मराठी मुख्य सूची|स्तोत्रे|कृष्ण स्तोत्रे|
इन्द्र उवाच । अक्षरं परम...

इन्द्रकृतकृष्णस्तोत्रम् - इन्द्र उवाच । अक्षरं परम...

भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.
Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu.

इन्द्र उवाच ।
अक्षरं परमं ब्रह्म ज्योती रूपं सनातनम् । गुणातीतं निराकारं स्वेच्छामयमनंतकम् ॥ १ ॥
भक्तध्यानाय सेवायै नानारूपधरं वरम् । शुक्लरक्तपीतश्यामं युगानुक्रमणेन च ॥ २ ॥
शुक्लतेजःस्वरूपं च सत्ये सत्यस्वरूपिणम् । त्रेतायां कुंकुमाकारं ज्वलंतं ब्रह्मतेजसा ॥ ३ ॥
द्वापरे पीतवर्णं च शोभितं पीतवाससा । कृष्णवर्णं कलौ कृष्णं परिपूर्णतमं प्रभुम् ॥ ४ ॥
नवधाराधरोत्कृष्टश्यामसुंदरविग्रहम् । नंदैकनंदनं वंदे यशोदानंदनं प्रभुम् ॥ ५ ॥
गोपिकाचेतनहरं राधाप्राणाधिकं परम् । विनोदमुरलीशब्दंकुर्वंतं कौतुकेन च ॥ ६ ॥
रूपेणाप्रतिमेनैव रत्‍नभूषणभूषितम् । कंदर्पकोटिसौन्दर्य बिभ्रतं शांतमीश्वरम् ॥ ७ ॥
क्रीडंतं राधया सार्धं वृन्दारण्ये च कुत्रचित् । कुत्रचिन्निर्जनेऽरण्ये राधावक्षःस्थलस्थितम् ॥ ८ ॥
जलक्रीडां प्रकुर्वंतं राधया सह कुत्रचित् । राधिकाकबरीभारं कुर्वंतं कुत्रचिद्वने ॥ ९ ॥
कुत्रचिद्राधिकापादे दत्तव्म्तमलक्तकम् । राधाचर्विततांबूलं गृहणन्तं कुत्रचिन्मुदा ॥ १० ॥
पश्यंतं कुत्रचिद्राधां पश्यंतीं वक्रचक्षुषा । दत्तवंतं च राधायै कृत्वा मालां च कुत्रचित् ॥ ११ ॥
कुत्रचिद्राधया सार्धं गच्छंतं रासमंडलम् । राधादत्तां गले मालां धृतवंतं च कुत्रचित् ॥ १२ ॥
सार्धं गोपालिकाभिश्च विहरंतं च कुत्रचित् । राधां गृहीत्वा गच्छंतं तां विहाय च कुत्रचित् ॥ १३ ॥
विप्रपत्‍नीदत्तमन्नं भुक्तवंतं च कुत्रचित् । भुक्तवंतं तालफलं बालकैः सह कुत्रचित् ॥ १४ ॥
वस्त्रं गोपालिकानां च हरंतं कुत्रचिन्मुदा । गवां गणं व्याहरंतं कुत्रचिद् बालकैः सह ॥ १५ ॥
कालियमूर्ध्नि पादाब्जं दत्तवंतं च कुत्रचित् । विनोदमुरलीशब्दं कुर्वंतं कुत्रचिन्मुदा ॥ १६ ॥
गायंतं रम्यसंगीतं कुत्रचिद् बालकैः सह । स्तुत्वा शक्रः स्तवेद्रेण प्रणनाम हरिं भिया ॥ १७ ॥
पुरा दत्तेन गुरुणा रणे वृत्रासुरेण च । श्रीकृष्णेन कृपया ब्रह्मणे च तपस्यते ॥ १८ ॥
एकादशाक्षरो मंत्रः कवचं सर्वलक्षणम् । दत्तमेतत्कुमाराय पुष्करे ब्रह्मणा पुरा ॥ १९ ॥
तेनांगिरसे दत्तं गुरवे चांगिराः मुने । इदमिन्द्रकृतं स्तोत्रं नित्यं भक्त्या च यः पठेत् ॥ २० ॥
इह प्राप्य दृढां भक्तिमन्ते दास्यं लभेद् ध्रुवम् । जन्ममृत्युजराव्याधिशोकेभ्यो मुच्यते नरः ॥ २१ ॥
न हि पश्यति स्वप्नेऽपि यमदूतं यमालयम् ॥ २२ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे कृष्णजन्मखण्डे इन्द्रकृतं कृष्णस्तोत्रं संपूर्णम् ।

N/A

References : N/A
Last Updated : July 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP