मराठी मुख्य सूची|स्तोत्रे|कृष्ण स्तोत्रे|
ब्रह्मोवाच । रक्ष रक्ष...

ब्रह्मदेवकृतकृष्णस्तोत्रम् - ब्रह्मोवाच । रक्ष रक्ष...

भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.
Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu.


ब्रह्मोवाच ।

रक्ष रक्ष हरे मां च निमग्नं कामसागरे । दुष्कीर्तिजलपूर्णे च दुष्पारे बहुसंकटे ॥ १ ॥
भक्तिविस्मृतिबीजे च विपत्सोपानदुस्तरे । अतीव निर्मलज्ञानचक्षुःप्रच्छन्नकारणे ॥ २॥
जन्मोर्मिसंगसहिते योषिन्नक्रौघसंकुले । रविस्त्रोतःसमायुक्ते गंभीरे घोर एव च ॥ ३ ॥
प्रथमामृतरूपे च परिणामविषालये । यमालयप्रवेशाय मुक्तिद्वारातिविस्मृतौ ॥ ४ ॥
बुद्ध्या तरण्या विज्ञानैरुद्धरास्मानतः स्वयम् । स्वयं च त्वं कर्णधारः प्रसीद मधुसूदन ॥ ५ ॥
मद्विधाः कतिचिन्नाथ नियोज्या भवकर्मणि । संति विश्वेश विधयो हे विश्वेश्वर माधव ॥ ६ ॥
न कर्मक्षेत्रमेवेदं ब्रह्मलोकोऽयमीप्सितः । तथापि न स्पृहा कामे त्वद्भक्तिव्यवधायके ॥ ७ ॥
हे नाथ करुणासिंधो दीनबंधो कृपां कुरु । त्वं महेश महाज्ञाता दुःस्वप्नं मां न दर्शय ॥ ८ ॥
इत्युक्त्वा जगतां धाता विरराम सनातनः । ध्यायं ध्यायं मत्पदाब्जं शशवत्सस्मार मामिति ॥ ९ ॥
ब्रह्मणा च कृतं स्तोत्रं भक्तियुक्तश्च यः पठेत् । च चैवाकर्मविषये न निमग्नो भवेद् ध्रुवम् ॥ १० ॥
मम मायां विनिर्जित्य स ज्ञानं लभते ध्रुवम् । इह लोके भक्तियुक्तो मद्भक्तप्रवरो भवेत् ॥ ११ ॥
इति श्रीब्रह्मदेवकृतं श्रीकृष्णस्तोत्रम् संपूर्णम् ।

N/A

References : N/A
Last Updated : July 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP