संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|तृतीयः पटलः| राशिचक्रम् तृतीयः पटलः दीक्षायां चक्रविचारः अकडमचक्रम् पद्माकार अष्टदल महाचक्रम् कुलाकुलचक्रम् ताराचक्रम् वर्णानां देवत्वादेवत्वगणविचारः राशिचक्रम् कूर्मचक्रम् शिवचक्रम् विष्णुचक्रम् तृतीयः पटलः - राशिचक्रम् दीक्षायां सर्वचक्रानुष्ठानम Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल राशिचक्रम् Translation - भाषांतर राशिचक्रं प्रवक्ष्यामि सिद्धिलक्षणमुत्तमम् ।क्रमेण देया युगला रेखा पूर्वापरोद्गमा ॥६२॥तन्मध्यतो द्वयं दद्याद् रेखाग्निदक्षिणे ततः ।अग्निनैऋतिवायवीशक्रमेण रेखयेत् तथा ॥६३॥विलिखेन्मेषराश्यादि मीनान्तं सर्ववर्णकान् ।कन्यागृहगतान् शादिवर्णानालिख्य यत्नतः ॥६४॥गणयेत्साधकश्रेष्ठो लग्नाद्यामव्ययान्तकान् ।स्वराशिदेवकोष्ठानामनुकूलान् भजेन्मनून् ॥६५॥राशींना शुद्धता ज्ञेया त्यजेत् शत्रुमृतिं व्ययम् ।स्वराशेर्मन्त्रराश्यन्तं गणनीयं विचक्षणैः ॥६६॥साध्याद्यक्षराश्यन्तं गणयेत् साधकाक्षरात् ।एकं वा पञ्च नवमं बान्धवं परिकीर्तितम् ॥६७॥द्विषड्दशमसंस्थाश्च सेवकाः परिकीर्तिताः ।रामरुद्राश्च मुनयः पोषकाः परिकीर्तिताः ॥६८॥सूर्याष्टवेदयुक्तास्तु घातकाः सर्वदोषदाः ।शक्त्यादौ तु महादेव कुलचूडामणिर्यतिः ॥६९॥वर्जयेत् षष्ठगेहञ्च अष्टमं द्वादशं तथा ।लग्नं धनं भ्रातृबन्धपुत्रशत्रुकलत्रकाः ॥७०॥मरणं धर्मकर्मायव्यया द्वादशराशयः ।नामानुरुपमेतेषां शुभाशुभफलं दिशेत् ॥७१॥वैष्णव तु महाशत्रोः स्थाने बन्धुः प्रकीर्तितः । N/A References : N/A Last Updated : April 07, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP