TransLiteral Foundation

विग्रहः - कथा ३

हितोपदेश भारतीय जन- मानस तथा परिवेश से प्रभावित उपदेशात्मक कथाएँ हैं। हितोपदेश की कथाएँ अत्यंत सरल व सुग्राह्य हैं।


कथा ३
कदाचिद् वर्षास्व् अपि वृष्टेर् अभावात् तृषार्तो गज-यूथो यूथपतिम् आह-नाथ ! को भ्युपायो स्माकं जीवनाय ? नास्ति क्षुद्र-जंतूनां अपि निमज्जन-स्थानम् । वयं च निमज्जन-स्थानाभावान् मृताः । अंधा इव किं कुर्मः ? क्व यामः ?
ततो हस्तिराजो नातिदूरं गत्वा निर्मलं ह्रदं दर्शितवान् । ततो दिनेषु गच्छत्सु तत्-तीरावस्थिताः क्षुद्र-शशका गज-पादाहतिभिश् चूर्णिताः । अनंतरं शिलीमुखो नाम शशकश् चिंतयामास-अनेन गजयूथेन पिपासाकुलितेन प्रत्यहम् अत्रागंतव्यम् । ततो विनष्टम् अस्मत्-कुलम् ।
ततो विजयो नाम वृढ-शशको वदत्-मा विषीदत । मयात्र प्रतीकारः कर्तव्यः । ततो सौ प्रतिज्ञाय चलितः । गच्छता च तेनालोचितम्-कथं मया गज-यूथ-नाथ-समीपे स्थित्वा वक्तव्यम् । यतः-
स्पृशंन् अपि गजो हंति जिघ्रंन् अपि भुजंगमः । पालयंन् अपि भूपालः प्रहसंन् अपि दुर्जनः ॥१५॥
अतो हं पर्वत-शिखरम् आरुह्य यूथनाथं संवादयामि । तथानुष्ठिते सति यूथनाथ उवाच-कस् त्वम् ? कुतः समायातः ?
स ब्रूते-शशको हम् । भगवता चंद्रेण भवद्-अंतिकं प्रेषितः ।
यूथपतिर् आह-कार्यम् उच्यताम् ।
विजयो ब्रूते- उद्यतेष्व् अपि शस्त्रेषु दूतो वदति नांयथा । सदैवावध्य-भावेन यथार्थस्य हि वाचकः ॥१६॥
तद् अहं तद्-आज्ञया ब्रवीमि, शृणु । यद् एते चंद्रसरो-रक्षकाः शशकास् त्वया निःसारितास् तद् अनुचितं कृतम् । ते शशकाश् चिरम् अस्माकं रक्षिताः । अत एव मे शशांक इति प्रसिढिः ।
एवम् उक्तवति दूते यूथपतिर् भयाद् इदम् आह-प्रणिधे ! इदम् अज्ञानतः कृतम् । पुनर् न तत्र गमिष्यामि ।
दूत उवाच-यद्य् एवं तद् अत्र सरसि कोपात् कंपमानं भगवंतं शशांकं प्रणम्य, प्रसाद्य च गच्छ ।
ततस् तेन रात्रौ यूथपतिं नीत्वा, तत्र जले चञ्चलं चंद्र-बिंबं दर्शयित्वा स यूथप्तिः प्रणामं कारितः । उक्तं च तेन-देव ! अज्ञानाद् अनेनापराधः कृतः । ततः क्षम्यताम् । नैवं वारांतरं विधास्यते । इत्य् उक्त्वा प्रस्थापितः । अतो वयं ब्रूमः-व्यपदेशेपि सिढिः स्यात् इति ।

ततो मयोक्तम्-स एवास्मत्-प्रभू राजहंसो महा-प्रतापो तिस्मर्थः । त्रैलोक्यस्यापि प्रभुत्वं तत्र युज्यते, किं पुना राज्यम् इति । तदाहं तैः पक्षिभिः-दुष्ट ! कथम् अस्मद्-भूमौ चरसि इत्य् अभिधाय राज्ञश् चित्रवर्णस्य समीपं नीतः । ततो राज्ञः पुरो मां प्रदर्श्य तैः प्रणम्योक्तम्-देव ! अवधीयताम् । एष दुष्टो स्मद्-देशे चरंन् अपि देव-पादान् अधिक्षिपति ।
राजाह-को यम् ? कुतः समायातः ?
ते ऊचुः-हिरण्यगर्भ-नाम्नो राजहंसस्यानुचरः कर्पूरद्वीपाद् आगतः ।
अथाहं गृध्रेण मंत्रिणा पृष्टः-कस् तत्र मुख्यो मंत्री ? इति ।
मयोक्तम्-सर्व-शास्त्रार्थ-पारगः शर्वज्ञो नाम चक्रवाकः ।
गृध्रो ब्रूते-युज्यते । स्व-देशजो सौ । यतः-
स्वदेशजं कुलाचार-विशुढम् उपधाशुचिम् । मंत्रज्ञम् अवसनिनं व्यभिचार-विवर्जितम् ॥१७॥अधीत-व्यवहारार्थं मौलं ख्यातं विपश्चितम् । अर्थस्योत्पादकं चैव विदध्यान् मंत्रिणं नृपः ॥१८॥
अत्रांतरे शुकेनोक्तम्-देव ! कर्पूर-द्वीपादयो लघुद्वीपा जंबूद्वीपांतर्गता एव । तत्रापि देव-पादानाम् एवाधिपत्यम् । ततो राज्ञाप्य् उक्तम्-एवम् एव । यतः-
राजा मत्तः शिशुश् चैव प्रमदा धन-गर्वितः । अप्राप्यम् अपि वाञ्छंति किं पुनर् लभ्यतेपि यत् ॥१९॥
ततो मयोक्तम्-यदि वचनम्-मात्रेणैवाधिपत्यं सिढ्यति । तदा जंबूद्वीपेप्य् अस्मत्-प्रभोर् हिरण्यगर्भस्य स्वाम्यम् अस्ति । शुको ब्रूते-कथम् अत्र निर्णयः ?
मयोक्तं-संग्राम एव ।
राज्ञा विहस्योक्तम्-स्व-स्वामिनं गत्वा सज्जीकुरु ।
तदा मयोक्तम्-स्व-दूतो पि प्रस्थाप्यताम् ।
राजोवाच-कः प्रयास्यति दौत्येन ? यत एवंभूतो दूतः कार्यः-
भक्तो गुणी शुचिर् दक्षः प्रगल्भो व्यसनी क्षमी । ब्राह्मणः परमर्मज्ञो दूतः स्यात् प्रतिभानवान् ॥२०॥
गृध्रो वदति-संत्य् एव दूता बहवः, किंतु ब्राह्मण एव कर्तव्यः । यतः,
प्रसादं कुरुते पत्युः संपत्तिं नाभिवाञ्छति । कालिमा कालकूटस्य नापैतीश्वर-संगमात् ॥२१॥
राजाह-ततः शुक एव व्रजतु । शुक ! त्वम् एवानेन सह तत्र गत्वास्मद्-अभिलषितं ब्रूहि ।
शुको ब्रूते-यथाज्ञापयति देवः । किंत्व् अयं दुर्जनो बकः । तद् अनेन सह न गच्छामि । तथा चोक्तम्-
खलः करोति दुर्वृत्तं नूनं फलति साधुषु । दशाननो हरत् सीतां बंधनं स्यान् महोदधेः ॥२२॥अपरं च- न स्थातव्यं न गंतव्यं दुर्जनेन समं क्वचित् । काक-संगाद् धतो हंसस् तिष्ठन् गछंश् च वर्तकः ॥२३॥
राजोवाच-कथम् एतत् ?
शुकः कथयति-

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:41.5830000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

कईठ

  • न. ( गो . खा .) कवठ ( झाड व फळ ) पहा . 
RANDOM WORD

Did you know?

आत्म्याची किती आणि कोणती रूपे मानली गेली आहेत?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.