TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

विग्रहः - कथा ९

हितोपदेश भारतीय जन- मानस तथा परिवेश से प्रभावित उपदेशात्मक कथाएँ हैं। हितोपदेश की कथाएँ अत्यंत सरल व सुग्राह्य हैं।


कथा ९
अस्त्य् अयोध्यायां पुरि चूडामणिर् नाम क्षत्रियः । तेन धनार्थिना महता क्लेशेन भगवांश् चंद्रार्ध-चूडामणिश् चिरम् आराधितः । ततः क्षीण-पापो सौ स्वप्ने दर्शनं दत्त्वा, भगवद्-आदेशाद्य्-अक्षेश्वरेणादिष्टो यत् त्वम् अद्य प्रातः क्षौरं कारयित्वा, लगुड-हस्तः सन् स्व-गृह-द्वारि निभृतं स्थास्यसि, ततो यम् एवागतं भिक्षुकं प्रांगणे पश्यसि तं निर्दक्षं लगुड-प्रहारेण हनिष्यसि । ततो सौ भिक्षुकस् तत्-क्षणात् सुवर्ण-कलसो भविष्यति । तेन त्वया यावज्-जीवं सुखिना भवितव्यम् । ततस् तथानुष्ठिते तद् वृत्तम् ।
तत्र क्षौर-करणायानीतेन नापितेन तत् सर्वम् आलोक्य चिंतितम्-अये निधि-प्राप्तेर् अयम् उपायः । तद् अहम् अप्य् एवं किं न करोमि ? ततः प्रभृति स नापितः प्रत्यहं तथाविधो लगुड-हस्तः सुनिभृतं भिक्षोर् आगमनं प्रतीक्षते । एकदा तेन प्राप्तो भिक्षुर् लगुडेन व्यापादितः । तस्माद् अपराधात् सो पि नापितो राज-पुरुषैर् व्यापादितः । अतो हं ब्रवीमि-पुण्याल् लब्धं यद् एकेन इत्य् आदि ।

राजाह- पुरावृत्त-कथोद्गारैः कथं निर्णीयते परः । स्यान् निष्कारण-बंधुर् वा किं वा विश्वास-घातकः ॥१०८॥
यातु, प्रस्तुतम् अनुसंधीयताम् । मलयाधित्यकायां चेच् चित्रवर्णस् तद् अधुना किं विधेयम् ? मंत्री वदति-देव ! आगत-प्रणिधि-मुखान् मया श्रुतं, यत् महा-मंत्रिणो गृध्रस्योपदेशे चित्रवर्णेनानादरः कृतः ततो सौ मूढो जेतुं शक्यः । तथा चोक्तम्-
लुब्धः क्रूरो लसो सत्यः प्रमादी भीरुर् अस्थिरः । मूढो योधावमंता च सुख-च्छेद्यो रिपुः स्मृतः ॥१०९॥
ततो सौ यावद् अस्मद् दुर्ग-द्वार-रोधं न करोति, तावन् नद्य्-अद्रि-वन-वर्त्मसु तद्-बलानि हंतुं सारसादयः सेनापतयो नियुज्यंताम् । तथा चोक्तम्-
दीर्घ-वर्त्म-परिश्रांतं नद्य्-अद्रि-वन-संकुलम् । घोराग्नि-भय-संत्रस्तं क्षुत्-पिपासार्दितं तथा ॥११०॥प्रमत्तं भोजन-व्यग्रं व्याधि-दुर्भिक्ष-पीडितम् । असंस्थितम् अभूयिष्ठं वृष्टि-वात-समाकुलम् ॥१११॥पंक-पांशु-जलाच्छन्नं सुव्यस्तं दस्यु-विद्रुतम् । एवंभूतं महीपालः पर-सैंयं विघातयेत् ॥११२॥
अंयच् च- अवस्कंद-भयाद् राजा प्रजागर-कृत-श्रमम् । दिवा-सुप्तं सदा हंयान् निद्रा-व्याकुल-सैनिकम् ॥११३॥
अतस् तस्य प्रमादितो बलं गत्वा यथावकाशं दिवा-निशं घ्नंत्व् अस्मत्-सेनापतयः । तथानुष्ठिते चित्रवर्णस्य सैनिकाः सेनापतयश् च बहवो निहताः । ततश् चित्रवर्णो विषंणः स्व-मंत्रिणं दूर-दर्शिनम् आह-तात ! किम् इत्य् अस्मद्-उपेक्षा क्रियते ? किं क्वाप्य् अविनयो ममास्ति ? तथा चोक्तम्-
न राज्यं प्राप्तम् इत्य् एव वर्तितव्यम् असांप्रतम् । श्रियं ह्य् अविनयो हंति जरा रूपम् इवोत्तमम् ॥११४॥
अपि च- दक्षः श्रियम् अधिगच्छति पथ्य् आशी कल्यतां सुखम् अरोगी । उद्युक्तो वियांतं धर्मार्थ-यशांसि च विनीतः ॥११५॥
गृध्रो वदत्-देव ! शृणु- अविद्वान् अपि भू-पालो विद्या-वृढोपसेवया । परां श्रियम् अवाप्नोति जलासन्न-तरुर् यथा ॥११६॥
अंयच् च- पापं स्त्री मृगया द्यूतम् अर्थ-दूषणम् एव च । वाग्-दंडयोश् च पारुष्यं व्यसनानि महीभुजाम् ॥११७॥
किं च- न साहसैकांत-रसानुवर्तिना न चाप्य् उपायोपहतांतरात्मना । विभूतयः शक्यम् अवाप्तुम् ऊर्जिता नये च शौर्ये च वसंति संपदः ॥११८॥
त्वया स्व-बलोत्साहम् अवलोक्य, साहसैक-रसिकेन मयोपंथस् तेष्व् अपि मंत्रेष्व् अनवधानं, वाक्-पारुष्यं च कृतम् । अतो दुर्नीतेः फलम् इदम् अनुभूयते । तथा चोक्तम्- दुर्मंत्रिणं कम् उपयांति न नीति-दोषाः ? संतापयंति कम् अपथ्य-भुजं न रोगाः ? कं श्रीर् न दर्पयति कं न निहंति मृत्युः कं स्त्री-कृता न विषयाः परितापयंति ॥११९॥
अपरं च- मुदं विषादः शरदं हिमागमस् तमो विवस्वान् सुकृतं कृतघ्नता । प्रियोपपत्तिः शुचम् आपदं नयः श्रियः समृढा अपि हंति दुर्नयः ॥१२०॥
ततो मयाप्य् आलोचितम्-प्रज्ञा-हीनो यं राजा । न चेत् कथं नीति-शास्त्र-कथा-कौमुदीं वाग्-उल्काभिस् तिमिरयति । यतः-
यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् ? लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति ॥१२१॥
इत्य् आलोच्याहम् अपि तूष्णीं स्थितः । अथ राजा बढाञ्जलिर् आह-तात ! अस्त्य् अयं ममापराधः, इदानीं यथाहम् अवशिष्ट-बल-सहितः प्रत्यावृत्त्य विंध्याचलं गच्छामि, तथोपदिश ।
गृध्रः स्वगतं चिंतयति-क्रियताम् अत्र प्रतीकारः । यतः,
देवतासु गुरौ गोषु राजसु ब्राह्मणेषु च । नियंतव्यः सदा कोपो बाल-वृढातुरेषु च ॥१२२॥
मंत्री प्रहस्य ब्रूते-देव मा भैषीः । समाश्वसिहि । शृणु देव-
मंत्रिणां भिन्न-संधाने भिषजां सांनिपातिके । कर्मणि व्यज्यते प्रज्ञा सुस्थे को वा न पंडितः ॥१२३॥
अपरं च- आरंभंतेल्पम् एवाज्ञाः कामं व्यग्रा भवंति च । महारंभाः कृत-धियस् तिष्ठंति च निराकुलाः ॥१२४॥
तद् अत्र भवत्-प्रतापाद् एव दुर्गं भंक्त्वा, कीर्ति-प्रताप-सहितं त्वाम् अचिरेण कालेन विंध्याचलं नेष्यामि ।
राजाह-कथम् अधुना स्वल्प-बलेन तत् संपद्यते ?
गृध्रो वदति-देव ! सर्वं भविष्यति । यतो विजिगीषोर् अदीर्घ-सूत्रता विजय-सिढेर् अवश्यंभावि लक्षणम् । तत् सहसैव दुर्ग-द्वारावरोधः क्रियताम् ।
अथ प्रहित-प्रणिधिना बकेनागत्य हिरण्यगर्भस्य कथितम्-देव ! स्वल्प-बल एवायं राजा चित्रवर्णो गृध्रस्य वचनोपष्टंभाद् आगत्य दुर्ग-द्वारावरोधं करिष्यति ।
राजहंसो ब्रूते-स्व-बले सारासार-विचारः क्रियताम् । तज् ज्ञात्वा सुवर्ण-वस्त्रादिकं यथार्हं प्रसाद-प्रदानं च क्रियताम् । यतः-
यः काकिणीम् अप्य् अपथ-प्रपन्नां समुढरेन् निष्क-सहस्र-तुल्याम् । कालेषु कोटिष्व् अपि मुक्त-हस्तस् तं राज-सिंहं न जहाति लक्ष्मीः ॥१२५॥
अंयच् च- क्रतौ विवाहे व्यसने रिपु-क्षये यशस्करे कर्मणि मित्र-संग्रहे । प्रियासु नारीष्व् अधनेषु बांधवेष्व् अतिव्ययो नास्ति नराधिपाष्टसु ॥१२६॥
यतः- मूर्खः स्वल्प-व्यय-त्रासात् सर्वनाशं करोति हि । कः सुधीः संत्यजेद् भांडं शुक्लस्यैवातिसाध्वसात् ॥१२७॥
राजाह-कथम् इह समयेतिव्ययो युज्यते ? उक्तं च-आपद्-अर्थे धनं रक्षेद् इति ।
मंत्री ब्रूते-श्रीमतां कथम् आपदः ?
राजाह-कदाचिच् चलिता लक्ष्मीः ।
मंत्री ब्रूते-सञ्चितापि विनश्यति । तद् देव ! कार्पण्यं विमुच्य स्व-भटा दान-मानाभ्यां पुरस्क्रियंताम् । तथा चोक्तम्-
परस्परज्ञाः संहृष्टास् त्यक्तुं प्राणान् सुनिश्चिताः । कुलीनाः पूजिताः सम्यग् विजयंते द्विषद्-बलम् ॥१२८॥
अपरं च- सुभटाः शील-संपन्नाः संहताः कृत-निश्चयाः । अपि पञ्च-शतं शूरा निघ्नंति रिपु-वाहिनीम् ॥१२९॥
किं च- शिष्टैर् अप्य् अवशेषज्ञ उग्रश् च कृत-नाशकः । त्यज्यते किं पुनर् नांयैर् यश् चाप्य् आत्मंभरिर् नरः ॥१३०॥
यतः- सत्यं शौर्यं दया त्यागो नृपस्यैते महा-गुणाः । एतैस् त्यक्तो महीपालः प्राप्नोति खलु वाच्यताम् ॥१३१॥
ईदृशि प्रस्तावेमात्यास् तावद् अवश्यम् एव पुरस्कर्तव्याः । तथा चोक्तम्-
यो येन प्रतिबढः स्यात् सह तेनोदयी व्ययी । स विश्वस्तो नियोक्तव्यः प्राणेषु च धनेषु च ॥१३२॥
यतः- धूर्तः स्त्री वा शिशुर् यस्य मंत्रिणः स्युर् महीपतेः । अनीति-पवन-क्षिप्तो कार्याब्धौ स निमज्जति ॥१३३॥
शृणु देव! - हर्ष-क्रोधौ यतौ यस्य शास्त्रार्थे प्रत्ययस् तथा । नित्यं भृत्यानुपेक्षा च तस्य स्याद् धनदा धरा ॥१३४॥येषां राज्ञा सह स्याताम् उच्चयापचयौ ध्रुवम् । अमात्या इति तान् राजा नावमंयेत् कदाचन ॥१३५॥महीभुजो मदांधस्य संकीर्णस्येव दंतिनः । स्खलतो हि करालंबः सुशिष्टैर् एव कीयते ॥१३६॥
अथागत्य प्रणम्य मेघवर्णो ब्रूते-देव ! दृष्टि-प्रसादं कुरु । इदानीं विपक्षो दुर्ग-द्वारि वर्तते । तद् देव-पादादेशाद् बहिर् निःसृत्य स्व-विक्रमं दर्शयामि । तेन देव-पादानाम् आनृण्यम् उपगच्छामि ।
चक्रवाको ब्रूते-मैवम् । यदि बहिर् निःसृत्य योढव्यम् । तदा दुर्गाश्रयणम् एव निष्प्रयोजनम् । अपरं च-
विषमो पि यथा नक्रः सलिलान् निसृतो वशः । वनाद् विनिर्गतः शूरः सिंहो पि स्याच् छगालवत् ॥१३७॥
अथ ते सर्वे दुर्ग-द्वारं गत्वा महाहवं कृतवंतः । अपरेद्युश् चित्रवर्णो राजा गृध्रम् उवाच-तात ! स्व-प्रतिज्ञातम् अधुना निर्वाहय ।
वायसो ब्रूते-देव ! स्वयं गत्वा दृश्यतां युढम् । यतः-
पुरस्कृत्य बलं राजा योधयेद् अवलोकयन् । स्वामिनाधिष्ठितः श्वापि किं न सिंहायते ध्रुवम् ॥१३८॥
गृध्रो ब्रूते-देव ! शृणु तावत्-
अकाल-सहमत्य्-अल्पं मूर्ख-व्यसनि-नायकम् । अगुप्तं भीरु-योधं च दुर्ग-व्यसनम् उच्यते ॥१३९॥
तत् तावद् अत्र नास्ति-
उपजापश् चिरारोधो वस्कंदस् तीव्र-पौरुषम् । दुर्गस्य लंघनोपायाश् चत्वारः कथिता इमे ॥१४०॥
अत्र यथाशक्ति क्रियते यत्नः । कर्णे कथयति-एवम् एवम् । ततो नुदित एव भास्करे चतुर्ष्व् अपि दुर्ग-द्वारेषु प्रवृत्ते युढे, दुर्गाभ्यंतर-गृहेष्व् एकदा काकैर् अग्नि-निक्षिप्तः । ततः गृहीतं गृहीतं दुर्गम् इति कोलाहलं श्रुत्वा सर्वतः प्रदीप्ताग्निम् अवलोक्य राज-हंस-सैनिका बहवो दुर्ग-वासिनश् च सत्वरं ह्रदं प्रविष्टाः, यतः-
सुमंत्रितं सुविक्रांतं सुयुढं सुपलायितम् । कार्य-काले यथा-शक्ति कुर्यान् न तु विचारयेत् ॥१४१॥
राजा हंसश् च स्वभावान् मंद-गतिः । सारस-द्वितीयश् चित्रवर्णस्य सेनापतिना कुक्कुटेनागत्य वेष्टितः । हिरण्यगर्भः सारसम् आह-सेनापते ! सारस ! ममानुरोधाद् आत्मानं कथं व्यापादयसि । अधुनाहं गंतुम् असमर्थः । त्वं गंतुम् अधुनापि समर्थः । तद् गत्वा जलं प्रविश्यात्मानं परिरक्ष । अस्मत्-पुत्रं चूडामणि-नामानं सर्वज्ञस्य संमत्या राजानं करिष्यसि ।
सारसो ब्रूते-देव ! न वक्तव्यम् एवं दुःसहं वचः, यावच् चंद्रार्कौ दिवि तिष्ठतस् तावद् विजयतां देवः । अहं देव दुर्गाधिकारी । तन् मम मांसासृग् विलिप्तेन द्वार-वर्त्मना तावत् प्रविशतु शत्रुः । अपरं च, देव--
दाता क्षमी गुण-ग्राही स्वामी दुःखेन लभ्यते ।
राजाह-सत्यम् एवैतत् । किंतु- शुचिर् दक्षो नुरक्तश् च जाने भृत्यो पि दुर्लभः ॥१४२॥
सारसो ब्रूते-शृणु देव!
यदि समरम् अपास्य नास्ति मृत्योर् भयम् इति युक्तम् इतो ंयतः प्रयातुम् । अथ मरणम् अवश्यम् एव जंतोः किम् इति मुधा मलिनं यशः क्रियते ? ॥१४३॥
अंयच् च- भवेस्मिन् पवनोद्भ्रांत-वीचि-विभ्रम-भंगुरे । जायते पुणय्-योगेन परार्थे जीवित-व्ययः ॥१४४॥स्वाम्य्-अमात्यश् च राष्ट्रं च दुर्गं कोशो बलं सुहृत् । राज्यांगानि प्रकृतयः पौराणां श्रेणयो पि च ॥१४५॥
देव ! त्वं च स्वामी सर्वथा रक्षणीयः । यतः-
प्रकृतिः स्वामिनं त्यक्त्वा समृढापि न जीवति । अपि धंवंतरिर् वैद्यः किं करोति गतायुषि ॥१४६॥
अपरं च- नरेशे जीव-लोको यं निमीलति निमीलति । उदेत्य् उदीयमाने च रवाव् इव सरोरुहम् ॥१४७॥
अत्रापि प्रधानांगं राजा ।
अथ कुक्कुटेनागत्य राजहंसस्य शरीरे खरतर-नखाघातः कृतः । तदा सत्वरम् उपसृत्य सारसेन स्व-देहांतरितो राजा जले क्षिप्तः ।
अथ कुक्कुट-नख-प्रहार-जर्जरीकृतेनापि सारसेन कुक्कुट-सेना बहुशो हता । पश्चात् सारसो पि बहुभिः पक्षिभिः समेत्य चञ्चु-प्रहारेण विभिद्य व्यापादितः । अथ चित्रवर्णो दुर्गं प्रविश्य, दुर्गावस्थितं द्रव्यं ग्राहयित्वा वंदिभिर् जय-शब्दैर् आनंदितः स्व-स्कंधावारं जगाम ।
अथ राज-पुत्रैर् उक्तं-तस्मिन् राजहंस-पक्षे पुण्यवान् स सारस एव, येन स्व-देह-त्यागेन स्वामी रक्षितः । यतः-
जनयंति सुतान् गावः सर्वा एव गवाकृतीन् । विषाणोल्लिखित-स्कंधं काचिद् एव गवां पतिम् ॥१४८॥
विष्णुशर्मोवाच-स तावत् सत्त्व-क्रीतान् अक्षय-लोकान् विद्याधरी-परिवृत्तो नुभवतु महा-सत्त्वः । तथा चोक्तम्-
आहवेषु च ये शूराः स्वाम्य्-अर्थे त्यक्त-जीविताः । भर्तृ-भक्ताः कृतज्ञाश् च ते नराः स्वर्ग-गामिनः ॥१४९॥
यत्र तत्र हतः शूरः शत्रुभिः परिवेष्टितः । अक्षयान् लभते लोकान् यदि क्लैब्यं न गच्छति ॥१५०॥
अथ विष्णुशर्मा प्राह-विग्रहः श्रुतो भवद्भिः ।
राजपुत्रैर् उक्तम्-श्रुत्वा सुखिनो भूता वयम् ।
विष्णुशर्माब्रवीत्-अपरम् अप्य् एवम् अस्तु-
विग्रहः करि-तुरंग-पत्तिभिर् नो कदापि भवतान् महीभुजाम् । नीति-मंत्र-पवनैः समाहताः संश्रयंतु गिरि-गह्वरं द्विषः ॥१५१॥
इति श्री-नारायण-पंडित-कृते हितोपदेशे नीति-शास्त्रे विग्रहो नाम तृतीयः कथा-संग्रहः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:41.9130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

अन्हाड

  • अनाड पहा . 
RANDOM WORD

Did you know?

I need something, but I cant find it or is it not there?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.