TransLiteral Foundation

अष्टमोऽध्यायः - दशान्तर्दशा

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.


दशान्तर्दशा

उदयरवि शशाङ्क प्राणि केन्द्रादि संस्थाः ।

प्रथम वयसि मध्ये अन्त्ये च दद्युः फलानि ।

न हि न फल विपाकः केन्द्र संस्थाद्य भावे भवति हि फल पक्तिः पूर्वम् आपोक्लिमे अपि ॥१॥

आयुः कृतं येन हि यत् तदेव कल्प्या दश सा प्रबलस्य पूर्वाम् ।

साम्ये बहूनां बहु वर्षदस्य तेषां च साम्ये प्रथमोदितस्य ॥२॥

एकऋक्षगोऽर्धम् अपहृत्य ददाति तु स्वं त्र्यंशं त्रिकोण गृहगः स्मरगः स्वरांशम् ।

पादं फलस्य चतुरस्र गतः स होरस्त्वेवं परस्पर गताः परिपाचयन्ति ॥३॥

स्थानान्यथाइतानि स वर्णयित्वा सर्वाण्यधश्छेद विवर्जितानि ।

दशाब्द पिण्डे गुणका यथांशं छेदस्तदैक्येन दशाप्रभेदः ॥४॥

सम्यग् बलिनः स्व तुङ्ग भागे सम्पूर्णा बल वर्जितस्यरिक्ता ।

नीचांश गतस्य शत्रु भागे ज्ञेयानिष्ट फलादशा प्रसूतौ ॥५॥

भ्रष्टस्य तुङ्गाद् अवरोहि संज्ञा मध्या भवेत् सा सुहृद् उच्च भागे ।

अरोहिणी निम्न परिच्युतस्य नीचारि भांशेष्वधमा भवे सा ॥६॥

नीचारि भांशे समवस्थितस्य शस्ते गृहे गृहे मिश्र फला प्रदिष्टा ।

संज्ञानुरूपाणि फलान्यथैषां दशासु वक्ष्यामि यथोपयोगम् ॥७॥

उभये अधम मध्य पूजिताद्रेष्काणैश्चर भेषु च उत्क्रमात् ।

अशुभेष्ट समाः स्थिरे क्रमाद् धोरायाः परिकल्पितादशा ॥८॥

एकं द्वौ नव विंशतिर्धृति कृती पञ्चाशद् एषां

क्रमाच्चन्द्रारेन्दुज शुक्र जीवदिनक्रिद् दैवा करिणां समाः ।

स्वैः स्वैः पुष्ट फलानि सर्ग जनितैः पक्तिर्दशायाः क्रमाद् अन्ते

लग्नदशा शुभेति यवना नेच्छन्ति केचित् तथा ॥९॥

पाक स्वामिनि लग्नगे सुहृदि वा वर्गे अस्य सौम्ये अपि वा

प्रारब्धा शुभदादशा त्रिदश षड् लाभेषु वा पाकपे ।

मित्रोच्चोपचयस्त्रिकोण मदने पाकेश्वरस्य स्थितश्चन्द्रः

सत् फल बोधनानि कुरुते पापानि चातोऽन्यथा ॥१०॥

प्रारब्धा हिमगौ दशा स्व गृहगे मानार्थ सौख्यावहा कौजे

दूषयति स्त्रियं बुध गृहे विद्या सुहृद् वित्तदा ।

दुर्गारण्य पथालये कृषि करी सिंहे सितऋक्षे अन्नदा कुस्त्रीदा

मृग कुम्भयोर्गुरु गृहे मानार्थ सौख्यावहा ॥११॥

सौर्यां स्वन् नखदन्त चर्म कनक क्रौर्याध्व भूपाहवैस्तक्ष्ण्यं

दैर्यम् अजस्रम् उद्यमरतिः ख्यातिः प्रतापोन्नतिः ।

भार्य पुत्रधनारि शस्त्र हुतभुग् भूपोद्भवा व्यापद स्त्यागी

पापरतिः स्व भृत्य कलहो हृत् क्रोड पीडामयाः ॥१२॥

इन्दोः प्राप्यदशां फलानि लभते मन्त्रद्विजात्युद्भवनीक्षु क्षीर

विकार वस्त्र कुसुम क्रीडा तिलान्न श्रमैः ।

निद्रालस्य मृदु द्विजामररतिः स्त्री जन्म मेधाविता

कीर्त्यर्थोपचक्षयौ च बलिभिर्वैरं स्व पक्षेण च ॥१३॥

भौमस्यारि विमर्द भूप सहज क्षित्याविकाजैर्धनं प्रद्वेषः

सुत मित्रदार सहजैर्विद्वद् गुरु द्वेष्टृता ।

तृष्णासृग् ज्वर पित्त भङ्ग जनितारोगाः पर स्त्री कृताः प्रीतिः

पापरतैरधर्म निरतिः पारुष्य तैक्ष्ण्यानि च ॥१४॥

बौध्यां दौत्य सुहृद् गुरु द्विजधनं विद्वत् प्रशंसा

यशो युक्ति द्रव्य सुवर्ण वेसर मही सौभाग्य सौख्याप्तयः ।

हास्योपासन कौशलं मति चयो धर्म क्रिया सिद्धयः

पारुष्यं श्रम बन्ध मानस शुचः पीडा च धातु त्रयात् ॥१५॥

जैव्यां मान गुणोदयो मति चयः कान्तिः प्रतापोन्नतिर्माहात्म्योद्यम

मन्त्र नीति नृ पति स्वाध्याय मन्त्रैर्धनम् ।

हेमाश्वात्मज कुञ्जराम्बर चयः प्रीतिश्च सद् भूमिपैः ।

सूक्ष्म्योह गहनाश्रमः श्रवणरुग् वैरं विधर्माश्रितैः ॥१६॥

शौक्यां गीतरतिः प्रमोद सुरभि द्रव्यान्न पानाम्बर स्त्री रत्न

द्युति मन्मथोपकरण ज्ञानेष्ट मित्रागमाः ।

कौशल्यं क्रय विक्रये कृषि निधि प्राप्तिर्धनस्यागमो ।

वृन्दोर्वीश निषादधर्मरहितैर्वैरं शुचः स्नेहतः ॥१७॥

सौरीं प्राप्य खरोष्ट्र पक्षि महिषी वृद्धाङ्गनावाप्तयः ।

श्रेणी ग्राम पुरधि कार जनिता पूजा कुधान्यागमः ।

श्लेष्मेर्ष्यानिल कोप मोह मलिन व्यापत्ति तन्द्राश्रमान् ।

भृत्यापत्य कलत्र भर्त्सनम् अपि प्राप्नोति च व्यङ्गयताम् ॥१८॥

दशासु शस्तासु शुभानि कुर्वन्त्यनिष्ट संज्ञा स्व शुभानि चैवम् ।

मिश्रासु निश्राणि दशा फलानि होरा फलं लग्न पतेः स मानम् ॥१९॥

संज्ञाध्याये यस्य यद् रव्य मुक्तं कर्माअजीवो यश्च यस्योपदिष्टः ।

भाव स्थानालोक योगोद्भवं च तत् तत् सर्वं तस्य योज्यं दशायाम् ॥२०॥

छायां महाभूत कृतां च सर्वे अभिव्यञ्जयन्ति स्वदशाम् अवाप्य ।

क्वम्ब्वग्नि वाय्वम्बरजान् गुणांश्च नासास्य दृक् त्वक् छ्रवणानुमेयात् ॥२१॥

शुभ फलददशाया तादृग् एवान्तरात्मा बहु जनयति पुंसां सख्यम् अर्थागमं च

कथित फल विपाकैस्तर्कयेद् वर्तमानां परिणमति फलाप्तिः स्वप्न चिन्ता स्व वीर्जैः ॥२२॥

एक ग्रहस्य सदृशे फलयोर्विरोधे नाशं वदेद् यद् अधिकं परिपच्यते तत् ।

नान्यो ग्रहः सदृशम् अन्य फलं हिनस्ति स्वां स्वां दशाम् उपगताः स फल प्रदा स्युः ॥२३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-01-16T20:51:55.0170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

scaling of judgement

  • निर्णय श्रेणीयन 
RANDOM WORD

Did you know?

आगमशास्त्राबद्दल माहिती मिळावी.
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Status

  • Meanings in Dictionary: 644,289
  • Total Pages: 46,537
  • Hindi Pages: 4,555
  • Dictionaries: 44
  • Words in Dictionary: 302,181
  • Marathi Pages: 27,517
  • Tags: 2,685
  • English Pages: 234
  • Sanskrit Pages: 14,230
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.