TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

विग्रहः - कथा ८

हितोपदेश भारतीय जन- मानस तथा परिवेश से प्रभावित उपदेशात्मक कथाएँ हैं। हितोपदेश की कथाएँ अत्यंत सरल व सुग्राह्य हैं।


कथा ८
अहं पुरा शूद्रकस्य राज्ञः क्रीडा-सरसि कर्पूरकेलि-नाम्नो राजहंसस्य पुत्र्या कर्पूरमञ्जर्या सहानुरागवान् अभवम् । वीरवरो नाम राजपुत्रः कुतश्चिद् देशाद् आगत्य राज-द्वारम् उपगम्य प्रतीहारम् उवाच-अहं तावद् वर्तनार्थी राजपुत्रः । मां रज-दर्शनं कारय । ततस् तेनासौ राज-दर्शनं कारितो ब्रूते-देव ! यदि मया सेवकेन प्रयोजनम् अस्ति, तदास्मद्-वर्तनं क्रियताम् ।
शूद्रक उवाच-किं ते वर्तनम् ?
वीरवरो ब्रूते-प्रत्यहं सुवर्ण-पञ्च-शतानि देहि ।
राजाह-का ते सामग्री ?
वीरवरो ब्रूते-द्वौ बाहू । तृतीयश् च खड्गः ।
राजाह-नैतच् छक्यम् ।
तच् छ्रुत्वा वीरवरः प्रणम्य चलितः । अथ मंत्रिभिर् उक्तम्-देव ! दिन-चतुष्टयस्य वर्तनं दत्त्वा ज्ञायताम् अस्य स्वरूपम् । किम् उपयुक्तो यम् एतावद् वर्तनं गृह्णाति अनुपयुक्तो वेति ।
ततो मंत्रि-वचनाद् आहुहूय वीरवराय तांबूलं दत्त्वा पञ्च-शतानि सुवर्णानि दत्तानि । वर्तन-विनियोगश् च राज्ञा सुनिभृतं निरूपितः । तद्-अर्धं वीरवरेण देवेभ्यो ब्राह्मणेभ्यो दत्तम् । स्थितस्यार्धं दुःखितेभ्यः । तद् अवशिष्टं भोज्य-विलास-व्ययेन । एतत् सर्वं नित्य-कृत्यं कृत्वा, राज-द्वारम् अहर्निशं खड्ग-पाणिः सेवते । यदा च राजा स्वयं समादिशति तदा स्व-गृहम् अपि याति ।
अथैकदा कृष्ण-चतुर्दश्यां रात्रौ स राजा स-करुण-क्रंदन-ध्वनिं शुश्राव । तत् श्रुत्वा राजा ब्रूते-कः को त्र द्वारि तिष्ठति ?
तदा तेनोक्तं-देव ! अहं वीरवरः ।
राजोवाच-क्रंदनानुसरणं क्रियताम् ।
वीरवरो पि-यथाज्ञापयति देवः, इत्य् उक्त्वा चलितः ।
राज्ञा च चिंतितम्-अयम् एकाकी राजपुत्रो मया सूचीभेद्ये तमसि प्रहितः । नैतद् उचितम् । तद् अहम् अपि गत्वा किम् एतद् इति निरूपयामि ।
ततो राजापि खड्गम् आदाय तद्-अनुसरण-क्रमेण नगराद् बहिर् निर्जगाम । गत्वा च वीरवरेण रुदती रुप-यौवन-संपन्ना सर्वालंकार-भूषिता काचित् स्त्री दृष्टा, पृष्टा च-का त्वम् ? किम् अर्थं रोदिषि ? इति ।
स्त्रियोक्तम्-अहम् एतस्य शूद्रकस्य राज-लक्ष्मीः । चिराद् एतस्य भुज-च्छायायां महता सुखेन विश्रांता । इदानीम् अंयत्र गमिष्यामि ।
वीरवरो ब्रूते-यतापायः संभवति, तत्रोपायो प्य् अस्ति । तत् कथं स्यात् पुनर् इहावासो भवत्याः ?
लक्ष्मीर् उवाच-यदि त्वम् आत्मनः पुत्रं शक्तिधरं द्वात्रिंशल्-लक्षणोपेतं भगवत्याः सर्व-मंगलाया उपहारीकरोषि, तदाहं पुनर् अत्र सुचिरं निवसामि । इत्य् उक्त्वादृश्याभवत् ।
ततो वीरवरेण स्व-गृहं गत्वा निद्रायमाणा स्व-वधूः प्रबोधिता पुत्रश् च । तौ निद्रां परित्यज्योठायोपविष्टौ । वीरवरस् तत् सर्वं लक्ष्मी-वचनम् उक्तवान् । तच् छ्रुत्वा सानंदः शक्तिधरो ब्रूते-धंयो हम् एवंभूतः । स्वामि-राज्य-रक्षार्थं यस्योपयोगः । तात ! तत् को धुना विलंबस्य हेतुः ? एवं-विधे कर्मणि देहस्य विनियोगः श्लाघ्यः । यतः-
धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत् । तन्-निमित्तो वरं त्यागो विनाशे नियते सति ॥१०२॥
शक्तिधर-मातोवाच-यद्य् एतन् न कर्तव्यं तत् केनांयेन कर्मणा गृहीतस्य महावर्तनस्य निष्क्रयो भविष्यति । इत्य् आलोच्य सर्वे सर्वमंगलायाः स्थानं गताः । तत्र सर्वमंगलां संपूज्य वीरवरो ब्रूते-देवि ! प्रसीद । विजयतां शूद्रको महाराजः । गृह्यताम् अयम् उपहारः । इत्य् उक्त्वा पुत्रस्य शिरश् चिच्छेद । ततो वीरवरश् चिंतयामास-गृहीत-राज-वर्तनस्य निस्तारः कृतः । अधुना निष्पुत्रस्य मे जीवनेनालम् । इत्य् आलोच्यात्मनः शिरश् चिच्छेद ।
ततः स्त्रियापि स्वामि-पुत्र-शोकार्तया तद् अनुष्ठितम् । तत् सर्वं दृष्ट्वा राजा साश्चर्यं चिंतयामास-- जायंते च म्रियंते च मद्-विधाः क्षुद्र-जंतवः । अनेन सदृशो लोके न भूतो न भविष्यति ॥१०३॥
तद् एतत्-परित्यक्तेन मम राज्येनापि किं प्रयोजनम् । ततः शूद्रकेणापि स्व-शिरश् छेत्तुं खड्गः समुठापितः । अथ भगवत्या सर्वमंगलया प्रत्यक्ष-भूतया राजा हस्ते धृतः । उक्तं च-पुत्र ! प्रसंनो स्मि ते, एतावता साहसेनालम् । जीवनांतेपि तव राज-भंगो नास्ति । राजा च साष्टांग-पातं प्रणम्योवाच-देवि ! किं मे राज्येन ? जीवितेन वा मम किं प्रयोजनम् ? यद्य् अहम् अनुकंपनीयस् तदा ममायुः-शेषेणाप्य् अयं स-दार-पुत्रो वीरवरो जीवतु । अंयथाहं यथा-प्राप्तां गतिं गच्छामि ।
भगवत्य् उवाच-पुत्र ! अनेन ते सत्त्वोत्कर्षेण भृत्य-वात्सल्येन च सर्वथा संतुष्टास्मि । गच्छ विजयी भव । अयम् अपि स-परिवारो राज-पुत्रो जीवतु । इत्य् उक्त्वा देव्य् अदृश्याभवत् । ततो वीरवरः स-पुत्र-दारः प्राप्त-जीवनः स्व-गृहं गतः । राजापि तैर् अलक्षितः सत्वरम् अंतः-पुरं प्रविष्टः ।
अथ प्रभाते वीरवरो द्वारस्थः पुनर् भूपालेन पृष्टः संन् आह-देव ! सा रुदती माम् अवलोक्यादृश्याभवत् । न काप्य् अंया वार्ता विद्यते ।
तद् वचनम् आकर्ण्य संतुष्टो राजा साश्चर्यं चिंतयामास-कथम् अयं श्लाघ्यो महा-सत्त्वः ? यतः-
प्रियं ब्रूयाद् अकृपणः शूरः स्याद् अविकठनः । दाता नापात्र-वर्षी च प्रगल्भः स्याद् अनिष्ठुरः ॥१०४॥
एतन् महापुरुष-लक्षणम् एतस्मिन् सर्वम् अस्ति । ततः स राजा प्रातः शिष्ट-सभां कृत्वा, सर्वं वृत्तांतं प्रस्तुत्य प्रसादात् तस्मै कर्णाटक-राज्यं ददौ । तत् किम् आगंतुको जाति-मात्राद् दुष्टः ? तत्राप्य् उत्तमाधम-मध्यमाः संति ।
चक्रवाको ब्रूते- यो कार्यं कार्यवच् छास्ति स किं मंत्री नृपेच्छया । वरं स्वामि-मनो-दुःखं तन्-नाशो न त्व् अकार्यतः ॥१०५॥वैद्यो गुरुश् च मंत्री च यस्य राज्ञः प्रियंवदाः । शरीर-धर्म-कोशेभ्यः क्षिप्रं स परिहीयते ॥१०६॥
शृणु देव ! पुण्याल् लब्धं यद् एकेन तन् ममापि भविष्यति । हत्वा भिक्षुं यतो मोहान् निध्य्-अर्थी नापितो हतः ॥१०७॥
राजा पृच्छति--कथम् एतत् ?
मंत्री कथयति-

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:41.8670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

खिसा

  • पु. १ कप्पा ; कसा ; अंगरख्यास पिशवीसारखा भाग असतो तो . २ ( ल .) पडदा ; कुड ; खण . गौण . अंतर्भुत गोष्ट अथवा बाब . ' हें माजघर एक दिसतें परंतु यांत तीन खिसें आहेत .' या मामलतेचे पोटीं चार खिसे आहेत .' ' त्या कामामधें खिसे पुष्कळ आहेत ' ३ ( ल .) मनांत किंवा पोटांत ठेवलेली गोष्ट ; दाबून किंवा दडवून ठेविलेला मुद्दा ( सांगण्यांतील ). ( क्रि० राखणें ). ( फा . कीसा , सीसा ) ( वाप्र .) 
  • पु. १ बोलाचाली ; तंटा ; उपसर्ग ; त्रास . ' तनखेविषयींचा जाब बोलुन खिसा झाला .' - हौकै २ . २ ( व .) गत ; स्थिति , अवस्थ . खिस्सा पहा . ( अर . किस्सा ) 
  • ०कातरणें भामटेगिरी करणें ; लुबाडणें ; फसविणे . 
  • ०गरम खुप पैसे मिळविणें . खिशांत टाकणें - लांबविणें ; चोरणें . खिशांतली गप - स्त्री . निव्वळ थाप . 
More meanings
RANDOM WORD

Did you know?

पंचप्राणांना भोजनापूर्वी आहुती का द्यावी ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.