संस्कृत सूची|संस्कृत साहित्य|कथा-संग्रहः|हितोपदेशम्|विग्रहः| कथा १ विग्रहः आरंभः कथा १ कथा २ कथा ३ कथा ४ कथा ५ कथा ६ कथा ७ कथा ८ कथा ९ विग्रहः - कथा १ हितोपदेश भारतीय जन- मानस तथा परिवेश से प्रभावित उपदेशात्मक कथाएँ हैं। हितोपदेश की कथाएँ अत्यंत सरल व सुग्राह्य हैं। Tags : hitopadeshakathastoryकथासंस्कृतहितोपदेश कथा १ Translation - भाषांतर अस्ति नर्मदा-तीरे पर्वतोपत्यकायां विशालः शाल्मली-तरुः । तत्र निर्मित-नीड-कोडे पक्षिणः सुखेन निवसंति । अथैकदा वर्षासु नीलपटैर् इव जलधर-पटलैर् आवृते नभस्-तले । धारा-सारैर् महती वृष्टिर् बभूव । ततो वानरांश् च तरु-तलेवस्थितान् शीताकुलान् कंपमानान् अवलोक्य, कृपया पक्षिभिर् उक्तम्-भो भो वानराः ! शृणुत-- अस्माभिर् निर्मिता नीडाश् चञ्चु-मात्राहृतैस् तृणैः । हस्त-पादादि-संयुक्ता यूयं किम् अवसीदथ ॥६॥तच् छ्रुत्वा वानरैर् जातामर्षैर् आलोचितम्-अहो ! निर्वात-नीड-गर्भावस्थिताः सुखिनः पक्षिणो स्मान् निंदंति । तद् भवतु तावद् वृष्टेर् उपशमः ।अनंतरं शांते पानीय-वर्षे तैर् वानरैर् वृक्षम् आरुह्य, सर्वे नीडा भग्नाः, तेषाम् अंडानि चाधः पातितानि । अतो हं ब्रवीमि विद्वान् एवोपदेष्टव्यः इत्य् आदि ।राजोवाच-ततस् तैः पक्षिभिः किं कृतम् ?बकः कथयति-ततस् तैः पक्षिभिः कोपाद् उक्तम्-केनासौ राजहंसो राजा कृतः ?ततो मयोपजात-कोपेनोक्तम्-अयं युष्मदीयो मयूरः केन राजा कृतः ?एतच् छ्रुत्वा ते पक्षिणो मां हंतुम् उद्यताः । ततो मयापि स्व-विक्रमो दर्शितः । यतः- अंयदा भूषणं पुंसः क्षमा लज्जेव योषितः । पराक्रमः परिभवे वैयात्यं सुरतेष्व् इव ॥७॥राजा विहस्याह- आत्मनश् च परेषां च यः समीक्ष्य बलाबलम् । अंतरं नैव जानाति स तिरस्क्रियतेरिभिः ॥८॥सुचिरं हि चरन् नित्यं क्षेत्रे सत्यम् अबुढिमान् । द्वीपि-चर्म-परिच्छंनो वाग्-दोषाद् गर्दभो हतः ॥९॥बकः पृच्छति-कथम् एतत् ?राजा कथयति- N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP