विग्रहः - कथा ७

हितोपदेश भारतीय जन- मानस तथा परिवेश से प्रभावित उपदेशात्मक कथाएँ हैं। हितोपदेश की कथाएँ अत्यंत सरल व सुग्राह्य हैं।


अस्त्य् अरण्ये कश्चिच् छृगालः स्वेच्छया नगरोपांते भ्राम्यन् नीलीभांडे निपतितः । पश्चात् तत उठातुम् असमर्थः, प्रातर् आत्मानं मृतवत् संदर्श्य स्थितः । अथ नीली-भांड-स्वामिना मृति इति ज्ञात्वा, तस्मात् समुठाप्य, दूरे नीत्वासौ परित्यक्तः । तस्मात् पलायितः ।
ततो सौ वने गत्वा आत्मानं नीलप्वर्णम् अवलोक्याचिंतयत्-अहम् इदानीम् उत्तम-वर्णः । तद् अहं स्वकीयोत्कर्षं किं न साधयामि इत्य् आलोच्य शृगालान् आहूय, तेनोक्तं-अहं भगवत्या वन-देवतया स्व-हस्तेनारण्य-राज्ये सर्वौषधि-रसेनाभिषिक्तः । पश्यंतु मम वर्णम् । तद् अद्यारभ्यास्मद्-आज्ञयास्मिंन् अरण्ये व्यवहारः कार्यः ।
शृगालाश् च तं विशिष्ट-वर्णम् अवलोक्य, साष्टांग-पातं प्रणम्योचुः-यथाज्ञापयति देवः इति । अनेनैव क्रमेण सर्वेष्व् अरण्य-वासिष्व् आधिपत्यं तस्य बभूव । ततस् तेन स्वज्ञातिभिर् आवृतेनाधिक्यं साधितम् । ततस् तेन व्याघ्र-सिंहादीन् उत्तम-परिजनान् प्राप्य, सदसि शृगालान् अवलोक्य लज्जमानेनावज्ञया स्वज्ञातयः सर्वे दूरीकृताः । ततो विषंणान् शृगालान् अवलोक्य केनचिद् वृढ-शृगालेनैतत् प्रतिज्ञातं-मा विषीदत, यद् अनेनानीतिज्ञेन वयं मर्मज्ञाः । स्व-समीपात् परिभूतास् तद् यथायं नश्यति तथा विधेयम् । यतो मी व्याघ्रादयो वर्ण-मात्र-विप्रलब्धाः शृगालम् अज्ञात्वा राजानम् इमं मंयंते । तद् यथायं परिचीयते तथा कुरुत । तत्र चैवम् अनुष्ठेयम्, यथा वदामि-सर्वे संध्या-समये तत्-संनिधाने महारावम् एकदैव करिष्यथ । ततस् तं शब्दम् आकर्ण्य जाति-स्वभावात् तेनापि शब्दः कर्तव्यः । यतः-
यः स्वभावो हि यस्यास्ति स नित्यं दुरतिक्रमः । श्वा यदि क्रियते राजा तत् किं नाश्नात्य् उपानहम् ॥६०॥
ततः शब्दाद् अभिज्ञाय स व्याघ्रेण हंतव्यः । ततस् तथानुष्ठिते सति तद् वृत्तम् । तथा चोक्तम्-
छिद्रं मर्म च वीर्यं च सर्वं वेत्ति निजो रिपुः । दहत्य् अंतर्गतश् चैव शुष्कं वृक्षम् इवानलः ॥६१॥
अतो हं ब्रवीमि-आत्म-पक्षं परित्यज्येत्य् आदि ।

राजाह-यद्य् एवं तथापि दृश्यतां तावद् अयं दूराद् आगतः । तत्-संग्रहे विचारः कार्यः ।
चक्रो ब्रूते-देव ! प्रणिधिस् तावत् प्रहितो, दुर्गं च सज्जीकृतम् । अतः शुको प्य् आनीय प्रस्थाप्यताम् । किंतु योध-बल-समंवितो भूत्वा, दूराद् एव तम् अवलोकय । यतः-
नंदं जघान चाणक्यस् तीक्ष्ण-दूत-प्रयोगतः । तद् दूरांतरितं दूतं पश्येद् वीर-समंवितः ॥६२॥
ततः सभां कृत्वाहूतः शुकः काकश् च । शुकः किंचिद् उन्नत-शिरा दत्तासने उपविश्य ब्रूते-भो हिरण्यगर्भ ! त्वां महाराजाधिराजः श्रीमच्-चित्रवर्णः समाज्ञापयति-यदि जीवितेन श्रिया वा प्रयोजनम् अस्ति, तदा सत्वरम् आगत्यास्मच्-चरणौ प्रणम । नो चेद् अवस्थातुं स्थानांतरं परिचिंतय ।
राजा स-कोपम् आह-आः, सभायाम् अस्माकं न को पि विद्यते य एनं गलहस्तयति ? तत उठाय मेघवर्णो ब्रूते-देव ! आज्ञापय, हमि चैनं दुष्ट-शुकम् ।
सर्वज्ञो राजानं काकं च सांत्वयन् ब्रूते-भद्र ! मा मैवम् । शृणु तावत्-
न सा सभा यत्र न संति वृढा वृढा न ते ये न वदंति धर्मम् । धर्मः स नो यत्र न सत्यम् अस्ति सत्यं न तद् यच् छलम् अभ्युपैति ॥६३॥
यतो राजधर्मश् चैषः- दूतो म्लेच्छो प्य् अवध्यः स्याद् राजा दूत-मुखो यतः । उद्यतेष्व् अपि शस्त्रेषु दूतो वदति नांयथा ॥६४॥
अंयच् च- स्वापकर्षं परोत्कर्षं दूतोक्तैर् मंयते तु कः । सदैवावध्य-भावेन दूतः सर्वं हि जल्पति ॥६५॥
ततो राजा काकश् च स्वां प्रकृतिम् आपन्नौ । शुको प्य् उठाय चलितः । पश्चाच् चक्रवाकेणानीय प्रबोध्य कनकालंकारादिकं दत्वा संप्रेषितः स्वदेशं ययौ । शुको पि विंध्याचलं गत्वा, स्वस्य राजानं चित्रवर्णं प्रणतवान् ।
तं विलोक्य राजोवाच-शुक ! का वार्ता ? कीदृशो सौ देशः ?
शुको ब्रूते-देव ! संक्षेपाद् इयं वार्ता । संप्रति युढोद्योगः क्रियताम् । देशश् चासौ कर्पूर-द्वीपः स्वर्गैक-देशो, राजा च द्वितीयः स्वर्ग-पतिः कथं वर्णयितुं शक्यते । ततः सर्वान् शिष्टान् आहूय राजा मंत्रयितुम् उपविष्टः । आह च तान्-संप्रति कर्तव्ये विग्रहे यथा-कर्तव्यम् उपदेशं ब्रूत । विग्रहः पुनर् अवश्यं कर्तव्यः । तथा चोक्तम्-
असंतुष्टा द्विजा नष्टाः संतुष्टाश् च महीभृतः । सलज्जा गणिका नष्टा निर्लज्जाश् च कुलांगना ॥६६॥
दूरदर्शी नाम गृध्रो मंत्री ब्रूते-देव ! व्यसनितया विग्रहो न विधिः । यतः-
मित्रामात्य-सुहृद्-वर्गा यदा स्युर् दृढ-भक्तयः । शत्रूणां विपरीताश् च कर्तव्यो विग्रहस् तदा ॥६७॥
अंयच् च- भूमिर् मित्रं हिरण्यं च विग्रहस्य फलं त्रयम् । यदैतन् निश्चितं भावि कर्तव्यो विग्रहस् तदा ॥६८॥
राजाह-मद्-बलं तावद् अवलोकयतु मंत्री । तदैतेषाम् उपयोगो ज्ञायताम् । एवम् आहूयतां मौहूर्तिकः । स यात्रार्थं शुभ-लग्नं निर्णीय ददातु ।
मंत्री ब्रूते-देव ! तथापि सहसा यात्रा-करणम् अनुचितम् । यतः-
विशंति सहसा मूढा येविचार्य द्विषद्-बलम् । खड्ग-धारा-परिष्वंगं लभंते ते सुनिश्चितम् ॥६९॥
राजाह-मंत्रिन् ! ममोत्साह-भंगं सर्वथा मा कृथाः । विजिगीषुर् यथा पर-भूमिम् आक्रमति तथा कथय ।
गृध्रो ब्रूते-देव ! तत् कथयामि । किंतु तद्-अनुष्ठितम् एव फल-प्रदम् । तथा चोक्तम्- किं मंत्रेणाननुष्ठाने शास्त्रवित् पृथिवी-पतेः । न ह्य् औषध-परिज्ञानाद् व्याधेः शांतिः क्वचिद् भवेत् ॥७०॥
राजादेशश् चानतिक्रमणीय इति यथा-श्रुतं निवेदयामि शृणु-देव !
नद्य्-अद्रि-वन-दुर्गेषु यत्र यत्र भयं नृप । तत्र तत्र च सेनानीर् यायाद् व्यूहीकृतैर् बलैः ॥७१॥बलाध्यक्षः पुरो यायात् प्रवीर-पुरुषांवितः । मध्ये कलत्रं स्वामी च कोशः फल्गु च यद् बलम् ॥७२॥पार्श्वयोर् उभयोर् अश्वा अश्वानां पार्श्वतो रथाः । रथानां पार्श्वतो नागा नागानां च पदातयः ॥७३॥पश्चात् सेनापतिर् यायात् खिन्नानाश्वासयन् छनैः । मंत्रिभिः सुभटैर् युक्तः प्रतिगृह्य बलं नृपः ॥७४॥समेयाद् विषमं नागैर् जलाढ्यं समहीधरम् । समम् अश्वैर् जलं नीमिः सर्वत्रैव पदातिभिः ॥७५॥हस्तिनां गमनं प्रोक्तं प्रशस्तं जलदागमे । तद् अंयत्र तुरंगाणां पत्तीनां सर्वदैव हि ॥७६॥शैलेषु दुर्ग-मार्गेषु विधेयं नृप-रक्षणम् । स्व-योधै रक्षितस्यापि शयनं योग-निद्रया ॥७७॥नाशयेत् कर्षयेच् छत्रून् दुर्ग-कंटक-मर्दनैः । पर-देश-प्रवेशे च कुर्याद् आटविकान् पुरः ॥७८॥यत्र राजा तत्र कोशो विना कोशं न राजता । सुभटेभ्यस् ततो दद्यात् को हि दातुर् न युध्यते ॥७९॥
यतः- न नरस्य नरो दासो दासस् त्व् अर्थस्य भूपते । गौरवं लाघवं वापि धनाधन-निबंधनम् ॥८०॥अभेदेन च युध्येत रक्षेच् चैव परस्परम् । फल्गु सैंयं च यत् किंचिन् मध्ये व्यूहस्य कारयेत् ॥८१॥पदातींश् च महीपालः पुरो नीकस्य योजयेत् । उपरुध्यारिम् आसीत राष्ट्रं चास्योपपीडयेत् ॥८२॥स्यंदनाश्वैः समे युध्येद् अनूपे नौ-द्विपैस् तथा । वृक्ष-गुल्मावृते चापैर् असि-चर्मायुधैः स्थले ॥८३॥दूषयेच् चास्य सततं यवसान् नोदकेंधनम् । भिंद्याच् चैव तडागानि प्रकारारान् परिखास् तथा ॥८४॥बलेषु प्रमुखो हस्ती न तथांयो महीपतेः । निजैर् अवयवैर् एव मातंगो ष्टायुधः स्मृतः ॥८५॥बलम् अश्वश् च सैंयानां प्राकारो जंगमो यतः । तस्माद् अश्वाधिको राजा विजयी स्थल-विग्रहे ॥८६॥
तथा चोक्तम्- युध्यमाना हयारूढा देवानाम् अपि दुर्जयाः । अपि दूरस्थितास् तेषां वैरिणो हस्तवत्तिनः ॥८७॥प्रथमं युढ-कारित्वं समस्त-बल-पालनम् । दिङ्-मार्गाणां विशोधित्वं पत्ति-कर्म प्रचक्षते ॥८८॥स्वभाव-शूरम् अस्त्रज्ञम् अविरक्तं जित-श्रमम् । प्रसिढ-क्षत्रिय-प्रायं बलं श्रेष्ठतमं विदुः ॥८९॥यथा प्रभु-कृतान् मानाद् युध्यंते भुवि मानवाः । न तथा बहुभिर् दत्तैर् द्रविणैर् अपि भूपते ॥९०॥वरम् अल्प-बलं सारं न कुर्यान् मुंड-मंडलीम् । कुर्याद् असार-भंगो हि सार-भंगम् अपि स्फुटम् ॥९१॥अप्रसादो नधिष्ठानं देयांश-हरणं च यत् । काल-यापो प्रतीकारस् तद् वैराग्यस्य कारणम् ॥९२॥अपीडयन् बलं शत्रूञ् जिगीषुर् अभिषेणयेत् । सुख-साध्यं द्विषां सैंयं दीर्घ-प्रयाण-पीडितम् ॥९३॥दायादाद् अपरो यस्मान् नास्ति भेद-करो द्विषाम् । तस्माद् उठापयेद् यत्नाद् दायादं तस्य विद्विषः ॥९४॥संधाय युवराजेन यदि वा मुख्य-मंत्रिणा । अंतः-प्रकोपणं कुर्याद् अभियोक्ता स्थिरात्मनः ॥९५॥क्रूरामित्रं रणे चापि भंगं दत्त्वा विघातयेत् । अथवा गो-ग्रहाकृष्ट्या तन्-मुख्याश्रित-बंधनात् ॥९६॥स्वराज्यं वासयेद् राजा पर-देशापहरणात् । अथवा दान-मानाभ्यां वासितं धनदं हि तत् ॥९७॥
अथवा बहुनोदितेन- आत्मोदयः पर-ग्लानिर् द्वयं नीतिर् इतीयती । तद् ऊरीकृत्य कृतिभिर् वाचस्पत्यं प्रतीयते ॥९८॥
राज्ञा विहस्योक्तम्-सर्वम् एतद् विशेषतश् चोच्यते । किंतु,
अंयद् उच्छृंखलं सत्त्वम् अंयच् छास्त्र-नियंत्रितम् । सामानाधिकरण्यं हि तेजस्-तिमिरयोः कुतः ॥९९॥
तत उठाय राजा मौहूर्तिकावेदित-लग्ने प्रस्थितः । अथ प्रहित-प्रणिधिश् चरो हिरण्यगर्भम् आगत्य प्रणम्योवाच-देव ! समागत-प्रायो राजा चित्रवर्णः । संप्रति मलय-पर्वताधित्यकायां समावासित-कटको वर्तते । दुर्ग-शोधनं प्रतिक्षणम् अनुसंधातव्यम् । यतो सौ गृध्रो महामंत्री । किं च केनचित् सह तस्य विश्वास-कथा-प्रसंगेनेतद् इंगितम् अवगतं मया । यत्-अनेन को प्य् अस्मद्-दुर्गे प्राग् एव नियुक्तः ।
चक्रवाको ब्रूते-देव ! काक एवासौ संभवति ।
राजाह-न कदाचिद् एतत् । यद्य् एवं तदा कथं तेन शुकस्याभिभवोद्योगः कृतः ? अपरं च, शुकस्यागमनात् तस्य विग्रहोत्साहः । स च चिराद् अत्रास्ते ।
मंत्री ब्रूते-तथाप्य् आगंतुकः शंकनीयः ।
राजाह-आगंतुका अपि कदाचिद् उपकारका दृश्यंते । शृणु-
परो पि हितवान् बंधुर् बंधुर् अप्य् अहितः परः । अहितो देहजो व्याधिर् हितम् आरण्यम् औषधम् ॥१००॥
=========================================================================================================

The Wikimedia Foundation is holding a referendum to gather more input
into the development and usage of an opt-in personal image hiding feature.
Learn more and share your view.
[अनुवादं कृत्वा सहायतां करोतु!]Close
हितोपदेशम् 04क
Wikisource इत्यस्मात्
कूर्दयतु अत्र : सुचलनम्, अन्वेषणम्

अपरं च- आसीद् वीर-वरो नाम शूद्रकस्य महीभृतः । सेवकः स्वल्प-कालेन स ददौ सुतम् आत्मनः ॥१०१॥
चक्रवाकः पृच्छति--कथम् एतत् ?
राजा कथयति-

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP