संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|वाक्यपदीय|वाक्यकांड| भाग ८ वाक्यकांड भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० वाक्यकांड - भाग ८ संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली. Tags : bhartruharigrammerभर्तृहरिवाक्यपदीयव्याकरण भाग ८ Translation - भाषांतर नियमः प्रतिषेधश् च विधिशेषस् तथा सति ।द्वितीये यो लुग् आख्यातस् तच्छेषम् अलुकं विदुः ॥३५१॥निराकाङ्क्षाणि निर्वृत्तौ प्रधानानि परस्परम् ।तेषाम् अनुपकारित्वात् कथं स्याद् एकवाक्यता ॥३५२॥विशेषविधिनार्थित्वाद् वाक्यशेषो ऽनुमीयते ।विधेयवन् निवर्त्ये ऽर्थे तस्मात् तुल्यं व्यपेक्षणम् ॥३५३॥संज्ञाशब्दैकदेशो यस् तस्य लोपो न विद्यते ।विशिष्टरूपा सा संज्ञा कृता च न निवर्तते ॥३५४॥संज्ञान्तराच् च दत्तादेर् नान्या संज्ञा प्रतीयते ।संज्ञिनं देवदत्ताख्यं दत्तशब्दः कथं वदेत् ॥३५५॥सर्वैर् अवयवैस् तुल्यं संबन्धं समुदायवत् ।के चिच् छब्दस्वरूपाणां मन्यन्ते सर्वसंज्ञिभिः ॥३५६॥वर्णानाम् अर्थवत्त्वं तु संज्ञानां संज्ञिभिर् भवेत् ।संबद्धो ऽवयवः संज्ञा- प्रविवेके न कल्पते ॥३५७॥सर्वस्वरूपैर् युगपत् संबन्धे सति संज्ञिनः ।नैकदेशसरूपेभ्यस् तत्प्रत्यायनसंभवः ॥३५८॥एकदेशात् तु संघाते केषां चिज् जायते स्मृतिः ।स्मृतेस् तु विषयाच् छब्दात् संघातार्थः प्रतीयते ॥३५९॥एकदेशात् स्मृतिर् भिन्ने संघाते नियता कथम् ।कथं प्रतीयमानः स्याच् छब्दो ऽर्थस्याभिधायकः ॥३६०॥एकदेशसरूपास् तु तैस् तैर् भेदैः समन्विताः ।अनुनिष्पादिनः शब्दाः संज्ञासु समवस्थिताः ॥३६१॥साधारणत्वात् संधिग्धाः सामर्थ्यान् नियताश्रयाः ।तेषां ये साधवस् तेषु शास्त्रे लोपादि शिष्यते ॥३६२॥तुल्यायाम् अनुनिष्पत्तौ ज्ये-द्रा-घा इत्य् असाधवः ।न ह्य् अन्वाख्यायके शास्त्रे तेषु दत्तादिवत् स्मृतिः ॥३६३॥कृतणत्वाश् च ये शब्दा नित्याः खरणसादयः ।एकद्रव्योपदेशित्वात् तान् साधून् संप्रचक्षते ॥३६४॥गोत्राण्य् एव तु तान्य् आहुः संज्ञाशक्तिसमन्वयात् ।निमित्तापेक्षणं तेषु स्वार्थे नावश्यम् इष्यते ॥३६५॥व्यवहाराय नियमः संज्ञानां संज्ञिनि क्व चित् ।नित्य एव तु संबन्धो डित्थादिषु गवादिवत् ॥३६६॥कृतकत्वाद् अनित्यत्वं संबन्धस्योपपद्यते ।संज्ञायां सा हि पुरुषैर् यथाकामं नियुज्यते ॥३६७॥यथा हि पांसुलेखानां बालकैर् मधुक्रादयः ।संज्ञाः क्रियन्ते सर्वासु संज्ञास्व् एषैव कल्पना ॥३६८॥वृद्ध्यादीनां च शास्त्रे ऽस्मिञ् छक्त्यवच्छेदलक्षणः ।अकृत्रिमो हि संबन्धो विशेषणविशेष्यवत् ॥३६९॥संज्ञा स्वरूपम् आश्रित्य निमित्ते सति लौकिकी ।का चित् प्रवर्तते का चिन् निमित्तासंनिधाव् अपि ॥३७०॥शास्त्रे ऽपि महती संज्ञा स्वरूपोपनिबन्धना ।अनुमानं निमित्तस्य संनिधाने प्रतीयते ॥३७१॥आवृत्तेर् अनुमानं वा सारूप्यात् तत्र गम्यते ।शब्दभेदानुमानं वा शक्तिभेदस्य वा गतिः ॥३७२॥क्व चिद् विषयभेदेन कृत्रिमा व्यवतिष्ठते ।संख्यायाम् एकविषयं व्यवस्थानं द्वयोर् अपि ॥३७३॥विषयं कृत्रिमस्यापि लौकिकः क्व चिद् उच्चरन् ।व्याप्नोति दूरात् संबुद्धौ तथा हि ग्रहणं द्वयोः ॥३७४॥सङ्घैकशेषद्वन्द्वेषु के चित् सामर्थ्यलक्षणम् ।प्रत्याश्रयम् अवस्थानं क्रियाणां प्रतिजानते ॥३७५॥भोजनं फलरूपाभ्याम् एकैकस्मिन् समाप्यते ।अन्यथा हि व्यवस्थाने न तदर्थः प्रकल्प्यते ॥३७६॥अन्नादानादि रूपां च सर्वे तृप्तिफलां भुजिम् ।प्रत्येकं प्रतिपद्यन्ते न तु नाट्यक्रियाम् इव ॥३७७॥पाद्यवत् सा विभागेन सामर्थ्याद् अवतिष्ठते ।भुजिः करोति भुज्यर्थं न तन्त्रेण प्रदीपवत् ॥३७८॥दृश्यादिस् तु क्रियैकापि तथाभूतेषु कर्मसु ।आवृत्तिम् अन्तरेणापि समुदायाश्रया भवेत् ॥३७९॥भिन्नव्यापाररूपाणां व्यवहारादिदर्शने ।कर्तॄणां दर्शनं भिन्नं संभूयार्थस्य साधकम् ॥३८०॥लक्ष्यस्य लोकसिद्धत्वाच् छास्त्रे लिङ्गस्य दर्शनात् ।अर्थिष्व् आदैक्षु भेदेन वृद्धिसंज्ञा समाप्यते ॥३८१॥शतादानप्रधानत्वाद् दण्डने शतकर्मके ।अर्थिनां गुणभेदे ऽपि संख्येयो ऽर्थो न भिद्यते ॥३८२॥सङ्घस्यैव विधेयत्वात् कार्यवत् प्रतिपादने ।तत्र तन्त्रेण संबन्धः समासाभ्यस्तसंज्ञयोः ॥३८३॥लक्षणार्था श्रुतिर् येषां कां चिद् एव क्रियां प्रति ।तैर् व्यस्तैश् च समस्तैश् च स धर्म उपलक्ष्यते ॥३८४॥वृषलैर् न प्रवेष्टव्यम् इत्य् एतस्मिन् गृहे यथा ।प्रत्येकं संहतानां च प्रवेशः प्रतिषिध्यते ॥३८५॥संभूय त्व् अर्थलिप्सादि- प्रतिषेधोपदेशने ।पृथग् अप्रतिषिद्धत्वात् प्रवृत्तिर् न विरुध्यते ॥३८६॥व्यवायलक्षणार्थात्वाद् अट्कुप्वाङादिभिस् तथा ।प्रत्येकं वा समस्तैर् वा णत्वं न प्रतिषिध्यते ॥३८७॥अनुग्रहार्था भोक्तॄणां भुजिर् आरभ्यते यदा ।देशकालाद्यभेदेन नानुगृह्णाति तान् असौ ॥३८८॥पात्रादिभेदान् नानात्वं यस्यैकस्योपदिश्यते ।विपर्यये वा भिन्नस्य तस्यैकत्वं प्रकल्प्यते ॥३८९॥संहत्यापि च कुर्वाणा भेदेन प्रतिपादिताः ।स्वं स्वं भोज्यं विभागेन प्राप्तं संभूय भुञ्जते ॥३९०॥वीप्साया विषयाभावाद् विरोधाद् अन्यसंख्यया ।द्विधा समाप्त्ययोगाच् च शतम् सङ्घे ऽवतिष्ठते ॥३९१॥भुजिर् द्वन्द्वैकशेषाभ्यां यत्रान्यैः सह शिष्यते ।तत्रापि लक्षणार्थत्वाद् द्विधा वाक्यं समाप्यते ॥३९२॥वाक्यान्तराणां प्रत्येकं समाप्तिः कैश् चिद् इष्यते ।रूपान्तरेण युक्तानां वाक्यनां तेन संग्रहः ॥३९३॥न वाक्यस्याभिधेयानि भेदवाक्यानि कानि चित् ।तस्मिंस् तूच्चरिते भेदांस् तथान्यान् प्रतिपद्यते ॥३९४॥येषां समस्तो वाक्यार्थः प्रतिभेदं समाप्यते ।तेषां तदानीं भिन्नस्य किं पदार्थस्य सत्तया ॥३९५॥अथ तैर् एव जनितः सो ऽर्थो भिन्नेषु वर्तते ।पूर्वस्यार्थस्य तेन स्याद् विरोधः सह वा स्थितिः ॥३९६॥सहस्थितौ विरोधित्वं स्याद् विशिष्टाविशिष्टयोः ।व्यभिचारी तु संबन्धस् त्यागे ऽर्थस्य प्रसज्यते ॥३९७॥एकः साधारणो वाच्यः प्रतिशब्दम् अवस्थितः ।सङ्घे सङ्घिषु चार्थात्मा सम्निधाननिदेशकः ॥३९८॥यथा साधारणे स्वत्वं त्यागस्य च फलं धने ।प्रीतिश् चाविकला तद्वत् संबन्धो ऽर्थेन तद्वताम् ॥३९९॥वर्णानाम् अर्थवत्तायां तेनैवार्थेन तद्वति ।समुदाये न चैकत्वं भेदेन व्यवतिष्ठते ॥४००॥ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP