तृतीयपरिच्छेदः - परिच्छेदः ३

श्री १००८ श्रीमत्परमहंसपरिव्राजकाचार्य-योगीन्द्रवर्य-श्रीआत्मानन्दसर स्वतीस्वामिभिंर्विरचितः ।


तथैव स्वभावादुत्पद्यते अकस्मादेवोत्पद्यते इत्यभ्युपगमोपि स्वातिरिक्तकारणशून्यत्वं
वा कारणसामान्यशून्यत्वं वेत्यादिविकल्पाकुलत्वादनुपादेय एवेति निरभ्रो ब्रह्मकारणत्वसिद्धांतः
श्रौतः इदानीं श्रुतिसंमतत्वाभिमाननिरासायेश्वरावमानिनो प्रधानकारणतावादिनः कापिलस्य
तन्मतोपन्यासपूर्वकं खंडनमुपक्रम्यते तत्र सांख्याः कूटस्थब्रह्मणो
ज्ञानक्रियाशक्तयभावान्न जगत्कारणत्वमिति वदन्ति ।
प्रधानस्य तु तत्सत्त्वाज्जगत्कारणत्वमुपपद्यते वेदांतसिद्धांतेपीश्वरस्य
साहाय्यभूतमवश्यमव्यक्तशब्दोदितं श्रौतं शक्तयपरपर्यायमभ्युपगंतव्यमेव
केवलस्याकारणत्वसिद्धांतात् तथाच श्रुतिः ‘देवात्मशक्तिं स्वगुणौर्निरूढां’
‘मायां तु प्रकृतिं विद्यात्’ इति श्रुतिसिद्धमीश्र्वरसहकारिभूतमव्यक्तमवश्यमंगीकर्तव्यं
नहि शक्तिरहित ईश्र्वरः कार्यलेशं वा कर्तुं योग्यः असंगत्वादविकारित्वाच्चेति तात्पर्यम् ।
अथैवमुच्यते कापिलैः ‘सदेव सौम्येदमग्न आसीत्’ इत्यत्र सच्छब्दवाच्यं प्रधानमेव
जगत्कारणत्वेनोपदिश्यते कुतो यानि वेदांतवाक्यानि सर्वज्ञस्य सर्वशक्तेर्जगत्कारणत्वप्रतिपादकानि
सर्वाणि तानि प्रधान एव संभवदर्थानि भवन्ति प्रधानादेव त्रिगुणात्मिकां जगदुत्पत्तिमाह
श्रुतिः ‘अजामेकां लोहितशुक्लकृष्णां बह्नीः प्रजाः सृजमानां सरूपाः’ इत्यत्राजायास्त्रिगुणात्मिकायाः
सकाशाज्जगत्सर्जनाभिधानात् एतदेवोपपद्यते कार्यस्य जगतः सुखदुःखमोहान्वितस्य
त्रिगुणात्मप्रधानकार्यत्वौचित्यात् तथाच प्रधानस्यैव स्वकार्यविषयं सर्वशक्तिमत्त्वं
सर्वथोपपद्यते यतः कारणमेव कार्ये शक्तं नाकारणं ब्रह्म क्रियाशक्ति मत्वाभावादपरिणामित्वाच्च
तथा सर्वज्ञमपि प्रधानमेव न ब्रह्म यतः ज्ञानं हि सत्त्वधर्मः ‘सत्त्वात्संजायते ज्ञानम्’
इति स्मृतेः तच्च ज्ञानजनकसत्त्वं प्रधानस्य गुण इति प्रधानस्यैव सर्वज्ञत्वं न ब्रह्मणो निर्गुणत्वात्
अपिच प्रधानस्यैवानेकात्मकस्य परिणामसंभवाज्जगत्कारणत्वमुपपद्यते नैकात्मकस्य ब्रह्मणः
 इति तत्सर्वथानुपपन्नं यतः सांख्यमते त्रिगुणसाम्यावस्था हि प्रधानमिति तेषामंगीकारः ।
यदि च गुणसाम्ये सति सत्त्वव्यपाश्रयां ज्ञानशक्तिमाश्रित्य सर्वज्ञत्वमभिधीयते तदा कामं
रजस्तमोव्यपाश्रयां ज्ञानप्रतिबंधशक्तिमाश्रित्य किंचिज्ज्ञत्वमपि वक्तव्यं स्यात् तस्मादनुपपन्नं
प्रधानस्य सर्वज्ञत्वम् इतोपि न प्रधानम चेतनं जगत्कारणं भवितुमर्हति ईक्षणपूर्वकसृष्ट्यभिधानात्
"स ईक्षत लोकान्नुसृजा" इति "सईक्षांचक्रे" "स प्राणमसृजत" "यः सर्वज्ञः स सर्ववित्"
इत्याद्यागमाः ‘ईक्षतेर्नाशब्दं’ इति पारमर्ष सूत्रं तच्चेक्षणपूर्वकं स्रष्टृत्वं नाचेतनस्य प्रधानस्य
भवति. ‘न तस्य कार्यं करणं च विद्यते न तत्समश्र्चाभ्यधिकश्र्च दृश्यते’
"अपाणिपादो जवनो ग्रहीता" पश्यत्यचक्षुः स शृणोत्यकर्णः"
"स वेत्ति वेद्यं नच तस्यास्ति वेत्ता" "तमाहुरग्रयं पुरुषं महांत"
मित्यादिश्रुतय ईश्र्वरस्यैव शरीराद्यनेपक्षतामनावरणज्ञानवत्त्वं
च दर्शयंति तस्माद्ब्रह्मैव जगत्कारणं न प्रधानं अथैवमुच्यते अचेतनेपि प्रधाने
औपचारिकमीक्षितृत्वमुपपद्यते कूलं पिपतिषतीत्यादिवत्. श्रुत्याचेदमौपचारिकमेवोक्षितृत्वमभीप्सितं
‘तत्तेजं ऐक्षत’ ‘ता आप ऐक्षन्त’ इत्यादावौपचारिकेक्षणाभिधानात्तदपि न संभवतीत्येतत् शंकानुवादपूर्वकं खंडयति सूत्रकारः
‘गौणश्र्चेन्नात्मशब्दात्’ इति अस्मिन्सूत्रे आत्मशब्दो चेतनस्वरूपवचनोऽचेतनं प्रधानं निराकुर्वन् चेतनमेव
जगत्कारणं प्रगृह्णाति तथैव श्रुतावुपक्रमः "आत्मा वा इदमेक एवाग्र आसीत्"
"सदेव सौम्येदमग्न आसीदित्यादि" तस्मादनात्माप्रधानं न जगत्कारणं अथ चोच्यते
अचेतनेप्यात्मशब्दःप्रधाने संभवति कुतःप्रधानस्य सर्वात्मकार्यकारित्वात् यथा राज्ञःसर्वार्थकारिणि
भृत्ये ममायमात्मेति यथा हि राज्ञः संधिविग्रहादिषूपकुर्वाणो भृत्यस्तथा प्रधानमात्मनो भोगापवर्गो
कुर्वदपकारकं अथवैक एवात्मशब्दश्र्चेतनाचेतनविषयो भवति, भूतात्मा इंद्रियात्मेति बहुशः
प्रयोगदर्शनात् यथैक एव ज्योतिःशब्दः ऋृतुज्वलनविषयः तस्मात् प्रधानमेव श्रौतं जगत्कारणमिति
अत्रोत्तरभूतं ‘तन्निष्ठस्य मोक्षोपदेशात्’ इति पारमर्ष सूत्रम् अस्यायमभिप्रायः नह्यचेतनं प्रधानमात्मशब्दालंबनं
भवितुमर्हति कुतः ‘स आत्मा’ इति सद्रूपामात्मानमुपक्रम्य ‘तत्त्वमसि श्र्वेतकेतो"
इति सद्ब्रह्मात्मनिष्ठामुपदिश्य ‘आचार्यवान्पुरुषो वेदतस्य तावदेव चिरं यावन्न विमोक्ष्ये
अथ संपत्स्ये’ इति मोक्ष उपदिश्यते अत्र पूर्ववादिमतानुसारेण पूर्वमेव चेतनं संतं मुमुक्षुं
त्वं तदसीत्यचेतनप्रधानात्मत्वं ग्राहयत्शास्त्रमनर्थाय कल्पेत अथ च प्रमाणभूतं शास्त्रं श्रद्दधन्
जडात्मबुद्धिं न परित्यजेत् तथा चान्धगोलांगूलन्याय आपतेत् तथाहि कश्र्चन दुष्टात्मा महारण्ये
भ्रमंतं नगरं जिगमिषुमंधं मदोन्मत्तवृषभलांगूलं ग्राहयन्नवादीत् अयं त्वां नगरं नेष्यतीति स च
श्रदधानस्तदत्यजन्महतीमनर्थपरंपरां प्राप्तः तद्वदेव मुमुक्षुर्जडमात्मतया गृह्णन्
संसारानर्थपातमवारितमियात् तस्मात्सांख्यकल्पनं प्रतारणामात्रमवगंतव्यम् यथा वा
घटशरावादिकं कार्यं मृदाद्यन्वीयमानं मृत्कारणकं तथा प्रपंचोपि सुखदुःखमोहान्वयितया
त्रिगुणप्रधानकारणकः इत्यवोचत्तर्कबलापूर्ववादी कापिलः किं तेन नेदमवलोक्यते तत्किमिति
चेत्पश्य लोके हि नाचेतनं चेतनानधिष्ठितं किमपि कार्यं कर्तुं प्रभवति यतः
गेहप्रासादशयनासनविहारभूम्यादयो हि चेतनेनैवाधिष्ठात्रा रचिता दृश्यंते तथेदं
विचित्ररचनारूपमनेककर्तृभोक्तृसंयुक्तं लौकिकेन केनापि मनसाप्याकलयितुमशक्यं कथं
काष्ठलोष्टकल्पेनाचेतनेन चेतनानधिष्ठितेन कर्तुं शक्यमित्यनीश्र्वरवादिना सांख्येन किमिति
न विचार्यते किं तर्हि प्रधानकारणतावादिनो सांख्याचार्या भ्रांता भविष्यंति
श्रुतिस्तावत्कपिलाचार्यस्य ज्ञानातिशयं दर्शयति ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP