मराठी मुख्य सूची|स्तोत्रे|कृष्ण स्तोत्रे|
यश्चैकशैलनिकटे कमलापुरीश-...

गोविन्दराजप्रपत्तिः - यश्चैकशैलनिकटे कमलापुरीश-...


देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.
A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.


यश्चैकशैलनिकटे कमलापुरीश- गोविन्दराजपदयोरकरोत् प्रपत्तिम् ।
तं वादिभीकरगुरोश्चरणं प्रपद्ये पात्रं गुरुं वरवरं परमं गुरूणाम् ॥१॥
श्रीमन् निदान जगतां निखिलाण्डजात- निर्वाहशक्तिमुखदिव्यगुणैकतान ।
अत्यन्तभोग्यनतदोष निरस्तदोष गोविन्दराज चरणौ शरणं प्रपद्ये ॥२॥
रेखारथाङ्गसरसीरुहवज्रशङ्क- च्छत्राङ्कुशप्रभृतिमङ्गलचिह्नगर्भौ ।
संसारतापहरणे निपुणौ नतानां गोविन्दराज चरणौ शरणं प्रपद्ये ॥३॥
पश्यत्सु सान्द्रभयकौतुकमर्भकेषु प्रौढेषु सत्सु कृतकृत्यपरायणेषु ।
विध्वंसितोर्ध्वशकटावपि बालभावे गोविन्दराज चरणौ शरणं प्रपद्ये ॥४॥
आलम्ब्य बाहुयुगलेन कुमारभावे गाढं कराङ्गुलियुगं किल नन्दपत्न्याः ।
अभ्यस्यमानदशचङ्क्रमणाभिरामौ गोविन्दराज चरणौ शरणं प्रपद्ये ॥५॥
घोषाङ्गनाकरसरोरुहतालनाद- संगीतसंपदनुरूपमनोज्ञनृत्तौ ।
माणिक्यनूपुरमरीचिकृताङ्गलेपौ गोविन्दराज चरणौ शरणं प्रपद्ये ॥६॥
कुट्टाकतामुपगतौ सरसः प्रसह्य मध्येसरित्सलिलमुद्धतकालियस्य ।
तत्सुन्दरीनयननन्दनसंनिवेशौ गोविन्दराज चरणौ शरणं प्रपद्ये ॥७॥
वासांसि देहि तव कृष्ण वशंवदाना- मस्माकमाकुलधियामिति गोपकन्याः ।
उद्दिश्य यौ विदधुरञ्जलिमा प्रसादाद् गोविन्दराज चरणौ शरणं प्रपद्ये ॥८॥
गोरक्षणे किल बभूव यदीयरेणु- रक्रूरमस्तकमणेः सरणिं समेतः ।
तावद्भुतावनुपमावतिपावनौ ते गोविन्दराज चरणौ शरणं प्रपद्ये ॥९॥
मल्लावहे मधुरया मधुराङ्गनानां फुल्लारविन्ददलतल्लजलोचनानाम् ।
वाण्या प्रशंसितपरार्ध्यगतिप्रकारौ गोविन्दराज चरणौ शरणं प्रपद्ये ॥१०॥
कंसं निपात्य कनकासनतः पृथिव्या- मुद्धृत्य सागसमनागसमुग्रसेनम् ।
राज्येऽभिषिच्य विनिवारितभूमिभारौ गोविन्दराज चरणौ शरणं प्रपद्ये ॥११॥
दुर्योधने दुरभिमानिनि दुर्भगाणा- मग्रेसरे भजति ते शिरसः प्रदेशम् ।
धन्येन यन्निकटतः स्थितमर्जुनेन गोविन्दराज चरणौ शरणं प्रपद्ये ॥१२॥
सारथ्यवेषसमलंकृतपाण्डुसूनो- र्युद्धाङ्गणोज्ज्वलरथाञ्चलसंनिवेशौ ।
सान्द्रेन्द्रनीलपरिभावुकभव्यरूपौ गोविन्दराज चरणौ शरणं प्रपद्ये ॥१३॥
भक्त्या प्रसन्नहृदयेन धनंजयेन यत्रार्चितानि कुसुमानि शिवोत्तमाङ्गे ।
साक्षात्कृतानि सहसाद्भुतवैभवौ तौ गोविन्दराज चरणौ शरणं प्रपद्ये ॥१४॥
अस्मद्गुरुप्रभृतिभिः कमलावसानै- रादर्शितौ करुणया मम देशिकेन्द्रैः ।
सत्त्वोत्तरैः सकलजीवदयापरैस्तै- र्गोविन्दराज चरणौ शरणं प्रपद्ये ॥१५॥
अस्मात्पितामहमशेषगुणाभिराम- माचार्यरत्नमयि वादिभयंकरार्यम् ।
गोवर्धनाद्रिधृतिधारितगोप वीक्ष्य गोविन्दराज मम दुर्लपितं क्षमस्व ॥१६॥।
इति श्रीगोविन्दराजप्रपत्तिः संपूर्णा ।

N/A

References : N/A
Last Updated : July 14, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP