संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|तृतीयः पटलः| विष्णुचक्रम् तृतीयः पटलः दीक्षायां चक्रविचारः अकडमचक्रम् पद्माकार अष्टदल महाचक्रम् कुलाकुलचक्रम् ताराचक्रम् वर्णानां देवत्वादेवत्वगणविचारः राशिचक्रम् कूर्मचक्रम् शिवचक्रम् विष्णुचक्रम् तृतीयः पटलः - विष्णुचक्रम् दीक्षायां सर्वचक्रानुष्ठानम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल विष्णुचक्रम् Translation - भाषांतर विष्णुचक्रं प्रवक्ष्यामि चक्राकारं सुगोपनम् ॥११४॥सर्वसिद्धिप्रदं शुद्धं चक्रं कृत्वा फलप्रदम् ।श्रृणु नाथ महाविष्णोः स्थानं मङुलदायकम् ॥११५॥लक्ष्मीप्रियमङ्कमयं नवकोण महाप्रभम् ।तदूर्ध्वे च तमालिख्य तदूद्र्ध्वेऽष्टग्रहं शुभम् ॥११६॥चतुष्कोणाकारगेहं सन्धौ शून्याष्टकं लिखेत् ।तदूर्ध्वे च तमालिख्य चक्रमेतद्धनेश्वर ॥११७॥पूर्वे महेन्द्राभरण मूद्र्ध्वदेशोल्लसत्करम् ।मुनिरामखचन्द्राद्यमङ्कं सर्वसमृद्धिदम् ॥११८॥दक्षिणे वहिनभरणं रसवेदे खयुग्मकम् ।तदधो रामचक्रञ्च सप्तषट्सु च रामकम् ॥११९॥तदधो निऋते स्वर्गे युगाङशून्यवेदकम् ।केवलाधो जलेशस्य मन्दिरं सुमनोहरम् ॥१२०॥रामेषु शून्यबाणाढ्यं तस्यामेवायुमन्दिरम् ।भुजहस्तखरसाढ्यं चक्रेदमीश्वरात्मकम् ॥१२१॥नवकोणं मध्यदेशे पञ्चाङुभागमालिखेत् ।तन्मध्ये रचयेद्वर्णं पञ्चकोणे त्रिकोणके ॥१२२॥इन्द्राधो विलिखेद् धीरो वर्णमाद्यञ्च सप्तकम् ।भागे दक्षिणकोणेषु ऋअकारादङ्कक लिखेत् ॥१२३॥ककारादिकारान्तं तदधो विलिखेद् बुधः ।तद्वामे ठादिमान्तञ्च वर्णलक्षणकारणम् ॥१२४॥तदूद्र्ध्वे यादिवर्णञ्च चक्रञ्च गणयेत्ततः ।पूर्वकोणपतिः शक्रो द्वितीयेशो यमानलौ ॥१२५॥निऋतिर्वरुणश्चैव तृतीयमन्दिरेश्वरः ।चतुर्थाधिपतिर्वायुः कुबेरो नाथ इत्यपि ॥१२६॥पञ्चगेहस्याधिपतिरिशो विश्वविदाम्बरः ।पञ्चकोण प्रतिष्ठन्ति पञ्चभूताशयास्थिताः ॥१२७॥प्राणे सिद्धिवाप्नोति चापाने व्याधिपीडनम् ।समाने सर्वसम्पत्तिरुदाने निर्धनं भवेत् ॥१२८॥व्याने च ईश्वरप्राप्तिरेतस्मिन् लक्षणं शुभम् ।पूर्वगेहे महामन्त्रं मन्त्रत्यागं करोति यः ॥१२९॥स तावत् साधकश्रेष्ठो विष्णुमार्गेण शङ्कर ।विशेषं श्रृणु यत्नेन सावधानावधारय ॥१३०॥सप्ताक्षरं त्र्यक्षरं च दशमाक्षरमेव च ।पूर्वगेहे यदि भवेदाद्याक्षरसमन्वितम् ॥१३१॥तदा भवति सिद्धिश्च सर्वमेवंप्रकारकम् ।षष्ठाक्षरं वेदवर्णं विंशत्यर्णं महामुनम् ॥१३२॥आमनायाद्यक्षरं व्याप्तं सफल गणयेद् बुद्धः ।तथास्मिन् मन गेहे च मन्त्रं सप्ताक्षरं शुभम् ॥१३३॥षष्ठाक्षरञ्च गणयेत्त्रिंशदक्षरमेव च ।आद्याक्षरसमायुक्त साध्यसाधकयोरपि ॥१३४॥एकस्यापि च लाभे च मन्त्रसिद्धिरखण्डिता ।मन्त्राक्षरादिलाभञ्च अवश्यं गणेयेदिह ॥१३५॥नैऋते च जलेशस्य द्वयक्षरञ्च नवाक्षरम् ।शून्यदेवाक्षरं नाथ गणनीयं विचक्षणैः ॥१३६॥तथात्र अक्षरं मन्त्रं पञ्चाक्षरमनुं तथा ।पञ्चाशदक्षरं मन्त्रं मन्दिरे गणयेत् शुभम् ॥१३७॥वायुकोणे कुबेरस्य मन्दिरे गणयेत्तथा ।द्वाविंशत्यक्षरं मन्त्रं शून्यषष्ठमनुं तथा ॥१३८॥पञ्चाक्षरं तारिकायाः शिवे पञ्चाक्षरं तथा ।सुसप्तन्त्रग्रहणे सफलं परिकीर्तितम् ॥१३९॥ईशानपञ्चकोणे च सफलञ्च नवाक्षरम् ।अष्टाक्षरं हि विद्याया गणयेत् सहितं सुधीः ॥१४०॥एतदुक्तञ्च गणयेद्विरुद्धं नैव शीलयेत् ।प्राणमित्रं समानञ्च समानो व्यानबान्धवः ॥१४१॥एतत्स्थितञ्च गृहणीयाद् दोषभाक् स भवेत् क्वचित् ।एकदैव प्रिये प्रीतिरेकगेहे तथा प्रियम् ॥१४२॥गृहीत्वा विष्णुपदवीं प्राप्नोति मानवः क्षणात् ।यदि चक्रं न विचार्य रिपुमन्त्रं सदा न्यसेत् ॥१४३॥निजायुषं छिनत्त्येव मूको भवति निश्चितम् ।विचार्य यदि यत्नेन सर्वचक्रे प्रियं हितम् ॥१४४॥महामन्त्रं महादेव लघु सिद्ध्यति भूतले ॥१४५॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सर्वचक्रानुष्ठाने सिद्धमन्त्रप्रकरणे भावनिर्णये भैरव भैरवीसंवादे तृतीयः पटलः ॥३॥ N/A References : N/A Last Updated : April 07, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP