वाक्यकांड - भाग ९

संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली.


एकेनैव प्रदीपेन सर्वे साधारणं धनम् ।
पश्यन्ति तद्वद् एकेन सुपा संख्याभिधीयते ॥४०१॥

नार्थवत्ता पदे वर्णे वाक्ये चैवं विशिष्यते ।
अभ्यासात् प्रक्रमो ऽन्यस् तु विरुद्ध इव दृश्यते ॥४०२॥

विनियोगाद् ऋते शब्दो न स्वार्थस्य प्रकाशकः ।
अर्थाभिधानसंबन्धम् उक्तिद्वारं प्रचक्षते ॥४०३॥

यथा प्रणिहितं चक्षुर् दर्शनायोपकल्पते ।
तथाभिसंहितः शब्दो भवत्य् अर्थस्य वाचकः ॥४०४॥

क्रियाव्यवेतः संबन्धो दृष्टः करणकर्मभिः ।
अभिधानियमस् तस्माद् अभिधानाभिधेययोः ॥४०५॥

बहुष्व् एकाभिधानेषु सर्वेष्व् एकार्थकारिषु ।
यत् प्रयोक्ताभिसंधत्ते शब्दस् तत्रावतिष्ठते ॥४०६॥

आम्नायशब्दान् अभ्यासे के चिद् आहुर् अनर्थकान् ।
स्वरूपमात्रवृत्तींश् च परेषां प्रतिपादने ॥४०७॥

अभिधानक्रियायोगाद् अर्थस्य प्रतिपादकान् ।
नियोगभेदान् मन्यन्ते तान् एवैकत्वदर्शिनः ॥४०८॥

तेषाम् अत्यन्तनानात्वं नानात्वव्यवहारिणः ।
अक्षादीनाम् इव प्राहुर् एकजातिसमन्वयात् ॥४०९॥

प्रयोगाद् अभिसंधानम् अन्यद् एषु न विद्यते ।
विषये यतशक्तित्वात् स तु तत्र व्यवस्थितः ॥४१०॥

नानात्वस्यैव संज्ञानम् अर्थप्रकरणादिभिः ।
न जात्व् अर्थान्तरे वृत्तिर् अन्यार्थानां कथं चन ॥४११॥

पदरूपम् च यद् वाक्यम् अस्तित्वोपनिबन्धनम् ।
कामं विमर्शस् तत्रायं न वाक्यावयवे पदे ॥४१२॥

यथैवानर्थकैर् वर्णैर् विशिष्टो ऽर्थो ऽभिधीयते ।
पदैर् अनर्थकैर् एवं विशिष्टो ऽर्थो ऽभिधीयते ॥४१३॥

यद् अन्तराले ज्ञानं तु पदार्थेषूपजायते ।
प्रतिपत्तेर् उपायो ऽसौ प्रक्रमानवधारणात् ॥४१४॥

पूर्वैर् अर्थैर् अनुगतो यथार्थात्मा परः परः ।
संसर्ग एव प्रक्रान्तस् तथान्येष्व् अर्थवस्तुषु ॥४१५॥

अङ्गीकृते तु केषां चित् साध्येनार्थेन साधने ।
आराधनियमार्थैव साधनानां पुनः श्रुतिः ॥४१६॥

आधारे नियमाभावात् तदाक्षेपो न विद्यते ।
सामर्थ्यात् संभवस् तस्य श्रुतिस् त्व् अन्यनिवृत्तये ॥४१७॥

क्रिया क्रियान्तराद् भिन्ना नियताधारसाधना ।
प्रक्रान्ता प्रतिपत्तॄणां भेदाः संबोधहेतवः ॥४१८॥

अविभागं तु शब्देभ्यः क्रमवद्भ्यो ऽपदक्रमम् ।
प्रकाशते तदन्येषां वाक्यं वाक्यार्थ एव च ॥४१९॥

स्वरूपं विद्यते यस्य तस्यात्मा न निरूप्यते ।
नास्ति यस्य स्वरूपं तु तस्यैवात्मा निरूप्यते ॥४२०॥

अशब्दम् अपरे ऽर्थस्य रूपनिर्धारणं विदुः ।
अर्थावभासरूपा च शब्देभ्यो जायते स्मृतिः ॥४२१॥

अन्यथैवाग्निसंबन्धाद् दाहं दग्धो ऽभिमन्यते ।
अन्यथा दाहशब्देन दाहार्थः संप्रतीयते ॥४२२॥

पृथङ्निविष्टतत्त्वानां पृथगर्थानुपातिनाम् ।
इन्द्रियाणां यथा कार्यम् ऋते देहान् न कल्पते ॥४२३॥

तथा पदानां सर्वेषां पृथगर्थनिवेशिनाम् ।
वाक्येभ्यः प्रविभक्तानाम् अर्थवत्ता न विद्यते ॥४२४॥

संसर्गरूपं संसृष्टेष्व् अर्थवस्तुषु गृह्यते ।
नात्रोपाख्यायते तत्त्वम् अपदार्थस्य दर्शनात् ॥४२५॥

दर्शनस्यापि यत् सत्यं न तथा दर्शनं स्थितम् ।
वस्तु संसर्गरूपेण तद् अरूपं निरूप्यते ॥४२६॥

अस्तित्वेनानुषक्तो वा निवृत्त्यात्मनि वा स्थितः ।
अर्थो ऽभिधीयते यस्माद् अतो वाक्यं प्रयुज्यते ॥४२७॥

क्रियानुषङ्गेण विना न पदार्थः प्रतीयते ।
सत्यो वा विपरीतो वा व्यवहारे न सो ऽस्त्य् अतः ॥४२८॥

सद् इत्य् एतत् तु यद् वाक्यं तद् अभूद् अस्ति नेति वा ।
क्रियाभिधानसंबन्धम् अन्तरेण न गम्यते ॥४२९॥

आख्यातपदवाच्ये ऽर्थे साधनोपनिबन्धने ।
विना सत्त्वाभिधानेन नाकाङ्क्षा विनिवर्तते ॥४३०॥

प्राधान्यात् तु क्रिया पूर्वम् अर्थस्य प्रविभज्यते ।
साध्यप्रयुक्तान्य् अङ्गानि फलं तस्य प्रयोजकम् ॥४३१॥

प्रयोक्तैवाभिसंधत्ते साध्यसाधनरूपताम् ।
अर्थस्य चाभिसंबन्ध- कल्पनां प्रसमीहते ॥४३२॥

पचिक्रियां करोतीति कर्मत्वेनाभिधीयते ।
पक्तिः करणरूपं तु साध्यत्वेन प्रतीयते ॥४३३॥

यो ऽंशो येनोपकारेण प्रयोक्तॄणां विवक्षितः ।
अर्थस्य सर्वशक्तित्वात् स तथैव व्यवस्थितः ॥४३४॥

आराद्वृत्तिषु संबन्धः कदा चिद् अभिधीयते ।
आश्लिष्टो यो ऽनुपश्लिष्टः स कदा चित् प्रतीयते ॥४३५॥

संसृष्टानां विभक्तत्वं संसर्गश् च विवेकिनाम् ।
नानात्मकानाम् एकत्वं नानात्वं च विपर्यये ॥४३६॥

सर्वात्मकत्वाद् अर्थस्य नैरात्म्याद् वा व्यवस्थितम् ।
अत्यन्तयतशक्तित्वाच् छब्द एव निबन्धनम् ॥४३७॥

वस्तूपलक्षणः शब्दो नोपकारस्य वाचकः ।
न स्वशक्तिः पदार्थानां संस्प्रष्टुं तेन शक्यते ॥४३८॥

संबन्धिधर्मा संयोगः स्वशब्देनाभिधीयते ।
संबन्धः समवायस् तु संबन्धित्वेन गम्यते ॥४३९॥

लक्षणाद् व्यवतिष्ठन्ते पदार्था न तु वस्तुतः ।
उपकारात् स एवार्थः कथं चिद् अनुगम्यते ॥४४०॥

वाक्यार्थो यो ऽभिसंबन्धो न तस्यात्मा क्व चित् स्थितः ।
व्यवहारे पदार्थानां तम् आत्मानं प्रचक्षते ॥४४१॥

पदार्थे समुदाये वा समाप्तो नैव वा क्व चित् ।
पदार्थरूपभेदेन तस्यात्मा प्रविभज्यते ॥४४२॥

अन्वाख्यानाय यो भेदः प्रतिपत्तिनिबन्धनम् ।
साकाङ्क्षावयवं भेदे तेनान्यद् उपवर्ण्यते ॥४४३॥

अनेकशक्तेर् एकस्य प्रविभागो ऽनुगम्यते ।
एकार्थत्वं हि वाक्यस्य मात्रयापि प्रतीयते ॥४४४॥

संप्रत्ययार्थाद् बाह्यो ऽर्थः सन्न् असन् वा विभज्यते ।
बाह्यीकृत्य विभागस् तु शक्त्यपोद्धारलक्षणः ॥४४५॥

प्रत्ययार्थात्मनियताः शक्तयो न व्यवस्थिताः ।
अन्यत्र च ततो रूपं न तासाम् उपलभ्यते ॥४४६॥

बहुश्व् अपि तिङन्तेषु साकाङ्क्षेष्व् एकवाक्यता ।
तिङा तिङ्भ्यो निघातस्य पर्युदासस् तथार्थवान् ॥४४७॥

एकतिङ् यस्य वाक्यं तु शास्त्रे नियतलक्षणम् ।
तस्यातिङ्ग्रहणेनार्थो वाक्यभेदान् न विद्यते ॥४४८॥

तिङन्तान्तरयुक्तेषु युक्तयुक्तेषु वा पुनः ।
मृगः पश्यत यातीति भेदाभेदौ न तिष्ठतः ॥४४९॥

इतिकर्तव्यतार्थस्य सामर्थ्याद् यत्र काङ्क्ष्यते ।
अशब्दलक्षणाकाङ्क्षं समाप्तार्थं तद् उच्यते ॥४५०॥

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP