संस्कृत सूची|संस्कृत साहित्य|कथा-संग्रहः|हितोपदेशम्|विग्रहः| कथा ४ विग्रहः आरंभः कथा १ कथा २ कथा ३ कथा ४ कथा ५ कथा ६ कथा ७ कथा ८ कथा ९ विग्रहः - कथा ४ हितोपदेश भारतीय जन- मानस तथा परिवेश से प्रभावित उपदेशात्मक कथाएँ हैं। हितोपदेश की कथाएँ अत्यंत सरल व सुग्राह्य हैं। Tags : hitopadeshakathastoryकथासंस्कृतहितोपदेश कथा ४ Translation - भाषांतर अस्त्य् उज्जयिनी-वर्त्म-प्रांतरे प्लक्ष-तरुः । तत्र हंस-काकौ निवसतः । कदाचित् ग्रीष्म-समये परिश्रांतः कश्चित् पथिकस् तत्र तरु-तले धनुष्कांडं संनिधाय सुप्तः । तत्र क्षणांतरे तन्-मुखाद् वृक्ष-च्छायापगता । ततः सूर्य-तेजसा तन्-मुखं व्याप्तम् अवलोक्य, तद्-वृक्ष-स्थितेन पुण्य-शीलेन शुचिना राजहंसेन कृपया पक्षौ प्रसार्य पुनस् तन्-मुखे छाया कृता । ततो निर्भर-निद्रा-शुखिना पथि-भ्रमण-परिश्रांतेन पांथेन मुख-व्यादानं कृतम् ।अथ पर-सुखम् असहिष्णुः स्वभाव-दौर्जंयेन स काकस् तस्य मुखे पुरीषोत्सर्गं कृत्वा पलायितः । ततो यावद् असौ पांथ उठायोर्ध्वं निरीक्षते, तावत् तेनावलोकितो हंसः कांडेन हतो व्यापादितः । अतो हं ब्रवीमि-न स्थातव्यम् इति ।देव ! वर्तक-कथाम् अपि कथयामि । श्रूयताम्- N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP