त्रयोदशो वेतालः

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


ततोऽवदत्स्कन्धगतो धरेशं भीषणाकृतिः ।
श्रृणु राजन्कथामेकां यस्यां तो कोऽपि संशयः ॥६६५॥
वाराणस्यां शिवस्वामी द्विजन्माभून्महाजनः ।
ऐश्वर्यलालितस्तस्य हरिस्वामी सुतोऽभवत् ॥६६६॥
तस्य लावण्यवत्याख्या मनस्तारुण्यशालिनी ।
प्रिया बभूव त्रैलोक्यललामललिताकृतिः ॥६६७॥
स कदाचित्तया कान्तिसरिता सौधशेखरे ।
सुष्वाप केलिशयने संभोगसुभगोत्सवे ॥६६८॥
अत्रान्तरे रतश्रान्तां तां ददर्श नभश्चरः ।
सुप्तां मदनवेगाख्यः प्रियां जायां द्विजन्मनः ॥६६९॥
तस्या विवसनं दृष्ट्वा करिणीदन्तनिर्मलम् ।
स्तनोरुजघनाभोगं बभूव स मनोभुवः ॥६७०॥
अलक्षितो जहाराशु ततस्तामायतेक्षणाम् ।
अदृष्टपूर्वसंरम्भकम्पमानां मनोजवः ॥६७१॥
प्राप्तः प्रबुद्धो दयितामपश्यन्नथ दुःखितः ।
अभवद्ब्राह्मणयुवा वियोगविषमूर्च्छितः ॥६७२॥
हा सुन्दरि सुधास्यन्दमन्दिरं कृधि सुस्मितम् ।
पुनरिन्दुमिवानन्दबन्धु द्रक्ष्यामि ते मुखम् ॥६७३॥
इति प्रलापमुखरः सुहृत्स्वजनशोकदः ।
उन्मत्त इव बभ्राम तत्र तत्र स्मरातुरः ॥६७४॥
संप्राप्य कृष्णपक्षेन्दुतानवैकोपमागताम् ।
त्यक्त्वा स्वनगरं प्रायाद्देहं देहीश्वरो यथा ॥६७५॥
भोगो रोगो विषं वेश्म सर्पबन्धश्च बान्धवाः ।  
दग्धारण्यं जगच्चेदं वियोगव्याप्तचेतसाम् ॥६७६॥
स सूर्यकिरणाप्लुष्टः कृष्यमाण इवानिशम् ।
भ्रान्त्वा सर्वाणि तीर्थानि क्षुत्क्षामः पांसुधूसरः ॥६७७॥
श्रीमतः पद्मनाभस्य सत्रशालां द्विजन्मनः ।
प्रविश्य दत्तं पत्न्या वै परमान्नमवाप सः ॥६७८॥
प्रस्तुते नलिनीतीरे न्यग्रोधस्य तरोरधः ।
भोक्तुं तत्र दिवानक्तं न दिशोऽप्यैक्षत क्षुधा ॥६७९॥
अत्रान्तरे श्येनहृतः पन्नगोऽगादमूर्च्छितः ।
विषौधश्यामलां लालां तस्य तत्याज भोजने ॥६८०॥
तदनालोकितं भुक्त्वा पञ्चतां स ययौ द्विजः ।
विधौ हि वामतां याते सर्वमेति विपर्ययम् ॥६८१॥
तं त्यक्तजीवितं ज्ञात्वा सत्रदोऽन्नाधिपो निजाम् ।
साध्वीं विवासयामास वधूं तद्भोजनक्रुधा ॥६८२॥
कथयित्वेति वेतालः पप्रच्छ नृपतिं पुनः ।
ब्रह्महत्या नरपते कस्य सा कथ्यतामिति ॥६८३॥
राजा जगाद सर्पोऽसौ श्येनेनात्यन्तपीडितः ।
परतन्त्रो विषोत्सर्गे कथं नामापराध्यति ॥६८४॥
श्येनोऽपि दैवनिर्दिष्टं भोक्तुमामिषमुद्यतः ।
बुभुक्षितो निर्विवेकी केन पापीति कथ्यते ॥६८५॥
अन्नदानपतिः सत्यं सभार्यः सोऽ‍प्यकिल्बिषः ।
किं च जानन्वदेद्यः स सत्यं तत्पापभाजनम् ॥६८६॥
इति तावदहं मन्ये कथं वेताल मन्यसे ।
श्रुत्वेत्यन्तर्हितः सोऽथ तरौ पुनरलम्बत ॥६८७॥
इति त्रयोदशो वेतालः ॥१५॥

N/A

References : N/A
Last Updated : October 23, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP