संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|तृतीयः पटलः| शिवचक्रम् तृतीयः पटलः दीक्षायां चक्रविचारः अकडमचक्रम् पद्माकार अष्टदल महाचक्रम् कुलाकुलचक्रम् ताराचक्रम् वर्णानां देवत्वादेवत्वगणविचारः राशिचक्रम् कूर्मचक्रम् शिवचक्रम् विष्णुचक्रम् तृतीयः पटलः - शिवचक्रम् दीक्षायां सर्वचक्रानुष्ठानम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल शिवचक्रम् Translation - भाषांतर शिवचंक्र प्रवक्ष्यामि महाकालकुलेश्वर ।अवश्यं सिद्धिमाप्नोति शिवचक्रप्रभावतः ॥८५॥षट्कोणमध्यदेशे तु चतुरस्त्र्म लिखेद् बुधः ।तन्मध्ये विलिखेच्चारु चतुरस्त्रं सवर्णकम् ॥८६॥ मस्तकस्थत्रिकोणे तु शिवसंस्थानमन्त्रकम् ।दक्षिणावर्तमानेन गणयेत् सर्वमन्त्रकम् ॥८७॥विष्णुस्थाने स्वमन्त्रञ्च द्वितीये च त्रिकोणके ।त्रिकोणे च तृतीये च ब्रह्मासंस्थानमन्त्रकम् ॥८८॥शक्तिमन्त्रदिसंस्थानं त्रिकोणाधो मुखे तथा ।नायिकामन्त्रसंस्थानं त्रिकोणाधो मुखे तथा ॥८९॥नायिकामन्त्रसंस्थानं तद्वामे दुर्लभं शुभम ।तदूद्र्ध्वे च त्रिकोण च भूतसंस्थानमन्त्रकम् ॥९०॥शिवाधो यक्षमन्त्रस्य संस्थानमतिदुर्लभम् ।विष्णुब्रह्मसन्धिदेशे महाविद्यापदं ध्रुवम् ॥९१॥स्वरस्थानं तथा वर्णस्थानं श्रृणु महाप्रभो ।अ-आवर्णद्वयं शैवे कवर्गञ्च सबिन्दुकम् ॥९२॥विष्णौ नेत्रं चवर्गञ्च टवर्गं ब्रह्मणि श्रुतम् ।तवर्गं नासिकशक्तौ सर्वमन्त्रार्थचेतनम् ॥९३॥नायिकायां पवर्गञ्च न युगं परिकीर्तितम् ।भूते यवान्तं विलिखेदोष्ठाधरसमन्वितम् ॥९४॥प्रणवं यक्षमन्त्रे च शकारं परिकीर्तितम् ।अधोदन्तं पिशाचे च षयुक्तं बिन्दुभूषितम् ॥९५॥शिवो बीजं देवमन्त्रे सकारञ्च सबिन्दुकम् ।महाविद्यादिसंस्थाने लक्षवर्णं प्रकीर्तितम् ॥९६॥इति ते कथितं शम्भो श्रृणु वर्णाङ्क (ङु) वर्णनम् ।शिवे एकविंशातिश्च द्वात्रिंशाद्विष्णुकोणके ॥९७॥ब्रह्मणे षोडशाद्यञ्च शक्तिकूटे युगाष्टकम् ।नायिकायाम वहिनबाणं भूते सप्ताङ्कमेव च ॥९८॥यक्षे च चन्द्रवेदञ्च पिशाचेऽष्टवसुः स्मृतः ।सर्वदेवे बाणवेदं कृत्यायाम षष्ठषष्ठकम् ॥९९॥ मध्ये षष्ठे हुताशञ्च महाविद्यागृहे शुभे ।साधकस्य च साध्यस्यैकाङ्कं साध्यमन्दिरे ॥१००॥साधकाङ्कमूर्ध्वदेशे साध्याङ्क गणयेदधः ।भुजयुग्मंम शिवे प्रोक्तं विष्णौ वामाष्टकं तथा ॥१०१॥ऋषिचन्द्रं विधौ प्रोक्तं शक्तौ रामाष्टंक तथा ।नायिकायां वेदबाण भूतेऽष्टनवमं तथा ॥१०२॥यक्षे युग्मं चतुर्थं च पिशाचे वज्रकाष्टकम् ।शक्तौ वशकृतौ ज्ञेयौ कृत्या(ल)यां मुनिषष्ठकम् ॥१०३॥यस्मिन् यस्मिन् गृहस्था ये देवतास्तु महाफलाः ।क०।अनामाक्षरदेहस्थक्षरं द्विगुणं स्मृतम् ।साध्याङ्केन योजयित्वा पूरयेत्षष्ठपञ्चमैः ॥१०४॥तद्गेहं ग्राहयेद् यत्नात देवताद्यक्षरं यथा ।एकशेषस्थितं वर्णं कुर्यान्नपि विवेचनम् ॥१०५॥शुद्धं तद्धि विजानीयाद्विचारमन्यतोऽपि च ।षष्ठाङ्केन च वेदाङ्कं तथा च देववर्णकम् ॥१०६॥शशाङ्कं मिश्रित चाङ्कं द्विगुणं देवतार्णकम् ।क०।पश्चात् कृत्वा तदङ्कञ्च हरेद्रामेण वल्लभ ।यदि साध्याङ्कं विस्तीर्णं तदा नैव शुभं भवेत् ॥१०७॥साधकाङ्कञ्च विस्तीर्णं यदि स्याज्जायते गृहे ।तदा सर्वकुलेशः स्याद् रुद्रश्रवणसंशयः ॥१०८॥द्विगुणं देवतावर्णं साधकाङ्केन योजयेत् ।वर्णसंख्याङ्कमालिख्य गणयेत् साधकोत्तमः ॥१०९॥रसबाणेन सम्पूर्य संहरेत् रससंख्यया ।आत्माङ्कमिश्रित पश्चाद् यदि किञ्चिन तिष्ठति ॥११०॥स्वीयाभिधानकाङ्कस्य द्विगुणञ्चापि योजयेत् ।पश्चादनलसंख्याभिर्हरेत् सौख्यार्थिमुक्तये ॥१११॥अङ्कं बहुतरं ग्राह्यं साधकस्य सुखावहम् ।न ग्राह्यं साध्यविस्तीर्णमि(म?)तिशास्त्रार्थनिश्चयम् ॥११२॥विचारादस्य चक्रस्य राजत्वं लभते ध्रुवम् ।समानाङ्केन गृहणीयाद् गुण्याङ्कं वर्जयेदिह ॥११३॥अवश्यं चक्रमेवं हि गोपनीयं सुरासुरैः । N/A References : N/A Last Updated : April 07, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP