संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|वाक्यपदीय|वाक्यकांड| भाग ७ वाक्यकांड भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० वाक्यकांड - भाग ७ संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली. Tags : bhartruharigrammerभर्तृहरिवाक्यपदीयव्याकरण भाग ७ Translation - भाषांतर तथा शब्दो ऽपि कस्मिंश् चित् प्रत्याय्ये ऽर्थे विवक्षिते ।अविवक्षितम् अप्य् अर्थं प्रकाशयते संनिधेः ॥३०१॥यथैवात्यन्तसंसृष्टस् त्यक्तुम् अर्थो न शक्यते ।तथा शब्दो ऽपि संबन्धी प्रविवक्तुं न शक्यते ॥३०२॥अर्थानां संनिधाने ऽपि सति चैषां प्रकाशने ।प्रयोजको ऽर्थः शब्दस्य रूपाभेदे ऽपि गम्यते ॥३०३॥क्व चिद् गुणप्रधानत्वम् अर्थानाम् अविवक्षितम् ।क्व चित् सांनिध्यम् अप्य् एषां प्रतिपत्ताव् अकारणम् ॥३०४॥यच् चानुपात्तं शब्देन तत् कस्मिंश् चित् प्रतीयते ।क्व चित् प्रधानम् एवार्थो भवत्य् अयस्य लक्षणम् ॥३०५॥आख्यातं तद्धितार्थस्य यत् किं चिद् उपदर्शकम् ।गुणप्रधानभावस्य तत्र दृष्टो विपर्ययः ॥३०६॥निर्देशे लिङ्गसंख्यानां संनिधानम् अकारणम् ।प्रमाणम् अर्धह्रसादाव् अनुपात्तं प्रतीयते ॥३०७॥ह्रस्वस्यार्धं च यद् दृष्टं तत् तस्यासंनिधाव् अपि ।ह्रस्वस्य लक्षणार्थत्वात् तद्वद् एवाभिधीयते ॥३०८॥दीर्घप्लुताभ्यां तस्य स्यान् मात्रया वा विशेषणम् ।जातेर् वा लक्षणाय स्यात् सर्वथा सप्तपर्णवत् ॥३०९॥गन्तव्यं दृश्यतां सूर्य इति कालस्य लक्षणे ।ज्ञायतां काल इत्य् एतत् सोपायम् अभिधीयते ॥३१०॥विध्यत्य् अधनुषेत्य् अत्र विशेषेण निदर्श्यते ।सामान्यम् आश्रयः शक्तेर् यः कश् चित् प्रतिपादकः ॥३११॥काकेभ्यो रक्ष्यतां सर्पिर् इति बालो ऽपि चोदितः ।उपघातपरे वाक्ये न श्वादिभ्यो न रक्षति ॥३१२॥प्रक्षालने शरावाणां स्थाननिर्मार्जनं तथा ।अनुक्तम् अपि रूपेण भुज्यङ्गत्वात् प्रतीयते ॥३१३॥वाक्यात् प्रकरणाद् अर्थाद् औचित्याद् देशकालतः ।शब्दार्थाः प्रविभज्यन्ते न रूपाद् एव केवलात् ॥३१४॥संसर्गो विप्रयोगश् च साहचर्यं विरोधिता ।अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य संनिधिः ॥३१५॥सामर्थ्यम् औचिती देशः कालो व्यक्तिः स्वरादयः ।शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥३१६॥भेदपक्षे ऽपि सारूप्याद् भिन्नार्थाः प्रतिपत्तृषु ।नियता यान्त्य् अभिव्यक्तिं शब्दाः प्रकरणादिभिः ॥३१७॥नामाख्यातसरूपा ये कार्यान्तरनिबन्धनाः ।शब्दा वाक्यस्य तेष्व् अर्थो न रूपाद् अधिगम्यते ॥३१८॥या प्रवृत्तिनिवृत्त्यर्था स्तुतिनिन्दाप्रकल्पना ।कुशलः प्रतिपत्ता ताम् अयथार्थां समीहते ॥३१९॥विधीयमानं यत् क्रर्म दृष्टादृष्टप्रयोजनम् ।स्तूयते सा स्तुतिस् तस्य कर्तुर् एव प्रयोजिका ॥३२०॥व्याघ्रादिव्यपदेशेन यथा बालो निवर्त्यते ।असत्यो ऽपि तथा कश् चित् प्रत्यवायो ऽभिधीयते ॥३२१॥न संविधानां कृत्वापि प्रत्यवाये तथाविधे ।शास्त्रेण प्रतिषिद्धे ऽर्थे विद्वान् कश् चित् प्रवर्तते ॥३२२॥सर्पेषु संविधायापि सिद्धैर् मन्त्रौषधादिभिः ।नान्यथा प्रतिपत्तव्यं न दतो गमयेद् इति ॥३२३॥क्व चित् तत्त्वसमाख्यानं क्रियते स्तुतिनिन्दयोः ।तत्रापि च प्रवृत्तिश् च निवृत्तिश् चोपदिश्यते ॥३२४॥रूपं सर्वपदार्थानां वाक्यार्थोपनिबन्धनम् ।सापेक्षा ये तु वाक्यार्थाः पदार्थैर् एव ते समाः ॥३२५॥वाक्यं तद् अपि मन्यन्ते यत् पदं चरितक्रियम् ।अन्तरेण क्रियाशब्दं वाक्यादेर् द्वित्वदर्शनात् ॥३२६॥आख्यातशब्दे नियतं साधनं यत्र गम्यते ।तद् अप्य् एकं समाप्तार्थं वाक्यम् इत्य् अभिधीयते ॥३२७॥शब्दव्यवहिता बुद्धिर् अप्रयुक्तपदाश्रया ।अनुमानं तदर्थस्य प्रत्यये हेतुर् उच्यते ॥३२८॥[थिस् वेर्से इस् ओन्ल्य् इन् ऋऔ] अपरे तु पदस्यैव तम् अर्थं प्रतिजानते ।शब्दान्तराभिसंबन्धम् अन्तरेण व्यवस्थितम् ॥३२९॥यस्मिन्न् उच्चरिते शब्दे यदा यो ऽर्थः प्रतीयते ।तम् आहुर् अर्थं तस्यैव नान्यद् अर्थस्य लक्षणम् ॥३३०॥क्रियार्थोपपदेश्व् एवं स्थानिनां गम्यते क्रिया ।वृत्तौ निरादिभिश् चैवं क्रान्ताद्यर्थः प्रतीयते ॥३३१॥तानि शब्दान्तराण्य् एव पर्याया इव लौकिकाः ।अर्थप्रकरणाभ्यां तु तेषां स्वार्थो नियम्यते ॥३३२॥प्रतिबोधाभ्युपायास् तु ये तं तं पुरुषं प्रति ।नावश्यं ते ऽभिसंबद्धाः शब्दा ज्ञेयेन वस्तुना ॥३३३॥असत्यां प्रतिपत्तौ वा मिथ्या वा प्रतिपादने ।स्वैर् अर्थैर् नित्यसंबन्धास् ते ते शब्दा व्यवस्थिताः ॥३३४॥यथाप्रकरणं द्वारम् इत्य् अस्यां कर्मणः श्रुतौ ।बधान देहि वेत्य् एतद् उपायाद् अवगम्यते ॥३३५॥तत्र साधनवृत्तिर् यः शब्दः सत्त्वनिबन्धनः ।न स प्रधानभूतस्य साध्यस्यार्थस्य वाचकः ॥३३६॥स्वार्थमात्रं प्रकाश्यासौ सापेक्षो विनिवर्तते ।अर्थस् तु तस्य संबन्धी प्रकल्पयति संनिधिम् ॥३३७॥पारार्थ्यस्याविशिष्टत्वान् न शब्दाच् छब्दसंनिधिः ।नार्थाच् छब्दस्य सांनिध्यं न शब्दाद् अर्थसंनिधिः ॥३३८॥नष्टरूपम् इवाख्यातम् आक्षिप्तं कर्मवाचिना ।यदि प्राप्तं प्रधानत्वं युगपद् भावसत्त्वयोः ॥३३९॥तैस् तु नामसरूपत्वम् आख्यातस्यास्य वर्ण्यते ।अन्वयव्यतिरेकाभ्यां व्यवहारो विभज्यते ॥३४०॥न चापि रूपात् संदेहे वाचकत्वं निवर्तते ।अर्धं पशोर् इति यथा सामर्थ्यात् तद् धि कल्पते ॥३४१॥सर्वं सत्त्वपदं शुद्धं यदि भावनिबन्धनम् ।संसर्गे च विभक्तो ऽस्य तस्यार्थो न पृथग् यदि ॥३४२॥क्रियाप्रधानम् आख्यातं नाम्नां सत्त्वप्रधानता ।चत्वारि पदजातानि सर्वम् एतद् विरुध्यते ॥३४३॥वाक्यस्य बुद्धौ नित्यत्वम् अर्थयोगं च लौकिकम् ।दृष्ट्वा चतुष्ट्वं नास्तीति वदत्य् औदुम्बरायणः ॥३४४॥व्याप्तिमांश् च लघुश् चैव व्यवहारः पदाश्रयः ।लोके शास्त्रे च कार्यार्थं विभागेनैव कल्पितः ॥३४५॥न लोके प्रतिपत्तॄणाम् अर्थयोगात् प्रसिद्धयः ।तस्माद् अलौकिको वाक्याद् अन्यः कश् चिन् न विद्यते ॥३४६॥अन्यत्र श्रूयमाणैश् च लिङ्गैर् वाक्यैश् च सूचिताः ।स्वार्था एव प्रतीयन्ते रूपाभेदाद् अलक्षिताः ॥३४७॥उत्सर्गवाक्ये यत् त्यक्तम् अशब्दम् इव शब्दवत् ।तद् बाधकेषु वाक्येषु श्रुतम् अन्यत्र गम्यते ॥३४८॥ब्राह्मणानां श्रुतिर् दध्नि प्रक्रान्ता माठराद् विना ।माठरस् तक्रसंबन्धात् तत्राचष्टे यथार्थताम् ॥३४९॥अनेकाख्यातयोगे ऽपि वाक्यं न्यायापवादयोः ।एकम् एवेष्यते कैश् चिद् भिन्नरूपम् इव स्थितम् ॥३५०॥ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP