संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|तृतीयः पटलः| पद्माकार अष्टदल महाचक्रम् तृतीयः पटलः दीक्षायां चक्रविचारः अकडमचक्रम् पद्माकार अष्टदल महाचक्रम् कुलाकुलचक्रम् ताराचक्रम् वर्णानां देवत्वादेवत्वगणविचारः राशिचक्रम् कूर्मचक्रम् शिवचक्रम् विष्णुचक्रम् तृतीयः पटलः - पद्माकार अष्टदल महाचक्रम् दीक्षायां सर्वचक्रानुष्ठानम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल पद्माकार अष्टदल महाचक्रम् Translation - भाषांतर एतत्ते कथित नाथ अकडमादिकमुत्तमम् ।पद्माकारं महाचक्रं दलाष्टकसमन्वितम् ॥२४॥अ आ वर्णद्वय पूर्वे द्वितीये च द्वितीयकम् ।तृतीये कर्णयुग्मञ्च चतुर्थे नासिकाद्वयम् ॥२५॥पञ्चमे नयनं प्रोक्तं षष्ठे ओष्ठाधरं तथा ।सप्तमे दन्तयुग्मञ्च अष्टमे षोडशस्वरम् ॥२६॥कवर्गञ्च पूर्वदले द्वितीये च चवर्गकम् ।तृतीये च टवर्गञ्च चतुर्थे च तवर्गकम् ॥२७॥पवर्गं पञ्चमे प्रोक्तं यवान्तं षष्ठपत्रके ।सप्तमे शषसान् लिख्य (ल?) हक्षमष्टमके पदे ॥२८॥सुखं राज्यं धनं विद्यां यौवनायुशमेव च ।विचार्य चक्रमाप्नोति पुत्रत्त्वञ्च स्वजीवनम् ॥२९॥स्वीय - नामाक्षरं तत्र देवनामाक्षरं तथा ।एकस्थान युगस्थान विरोध द्विविधं स्मृतम् ॥३०॥जीवनं मरणं तत्र अकारादिसु पत्रके ।लिखित्वा गणयेन्मन्त्री मरणं वर्जयेत् सदा ॥३१॥यत्रास्ति मरणं तत्र जीवनं जास्ति निश्चितम् ।परस्परविरोधेन सिद्धमन्त्रञ्च मूलदम ॥३२॥ N/A References : N/A Last Updated : April 07, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP