मराठी मुख्य सूची|स्तोत्रे|कृष्ण स्तोत्रे|
श्रीधर्म उवाच । कृष्णं व...

धर्मकृतं श्रीकृष्णस्तोत्र - श्रीधर्म उवाच । कृष्णं व...

भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.
Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu.


श्रीधर्म उवाच ।

कृष्णं विष्णुं वासुदेवं परमात्मानमीश्वरम् ।
गोविन्दं पर्मानन्दमेकमक्षरमच्युतम् ॥१॥

गोपेश्वरं च गोपीशं गोपं गोरक्षकं विभुम् ।
गवामीशं च गोष्ठस्थं गोवत्सपुच्छधारिण्म् ॥२॥

गोगोपगोपीमध्यस्थं प्रधानं पुरुषोत्तमम् ।
वन्देऽनवद्धमनघं श्यामं शान्तं मनोहरम् ॥३॥

इत्युच्चार्य समुत्तिष्ठन् रत्नसिंहासने वरे ।
ब्रह्मविष्णुमहेशांस्तान्संभाष्य स उवास ह ॥४॥

चतुर्विशतिनामानि धर्मवक्त्रोद्गतानि च ।
यः पठेत्प्रातरुत्थाय स सुखी सर्वतो जयी ॥५॥

मृत्युकाले हरेनमि तस्य साध्यं भवेद्ध्रुवम् ।
स यात्यन्ते हरेः स्थानं हरिदास्यं भवेद्ध्रुवम् ॥६॥

नित्यं धर्मस्तं घटते नाधर्मे तद्रतिर्भवेत् ।
चतुर्वर्गफलं तस्य शश्वत्करगतं भवेत् ॥७॥

तं दृष्ट्वा सर्वपापानि पलायन्ते भयेन च ।
भयानि चैव दुःखानि वैनतेयमिवोरेगाः ॥८॥

इति ब्रह्मावैवर्ते धर्मकृतं श्रीकृष्णस्तोत्रम् ।

N/A

References : N/A
Last Updated : July 14, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP