तृतीयपरिच्छेदः - परिच्छेदः ४

श्री १००८ श्रीमत्परमहंसपरिव्राजकाचार्य-योगीन्द्रवर्य-श्रीआत्मानन्दसर स्वतीस्वामिभिंर्विरचितः ।


"ऋषिं प्रसूतं कपिलं यस्तमग्ने ज्ञानैबिभतिर्र् जायमानं च पश्येत्"
इति श्रुतिगीतमाहात्म्यसांख्याचार्यकपिलमहर्षिमतं तर्कावष्टब्धं कथमप्रमाणमित्यवगंतव्यं भवेत्
तथाच परमप्रमाणसांख्यस्मृति बलात्प्रधानमेव जगत्कारणं न परमेश्र्वरः तत्रेयं कारिकानुसंधेया ।
"सांख्यस्मृत्यास्ति संकोचो न वा वेदसमन्वये॥ धर्मे वेदः सावकाशः संकोचोनवकाशया॥"
तथाच सांख्यानां पूर्वपक्षः संपन्नः कपिलमहर्षिप्रणीतशिष्टपरिगृहीतस्मृतीनामनवकाशदोषप्रसंगात्
वेदांतानां प्रधाने समन्वयः इति एनं पूर्वपक्षमनुवदन्खंडयति भगवान् सूत्रकारः ।
"स्मृत्यनवकाश दोष प्रसंग इति चेन्नान्य स्मृत्यनवकाशदोषप्रसंगात्" अथात्र सिद्धांतः
प्रतिपाद्यते यदि च सांख्यवादिना कापिलस्मृत्यनवकाशबलेन ईश्र्वरकारणतावाद
आक्षिप्यते तदा परमप्रमाणभूता ईश्र्वरकारणतावादिन्यो मन्वादिस्मृतयः अनवकाशाः
प्रसज्ज्येरन् ताश्र्च स्मृतयः "अहं कृत्स्नस्य जगतःप्रभवः प्रलयस्तथा"
इति भगवद्रीतासु भगवान् वासुदेवः तथा भगवानापस्तंबोपि "तस्मात् कायाः
प्रभवंति सर्वे समूलं शाश्र्वतिकः सनित्यः" इति एवं पुराणेपि "अतश्र्च संक्षेपमिमं
शृणुध्वं नारायणः सर्वमिदं पुराणः ससर्गकाले च करोति सर्वं संहारकाले च तदस्ति भृयः"
इत्यादिस्मृतय ईश्र्वरकारणतावादिन्यो विरुध्येरन् दर्शितं च पुरस्तादेव श्रुतीनां ईश्र्वरकारणतायां
तात्पर्यं तस्मात् श्रुतिप्रामाण्यावष्टंभात् मन्वादिस्मृतय एव प्रबलाः "यद्वै किंचन मनुरवदत्तद्भेषज"
मित्यादिश्रुतिः स्वातंत्र्येण मन्वादिप्रामाण्यं ब्रवीति ।
इदं तु कंटकेनैव कंटकमिति न्यायमाश्रित्योक्तं अन्यथा ईश्र्वरकारणतावादिनीनां
श्रुतीनां विरोधेन कापिलस्मृतीनां प्रामाण्यं दूरतोपास्तं तथाच महर्षिजैमिनीयं सूत्रम्
"विरोधे त्वनपेक्ष्यं स्यादसतिह्यनुमानम्" अस्यायमर्थः यदि स्मृतीनां श्रुतिभिः साकं
विरोधे सर्वथाऽप्रामाण्य मविरोधे हि तासां प्रामाण्यं नचतींद्रियाणामर्थानां श्रुतिशरण्यमंतरा
न किंचिदभ्रांतोपलब्धिसाधनमस्ति कपिलादिसिद्धानामपि धर्मानुष्ठानसापैक्षैवह्यप्रतिहतज्ञानसिद्धिः
धर्मो हि चोदनालक्षणः श्रुत्यधीन इति न श्रौतसिद्धांतं बधितुं क्षमंते अर्वाचीनस्मृतयः तत्रेयं
सिद्धांतप्रतिपादिका कारिका "प्रत्यक्षश्रुतिमूलाभिर्मन्वादिस्मृतिभिः स्मृतिः ॥
अमूला कापिली बाध्या न संकोचो नयायतः ।
नचैवं कपिलस्य ज्ञानातिशयं प्रदर्शयंती
श्रुतिरप्रमाणं स्यादिति शंकनीयं श्रुतिवाक्ये हि वैदिकः कपिलो वासुदेवनामा
षष्ठिसहस्रसंख्यानां सगरपुत्राणां भस्मीभावहेतुः ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP