द्वितीयोऽध्यायः - ग्रह भेद

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.


कालात्मादिन कृन् मनस्तुहिनगुः सत्वं कुजो ज्ञो वचो

जीवो ज्ञान सुखे सितश्च मदनो दुःखं दिनेशात्मजः ।

राजानौ रवि शीतगू क्षित सुतो नेता कुमारो बुधः सूरिर्दानव

पूजितश्च सचिवौ प्रेष्यः सहस्रांशुजः ॥१॥

हेलिः सूर्यश्चन्द्रमाः शीतरश्मिर्हेम्नो विज् ज्ञो बोधनश्चेन्दु पुत्रः ।

आरो वक्रः क्रूरदृक् चावनेयः कोणो मन्दः सूर्य पुत्रोऽसितश्च ॥२॥

जीवोऽङ्गिराः सुर गुरुर्वचसां पतीज्यः शुक्रो भृगुर्भृगुसुतः सितास्फुजिच्च ।

राहुस्तमोऽगुरसुरश्च शिखीति केतुः पर्यायम् अन्यम् उपलभ्य वदेच्च लोकात् ॥३॥

रक्त श्यामो भास्करो गौरेन्दुर्नात्युच्चाङ्गो रक्त गौरश्च वक्रः ।

दूर्वा श्यामो ज्ञो गुरुर्गौर गात्रः श्यामः शुक्रो भास्करिः कृष्णदेहः ॥४॥

वर्णास्ताम्र सितातिरक्त हरित व्यापीत चित्रासिता ।

बहून्यम्ब्वग्निज केशवेन्द्र शचिकाः सूर्यादि नाथाः क्रमात् ।

प्रागाद्यारवि शुक्र लोहित तमः सौरेन्दु वित् सूरयः क्षीणेन्द्वर्क

मही सुतार्क तनयाः पापा बुधस्तैर्युतः ॥५॥

बुध सूर्य सुतौ नपुंसकाखौ शशि शुक्रौ युवती नराश्च शेषाः ।

शिखिभू ख पयो मरुद् गणानां वशिनो भूमि सुतादयः क्रमेण ॥६॥

विप्रादितः शुक्र गुरू कुजार्कौ शशी बुधश्चेत्यसितान्त्यजानाम् ।

चन्द्रार्क जीवा ज्ञ सितौ कुजार्की यथा क्रमं सत्वरजस्तमांसि ॥७॥

मधु पिङ्गलदृक् चतुरस्र तनुः पित्त प्रकृतिः सविताल्प कचः ।

तनु वृत्त तनुर्बहु वात कफः प्राज्ञश्च शशी मृदु वाक् शुभदृक् ॥८॥

क्रूरदृक् तरुण मूर्तिरुदारः पैत्तिकः सुचपलः कृश मध्यः ।

श्लिष्टवाक् सतत हास्यरुचिर्ज्ञः पित्त मारुत कफ प्रकृतिश्च ॥९॥

बृहत् तनुः पिङ्गल मूर्धजेक्षणो बृहस्पतिः श्रेष्ठ मतिः कफात्मकः ।

भृगुः सुखी कान्त वपुः सुलोचनः कफानिलात्मासित वक्र मूर्धजः ॥१०॥

मन्दोऽलसः कपिलदृक् कृशदीर्घ गात्रः स्थूलद्विजः परुषरोम कचोऽनिलात्मा ।

स्नाय्वस्थ्यसृक् त्वग् अथ शुक्र वसे च मज्जा मन्दार्क चन्द्र बुध शुक्र सुरेज्य भौमाः ॥११॥

देवाम्ब्वग्नि विहार कोश शयन क्षित्युत्करेशाः क्रमात् ।

वस्त्रं स्थूलम् अभुक्तम् अग्निक हतं मध्यं दृढं स्फाटितम् ।

ताम्रं स्यान् मणि हेमयुक्ति रजतान्यर्काच्च मुक्तायसी ।

द्रेष्काणैः

शिशिरादयः शशु रुच ज्ञ ग्वादिषूद्यत्सु वा ॥१२॥

त्रि दश त्रिकोण चतुरस्र सप्तमान्यवलोकयन्ति चरणाभिवृद्धितः ।

रविजामरेज्यरुधिराः परे च ये क्रमशो भवन्ति किल वीक्षणे अधिकाः ॥१३॥

अयन क्षण वासरऋतवो मासोऽर्धं च समाश्च भास्करात् ।

कटुक लवण तिक्त मिश्रिता मधुराम्लौ च कषायेत्यपि ॥१४॥

जीवो जीव बुधौ सितेन्दु तनयौ व्यर्का विभौमाः क्रमाद् वीन्द्वर्का

विकुजेन्द्विनाश्च सुहृदः केषां चिद् एवं मतम् ।

सत्योक्ते सुहृदस्त्रिकोण भवनात् स्वात् स्वान्त्यधी धर्मपाः

स्वोच्चायुः सुखपाः स्वलक्षण विधेर्नान्यैर्विरोधाद् इति ॥१५॥

शत्रू मन्द सितौ समश्च शशिजो मित्राणि शेषारवेस्-

तीक्ष्णांशुर्हिमरश्मिजश्च सुहृदौ शेषाः समाः शीतगोः ।

जीवेन्दूष्ण कराः कुजस्य सुहृदो ज्ञोऽरिः सितार्की समौ

मित्रे सूर्य सितौ बुधस्य हिमगुः शत्रुः समाश्चापरे ॥१६॥

सूरः सौम्य सितावरी रवि सुतो मध्योऽपरे त्वन्यथा सौम्यार्की

सुहृदौ समौ कुज गुरू शुक्रस्य शेषावरी ।

शुक्रजौ सुहृदौ समः सुर गुरुः सौरस्य चान्ये अरयो ये

प्रोक्ताः स्व त्रिकोण भादिषु पुनस्ते अमी मया कीर्तिताः ॥१७॥

अन्योन्यस्यधन व्ययाय सहज व्यापार बन्धु स्थितास्तत् काले

सुहृदः स्व तुङ्ग भवने अप्येके अरयस्त्वन्यथा ।

द्व्येकानुक्त भपान् सुहृत् समरिपून् संचिन्त्य नैसर्गिकांस्तत् काले च

पुनस्तु तान् अधिसुहृन् मित्रादिभिः कल्पयेत् ॥१८॥

स्वोच्च सुहृत् स्व त्रिकोण नवांशैः स्थान बलं स्व गृहोपगतैश्च ।

दिक्षु बुधाङ्गिरसौ रवि भौमौ सूर्य सुतः सित शीत करौ च ॥१९॥

उदग् अयने रवि शीत मयूखौ वक्र समागमगाः परिशेषाः ।

विपुल करा युधि चोत्तर संस्थाश्चेष्टित वीर्ययुता परिकल्प्याः ॥२०॥

निशि शशि कुज सौराः सर्वदा ज्ञोऽह्नि चान्ये ।

बहुल सित गताः स्युः क्रूर सौम्याः क्रमेण ।

द्व्ययनदिवस होरा मासपैः काल वीर्यं शरु बु गु शु च साद्या वृद्धितो वीर्यवन्तः ॥२१॥

N/A


References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.