संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|वेदान्तशास्त्रमकरन्दः|तृतीयपरिच्छेदः| परिच्छेदः ७ तृतीयपरिच्छेदः परिच्छेदः १ परिच्छेदः २ परिच्छेदः ३ परिच्छेदः ४ परिच्छेदः ५ परिच्छेदः ६ परिच्छेदः ७ परिच्छेदः ८ परिच्छेदः ९ तृतीयपरिच्छेदः - परिच्छेदः ७ श्री १००८ श्रीमत्परमहंसपरिव्राजकाचार्य-योगीन्द्रवर्य-श्रीआत्मानन्दसर स्वतीस्वामिभिंर्विरचितः । Tags : vedकवितावेदशास्त्रसंस्कृत परिच्छेदः ७ Translation - भाषांतर पंचसूनाकृतं पापं पंचयज्ञैर्व्यपोहति" " स य एतदुपास्ते न स पाप्मनो व्यावर्तते मिश्रं ह्येतत् ॥ इत्यादिश्रुतिस्मृतयोऽवैश्वदेवान्नंपापरूपमेवेत्युद्धोषयंति न तद्बधिरैः श्रूयते किं वेदा हि इष्टानिष्ठप्राप्तिपरिहारा नुकूलमलौकिकमुपायमुपादिशंतो जीवजातमखिलमनुगृह्णन्ति" प्रत्यक्षेणानुमित्या वायस्तूपायो न बुध्यते । एवं विदंति वेदेन तस्माद्वेदस्य वेदता ॥ न खलु ज्योतिष्टोमादिः परमेष्टेहतुः कलंजभक्षणादिरनिष्टेहेतुरित्यमुमर्थं वेदव्यतिरेकेणानुमानसहस्रणापि तार्किकशिरोमणिरप्यवगन्तुं शक्रोति तत्र च श्रुतिलिंगवाक्य प्रमाणान्येवोपयुज्यंत अथच कर्मकांडीयश्रौतस्मार्तधर्मा रंभे प्रथममेव सर्वेपि सनातनाः वेदनिष्ठाः गणेशपूजनमविरोधेन कुर्वन्ति सर्वे लौकिका वैदिकाश्र्चन कदापि विप्रतिपन्ना भवंति तथा च स्मृतिः ॥ "अष्टादशपुराणेषु दशभिर्गीयते शिवः। चतुर्भिर्गीयते विष्णुर्द्वाभ्यां शक्तिश्र्च विघ्नपः" इति स्मृत्या अष्टाद शपुराणेषु शिवविष्णुशक्तिगणेशानामविरोधेन प्रतिपादनमकारि भगवता व्यासेन तत्रापि "ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पतिं गणानां त्वा गणपति ॐ हवामहे कविं कवीनां मुपमश्रवस्तमम्" इत्याद्याः शतशः श्रुतयः श्रीगणेशाद्यपूजनमाहुः तथैव पुराणे त्रिपुरसंहारकाले श्रीमहादेवेनोक्तं "शैंवैस्त्वदीयैरुत वैष्णवैश्र्च शाक्तैश्र्च सोर्यैरपि सर्वकार्ये । शुभाशुभे लौकिकवैदिके च त्वमर्चनीयः प्रथमं प्रयत्नात्" इत्यादिस्मृतिबलात् गणेशपूजनं विना न कोपि श्रौतस्मार्तकर्मारंभ इति स्थितम् "तदा जानीहि भो योगिन् ब्रह्माकारो श्रुतेर्मुखात् । तयोः स्वामिगणेशश्र्च योगरूपेण संस्थितः" ॥२॥ इत्यादिनापि श्रीगणेशप्रशंसनात् तद्रणेशपूजनमकुर्वाणानां विशिष्टाद्वैतादिमताभिनिवेशिनां श्रौतस्मार्तसनातन कर्ममर्यादाभ्रष्टत्वमेवेति सिद्धम् । अथच विशिष्टाद्वैतादिवादिभिः जीवेश्र्वरयोर्भेदः अंगीकृतः स किं स्वामिभृत्ययोरिवोपकार्योपकारकभावेन संमतः उत अग्निविस्फुलिंगयोरिवांशांशिभावेन उभयथापि न संभवति भेदस्य श्रुत्यानिरासात् ‘तत्त्वमसि’ ‘अहंब्रह्मास्मीति’ अभेदप्रतिपादनात् जीवो ब्रह्माभिन्नः सच्चिदानंदस्वरूपात् यन्नैवं तन्नैव मित्यनुमानाच्चात्मब्रह्मैक्यासिद्धिः जीवत्वं चात्मनि उपाधिसंबंधेन कल्पितं वस्तुतः स्वरूपेण आत्मा ब्रह्मैव नतु ब्रह्मात्मनोर्भेदः । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP