द्वादशोऽध्यायः - नाभसयोग

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.


नव दिग् वसवस्त्रिकाग्नि वेदैर्गुणिता द्वि त्रि चतुर्विकल्पजाः स्युः ।

यवनैस्त्रि गुणा हि षट् शती सा कथिता विस्तरतोऽग्र तत् समाः स्युः ॥१॥

रज्जुर्मुशलं नलश्चराद्यैः सत्यश्चाश्रयजाञ्ज गादयोगान् ।

केन्द्रैः सद् असद् युतैर्दलाख्यौ स्रक् सर्पौ कथितौ पराशरेण ॥२॥

योगा व्रजन्त्याश्रयजाः समत्वं यवाब्ज वज्राण्डज गोलकाद्यैः ।

केन्द्रोपगैः प्रोक्त फलौ दलाख्यावित्याहुरन्ये न पृथक् फलौ तौ ॥३॥

आसन्न केन्द्र भवन द्वयगैर्गदाख्यस्तन्वस्तगेषु शकटं विहगः ख बन्ध्वोः ।

शृङ्गाटकं नवम पञ्चम लग्न संस्थैर्लग्नान्यगैर्हलम् इति प्रवदन्ति तज् ज्ञाः ॥४॥

शकटाण्डज वच्छुभाशुबैर्वज्रं तद्विपरीतगैर्यवः ।

कमलं तु विमिश्र संस्थितैर्वापि तद्यदि केन्द्र बाह्यतः ॥५॥

पूर्व शास्त्रानुसारेण मया वज्रादयः कृताः ।

चौतुर्थे भवने सूर्याज् ज्ञ सितौ भवतः कथम् ॥६॥

कण्टकादि प्रव्ऱ्त्तैस्तु चतुर्गृह गतैर्ग्रहैः ।

यूपेषु शक्ति दण्डाख्या होराद्यैः कण्टकैः क्रमात् ॥७॥

नौ कूट च्छत्र चापानि तद्वत् सप्तऋक्ष संस्थितैः ।

अर्ध चन्द्रस्तु नावाद्यैः प्रोक्तस्त्वन्यऋक्ष संस्थितैः ॥८॥

एकान्तर गतैरर्थात् समुद्रः षड् गृहाश्रितैः ।

विलग्नादि स्थितैश्चक्रम् इत्याकृतिज संग्रहः ॥९॥

संख्या योगाः स्युः सप्त सप्तऋक्ष संस्थिरेकापायाद् वल्लकी दामिनी च

पाशः केदारः शूलयोगो युगं च गोलश्चान्यान् पूर्वम् उक्तान् विहाय ॥१०॥

ईर्ष्युर्विदेश निरतोऽध्वरुचिश्चरज्ज्वां मानी धनी च मुशले बहु कृत्य सक्तः ।

व्यङ्गः स्थिराढ्य निपुणो नलजः स्रग् उत्थो भोगान्वितो भुज गजो बहु दुःख भाक् स्यात् ॥११॥

आश्रयोक्तास्तु विफला भवन्त्यन्यैर्विमिश्रिताः ।

मिश्रा यैस्ते फलं दद्युरमिश्राः स्व फल प्रदाः ॥१२॥

यज्वर्थ भाक् सततम् अर्थरुचिर्गदायां तद्वृत्ति भुक् शकटजः सरुजः कुदारः ।

दूतोऽटनः कलह कृद् विहगे प्रदिष्टः शृङ्गाटके चिर सुखी कृषिकृद् धलाक्ष्ये ॥१३॥

वज्रे अन्त्य पूर्व सुखिनः सुभगोऽतिशूरो वीर्यान्वितोऽप्यथयवे सुखितो वयोऽन्तः ।

विख्यात कीर्त्यमित सौख्य गुणश्च पद्मे वाप्यां तनु स्थिर सुखो निधि कृन् न दाता ॥१४॥

त्यागात्मवान् क्रतु वरैर्यजते च यूपे हिंस्रोऽथ गुप्त्यधिकृतः शरकृच्छराख्ये ।

नीचोऽलसः सुखधनैर्वियुतश्च शक्तौ दण्डे प्रियैर्विरहितः पुरुषान्त्य वृत्तिः ॥१५॥

कीर्त्या युतश्चल सुखः कृपणश्च नौजः कूटे अनृत प्लवन बन्धनपश्च जातः ।

छत्रोद्भवः स्व जन सौख्य करोऽन्त्य सौख्यः शूरश्च कार्मुक भवः प्रथमान्त्य सौख्यः ॥१६॥

अर्धेन्दुजः सुभग कान्त वपुः प्रधानस्तोयालये नर पति प्रतिमस्तु भोगी ।

चक्रे नरेन्द्र मुकुट द्युति रञ्जिताङ्घ्रिर्वीणोद्भवश्च निपुणः प्रिय गीत नृत्यः ॥१७॥

दातान्य कार्य निरतः पशुपश्च दाम्नि पाशे धनार्जन विशील स भृत्य बन्धुः ।

केदारजः कृषि करः सुबहूपयोष्यः शूरः क्षतो धनरुचिर्विधनश्च शूले ॥१८॥

धन विरहितः पाखण्डी वा युगे त्वथ गोलके विधन मलिनो ज्ञानोपेतः कुशिल्प्यलसोऽटनः ।

इति निगदिता योगाः सार्द्धं फलैरिह नाभसा नियत फलदाश्चिन्त्या ह्येते समस्तदशास्वपि ॥१९॥

N/A


References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.