संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|वाक्यपदीय|वाक्यकांड| भाग १ वाक्यकांड भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० वाक्यकांड - भाग १ संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली. Tags : bhartruharigrammerभर्तृहरिवाक्यपदीयव्याकरण भाग १ Translation - भाषांतर आख्यातं शब्दसंघातो जातिः संघातवर्तिनी ।एको ऽनवयवः शब्दः क्रमो बुद्ध्यनुसंहृतिः ॥१॥पदम् आद्यं पृथक् सर्वं पदं सापेक्षम् इत्य् अपि ।वाक्यं प्रति मतिर् भिन्ना बहुधा न्यायदर्शिनाम् ॥२॥निघातादिव्यवस्थार्थं शास्त्रे यत् परिभाषितम् ।साकाङ्क्षावयवं तेन न सर्वं तुल्यलक्षणं ॥३॥साकाङ्क्षावयवं भेदे परानाकाङ्क्षशब्दकम् ।कर्मप्रधानं गुणवद् एकार्थं वाक्यम् उच्यते ॥४॥संबोधनपदं यच् च तत् क्रियाया विशेषकम् ।तथा तिङन्तं तत्राहुस् तिङन्तस्य विशेषकम् ॥५॥यथानेकम् अपि क्त्वान्तं तिङन्तस्य विशेषकम् ।तथा तिङन्तं तत्राहुस् तिङन्तस्य विशेषकम् ॥६॥यथैक एव सर्वार्थ- प्रकाशः प्रविभज्यते ।दृश्यभेदानुकारेण वाक्यार्थावगमस् तथा ॥७॥चित्रस्यैकस्य रूपस्य यथा भेदनिदर्शनैः ।नीलादिभिः समाख्यानं क्रियते भिन्नलक्षणैः ॥८॥तथैवैकस्य वाक्यस्य निराकाङ्क्षस्य सर्वतः ।शब्दान्तरैः समाख्यानं साकाङ्क्षैर् अनुगम्यते ॥९॥यथा पदे विभज्यन्ते प्रकृतिप्रत्ययादयः ।अपोद्धारस् तथा वाक्ये पदानाम् उपपद्यते ॥१०॥वर्णान्तरसरूपत्वं वर्णभागेषु दृष्यते ।पदान्तरसरूपाश् च पदभागा इव स्थिताः ॥११॥भागैर् अनर्थकैर् युक्ता वृषभोदकयावकाः ।अन्वयव्यतिरेकौ तु व्यवहारनिबन्धनम् ॥१२॥शब्दस्य न विभागो ऽस्ति कुतो ऽर्थस्य भविष्यति ।विभागैः प्रक्रियाभेदम् अविद्वान् प्रतिपद्यते ॥१३॥ब्राह्मणार्थो यथा नास्ति कश् चिद् ब्राह्मणकम्बले ।देवदत्तादयो वाक्ये थतैव स्युर् अनर्थकाः ॥१४॥सामान्यार्थस् तिरोभूतो न विशेषे ऽवतिष्ठते ।उपात्तस्य कुतस् त्यागो निवृत्तः क्वावतिष्ठताम् ॥१५॥अशाब्दो यदि वाक्यार्थः पदार्थो ऽपि तथा भवेत् ।एवं सति च संबन्धः शब्दस्यार्थेन हीयते ॥१६॥विशेशशब्दाः केषां चित् सामान्यप्रतिरूपकाः ।शब्दान्तराभिसंबन्धाद् व्यज्यन्ते प्रतिपत्तृषु ॥१७॥तेषां तु कृत्स्नो वाक्यार्थः प्रतिभेदं समाप्यते ।व्यक्तोपव्यञ्जना सिद्धिर् अर्थस्य प्रतिपतृषु ॥१८॥स व्यक्तः क्रमवाञ् छब्द उपांशु यम् अधीयते ।अक्रमस् तु वितत्येव बुद्धिर् यत्रावतिष्ठते ॥१९॥यथोत्क्षेपविशेषे ऽपि कर्मभेदो न गृह्यते ।आवृत्तौ व्यज्यते जातिः कर्मभिर् भ्रमणादिभिः ॥२०॥वर्णवाक्यपदेष्व् एवं तुल्योपव्यञ्जना श्रुतिः ।अत्यन्तभेदे तत्त्वस्य सरूपेव प्रतीयते ॥२१॥नित्येषु च कुतः पूर्वं परं वा परमार्थतः ।एकस्यैव तु सा शक्तिर् यद् एवम् अवभासते ॥२२॥चिरं क्षिप्रम् इति ज्ञाने कालभेदाद् ऋते यथा ।भिन्नकाले प्रकाशेते स धर्मो ह्रस्वदीर्घयोः ॥२३॥न नित्यः क्रममात्राभिः कालो भेदम् इहार्हति ।व्यावर्तिनीनां मात्राणाम् अभावे कीदृशः क्रमः ॥२४॥ताभ्यो या जायते बुद्धिर् एका सा भागवर्जिता ।सा हि स्वशक्त्या भिन्नेव क्रमप्रत्यवमर्शिनी ॥२५॥क्रमोल्लेखानुषङ्गेण तस्यां यद् बीजम् आहितम् ।तत्त्वनानात्वयोस् तस्य निरुक्तिर् नावतिष्ठते ॥२६॥भावनासमये त्व् एतत् क्रमसामर्थ्यम् अक्रमम् ।व्यावृत्तभेदो येनार्थो भेदवान् उपलभ्यते ॥२७॥पदानि वाक्ये तान्य् एव वर्णास् ते च पदे यदि ।वर्णेषु वर्णभागानां भेदः स्यात् परमाणुवत् ॥२८॥भागानाम् अनुपश्लेषान् न वर्णो न पदं भवेत् ।तेषाम् अव्यपदेश्यत्वात् किम् अन्यद् व्यपदिश्यताम् ॥२९॥यद् अन्तःशब्दतत्त्वं तु भागैर् एकं प्रकाशितम् ।तम् आहुर् अपरे शब्दं तस्य वाक्ये तथैकताम् ॥३०॥अर्थभागैस् तथा तेषाम् अन्तरो ऽर्थः प्रकाश्यते ।एकस्यैवात्मनो भेदौ शब्दार्थाव् अपृथक्स्थितौ ॥३१॥प्रकाशकप्रकाश्यत्वं कार्यकारणरूपता ।अन्तर्मात्रात्मनस् तस्य शब्दतत्त्वस्य सर्वदा ॥३२॥तस्यैवास्तित्वनास्तित्वे सामर्थ्ये समवस्थिते ।अक्रमे क्रमनिर्भासे व्यवहारनिबन्धने ॥३३॥संप्रत्ययप्रमाणत्वात् पदार्थास्तित्वकल्पने ।पदार्थाभ्युच्चये त्यागाद् आनर्थक्यं प्रसज्यते ॥३४॥राजशब्देन राजार्थो भिन्नरूपेण गम्यते ।वृत्ताव् आख्यातसदृशं पदम् अन्यत् प्रयुज्यते ॥३५॥यथाश्वकर्ण इत्य् उक्ते विनैवाश्वेन गम्यते ।कश् चिद् एव विशिष्टो ऽर्थः सर्वेषु प्रत्ययस् तथा ॥३६॥वाक्येषु अर्थान्तरगतः सादृश्यपरिकल्पने ।केषां चित् रूढिशब्दत्वं शास्त्र एवानुगम्यते ॥३७॥उपादायापि ये हेयास् तान् उपायान् प्रचक्षते ।उपायानां च नियमो नावश्यम् अवतिष्ठते ॥३८॥अर्थं कथं चित् पुरुषः कश् चित् संप्रतिपद्यते ।संसृष्टा वा विभक्ता चा भेदा वाक्यनिबन्धनाः ॥३९॥सो ऽयम् इत्य् अभिसंबन्धो बुद्ध्या प्रक्रम्यते यदा ।वाक्यार्थस्य तदैको ऽपि वर्णः प्रत्यायकः क्व चित् ॥४०॥केवलेन पदेनार्थो यावान् एवाभिधीयते ।वाक्यस्थं तावतो ऽर्थस्य तद् आहुर् अभिधायकम् ॥४१॥संबन्धे सति यत् त्व् अन्यद् आधिक्यम् उपजायते ।वाक्यार्तम् एव तं प्राहुर् अनेकपदसंश्रयम् ॥४२॥स त्व् अनेकपदस्थो ऽपि प्रतिभेदं समाप्यते ।जातिवत् समुदाये ऽपि संख्यावत् कल्प्यते ऽपरैः ॥४३॥सर्वभेदानुगुण्यं तु सामान्यम् अपरे विदुः ।तद् अर्थान्तरसंसर्गाद् भजते भेदरूपताम् ॥४४॥भेदान् आकाङ्क्षतस् तस्य या परिप्लवमामता ।अवच्छिनत्ति संबन्धस् तां विशेषे निवेशयन् ॥४५॥कार्यानुमेयः संबन्धो रूपं तस्य न विद्यते ।असत्त्वभूतम् अत्यन्तम् अतस् तं प्रतिजानते ॥४६॥नियतं साधने साध्यं क्रिया नियतसाधना ।स संनिधानमात्रेण नियमः संप्रकाशते ॥४७॥गुणभावेन साकाङ्क्षं तत्र नाम प्रवर्तते ।साध्यत्वेन निमित्तानि क्रियापदम् अपेक्षते ॥४८॥सन्त एव विशेषा ये पदार्थेष्व् अविभाविताः ।ते क्रमाद् अनुगम्यन्ते न वाक्यम् अभिधायकम् ॥४९॥शब्दानां क्रममात्रे च नान्यः शब्दो ऽस्ति वाचकः ।क्रमो हि धर्मः कालस्य तेन वाक्यं न विद्यते ॥५०॥ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP