सप्तमः स्कन्धः - अथ प्रथमोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


राजोवाच

समः प्रियः सुह्रुद ब्रह्मान भुतांना भगवान स्वयम ।

इन्द्रस्यार्थे कथं दैत्यानवधीद्विषमो यथा ॥१॥

न ह्रास्यार्थः सुरगणैः साक्षान्निः श्रेयसात्मनः ।

नैवासुरेभ्यो विद्वेषो नोद्वेगश्चागुणस्य हि ॥२॥

इति नः सुमहाभाग नारायणगुणान प्रति ।

संशयः सुमहात्र्जातस्तद्भावांश्छेत्तुमर्हति ॥३॥

श्रीशुक उवाच

साधु पुष्टं महाराज हरेश्वरितमद्भुतम ।

यद भागवतमाहात्म्यं भगवद्भक्तिर्धनम ॥४॥

गीयते परमं पुण्यमृषिभिर्नारदादिभिः ।

नत्वा कृष्णाय मुनये कथयिष्ये हरेः कथाम ॥ \५॥

निर्गुणोऽपि ह्र्जो‍ऽव्यक्तो भगवान प्रकृतेः परः ।

स्वमायागुणमाविश्य बाध्यबाधकतां गतः ॥६॥

सत्त्वं रजस्तम इति प्रकृतेर्नात्मनो गुणाः ।

न तेषां युगप्रदजन ह्रास उल्लास एव वा ॥७॥

जयकाले तु सत्त्वस्य देवर्षीन रजसोऽसुरान ।

तमसो यक्षरक्षांसि तत्कालानुगुणोऽभजत ॥८॥

ज्योतिरादिरिवाभति संगातान्न विविच्यते ।

विदन्त्यात्मानमात्मस्थं मथित्वा कवयोऽन्ततः ॥९॥

यद सिसृक्षुः पुर आत्मन परो रजः सृजत्येष पृथक स्वमायया ।

सत्त्वं विचित्रासु रिरंसुरीश्वरः शयिष्यमाणस्तम ईरयत्यसौ ॥१०॥

कालं चरन्तं सृजतीश आश्रयं प्रधानपुम्भां नरदेव सत्यकॄत ।

य एष राजन्नपि काल ईशिता सत्वं सुरानीकमिवैधयत्यतः ।

तत्प्रत्यनीकानसुरान सरप्रियो रजस्तमस्कान प्रामिणोत्युरुश्रवाः ॥११॥

अत्रैवोदाहृतः पुर्वमितिहासः सुरर्षिणा ।

प्रीत्या महाक्रती राजन पृच्छतेऽजातशत्रवे ॥१२॥

दृष्टा महाद्भुतं राजा राजसुये महाक्रतौ ।

वासुदेवे भगवति सायुज्यं चेदिभुभुजः ॥१३॥

तत्रासेनं सुरऋषिं राजा पाण्डुसुतः क्रतौ ।

पंप्रच्छ विस्मितमना मुनींना श्रुण्वतामिदम ॥१४॥

अहो अत्यंद्भुतं ह्योतद्दुर्लभैकान्तिनामपि ।

वासुदेवे परे तत्वे प्राप्तिश्चैद्यस्य विद्विषः ॥१५॥

एतद्वेदितुमिच्छामः सर्व एव वयं मुने ।

भगवन्निन्दया वेनो द्विजैस्तमसि पातितः ॥१६॥

दमघोषसुतः पाप आरभ्य कलभाषणात ।

सम्प्रत्यमर्षी गोविन्दे दन्तवक्त्रश्र दुर्मतिः ॥१७॥

शपतोरसकृद्विष्णुं यदब्रह्मा परमव्ययम ।

श्रित्रो न जातो जिह्लायां नान्धं विविशतुस्तमः ॥१८॥

कथं तस्मिन भगवति दुरवग्राहधामनि ।

पश्यतां सर्वलोकांना लयमीयतुरत्र्जसा ॥१९॥

एतद भ्राम्यति मे बुद्धीर्दीपार्चिरिव वायुना ।

ब्रऊहोतदद्भुततमं भगवांस्तत्र कारणम ॥२०॥

श्रीशुक उवाच

राज्ञस्तद्वच आकर्ण्य नारदो भगवानृषिः ।

तृष्टः प्राह तमाभाष्य श्रृण्वात्यास्तत्सदः कथाः ॥२१॥

नारद उवाच

निन्दनस्तवसत्कारन्यक्कारर्थं कलेवरम ।

प्रधानपरयो राजन्नविवेकेन कल्पितम ॥२२॥

हिंसा तदभिमानेन दण्डपारुष्ययोर्यथा ।

वैषम्यमिह भुतानां ममाहमिति पार्थिव ॥२३॥

यन्निबद्धोऽभिमानोऽयं तद्वधात्प्राणिनां वधः ।

तथा न यस्य कैवल्यादभिमानोऽखिलात्मनः ।

परस्य दमकर्तुर्हि हिम्सा केनास्य कल्प्यते ॥२४॥

तस्माद्वैरानुबन्धेन निर्वैरेण भयेन वा ।

स्नेहात्कामेन वा युत्र्जात कथत्र्चिन्नेक्षते पृथक ॥२५॥

यथा ऐरानुबन्धेन मर्त्यस्तन्मयतामियात ।

न तथा भक्तियोगेन इति मे निश्चिता मतिः ॥२६॥

कीटः पेशस्कृताः रुद्ध कुड्यांयां तमनुस्मरन ।

सरंम्भभययोगेन विन्दते तत्सरुपताम ॥२७॥

एवं कृष्णे भगवति मायामनुज ईश्वरे ।

वैरेण पुतपाप्मानस्तमापुरनुचिन्तया ॥२८॥

कामाद द्वेषाभ्दात्स्नेहाद्यथा भक्त्येश्वरे मनः ।

आवेश्य तदद्यं हित्वा बहवस्तद्गतिं गताः ॥२९॥

गोप्यः कामाद्भायात्कंसो द्वेषाच्चैद्यादयो नृपाः ।

सम्बन्धाद वृष्णयः स्नेहाद्युयं भक्त्यां वयं विभोः ॥३०॥

कतमो‍ऽपि न वेनः स्यात्पत्र्चांना पुरुषं प्रति ।

तस्मात केनाप्युपायेन मनः कृष्णे निवेशयेत ॥३१॥

मातृष्वसेयो वश्चैद्यो दन्तवक्त्रश्च पाण्डव ।

पार्षदप्रवरौ विष्णोर्विप्रसापात्पदाच्च्युतौ ॥३२॥

युधिष्ठिर उवाच

कीदृशः कस्य वा शापो हरिदासाभिमर्शनः ।

अश्रद्धेय इवाभाति हरेरेकान्तिनां भवः ॥३३॥

देहेन्द्रियासुहीनांना वैकुठपुरवासिनाम ।

देहसम्बन्धसम्बद्धमेतदाख्यातुमर्हसि ॥३४॥

नारद उवाच

एकदा ब्रह्माणः पुत्रा विष्णोर्लोकं यदृच्छया ।

सनन्दनादयो जग्मुश्चरन्तो भुवनत्रयम ॥३५॥

पंचषडढायनार्भाभाः पुर्वेषामपि पुर्वजाः ।

दिग्वाससः शिशुनः मत्वा द्वाः स्थौ तान प्रत्यषेधताम ॥३६॥

अशपन कुपिता एवं युवां वांस न चार्हथः ।

रजस्तमोभ्यां रहिते पादमुले मधुद्विषः ।

पापिष्ठामासुरीं योनिं बालिशौ यातमाश्वतः ॥३७॥

एवं शत्पौ स्वभवनात पतन्तौ तैः कृपालुभिः ।

प्रोक्तौ पुनर्जन्मभिवाँ त्रिभिर्लोकाय कल्पताम ॥३८॥

जज्ञाते तौ दितेः पुत्रौ दैत्यदानववन्दिती ।

हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षोऽनुजस्ततः ॥३९॥

हतो हिरण्यकशिपुर्हरिणा सिंहरुपिणा ।

हिरण्याक्षो धरोद्धारे बिभ्रता सौकरं वपुः ॥४०॥

हिरण्यकशिपुः पुत्रं प्रह्लादं केशवप्रियम ।

जिंघासुरकरोत्रानं यातना मृत्युहेतवे ॥४१॥

सर्व भुतात्मभुतं तं प्रशान्तं समदर्शनम ।

भगवत्तेजसा स्पृष्टं नाशक्रोद्धन्तुमुद्यमैः ॥४२॥

ततस्तौ राक्षसौ जातौ केशिन्यां विश्रवः सुतौ ।

रावणः कुम्भकर्णश्च सर्वलोकोपतापनौ ॥४३॥

तत्रापि राघवो भुत्वा न्यहनच्छापमुक्तये ।

रामवीर्य श्रोष्यसि त्वं मार्कण्डेयमुखात् प्रभो ॥४४॥

तावेव क्षत्रियौ जातौ मातृष्वस्रात्मजौ तव ।

अशुना शापनिर्मुक्तौ कृष्णचक्रहतांहसौ ॥४५॥

वैरानुबन्धतीव्रेण ध्यानेनाच्युतसात्मताम ।

नीतौ पुनर्हरेः पार्श्व जग्मतुर्विष्णुपार्षदौ ॥४६॥

युधिष्ठिर उवाच

विद्वेषी दयिते पुत्रे कथमासेन्महात्मनि ।

ब्रुहि मे भगवन्येन प्रह्रादस्याच्युताम्यता ॥४७॥

इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां सप्तमस्कन्धे प्रह्लादचरितोपक्रमे प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP