संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|वाक्यपदीय|वाक्यकांड| भाग ३ वाक्यकांड भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० वाक्यकांड - भाग ३ संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली. Tags : bhartruharigrammerभर्तृहरिवाक्यपदीयव्याकरण भाग ३ Translation - भाषांतर ऊ इत्य् एतद् अभिन्नं च भिन्नवाक्यनिबन्धनम् ।भेदेन ग्रहणं यस्य पररूपम् इव द्वयोः ॥१०१॥प्लुतस्याङ्गविवृद्धिं च समाहारम् अचोस् तथा ।व्युदस्यता पुनर् भेदः शब्देष्व् अत्यन्तम् आश्रितः ॥१०२॥अर्धर्चादिषु शब्देषु रूपभेदः क्रमाद् यथा ।तन्त्रात् तथैकशब्दत्वे भिन्नानां श्रुतिर् अन्यथा ॥१०३॥संहिताविषये वर्णाः स्वरूपेणाविकारिणः ।शब्दान्तरत्वं यान्तीव शक्त्यन्तरपरिग्रहात् ॥१०४॥इन्द्रियादिविकारेण दृष्टं ग्राह्येषु वस्तुषु ।आत्मत्यागाद् ऋते भिन्नं ग्रहणं स क्रमः श्रुतौ ॥१०५॥अभिधानक्रियाभेदाच् छब्देष्व् अविकृतेष्व् अपि ।रूपम् अत्यन्तभेदेन तद् एवैकं प्रकाशते ॥१०६॥ऋचो वा गीतिमात्रं वा साम द्रव्यान्तरं न तु ।गीतिभेदात् तु गृह्यन्ते ता एव विकृता ऋचः ॥१०७॥उपायाच् छ्रुतिसंहारे भिन्नानाम् एकशेषिणाम् ।तन्त्रेणोच्चारणे तेषां शास्त्रे साधुत्वम् उच्यते ॥१०८॥परिगृह्य श्रुतिं चैकां रूपभेदवताम् अपि ।तन्त्रेणोच्चारणं कार्यम् अन्यथा ते न साधवः ॥१०९॥सरूपाणां च वाक्यानां शास्त्रेणाप्रतिपादितम् ।तन्त्रेणोच्चारणाद् एकं रूपं साधूपलभ्यते ॥११०॥एकस्यानेकरूपत्वं नालिकादिपरिग्रहात् ।यथा तथैव तन्त्रात् स्याद् बहूनाम् एकरूपता ॥१११॥यथा पदसरूपाणां वाक्यानां संभवः पृथक् ।तथा वाक्यान्तराभावे स्याद् एषां पृथगर्थता ॥११२॥अभिधेयः पदस्यार्थो वाक्यस्यार्थः प्रयोजनम् ।यस्य तस्य न संबन्धो वाक्यानाम् उपपद्यते ॥११३॥तत्र क्रियापदान्य् एव व्यपेक्षन्ते परस्परम् ।क्रियापदानुषक्तस् तु संबन्धो ऽथ प्रतीयते ॥११४॥आवृत्तिर् अनुवादो वा पदार्थव्यक्तिकल्पने ।प्रत्येकं तु समाप्तो ऽर्थः सहभूतेषु वर्तते ॥११५॥अविकल्पितवाक्यार्थे विकल्पा भावनाश्रयाः ।अत्राधिकरणे वादाः पूर्वेषां बहुधा मताः ॥११६॥अभ्यासात् प्रतिभाहेतुः सर्वः शब्दो ऽपरैः स्मृतः ।बालानां च तिरश्चां च यथार्थप्रतिपादने ॥११७॥अनागमश् च सो ऽभ्यासः समयः कैश् चिद् इष्यते ।अनन्तरम् इदं कार्यम् अस्माद् इत्य् उपदर्शकः ॥११८॥अस्त्य् अर्थः सर्वशब्दानां इति प्रत्याय्यलक्षणम् ।अपूर्वदेवतास्वर्गैः समम् आहुर् गवादिषु ॥११९॥प्रयोगदर्शनाभ्यासाद् आकारावग्रहस् तु यः ।न स शब्दस्य विषयः स हि यत्नान्तराश्रयः ॥१२०॥के चिद् भेदाः प्रकाश्यन्ते शब्दैस् तदभिधायिभिः ।अनुनिष्पादिनः कांश् चिच् छब्दार्थान् इति मन्यते ॥१२१॥जातेः प्रत्यायके शब्दे या व्यक्तिर् अनुषङ्गिणी ।न तद्व्यक्तिगतान् भेदाञ् जातिशब्दो ऽवलम्बते ॥१२२॥घटादीनां न चाकारान् प्रत्याययति वाचकः ।वस्तुमात्रनिवेशित्वात् तद्गतिर् नान्तरीयका ॥१२३॥क्रिया विना प्रयोगेण न दृष्टा शब्दचोदिता ।प्रयोगस् त्व् अनुनिष्पादी शब्दार्थ इति गम्यते ॥१२४॥नियतास् तु प्रयोगा ये नियतं यच् च साधनम् ।तेषां शब्दाभिधेयत्वम् अपरैर् अनुगम्यते ॥१२५॥समुदायो ऽभिधेयो वाप्य् अविकल्पसमुच्चयः ।असत्यो वापि संसर्गः शब्दार्थः कैश् चिद् इष्यते ॥१२६॥असत्योपाधि यत् सत्यं तद् वा शब्दनिबन्धनाम् ।शब्दो वाप्य् अभिजल्पत्वम् आगतो याति वाच्यताम् ॥१२७॥सो ऽयम् इत्य् अभिसंबन्धाद् रूपम् एकीकृतं यता ।शब्दस्यार्थेन तं शब्दम् अभिजल्पं प्रचक्षते ॥१२८॥तयोर् अपृथगात्मत्वे रूढिर् अव्यभिचारिणी ।किं चिद् एव क्व चिद् रूपं प्राधान्येनावतिष्ठते ॥१२९॥लोके ऽर्थरूपतां शब्दः प्रतिपन्नः प्रवर्तते ।शास्त्रे तूभयरूपत्वं प्रविभक्तं विवक्षया ॥१३०॥अशक्तेः सर्वशक्तेर् वा शब्दैर् एव प्रकल्पिता ।एकस्यार्थस्य नियता क्रियादिपरिकल्पना ॥१३१॥यो वार्थो बुद्धिविषयो बाह्यवस्तुनिबन्धनः ।स बाह्यं वस्त्व् इति ज्ञातः शब्दार्थ इति गम्यते ॥१३२॥आकारवन्तः संवेद्या व्यक्तिस्मृतिनिबन्धनाः ।एते प्रत्यवभासन्ते संविन्ंआत्रं त्व् अतो ऽन्यथा ॥१३३॥यथेन्द्रियं संनिपतद् वैचित्रेणोपदर्शकं ।तथैव शब्दाद् अर्थस्य प्रतिपत्तिर् अनेकधा ॥१३४॥वक्त्रान्यथैव प्रक्रान्तो भिन्नेषु प्रतिपत्तृषु ।स्वप्रत्ययानुकारेण शब्दार्थः प्रविभज्यते ॥१३५॥एकस्मिन्न् अपि दृश्ये ऽर्थे दर्शनं भिद्यते पृथक् ।कालान्तरेण चैको ऽपि तं पश्यत्य् अन्यथा पुनः ॥१३६॥एकस्यापि च शब्दस्य निमित्तैर् अव्यवस्थितैः ।एकेन बहुभिश् चार्थो बहुधा परिकल्प्यते ॥१३७॥तस्माद् अदृष्टतत्त्वानां सापराधं बहुच्छलं ।दर्शनं वचनं वापि नित्यम् एवानवस्थितम् ॥१३८॥ऋषीणां दर्शनं यच् च तत्त्वे किं चिद् अवस्थितम् ।न तेन व्यवहारो ऽस्ति न तच् छब्दनिबन्धनं ॥१३९॥तलवद् दृश्यते व्योम खद्योतो हव्यवाड् इव ।नैव चास्ति तलं व्योम्नि न खद्योते हुताशनः ॥१४०॥तस्मात् प्रत्यक्षम् अप्य् अर्थं विद्वान् ईक्षेत युक्तितः ।न दर्शनस्य प्रामाण्याद् दृश्यम् अर्थं प्रकल्पयेत् ॥१४१॥असमाख्येयतत्त्वानाम् अर्थानां लौकिकैर् यथा ।व्यवहारे समाख्यानं तत् प्रज्ञो न विकल्पयेत् ॥१४२॥विच्छेदग्रहणे ऽर्थानां प्रतिभान्यैव जायते ।वाक्यार्थ इति ताम् आहुः पदार्थैर् उपपादिताम् ॥१४३॥इदं तद् इति सान्येषाम् अनाक्येया कथं चन ।प्रत्यात्मवृत्ति सिद्धा सा कर्त्रापि न निरूप्यते ॥१४४॥उपश्लेषम् इवार्थानां सा करोत्य् अविचारिता ।सार्वरूप्यम् इवापन्ना विषयत्वेन वर्तते ॥१४५॥साक्शाच् छब्देन जनितां भावनानुगमेन वा ।इतिकर्तव्यतायां तां न कश् चिद् अतिवर्तते ॥१४६॥प्रमाणत्वेन तां लोकः सर्वः समनुगच्छति ।समारम्भाः प्रतायन्ते तिरश्चाम् अपि तद्वशात् ॥१४७॥यथा द्रव्यविशेषाणां परिपाकैर् अयत्नजाः ।मदादिशक्तयो दृष्टाः प्रतिभास् तद्वतां तथा ॥१४८॥स्वरवृत्तिं विकुरुते मधौ पुंस्कोकिलस्य कः ।जन्त्वादयः कुलायादि- करणे शिक्षिताः कथम् ॥१४९॥आहारप्रीत्यपद्वेष- प्लवनादिक्रियासु कः ।जात्यन्वयप्रसिद्धासु प्रयोक्ता मृगपक्षिणाम् ॥१५०॥ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP