संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|वेदान्तशास्त्रमकरन्दः|तृतीयपरिच्छेदः| परिच्छेदः १ तृतीयपरिच्छेदः परिच्छेदः १ परिच्छेदः २ परिच्छेदः ३ परिच्छेदः ४ परिच्छेदः ५ परिच्छेदः ६ परिच्छेदः ७ परिच्छेदः ८ परिच्छेदः ९ तृतीयपरिच्छेदः - परिच्छेदः १ श्री १००८ श्रीमत्परमहंसपरिव्राजकाचार्य-योगीन्द्रवर्य-श्रीआत्मानन्दसर स्वतीस्वामिभिंर्विरचितः । Tags : vedकवितावेदशास्त्रसंस्कृत परिच्छेदः १ Translation - भाषांतर नमस्कृत्य गुरुं देवं शर्वं सर्वेश्र्वरं हरम् । अम्बां तां शारदां नत्वा चक्रुः सांख्यविचारणाम् ॥१॥येषां गिरोऽज्ञानतमोहराश्र्च श्रुतौ गताःपुण्यवशेन लभ्याः ॥ गुरुश्र्च तानात्मविदां वरिष्ठान्नमामि नित्यं प्रतिबोधरूपान् ॥२॥प्रचंडपाखंडविखण्डनोद्यतं त्रयीशिरोर्थप्रतिपादने रतम् ॥ बुधैर्नुतं योगकलाभिरावृत्तं नमामि नित्यं गुरुशंकरार्यम् ॥३॥पूर्वपरिच्छेदे परमाणूनां प्रवृत्तिस्वभावत्वे प्रलयाभावप्रसंगः । निवृत्तिस्वभावत्वे सृष्ट्यनुत्पादप्रसंग इत्यादिदोषैः परमाणुकारणतावदस्य भ्रांतिमूलत्वं समर्थितं पुनश्र्च रूपादिमत्त्वात्परमाणवो न नित्या नाप्यणवः किंतु स्थूला अनित्याः घटपटदिवत् इत्याद्यनुमानैः परमाणुकारणतावादस्य भ्रांतिमूलत्वं सम्यक् प्रदर्शितम् इदानीं जडकारणतावादसाम्येन स्मृतत्वात्प्रधानमल्लत्वेन उपेक्षानर्हत्वात् तत्त्वप्रसंख्यानार्थं प्रवृत्तस्य सांख्यस्य जगत्कारणत्वांशेपि श्रुतिसंमतत्वभ्रमो माभूदित्येतदर्थं प्राधान्ये सांख्यानां तदितराणामश्रौतानां पुराणमात्रोपजीविनां च निरासोऽस्मिन् तृतीयपरिच्छेदे क्रियते ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP