - ६९ - सन्ति हि आस्यात् बाह्याः प्रयत्नाः ।

१३ - ६९ - ते हापिताः भवन्ति ।

१४ - ६९ - तेषु सत्सु असत्सु अपि सवर्णसञ्ज्ञा सिध्यति ।

१५ - ६९ - के पुनः ते ।

१६ - ६९ - विवारसंवारौ श्वासनादौ घोषवदघोषता अल्पप्राणता महाप्राणता इति ।

१७ - ६९ - तत्र वर्गाणाम् प्रथमद्वितीयाः विवृतकण्ठाः श्वासानुप्रदानाः अघोषाः ।

१८ - ६९ - एके अल्पप्राणाः अपरे महाप्राणाः ।

१९ - ६९ - तृतीयचतुर्थाः संवृतकण्ठाः नादानुप्रदानाः घोषवन्तः ।

२० - ६९ - एके अल्पप्राणाः अपरे महाप्राणाः ।

२१ - ६९ - यथा तृतीयाः तथा पञ्चमाः आनुनासिक्यवर्जम् ।

२२ - ६९ - आनुनासिक्यम् तेषाम् अधिकः गुणः ।

२३ - ६९ - एवम् अपि अवर्णस्य सवर्णसञ्ज्ञा न प्राप्नोति ।

२४ - ६९ - किम् कारणम् ।

२५ - ६९ - बाह्यम् हि आस्यात् स्थानम् अवर्णस्य ।

२६ - ६९ - सर्वमुखस्थानम् अवर्णम् एके इच्छन्ति ।

२७ - ६९ - एवम् अपि व्यपदेशः न प्रकल्पते आस्ये येषाम् तुल्यः देशः इति ।

२८ - ६९ - व्यपदेशिवद्भावेन व्यपदेशः भविष्यति ।

२९ - ६९ - सिध्यति ।

३० - ६९ - सूत्रम् तर्हि भिद्यते ।

३१ - ६९ - यथान्यासम् एव अस्तु ।

३२ - ६९ - ननु च उक्तम् सवर्णसञ्ज्ञयाम् भिन्नदेशेषु अतिप्रसङ्गः प्रयत्नसामान्यात् इति ।

३३ - ६९ - न एषः दोषः ।

३४ - ६९ - न हि लौकिकम् आस्यम् ।

३५ - ६९ - किम् तर्हि ।

३६ - ६९ - तद्धितान्तम् आस्यम् आस्ये भवम् आस्यम् ।

३७ - ६९ - शरीरावयवात् यत् ।

३८ - ६९ - किम् पुनः आस्ये भवम् ।

३९ - ६९ - स्थानम् करणम् च ।

४० - ६९ - एवम् अपि प्रयत्नः अविशेषितः भवति ।

४१ - ६९ - प्रयत्नः च विशेषितः ।

४२ - ६९ - कथम् ।

४३ - ६९ - न हि प्रयतनम् प्रयत्नः ।

४४ - ६९ - किम् तर्हि ।

४५ - ६९ - प्रारम्भः यत्नस्य प्रयत्नः ।

४६ - ६९ - यदि प्रारम्भः यत्नस्य प्रयत्नः एवम् अपि अवर्णस्य एङोः च सवर्णसञ्ज्ञा प्राप्नोति ।

४७ - ६९ - प्रश्लिष्टवर्णौ एतौ ।

४८ - ६९ - अवर्णस्य तर्हि ऐचोः च सवर्णसञ्ज्ञा प्राप्नोति ।

४९ - ६९ - विवृततरावर्णौ एतौ ।

५० - ६९ - एतयोः एव तर्हि मिथः सवर्णसञ्ज्ञा प्राप्नोति ।

५१ - ६९ - न एतौ तुल्यस्थानौ ।

५२ - ६९ - उदात्तादीनाम् तर्हि सवर्णसञ्ज्ञा न प्राप्नोति ।

५३ - ६९ - अभेदकाः उदात्तादयः ।

५४ - ६९ - अथ वा किम् नः एतेन प्रारम्भः यत्नस्य प्रयत्नः इति ।प्रयतनम् एव प्रयत्नः ।

५५ - ६९ - तत् एव च तद्धितान्तम् आस्यम् ।

५६ - ६९ - यत् समानम् तत् आश्रयिष्यामः ।

५७ - ६९ - किम् सति भेदे ।

५८ - ६९ - सति इति आह ।

५९ - ६९ - सति एव हि भेदे सवर्णसञ्ज्ञया भवितव्यम् ।

६० - ६९ - कुतः एतत् ।

६१ - ६९ - भेदाधिष्ठाना हि सवर्णसञ्ज्ञा ।

६२ - ६९ - यदि हि यत्र सर्वम् समानम् तत्र स्यात् सवर्णसञ्ज्ञावचनम् अनर्थकम् स्यात् ।

६३ - ६९ - यदि तर्हि सति भेदे किम् चित् समानम् इति कृत्व सवर्णसञ्ज्ञा भविष्यति शकारछकारयोः षकारठकारहोः सकारथकारयोः सवर्णसञ्ज्ञा प्राप्नोति ।

६४ - ६९ - एतेषाम् हि सर्वम् अन्यत् समानम् करणवर्जम् ।

६५ - ६९ - एवम् तर्हि प्रयतनम् एव प्रयत्नः तत् एव तद्धितान्तम् आस्यम् न तु अयम् द्वन्द्वः आस्यम् च प्रयत्नः च आस्यप्रयत्नम् इति ।

६६ - ६९ - किम् तर्हि ।

६७ - ६९ - त्रिपदः बहुव्रीहिः तुल्यः आस्ये प्रयत्नः एषाम् इति ।

६८ - ६९ - अथ वा पूर्वः तत्पुरुषः ततः बहुव्रीहिः तुल्यः आस्ये तुल्यास्यः , तुल्यास्यः प्रयत्नः एषाम् इति ।

६९ - ६९ - अथ वा परः तत्पुरुषः ततः बहुव्रीहिः आस्ये यत्नः आस्ययत्नः , तुल्यः आस्ययत्नः एषाम् इति ।

१ - १६ - तस्य ।

२ - १६ - तस्य इति तु वक्तव्यम् ।

३ - १६ - किम् प्रयोजनम् ।

४ - १६ - यः यस्य तुल्यास्यप्रयत्नः सः तस्य सवर्णसञ्ज्ञः यथा स्यात् ।

५ - १६ - अन्यस्य तुल्यास्यप्रयत्नः अन्यस्य सवर्णसञ्ज्ञः मा भूत् ।

६ - १६ - तस्य अवचनम् वचनप्रामाण्यात् ।

७ - १६ - तस्य इति न वक्तव्यम् ।

८ - १६ - अन्यस्य तुल्यास्यप्रयत्नः अन्यस्य सवर्णसञ्ज्ञः कस्मात् न भवति ।

९ - १६ - वचनप्रामाण्यात् सवर्णसञ्ज्ञावचनसामर्थ्यात् ।

१० - १६ - यदि हि अन्यस्य तुल्यास्यप्रयत्नः सः अन्यस्य सवर्णसञ्ज्ञः स्यात् सवर्णसञ्ज्ञावचनम् अनर्थकम् स्यात् ।

११ - १६ - सम्बन्धिशब्दैः वा तुल्यम् ।

१२ - १६ - सम्बन्धिशब्दैः वा पुनः तुल्यम् एतत् ।

१३ - १६ - तत् यथा सम्बन्धिशब्दाः मातरि वर्तितव्यम् , पितरि शुश्रूषितव्यम् इति ।

१४ - १६ - न च उच्यते स्वस्याम् मातरि स्वस्मिन् वा पितरि इति सम्बन्धात् च एतत् गम्यते या यस्य माता यः च यस्य पिता इति ।

१५ - १६ - एवम् इह अपि तुल्यास्यप्रयत्नम् सवर्णम् इति अत्र सम्बन्दिशब्दौ एतौ ।

१६ - १६ - तत्र सम्बन्धात् एतत् गन्तव्यम् यत् प्रति यत् तुल्यास्यप्रयत्नम् तत् प्रति तत् सवर्णसञ्ज्ञम् भवति इति ।

१ - ३७ - ऋकारल्̥कारयोः सवर्णविधिः ।

२ - ३७ - ऋकारल्̥कारयोः सवर्णसञ्ज्ञा विधेया ।

३ - ३७ - होतृ , ल्̥कारः , होतृ̄ल्̥कारः ।

४ - ३७ - किम् प्रयोजनम् ।

५ - ३७ - अकः सवर्णे दीर्घः इति दीर्घत्वम् यथा स्यात् ।

६ - ३७ - न एतत् अस्ति प्रयोजनम् ।

७ - ३७ - वक्ष्यति एतत् ।

८ - ३७ - सवर्णदीर्घत्वे ऋति , रृवावचनम् ल्̥ति , ल्ल्̥वावचनम् इति ।

९ - ३७ - तत् सवर्णे यथा स्यात् ।

१० - ३७ - इह मा भूत् दधि , ल्̥कारः , मधु , ल्̥कारः इति ।

११ - ३७ - यत् एतत् सवर्णदीर्घत्वे ऋति इति एतत् ऋतः इति वक्ष्यामि ।

१२ - ३७ - ततः ल्̥ति ।

१३ - ३७ - ल्̥ति च वा ल्ल्̥ भवति ।

१४ - ३७ - ऋतः इति एव ।

१५ - ३७ - तत् न वक्तव्यम् भवति ।

१६ - ३७ - अवश्यम् तत् वक्तव्यम् ।

१७ - ३७ - ऊकालः अच् ह्रस्वर्दीर्घप्लुतसञ्ज्ञः भवति इति उच्यते ।

१८ - ३७ - न च रृकारः ल्ल्̥कारः वा अच् अस्ति ।

१९ - ३७ - रृकारस्य , ल्ल्̥कारस्य च अच्त्वम् वक्ष्यामि ।

२० - ३७ - तत् च अवश्यम् वक्तव्यम् प्लुतः यथा स्यात् होतृ , ऋकारः होतृ̄कारः , होतृ३कारः , होतृ , ल्̥कारः , होत्ल्̥कारः , होत्ल्̥३कारः ।

२१ - ३७ - किम् पुनः अत्र ज्यायः ।

२२ - ३७ - सवर्णसञ्ज्ञावचनम् एव ज्यायः ।

२३ - ३७ - दीर्घत्वम् च एव हि सिद्धम् भवति. अपि च ऋकारग्रहणे ल्̥कारग्रहणम् सन्निहितम् भवति ।

२४ - ३७ - यथा इह भवति ऋति अकःखट्व ऋश्यः , माल ऋश्यः इदम् अपि सङ्गृहीतम् बहवति खट्व , ल्̥कारः, माल , ल्̥कारः इति ।

२५ - ३७ - वा सुपि आपिशलेः उपर्कारीयति , उपार्कारीयति , इदम् अपि सिद्धम् भवति उपल्कारीयति, उपाल्कारीयति इति ।

२६ - ३७ - यदि तर्हि ऋकारग्रहणे ल्̥कारग्रहणम् सन्निहितम् भवति उः अण् रपरः , ल्̥कारस्य अपि रपरत्वम् प्राप्नोति ।

२७ - ३७ - ल्̥कारस्य लपरत्वम् वक्ष्यामि ।

२८ - ३७ - तत् च अवश्यम् वक्तव्यम् असत्याम् सवर्णसञ्ज्ञायाम् विध्यर्थम् ।

२९ - ३७ - तत् एव सत्याम् रेफबाधनार्थम् भविष्यति ।

३० - ३७ - इह तर्हि रषाभ्याम् नः णः समानपदे इति ऋकारग्रहणम् चोदितम् मातृ̄णाम् , पितृ̄णाम् इति एवमर्थम् ।

३१ - ३७ - तत् इह अपि प्राप्नोति क्ल्̥प्यमानम् पश्य इति ।

३२ - ३७ - अथ असत्याम् अपि सवर्णसञ्ज्ञायाम् इह कस्मात् न भवति प्रक्ल्̥प्यमानम् पश्य इति ।

३३ - ३७ - चुटुतुलशर्व्यवाये न इति वक्ष्यामि ।

३४ - ३७ - अपरः आह त्रिभिः च मध्यमैः वर्गैः लशसैः च व्यवाये न इति वक्ष्यामि इति ।

३५ - ३७ - वर्णैकदेशाः च वर्णग्रहणेन गृह्यन्ते इति यः असौ ल्̥कारे लकारः तदाश्रयः प्रतिषेधः भविष्यति ।

३६ - ३७ - यदि एवम् न अर्थः रषाभ्याम् णत्वे ऋकारग्रहणेन ।

३७ - ३७ - वर्णैकदेशाः च वर्णग्रहणेन गृह्यन्ते इति यः असौ ऋकारे रेफः तदाश्रयम् णत्वम् भविष्यति ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP