संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|तृतीयः पटलः| वर्णानां देवत्वादेवत्वगणविचारः तृतीयः पटलः दीक्षायां चक्रविचारः अकडमचक्रम् पद्माकार अष्टदल महाचक्रम् कुलाकुलचक्रम् ताराचक्रम् वर्णानां देवत्वादेवत्वगणविचारः राशिचक्रम् कूर्मचक्रम् शिवचक्रम् विष्णुचक्रम् तृतीयः पटलः - वर्णानां देवत्वादेवत्वगणविचारः दीक्षायां सर्वचक्रानुष्ठानम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल वर्णानां देवत्वादेवत्वगणविचारः Translation - भाषांतर अकारद्वयमश्विन्यां देवतागणसम्भवाः ।इकारं भरणी सत्यां कृत्स्नमुस्वरकृत्तिका ॥४५॥राक्षसी कृत्तिका भूमौ सर्वविध्नविनाशिनी ।नासिकागण्डमन्त्रञ्च रोहिणीशवरुपिणी ॥४६॥ओष्ठमध्ये मृगशिरा देवता परिकीर्तिता ।अधरान्तमार्द्रया च मानुषं सर्वलक्षणम् ॥४७॥दन्तयुग्मं पुनर्वस्वाच्छादितं मानुषं प्रियम् ।कः पुष्या देवता ज्ञेया खगाश्लेषा च राक्षसी ॥४८॥मघावक्षे घङान्ता च तथा च पूर्वफाल्गुनी ।छजोत्तरा - फल्गुनी च मनुष्याः परिकीर्तिताः ॥४९॥झञहस्ता देवगणा टठचित्रा च राक्षसी ।डस्वाती देवरमणी विशाखा ढणराक्षसी ॥५०॥तथदानराधया च शोभिता देवनायिका ।ध ज्येष्ठा राक्षसी ज्ञेया मूलानपफराक्षसी ॥५१॥पूर्वाषाढा मानुसानी बकाराक्षयमालिनी ।भोत्तरषाढ्या मर्त्यो मकारः श्रवणः मतः ॥५२॥धनिष्ठा यररक्षः स्तीलस्था शतभिषा तथा ।वशपूर्वभाद्रपदा मनुजाः परिकीर्तिताः ॥५३॥तथोत्तराभाद्रपदा मानुषी - मङुलोदभवा ।अं अः ळक्षरेवती च देवकन्याः प्रकीर्तिताः ॥५४॥स्वजातौ परमा प्रीतिर्मध्यमा भिन्नजातिषु ।रक्षोमानुषयोर्नाशी वैरं दानवदेवयोः ॥५५॥जनसम्पत् विपत् क्षेमप्रत्यरिः साधको वधः ।मित्रं परमामित्रञ्च गणयेच्च पुनः पुनः ॥५६॥वर्जयेज्जन्मनक्षत्रं तृतीयं पञ्चसप्तकम् ।षडष्टनवभद्राणि युगञ्च युग्मकं तथा ॥५७॥यदीह निजनक्षत्रं न जानति द्विजोत्तमः ।नामाद्यक्षरसम्भूतं स्वतारविरोधकम् ॥५८॥विनीय गणयेन्मन्त्री शुभाशुभविचारवान् ।प्रादक्षिण्येन गणयेन् साधकाद्यक्षरात् सुधीः ॥५९॥इत्येतत् कथितं नाथ ममात्मा पुरुषेश्वर ।कुलाकुलमान्ताख्यं ताराचक्रं मनोर्गुणम् ॥६०॥तारामंन्त्र प्रदीपाभं रत्नभाण्डस्थितामृतम् ।एतद्विचारे महतीं सिद्धिमाप्नोति मानवः ॥६१॥ N/A References : N/A Last Updated : April 07, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP