संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|वाक्यपदीय|वाक्यकांड| भाग १० वाक्यकांड भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० वाक्यकांड - भाग १० संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली. Tags : bhartruharigrammerभर्तृहरिवाक्यपदीयव्याकरण भाग १० Translation - भाषांतर तत्त्वान्वाख्यानमात्रे तु यावान् अर्थो ऽनुषज्यते ।विनापि तत्प्रयोगेण श्रुतेर् वाक्यं समाप्यते ॥४५१॥चिङ्क्रम्यमाणो ऽधीष्वात्र जपंश् चङ्क्रमणं कुरु ।तादर्थ्यस्याविशेषे ऽपि शब्दाद् भेदः प्रतीयते ॥४५२॥फलवन्तः क्रियाभेदाः क्रियान्तरनिबन्धनाः ।असंख्याताः क्रमोद्देशैर् एकाख्यातनिदर्शिताः ॥४५३॥निवृतभेदा सर्वैव क्रियाख्याते ऽभिधीयते ।श्रुतेर् अशक्या भेदानां प्रविभागप्रकल्पना ॥४५४॥अश्वमेधेन यक्ष्यन्ते राजानः सत्त्रम् आसते ।ब्राह्मणा इति नाख्यात- रूपाद् भेदः प्रतीयते ॥४५५॥सकृच् छ्रुता सप्तदशस्व् अनावृत्तापि या क्रिया ।प्रजापत्येषु सामर्थ्यात् सा भेदं प्रतिपद्यते ॥४५६॥देवदत्तादिषु भुजिः प्रत्येकम् अवतिष्ठते ।प्रतिस्वतन्त्रं वाक्यं वा भेदेन प्रतिपद्यते ॥४५७॥उच्चारणे तु वाक्यानाम् अन्यद् रूपं न गृह्यते ।प्रतिपत्तौ तु भिन्नानाम् अन्यद् रूपं प्रतीयते ॥४५८॥एकं ग्रहणवाक्यं च सामान्येनाभिधीयते ।कर्तरीति यथा तच् च पश्वादिषु विभज्यते ॥४५९॥यदि आकाङ्क्षा निवर्तेत तद्भूतस्य सकृच् छ्रुतौ ।नैवान्येनाभिसंबन्धं तद् उपेयात् कथं चन ॥४६०॥एकरूपम् अनेकार्थं तस्माद् उपनिबन्धनम् ।योनिर् विभागवाक्यानां तेभ्यो ऽनन्यद् इव स्थितम् ॥४६१॥क्व चित् क्रिया व्यक्तिभागैर् उपकारे प्रवर्तते ।सामान्यभाग एवास्याः क्व चिद् अर्थस्य साधकः ॥४६२॥कालभिन्नाश् च ये भेदा ये चाप्य् उष्ट्रासिकादिषु ।प्रक्रमे जातिभागस्य शब्दात्मा तैर् न भिद्यते ॥४६३॥एकसंख्येषु भेदेषु भिन्ना जात्यादिभिः क्रियाः ।भेदेन विनियुज्यन्ते तच्छब्दस्य सकृच् छ्रुतौ ॥४६४॥अक्षादेषु यथा भिन्ना भक्षिभञ्जिदिविक्रियाः ।प्रयोगकालाभेदे ऽपि प्रतिभेदं पृथक् स्थिताः ॥४६५॥अक्षिणां तन्त्रिणां तन्त्रम् उपायस् तुल्यरूपता ।एषां क्रमो विभक्तानां तन्निबद्धा सकृच् छ्रुतिः ॥४६६॥द्वाव् अप्य् उपायौ शब्दानां प्रयोगे समवस्थितौ ।क्रमो वा यौगपद्यं वा यौ लोको नातिवर्तते ॥४६७॥क्रमे विभज्यते रूपं यौगपद्ये न भिद्यते ।क्रिया तु यौगपद्ये ऽपि क्रमरूपानुपातिनी ॥४६८॥भेदसंसर्गशक्ती द्वे शब्दाद् भिन्ने इव स्थिते ।यौगपद्ये ऽप्य् अनेकेन प्रयोगे भिद्यते श्रुतिः ॥४६९॥अभिन्नो रूपभेदेन य एको ऽर्थो विवक्षितः ।तस्यावयवधर्मेण समुदायो ऽनुगम्यते ॥४७०॥भेदनिर्वचने त्व् अस्य प्रत्येदं वा समाप्यते ।श्रुतिर् वचनभिन्ना वा वाक्यभेदे ऽवतिष्ठते ॥४७१॥तत्रैकवचनान्तो वा सो ऽक्षशब्दः प्रयुज्यते ।प्रत्येकं वा बहुत्वेन प्रविभागो यथाश्रुति ॥४७२॥द्विष्ठानि यानि वाक्यानि तेष्व् अप्य् एकत्वदर्शिनाम् ।अनेकशक्तेर् एकस्य स्वशक्तिः प्रविभज्यते ॥४७३॥अत्यन्तभिन्नयोर् वा स्यात् प्रयोगे तन्त्रलक्षणः ।उपायस् तत्र संसर्गः प्रतिपत्तृषु भिद्यते ॥४७४॥भेदेनाधिगतौ पूर्वं शब्दौ तुल्यश्रुती पुनः ।तन्त्रेण प्रतिपत्तारः प्रयोक्त्रा प्रतिपादिताः ॥४७५॥एकस्यापि विवक्षायाम् अनुनिष्पद्यते परः ।विनाभिसंधिना शब्दः शक्तिरूपः प्रकाशते ॥४७६॥अनेका शक्तिर् एकस्य युगपच् छ्रूयते क्व चित् ।अग्निः प्रकाशदाहाभ्याम् एकत्रापि नियुज्यते ॥४७७॥आवृत्तिशक्तिभिन्नार्थे वाक्ये सकृद् अपि श्रुते ।लिङ्गाद् वा तन्त्रधर्माद् वा विभागो व्यवतिष्ठते ॥४७८॥संप्रसारणसंज्ञायां लिङ्गाभ्यां वर्णवाक्ययोः ।प्रविभागस् तथा सूत्र एकस्मिन्न् एव जायते ॥४७९॥तथा द्विर्वचने ऽचीति तन्त्रोपायाद् अलक्षणः ।एकशेषेण निर्देशो भाष्य एव प्रदर्शितः ॥४८०॥प्रायेण संक्षेपरुचीन् अल्पविद्यापरिग्रहान् ।संप्राप्य वैयाकरणान् संग्रहे ऽस्तम् उपागते ॥४८१॥कृते ऽथ पातञ्जलिना गुरुणा तीर्थदर्शिना ।सर्वेसं न्यायबीजानां महाभाष्ये निबन्धने ॥४८२॥अलब्धगाधे गाम्भीर्याद् उत्तान इव सौष्ठवात् ।तस्मिन्न् अकृतबुद्धीनाम् नैवावास्थित निश्चयः ॥४८३॥वैजिसौभवहर्यक्षैः शुष्कतर्कानुसारिभिः ।आर्षे विप्लाविते ग्रन्थे संग्रहप्रतिकञ्चुके ॥४८४॥यः पातञ्जलिशिष्येभ्यो भ्रष्टो व्याकरणागमः ।कालेन दाक्षिणात्येषु ग्रन्थमात्रो व्यवस्थितः ॥४८५॥पर्वताद् आगमं लब्ध्वा भाष्यबीजानुसारिभिः ।स नीतो बहुशाखत्वं चान्द्राचार्यादिभिः पुनः ॥४८६॥न्यायप्रस्थानमार्गांस् तान् अभ्यस्य स्वम् च दर्शनम् ।प्रणीतो गुरुणास्माकम् अयम् आगमसंग्रहः ॥४८७॥वर्त्मनाम् अत्र केषाम् चिद् वस्तुमात्रम् उदाहृतम् ।काण्डे तृतीये न्यक्षेन भविष्यति विचारणा ॥४८८॥प्रज्ञा विवेकं लभते भिन्नैर् आगमदर्शनैः ।कियद् वा शक्यम् उन्नेतुं स्वतर्कम् अनुधावता ॥४८९॥तत् तद् उत्प्रेक्षमाणानां पुराणैर् आगमैर् विना ।अनुपासितवृद्धानां विद्या नातिप्रसीदति ॥४९०॥ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP