संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|तृतीयः पटलः| दीक्षायां चक्रविचारः तृतीयः पटलः दीक्षायां चक्रविचारः अकडमचक्रम् पद्माकार अष्टदल महाचक्रम् कुलाकुलचक्रम् ताराचक्रम् वर्णानां देवत्वादेवत्वगणविचारः राशिचक्रम् कूर्मचक्रम् शिवचक्रम् विष्णुचक्रम् तृतीयः पटलः - दीक्षायां चक्रविचारः दीक्षायां सर्वचक्रानुष्ठानम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल दीक्षायां चक्रविचारः Translation - भाषांतर भैरवी उवाचअथ चक्रं प्रवक्ष्यामि कालाकालविचारकम् ।यदाश्रितो महवीरो दीव्यो वा पशुभाववान् ॥१॥दीक्षायां चक्रविचारः चक्राराजं प्रविचार्य सिद्धमन्त्रं न चालयेत् ।प्रबलस्य प्रचण्डस्य प्रासादस्य महामनोः ॥२॥शक्तिकूटादिमन्त्राणां सिद्धादीन्नैव शोधयेत् ।वराहार्कनृसिंहास्य तथा पञ्चाक्षरस्य च ॥३॥महामन्त्रस्य कालस्य चन्द्रचूडस्य सन्मनोः ।नपुंसकस्य मन्त्रस्य सिद्धादीन्नैव शोधयेत् ॥४॥विंशत्यर्णाधिका मन्त्रा मालामन्त्राः प्रकीर्तिताः ।सूर्यमन्त्रस्य योगस्य कृत्यामन्त्रस्य शङ्कर ॥५॥शंभूबीजस्य देवस्य सिद्धादीन्नैव शोधयेत् ।चक्रेश्वरस्य चंन्द्रस्य वरुणस्य महामनोः ॥६॥कालीतारादिमन्त्रस्य सिद्धादीन्नैव शोधयेत् ।तथापि शोधयेन्मंत्र प्रशंसापरमेव तत् ॥७॥यत्र प्रशंसापरमं तत्कार्यं दैवतं स्मृतम् ।प्रशंसा यत्र नास्त्येव तत्कार्यं नापि कारयेत ॥८॥अत्यन्तफलदं मन्त्रं गृहणीयात् कुलरक्षणात् ।धनिमन्त्रं न गृहणीयाद् अकूलञ्च तथैव च ॥९॥गृहीत्वा निधनं याति कोटिजाप्येन सिद्धयति ।मननं विश्ववविज्ञानं त्राणं संसारबन्धनात् ॥१०॥यतः करोति संसिद्धौ मन्त्र इत्यभिधीयते ।प्रणवाद्यं न दातव्यं मन्त्रं शूद्राय सर्वथा ॥११॥आत्ममन्त्रं गुरोर्मन्त्रं मन्त्र चानपसंज्ञकम् ।पितुर्मन्त्रं तथा मातुर्मन्त्रसिद्धिप्रदं शुभम् ॥१२॥शूद्रो निरयमाप्नोति ब्राह्मणो यात्यधोगतिम।अदीक्षिता ये कुर्वन्ति जपपूजादिकाः क्रियाः ॥१३॥न भवन्ति श्रिये तेषां शिलायामुप्तजीवत् ।देवीदीक्षाविहीनस्य न सिद्धिर्न च सद्गतिः ॥१४॥तस्मात्सर्वप्रयत्नेन गुरुणा दीक्षितो भवेत् ।विचारं चक्रसारस्य करणीयवश्यकम् ॥१५॥अदीक्षातोऽपि मरणे रौरवं नरकं व्रजेत् ।तस्माद्दीक्षा प्रयत्नेन सदा कार्या च तान्त्रिकात् ॥१६॥ N/A References : N/A Last Updated : April 07, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP