मराठी मुख्य सूची|स्तोत्रे|कृष्ण स्तोत्रे|
कुञ्चिताधरपुटेन पूरयन् वं...

त्रैलोक्यमंगलकवचम् - कुञ्चिताधरपुटेन पूरयन् वं...

भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.
Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu.


कुञ्चिताधरपुटेन पूरयन् वंशिकाप्रचलदंगुलीततिः ।
मोहयन्सुरभिवामलोचनाः पातु कोऽपि नवनीरदच्छविः ॥
गणेशाय नमः । नारद उवाच ।

भगवन्सर्वधर्मज्ञ कवचं यत्प्रकाशितम् ।
त्रैलोक्यमंगलं नाम कृपया कथय प्रभो ॥ १ ॥
सनत्कुमार उवाच ।
श्रृणु वक्ष्यामि विपेन्द्र कवचं परमाद्‌भुतम् ।
नारायणेन कथितं कृपया ब्रह्मणे पुरा ॥ २ ॥
ब्रह्मणा कथितं मह्यं परं स्नेहाद्वदामि वै ।
अतिगुह्यतरं तत्त्वं ब्रह्ममंत्रौघविग्रहम् ॥ ३ ॥
यद्धृत्वा पठनाद्‌ब्रह्मा सृष्टिं वितनुते ध्रुवम् ।
यद्धृत्वा पठनात्पाति महालक्ष्मीर्जगत्रयम् ॥ ४ ॥
पठनाद्धारणाच्छंभुः संहर्ता सर्वमंत्रवित् ।
त्रैलोक्यजननी दुर्गा महिषादिमहासुरान् ॥ ५ ॥
वरदृप्तान् जघानैव पठनाद्धारणाद्यतः ।
एवमिन्द्रादयः सर्वे सर्वैश्वर्यमवाप्नुयुः ॥ ६ ॥
इदं कवचमत्यंतगुप्तं कुत्रापि नो वदेत् ।
शिष्याय भक्तियुक्ताय साधकाय प्रकाशयेत् ॥ ७ ॥
शठाय परशिष्याय दत्त्वा मृत्युमवप्नुयात् ।
त्रैलोक्यमंगस्यास्य कवचस्य प्रजापतिः ॥ ८ ॥
ऋषिश्छंदश्च गायत्री देवो नारायणः स्वयम् ।
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥ ९ ॥
प्रणवो मे शिरः पातु नमो नारायणाय च ।
भालं मे नेत्रयुगलमष्टार्णो भुक्तिमुक्तिदः ॥ १० ॥
क्लीं पायाच्छ्रत्रियुग्मं चैकाक्षरः सर्वमोहनः ।
क्लीं कृष्णाय सदा घ्राणं गोविंदायेति जिह्विकाम् ॥ ११ ॥
गोपीजनपदवल्लभाय स्वाहाननं मम ।
अष्टादशाक्षरो मंत्रः कण्ठं पातु दशाक्षरः ॥ १२ ॥
गोपीजनपदवल्लभाय स्वाहा भुजद्वयम् ।
क्लीं ग्लौं क्लीं श्यामलाङ्गाय नमः स्कंधौ दशाक्षरः ॥ १३ ॥
क्लीं कृष्णः क्लीं करौ पायात् क्लीं कृष्णो मां गतोऽवतु ।
ह्रदयं भुवनेशानः क्लीं कृष्णः क्लीं स्तनौ मम ॥ १४ ॥
गोपालायाग्निजायान्तं कुक्षियुग्मं सदाऽवतु ।
क्लीं कृष्णाय सदा पातु पार्श्वयुग्ममनुत्तमः ॥ १५ ॥
कृष्णगोविंदकौ पातां स्मराद्यौ डेयुतौ मनुः ।
अष्टाक्षरः पातु नाभिं कृष्णेति द्वयक्षरोऽवतु ॥ १६ ॥
पृष्ठं क्लीं कृष्णकं गल्लं क्लीं कृष्णाय द्विठान्तकः ।
सक्थिनी सततं पातु श्रीं ह्रीं क्लीं कृष्णठद्वयम् ॥ १७ ॥
ऊरू सप्ताक्षरः पायात्रयोदशाक्षरोऽवतु ।
श्री ह्रीं क्लीं पदतो गोपीजनवल्लभपदं ततः ॥ १८ ॥
भाय स्वाहेति पायुं वै क्लीं ह्रीं श्रीं स दशार्णकः ।
जानुनी च सदा पातु ह्रीं श्रीं क्लीं च दशाक्षरः ॥ १९ ॥
त्रयोदशाक्षरः पातु ज्म्घे चक्राद्युदायुधः ।
अष्टादशाक्षरः ह्रीं श्रीं पूर्वको विंशदर्णकः ॥ २० ॥
सर्वांगं मे सदा पातु द्वारकानायको बली ।
नमो भगवते पश्‍चाद्वासुदेवाय तत्परम् ॥ २१ ॥
ताराद्यो द्वादशार्णोऽयं प्राच्यां मां सर्वदाऽवतु ।
श्रीं ह्रीं क्लीं च दशार्णस्तु ह्रीं क्लीं श्रीं षोडशार्णकः ॥ २२ ॥
गदाद्युदायुधो विष्णुर्मामग्नेर्दिशि रक्षतु ।
ह्रीं श्रीं दशाक्षरो मंत्रो दक्षिणे मां सदाऽवतु ॥ २३ ॥
तारो नमो भगवते रुक्मिणीवल्लभाय च ।
स्वाहेति षोडशार्णोऽयं नैऋत्यां दिशि रक्षतु ॥ २४ ॥
क्लीं ह्रषीकेशाय पदं नमो मां वारुणेऽवतु ।
अष्तादशार्णः कामान्तो वायव्ये मां सदाऽवतु ॥ २५ ॥
श्रीं मायाकामकृष्णाय गोविंदाय द्विठो मनुः ॥
द्वादशार्णात्मको विष्णुरुत्तरे मां सदाऽवतु ॥ २६ ॥
वाग्भयं कामकृष्णायं ह्रीं गोविंदाय तत्परम् ।
श्रीं गोपीजनवल्लभान्ताय स्वाहा करौ ततः ॥ २७ ॥
द्वाविंशत्यक्षरो मंत्रो मामैशान्ये सदाऽवतु ।
कालियस्य फणामध्ये दिव्यं नृत्यं करोति तम् ॥ २८ ॥
नमामि देवकीपुत्रं नृत्यराजानमच्युतम् ।
द्वात्रिंशदक्षरो मंत्रोऽप्यधो मां सर्वदाऽवतु ॥ २९ ॥
कामदेवाय विद्महे पुष्पबाणाय धीमहि ।
तन्नोऽनङ्गः प्रचोदयादेषां मां पातु चोर्ध्वतः ॥ ३० ॥
इति ते कथितं विप्र ब्रह्म मंत्रौघविग्रहम् ।
त्रैलोक्यमंगलं नाम कवचं ब्रह्मरूपकम् ॥ ३१ ॥
ब्रह्मणा कथितं पूर्वं नारायणमुखाच्छ्रतम् ।
तव स्नेहान्मयाऽऽख्यातं प्रवक्तव्यं न कस्यचित् ॥ ३२ ॥
गुरुं प्रणम्य विधिवत्कवचं प्रपठेत्ततः ।
सकृद् द्विस्त्रिर्यथाज्ञानं स हि सर्वतपोमयः ॥ ३३ ॥
मंत्रेषु सकलेष्वेव देशिको नात्र संशयः ।
शतमष्टोत्तरं चास्य पुरश्चर्यविधिः स्मृतः ॥ ३४ ॥
हवनादिन्दशांशेन कृत्वा तत्साधयेद् ध्रुवम् ।
यदि स्यात्सिद्धकवचो विष्णुरेव भवेत्स्वयम् ॥ ३५ ॥
मंत्रसिद्धिर्भवेत्तस्य पुरुश्चर्याविधानतः ।
स्पर्धामुद्‌धूय सततं लक्ष्मीर्वाणी वसेत्ततः ॥ ३६ ॥
पुष्पांजल्यष्टकं दत्त्वा मूलेनैव पठेत्सकृत् ।
दशवर्षसहस्त्राणी पूजायाः फलमाप्नुयात् ॥ ३७ ॥
भूर्जे विलिख्यांगुलिकां स्वर्णस्थां धारयेद्यदि ।
कंठे वा दक्षिणे बाहौ सोऽपि विष्णुर्न संशयः ॥ ३८ ॥
अश्वमेधसहस्त्राणि वाजपेयशतानि च ।
महादानानि यान्येव प्रादक्षिण्यं भुवस्तथा ॥ ३९ ॥
कलां नार्हन्ति तान्येव सकृदुच्चारणात्ततः ।
कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः ॥ ४० ॥
त्रैलोक्यं क्षोभयत्येव त्रैलोक्यविजयी भवेत् ।
इदं कवचमज्ञात्व यजेद्यः पुरुशोत्तमम् ।
शतलक्षं प्रजप्तोऽपि न मंत्रस्तस्य सिध्यति ॥ ४१ ॥
इति श्रीनारदपंचरात्रे ज्ञानामृतसारे त्रैलोक्यमंगलकवचं संपूर्णम् ।

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP