संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|वाक्यपदीय|वाक्यकांड| भाग ४ वाक्यकांड भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० वाक्यकांड - भाग ४ संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली. Tags : bhartruharigrammerभर्तृहरिवाक्यपदीयव्याकरण भाग ४ Translation - भाषांतर भावनानुगताद् एतद् आगमाद् एव जायते ।आसत्तिविप्रकर्षाभ्याम् आगमस् तु विशिष्यते ॥१५१॥स्वभाववरणाभास- योगादृष्टोपपादिताम् ।विशिष्टोपहितां चेति प्रतिभां षड्विधां विदुः ॥१५२॥यथा संयोगिभिर् द्रव्यैर् लक्षिते ऽर्थे प्रयुज्यते ।गोशब्दो न त्व् असौ तेषां विशेशाणां प्रकाशकः ॥१५३॥आकारवर्णावयवैः संसृष्टेषु गवादिषु ।शब्दः प्रवर्तमानो ऽपि न तान् अङ्गीकरोत्य् असौ ॥१५४॥संस्थानवर्णावयवैर् विशिष्टे ऽर्थे प्रयुज्यते ।शब्दो न तस्यावयवे प्रवृत्तिर् उपलभ्यते ॥१५५॥दुर्लभं कस्य चिल् लोके सर्वावयवदर्शनं ।कैश् चित् त्व् अवयवैर् दृष्टैर् अर्थः कृत्सो ऽनुमीयते ॥१५६॥तथा जात्युत्पलादीनां गन्धेन सहचारिणाम् ।नित्यसंबन्धिनां दृष्टं गुणानाम् अवधारणम् ॥१५७॥संख्याप्रमाणसंस्थान- निरपेक्षः प्रवर्तते ।बिन्दौ च समुदाये च वाचकः सलिलादिषु ॥१५८॥संस्कारादिपरिच्छिन्ने तैलादौ यो व्यवस्थितः ।आहैकदेशं तत्त्वेन तस्यावयववर्तिना ॥१५९॥येनार्थेनाभिसंबद्धम् अभिधानं प्रयुज्यते ।तदर्थापगमे तस्य प्रयोगो विनिवर्तते ॥१६०॥यांस् तु संभविनो धर्मान् अन्तर्णीय प्रयुज्यते ।शब्दस् तेषां न सांनिध्यं नियमेन व्यपेक्षते ॥१६१॥यथा रोमशफादीनां व्यभिचारे ऽपि दृश्यते ।गोशब्दो न तथा जातेर् विप्रयोगे प्रवर्तते ॥१६२॥तस्मात् संभविनो ऽर्थस्य शब्दात् संप्रत्यये सति ।अदृष्टविप्रयोगार्थः संबन्धित्वेन गम्यते ॥१६३॥वाचिका द्योतिका व स्युर् द्वित्वादीनां विभक्तयः ।स्याद् वा संख्यावतो ऽर्थस्य समुदायो ऽभिधायकः ॥१६४॥विना संख्याभिधानाद् वा संख्याभेदसमन्वितान् ।अर्थान् स्वरूपभेदेन काम्श् चिद् आहुर् गवादयः ॥१६५॥ये शब्दा नित्यसंबन्धा विवेके ज्ञातशक्तयः ।अन्वयव्यतिरेकाभ्यां तेषाम् अर्थो विभज्यते ॥१६६॥यावच् चाव्यभिचारेण तयोः शक्यं प्रकल्पनम् ।नियमस् तत्र न त्व् एवं नियमो नुट्शबादिषु ॥१६७॥संभवे नाभिधानस्य लक्षणत्वं प्रकल्पते ।आपेक्षिक्यो हि संसर्गे नियताः शब्दशक्तयः ॥१६८॥न कूपसूपयूपानाम् अन्वयो ऽर्थस्य दृश्यते ।अतो ऽर्थान्तरवाचित्वं संघातस्यैव गम्यते ॥१६९॥अन्वाख्यानानि भिद्यन्ते शब्दव्युत्पत्तिकर्मसु ।बहूनां संभवे ऽर्थानां निमित्तं किं चिद् इष्यते ॥१७०॥वैरवासिष्ठगिरिशास् तथैकागारिकादयः ।कैश् चित् कथं चिद् आख्याता निमित्तावधिसंकरैः ॥१७१॥यथा पथः समाख्यानं वृक्षवल्मीकपर्वतैः ।अविरुद्धं गवादीनां भिन्नैश् च सहचारिभिः ॥१७२॥अन्यथा च समाख्यानम् अवस्थाभेददर्शिभिः ।क्रियते किंशुकादीनाम् एकदेशावधारणं ॥१७३॥कैश् चिन् निर्वचनं भिन्नं गिरतेर् गर्जतेर् गमेः ।गवतेर् गदतेर् वापि गौर् इत्य् अत्रानुदर्शितम् ॥१७४॥गौर् इत्य् एव स्वरूपाद् वा गोशब्दो गोषु वर्तते ।व्युत्पाद्यते न वा सर्वं कैश् चिच् चोभयथेष्यते ॥१७५॥सामान्येनोपदेशश् च शास्त्रे लघ्वर्थम् आश्रितः ।जात्यन्तरवद् अन्यस्य विशेषाः प्रतिपादकाः ॥१७६॥अर्थान्तरे च यद् वृत्तं तत् प्रकृत्यन्तरं विदुः ।तुल्यरूपं न तद् रूढाव् अन्यस्मिन्न् अनुषज्यते ॥१७७॥भिन्नाव् इजियजी धातू नियतौ विषयान्तरे ।कैश् चित् कथं चिद् उद्दिष्टौ चित्रं हि प्रतिपादनम् ॥१७८॥एवं च वालवायादि जित्वरीवद् उपाचरेत् ।भेदाभेदाभ्युपगमे न विरोधो ऽस्ति कश् चन ॥१७९॥अडादीनां व्यवस्थार्थं पृथक्त्वेन प्रकल्पनम् ।धातूपसर्गयोः शास्त्रे धातुर् एव तु तादृशः ॥१८०॥तथा हि संग्रामयतेः सोपसर्गाद् विधिः स्मृतः ।क्रियाविशेषाः सम्घाते प्रक्रम्यन्ते तथाविधाः ॥१८१॥कार्याणाम् अन्तरङ्गत्वम् एवं धातूपसर्गयोः ।साधनैर् याति संबन्धं तथाभूतैव सा क्रिया ॥१८२॥प्रयोगार्थेषु सिद्धः सन् भेत्तव्यो ऽर्थो विशिष्यते ।प्राक् च साधनसंबन्धात् क्रिया नैवोपजायते ॥१८३॥धातोः साधनयोगस्य भाविनः प्रक्रमाद् यथा ।धातुत्वं कर्मभावश् च तथान्यद् अपि दृश्यताम् ॥१८४॥बीजकालेषु संबन्धाद् यथा लाक्षारसादयः ।वर्णादिपरिणामेन फलानाम् उपकुर्वते ॥१८५॥बुद्धिस्थाद् अभिसंबन्धात् तथा धातूपसर्गयोः ।अभ्यन्तरीकृताद् भेदः पदकाले प्रकाशते ॥१८६॥क्व चित् संभविनो भेदाः केवलैर् अनिदर्शिताः ।उपसर्गेण संबन्धे व्यज्यन्ते प्रनिरादिना ॥१८७॥स वाचको विशेषाणां संभवाद् द्योतको ऽपि वा ।शक्त्याधानाय वा धातोः सहकारी प्रयुज्यते ॥१८८॥स्थादिभिः केवलैर् यच् च गमनादि न गम्यते ।तत्रानुमानाद् द्विविधात् तद्धर्मा प्रादिर् उच्यते ॥१८९॥अप्रयोगे ऽधिपर्योश् च यावद् दृष्टं क्रियान्तरम् ।तस्याभिधायको धातुः सह ताभ्याम् अनर्थकः ॥१९०॥तथैव स्वार्थिकाः के चित् संघातान्तरवृत्तयः ।अनर्थकेन संसृष्टाः प्रकृत्यर्थानुवादिनः ॥१९१॥निपाता द्योतकाः के चित् पृथगर्थप्रकल्पने ।आगमा इव के चित् तु संभूयार्थस्य साधकाः ॥१९२॥उपरिष्टात् पुरस्ताद् वा द्योतकत्वं न भिद्यते ।तेषु प्रयुज्यमानेषु भिन्नार्थेष्व् अपि सर्वथा ॥१९३॥चादयो न प्रयुज्यन्ते पदत्वे सति केवलाः ।प्रत्ययो वाचकत्वे ऽपि केवलो न प्रयुज्यते ॥१९४॥समुच्चिताभिधाने तु व्यतिरेको न विद्यते ।असत्त्वभूतो भावश् च तिङ्पदैर् अभिधीयते ॥१९५॥समुच्चिताभिधाने ऽपि विशिष्टार्थाभिधायिनाम् ।गुणैर् पदानां संबन्धः परतन्त्रास् तु चादयः ॥१९६॥जनयित्वा क्रिया का चित् संबन्धं विनिवर्तते ।श्रूयमाणे क्रियाशब्दे संबन्धो जायते क्व चित् ॥१९७॥तत्र षष्ठी प्रतिपदं समासस्य निवृत्तये ।विहिता दर्शनार्थं तु कारकं प्रत्युदाहृतम् ॥१९८॥स चोपजातः संबन्धो विनिवृत्ते क्रियापदे ।कर्मप्रवचनीयेन तत्र तत्र नियम्यते ॥१९९॥येन क्रियापदाक्षेपः स कारकविभक्तिभिः ।युज्यते विर् यथा तस्य लिखाव् अनुपसर्गता ॥२००॥ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP