संस्कृत सूची|संस्कृत साहित्य|कथा-संग्रहः|हितोपदेशम्|विग्रहः| कथा ५ विग्रहः आरंभः कथा १ कथा २ कथा ३ कथा ४ कथा ५ कथा ६ कथा ७ कथा ८ कथा ९ विग्रहः - कथा ५ हितोपदेश भारतीय जन- मानस तथा परिवेश से प्रभावित उपदेशात्मक कथाएँ हैं। हितोपदेश की कथाएँ अत्यंत सरल व सुग्राह्य हैं। Tags : hitopadeshakathastoryकथासंस्कृतहितोपदेश कथा ५ Translation - भाषांतर एकत्र वृक्षे काक-वर्तुकौ सुखं निवसतः । एकदा भगवतो गरुडस्य यात्रा-प्रसंगेन सर्वे पक्षिणः समुद्र-तीरं गताः । ततः काकेन सह वर्तकश् चलितः । अथ गच्छतो गोपालस्य मस्तकावस्थित-दधि-भांडाद् वारं वारं तेन काकेन दधि खाद्यते । ततो यावद् असौ दधि-भांडं भूमौ निधायोर्ध्वम् अवलोकते, तावत् तेन काक-वर्तकौ दृष्टौ । ततस् तेन दृष्टः काकः पलायितः । वर्तकः स्वभाव-निरपराधो मंद-गतिस् तेन प्राप्तो व्यापादितः । अतो हं ब्रवीमि-न गंतव्यम् इत्य् आदि ।ततो मयोक्तम्-भ्रातः शुक ! किम् एवं ब्रवीषि ? मां प्रति यथा श्रीमद्-देव-पादास् तथा भवान् अपि । शुकेनोक्तम्-अस्त्व् एवम् । किंतु,दुर्जनैर् उच्यमानानि संमतानि प्रियाण्य् अपि । अकाल-कुसुमानीव भयं संजनयंति हि ॥२४॥दुर्जनत्वं च भवतो वाक्याद् एव ज्ञातम् । यद् अनयोर् भूपालयोर् विग्रहे भवद्-वचनम् एव निदानम् । पश्य-प्रत्यक्षेपि कृते दोषे मूर्खः सांत्वेन तुष्यति । रथ-कारो निजां भार्यां सजारां शिरसाकरोत् ॥२५॥राज्ञोक्तम्--कथम् एतत् ?शुकः कथयति- N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP