TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

षोडशो वेतालः

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


षोडशो वेतालः
अस्ति श्रीकाञ्चनपुरी मूर्ध्नि गौरीगुरोर्गिरेः ।
रत्नप्राकारकिरणैरश्रान्तोल्लिखिताम्बरा ॥७६६॥
जीमूतकेतुस्तस्याभूद्विद्याधरपतिः पतिः ।
यस्याभूच्छेषयशसः प्रख्याता काप्यनन्तता ॥७६७॥
विद्याधरेन्द्रदुहिता भार्याभूत्तस्य संमता ।
कान्ता कनकवत्याख्या ख्यातिक्षेत्रं मनोभुवः ॥७६८॥
तेनाजनि सुतस्तस्यां कल्पवृक्षवराद्वरः ।
जीमूतवाहनो नाम समूहो गुणसंपादाम् ॥७६९॥
सोत्कण्ठं काञ्चनलताकुञ्जेष्वमरभूभृतः ।
गायन्ति त्यागसुभगं यस्य स्वर्गाङ्गणे यशः ॥७७०॥
तं सर्वगुणसंपन्नमभिषिच्यात्मजं पिता ।
कल्पवृक्षं ददावस्मै नानासिद्धिसुधाफलम् ॥७७१॥
कान्ताकटाक्षचपलं चपलं यौवनं धनम् ।
जीविं चेति स ध्यात्वा तमर्थिभ्यस्तरुं ददौ ॥।७७२॥
तेन दारिद्र्यनाशाय जगति प्रतिपादितः ।
हेम्ना संपूर्य निखिलं क्षणात्सोऽन्तर्दधे द्रुमः ॥७७३॥
कुलक्रमागते तस्मिन्कल्पवृक्षे व्ययीकृते ।
अपूर्वत्यागिना तेन त्रिलोकी विस्मयं ययौ ॥७७४॥
( ज्ञात्वा तं प्रतिसामन्ता रहितं सुरशाखिना ।
तद्राज्यहरणोद्योगे बभूवुः संहता मिथः ॥७७५॥
जीमूतवाहनो ज्ञात्वा विद्यया तद्विचेष्टितम् ।
तद्वेधाकूणितमना राज्यं तत्याज निस्पृहः ॥७७६॥
स पित्रा सह मात्रा च तपसे सिद्धसेवितम् ।
मलयं खेचरवधूविलासनिलयं ययौ ) ॥७७७॥
खेल्लद्भुजङ्गकटकं सिद्धमन्डलसेवितम् ।
चण्डीपतिमिवोत्सर्पन्नीलकण्ठप्रभावनम् ॥७७८॥
संचरत्सिद्धललनाचरणाम्भोजकान्तिभिः ।
बिभ्राणामिव पर्यङ्कसक्ताब्धेर्विद्रुमावलीम् ॥७७९॥
निर्भरस्मेरहाराङ्कमकरन्दोज्ज्वलांशुकम् ।
स त्वाद्यं भूभृतां धुर्यं चन्दनागरुभूषितम् ॥७८०॥
स प्राप्य सर्वसिद्धीनामाश्रयं विषयं श्रियः ।
पित्रोः सपर्यानिरतस्तस्थौ जीमूतवाहनः ॥७८१॥
कदाचिदथ विश्रम्भसारिणा सुहृदा सह ।
स्वैरं मधुकराख्येन चचारोपवनेषु सः ॥७८२॥
स तत्र कान्तं कुसुमकरन्दं नाम काननम् ।
प्रविश्यापश्यदुच्छ्वासिसौरभाः पुष्पवल्लरीः ॥७८३॥
यत्र खेचरनारीणां तारानूपुरराविभिः ।
अशोकाश्चरणाघातैरुत्फुल्ला भान्ति रागिणः ॥७८४॥
यत्र विद्याधरवधूमधुगण्डूषनिर्भरैः ।
जृम्भेवारम्भि बकुलैः पुष्पाननविकाशिभिः ॥७८५॥
यत्र दिव्याङ्गनातुङ्गस्तनोत्सङ्गतरङ्गिणः ।
मन्दारमकरन्दाढ्याः सुन्दरा वान्ति वायवः ॥७८६॥
यत्रोद्धूतालिपटलं विलोक्य घनविभ्रम म् ।
नृत्यन्ति ह एमकदलीकुञ्जेषु शिखियोषितः ॥७८७॥
उत्कण्ठाकोमलं यत्र गीतं किन्नरयोषितः ।
श्रृण्वन्ति निश्चलाः साश्रुनयना हरिणाङ्गनाः ॥७८८॥
ददर्श तत्र कैलासशिखरस्फारविभ्रम म् ।
गङ्गायितपताकाङ्कं गौर्याः प्रासादमुन्नतम् ॥७८९॥
स्वयमेत्य सितच्छायास्पष्टीकृतदिगन्तरम् ।
( स्थितं दुहितृवात्सल्यादिव तत्र हिमाचलम् ) ॥७९०॥
देवीगर्भगृहे तस्मिन्गीतं वीणास्वनाश्रितम् ।
शुश्राव श्रोत्रपीयूषं हृदयानन्दनिर्झरम् ॥७९१॥
तच्छ्रुत्वा कौतुकाकृष्टः प्रविश्य गिरिजालयम् ।
कन्यामपश्यत्संसारसारं सरसिजेक्षणाम् ॥७९२॥
प्रवालपल्लवच्छायपादाम्बुजयुगं बभौ ।
रागसागरसंचारादिव लग्नारुणद्रवम् ॥७९३॥
लावण्यनलिनीबालमृणालयुगलोपमे ।
जङ्घाकाण्डद्वये तस्याः कान्तिहंसी व्यरोचत ॥७९४॥
विलासबर्हिकदलीदण्डावूरू बभार सा ।
पुष्पायुधपुरीकान्तदन्ततोरणविभ्रमे ॥७९५॥
पुलिने कान्तिसरितः पर्यङ्कशयने रतेः ।
मेखलापरिखं यस्या जघनं मान्मथं पुरम् ॥७९६॥
मग्नो नाभीह्रदावर्ते हरकोपानलाकुलः ।
कामोऽनुमीयते यस्या रोमालीधूम्रलेखया ॥७९७॥
तारहारांशुमुकुलैर्जातौ यस्याः पयोधरौ ।
चक्रवाकाविव मुखासक्तबालबिसाङ्कुरौ ॥७९८॥
यस्या वलयकेयूरनीलरत्नांशुभोगिभिः ।
तारुण्यचन्दनलताललिते बभतुर्भुजे ॥७९९॥
स्मरबालवसन्तेन कृतेवाधरकान्तिभिः ।
श्यामा बबहु वनस्थाया यस्याः किशलयावलिः ॥८००॥
सुस्पष्टनासावंषोच्चललाटच्छत्रमाश्रिताः ।
यत्कटाक्षच्छटाः प्रापुरुत्पलोद्दामदायताम् ॥८०१॥
वदनाम्भोजभृङ्गालीं या बभारालकावलीम् ।
प्रशस्तिमिव कामेन न्यस्तां सौभाग्यभूपतेः ॥८०२॥
तां दृष्ट्वा विस्मयोत्फुल्ललोचनस्तन्मयोऽभवत् ।
क्षिप्रं नवावतारेण स्मरेण तरलीकृतः ॥८०३॥
विस्तीर्णं सुकृतिप्राप्यं तारुण्यस्तनपादपम् ।
प्रशान्तविग्रह कथं न्यस्तचापमिव स्मरम् ॥८०४॥
लक्ष्मीविलासभवनं भुजस्तम्भविभूषितम् ।
सापि लावण्यनलिनी राजहंसं विलोक्य तम् ॥८०५॥
लज्जामज्जत्तनुलता कम्पसंपत्तरङ्गिता ।
असूत्रमौक्तिकलता बभूव स्वेदबिन्दुभिः ॥८०६॥
क्षिप्रं पुलकिता तस्या विरराज कुचस्थली ।
विशद्भिरिव पुषेपुषरैराकीर्नकेसरा ॥८०७॥
ततः सहेलं तामेत्य प्राह जीमूतवाहनः ।
प्रागुपायनकर्पूंरमिव दन्तांशुभिर्दिशन् ॥८०८॥
आचाररुचिरः कोऽहं क्रमस्तव सुलोचने ।
संभाष्य तेन यत्पूर्वस्वागतं प्रणयी जनः ॥८०९॥
उक्त्वेति तन्मुखाम्भोजन्यस्तलोचनषट्पदः ।
अपृच्छत्तत्सखीं लोलकुण्डलोद्द्योतिताननः ॥८१०॥
रसाधारे गुणाधारः कुरुते कस्य नो मनः ।
कौतुकोत्कलिकालोलस्वभावसुभगो जनः ॥८११॥
विधेरवधिनिर्माणत्रैलोक्यनयनोत्सवः ।
कुलालंकरणं कन्या कस्येयं ललिताकृतिः ॥८१२॥
इत्युक्ता तेन सा प्राह सखी प्रणयमन्थरम् ।
गम्भीरोदारमधुरं कलयन्ती तदाशयम् ॥८१३॥
सत्यमुन्नतसत्त्वानां दर्शनेन भवादृशाम् ।
मनो नृत्यति किं त्वस्याः क्षणं वाङ्ग प्रवर्तते ॥८१४॥
लज्जानिकेतनं कन्या कथं नाथ तवाग्रतः ।
संभाषणे सुप्रतिभा ललनेव प्रगल्भते ॥८१५॥
विश्वावसोः सिद्धपतेर्वंशमुक्तालता सुता ।
इयं मलयवत्याख्या नित्यं गौरीस्तुतिव्रता ॥८१६॥
निवेद्येति सखी क्षिप्रं तद्वयस्यादथाश्रृणोत् ।
जीमूतवाहनकथां प्राज्याभिनयशालिनीम् ॥८१७॥
ततो न्वसमुन्मेषकुसुमेशुतरङ्गिताम् ।
कान्तां पिबन्निव दृशा प्राह जीमूतवाहनः ॥८१८॥
सहजेनाभिलाषेण गुणैः कान्त्या च भूषिता ।
इयमालोक्यते क्षिप्रं यदेतज्जन्मनः फलम् ॥८१९॥
आनन्दमधुरा दृष्टिर्मनः प्रीतितरङ्गितम् ।
सतामेतावदौचित्यं बाह्यस्त्वाचारडम्बरः ॥८२०॥
समागमं सुधावृष्टिं दृष्टिपातमनुग्रहम् ।
एवंविधस्य वपुषः को हि नाम न मन्यते ॥८२१॥
इति ब्रुवाणे सानन्दं तस्मिन्विद्याधराधिपे ।
आहूता सा प्रतीहार्या प्रत्यस्थे मातुरन्तिकम् ॥८२२॥
न्यस्तं मयि मनः पाल्यमेतदत्यन्तपेशलम् ।
इतीव कान्तं सा प्राह व्रजन्ती नूपुरारवैः ॥८२३॥
ददौ त्रिकपरावृत्तिलक्षितैकस्तनी मुहुः ।
तस्मै दृशं सा धम्मिल्लमधुपासारणच्छलात् ॥८२४॥
वेपथुस्तम्भसुरुद्धा तन्वी कृच्छ्रेण सा ययौ ।
सुकुमारेण मनसा सा वहन्ती महाभुजम् ॥८२५॥
निजमन्तःपुरं प्राप्य निःश्वसन्ती श्लथांशुला ।
पपात शयनोत्सङ्गे दष्टा मकरकेतुना ॥८२६॥
तस्याः प्रववृधे क्षिप्रं स कोऽपि विरहानलः ।
यः सिच्यमानो बाष्पाम्बुपूरैरुज्जृम्भतेऽधिकम् ॥८२७॥
अत्रान्तरे जलनिधिं प्रविष्टे वासरेश्वरे ।
बभूव रागिणी संध्या नलिनीवनशालिनी ॥८२८॥
पद्मसंकोचचकिता बभ्रमुर्भ्रमरा भुवि ।
संध्यया सपदि व्युत्पास्तमोबीकजणा इव ॥८२९॥
तिमिरैरञ्जनश्यामैः श्यामावदनकुन्तलैः ।
चक्रवाकीवियोगाग्निधूमाभैरुत्थितं ततः ॥८३०॥
नीलाम्बुजैरिवोत्सृष्टं भ्रमरैरिव मूर्च्छितम् ।
नीलकण्ठैरिवोद्गीर्णं चचार सुचिरं तमः ॥८३१॥
अथादृश्यत चण्डिशजटामण्डलमण्डनम् ।
श्यामाकर्पूरतिलको रोहिणीरमणः शशी ॥८३२॥
दिक्कान्ताकेलिमुकुले निशामौक्तिककुण्डले ।
स्मरराजसितच्छत्रे शशिनि स्मेरजृम्भिते ॥८३३॥
उत्फुल्लकुसुमामोदनन्दितेन्दीवरा मुहुः ।
पद्मिनीविरहोच्छ्वासा इव बालानिला ववुः ॥८३४॥
योषितां हृदयाकाण्डभङ्गयन्त्रोपले विधौ ।
प्रौढिं प्रयाते पञ्चेषुवह्निकुण्डमहोल्मुके ॥८३५॥
श्रीखण्डरससंसिक्तकदलीदलशायिनी ।
बभूव गाढसंतापक्लान्ता सिद्धपतेः सुता ॥८३६॥
न जलार्द्रैर्न वसनैर्न हारैर्न सरोरुहैः ।
तस्या न चन्द्रकान्तैश्च शशाम मदनानलः ॥८३७॥
सा लज्जातरला प्राह तां सखीं पार्श्ववर्तिनीम् ।
अयि त्वमेव मे तत्र कान्तदर्शनसाक्षिणी ॥८३८॥
किं करोमि क्क गच्छामि कस्यैतत्कथयामि वा ।
अयं कन्याविरुद्धो मे क्रमः कामेन निर्मितः ॥८३९॥
( प्रत्यादिशन्ति संदेशं प्रयान्ति स्वयमेव वा ।
प्रियं प्रणयशालिन्यो निर्लज्जा बत योषितः ) ॥८४०॥
किं वा संदिश्यते तस्मै लीलया हतचेतसे ।
युवासौ भाग्यसंपन्नो वाचः कस्य श्रृणोति वा ॥८४१॥
विज्ञप्तोऽसीति कार्पण्यं वदतीति प्रगल्भता ।
एहीत्याज्ञावलेपोऽ‍यं प्रियोऽसीति विलज्जता ॥८४२॥
न जीवामीत्यसदृशं त्वत्प्रियास्मीत्यलक्षितम् ।
आगच्छामीत्यनुचितं स्मरार्तास्मीति चापलम् ॥८४३॥
न जाने सखि किं वाच्यो दैवादासादितोऽपि सः ।
सर्वथा नष्टसार्थेऽस्मिन्मरणं शरणं मम ॥८४४॥
वयस्यामभिधायेत्थं सा निनायाशु निर्झरैः ।
संतापशोककठिनं कुचचन्दनमार्द्रताम् ॥८४५॥
जीमूतवाहनोऽप्यस्मिन्नन्तरे विरहाकुलः ।
तस्मिन्गौरीवरोद्याने चचारेन्दुमुखीं स्मरन् ॥८४६॥
स कामभुजगाक्रान्तः कौमुदीविषमूर्च्छितः ।
संतापवुह्वलो भेजे वातूलतरलां स्थितिम् ॥८४७॥
तं ध्यानमूकमभ्येत्य क्षामं मधुकरः सखा ।
उवाच विप्लवः कोऽयं तवापि मनसः सखे ॥८४८॥
भजन्ति सततं सन्तो विद्यार्जनपरिश्रम म् ।
येन न व्यसनापाते मुह्यन्ति मतिविप्लवैः ॥८४९॥
इति श्रुत्वा विनिःश्वस्य तप्तो जीमूतवाहनः ।
क्षणं विलोक्य वसुधां स्वस्थोऽस्मीति तमभ्यधात् ॥८५०॥
प्रत्यग्रचन्दनदलैः कल्पिते सुहृदा ततः ।
निशण्णः शयने प्राप न स संतापतानवम् ॥८५१॥
अत्रान्तरे मलयवत्यभ्येत्य विरहासहा ।
गौर्याश्रमे तरुलताप्रान्ते पाशमकल्पयत् ॥८५२॥
ततः प्रणम्य गिरिजां हा हतेति विलप्य सा ।
विधाय साश्रुनयनास्तत्र बाला मृगाङ्गनाः ॥८५३॥
जीमूतवाहनो भूयादन्यस्मिन्मे स जन्मनि ।
विभुरित्यभिधायाभूत्सा पाशाभिमुखी क्षणात् ॥८५४॥
तच्छ्रुत्वा सुहृदाहूतस्तूर्णं जीमूतवाहनः ।
छन्नस्तरुलताजालैः शुश्राव च ददर्श च ॥८५५॥
ततो भगवती प्राह पुत्रि मा साहसं कृथाः ।
भविता चक्रवर्ती ते भर्ता जीमूतवाहनः ॥८५६॥
इति देवीवरं प्राप्य सा ददर्श पुरःस्थितम् ।
जीमूतवाहनं हर्शलज्जामुकुलितेक्षणा ॥८५७॥
अत्रान्तरे समभ्येत्य चेटिका तां व्यजिज्ञपत् ।
दिष्ट्या विवर्धसे देवि कल्पितस्ते महोत्सवः ॥८५८॥
त्वद्भ्रात्रा जनकादेशादद्य विद्याधरात्मजः ।
जीमूतकेतुपुत्राय दातुं त्वां सादरोत्थितः ॥८५९॥
तदेहि कल्पितोऽद्यैव विवाहो जनकेन ते ।
इति श्रुत्वैव सा तूर्णं प्रययौ चारुहासिनी ॥८६०॥
जीमूतवाहनोऽप्याशु समेत्य पितुरन्तिकम् ।
उवाह मङ्गलोदारविवाहोचितभूषणम् ॥८६१॥
ततो महोत्सवानन्दिविद्याधरशतानुगः ।
परिणीय प्रियतमां सोऽभूत्संभोगतत्परः ॥८६२॥
प्रेयस्याः सोऽग्रजं तुल्यरूपं मित्रावसुं व्यधात् ।
विलासकेलिलीलासु प्ररूढप्रेमभाजनम् ॥८६३॥
कदाचिदथ विश्रम्भात्स मित्रावसुना सह ।
चचार जलधेर्वेलावनान्तमवलोकयत् ॥८६४॥
ददर्श तत्र शिखराकारं नागास्थिसंचयम् ।
युगक्षये महाभूतं करकैरिव पूरितम् ॥८६५॥
किमेतदिति तेनाशु पृष्टो मित्रावसुस्ततः ।
उवाच गरुडेनात्र भक्षिता भुजगोत्तमाः ॥८६६॥
सर्वक्षयभयात्तार्क्ष्यस्ततो वासुकिनार्थितः ।
विसृष्टं तेन वारेण सदैकं नागमत्त्यसौ ॥८६७॥
अयमस्थिचयस्तेशामद्रिकूटसमुच्छ्रयः ।
उक्त्वेति जनकाहूतस्तूर्णं मित्रावसुर्ययौ ॥८६८॥
जीमूतवाहनोऽप्योकः सर्पेषु करुणाकुलः ।
चचार तत्र निःसारं संसारं कलयन्धिया ॥८६९॥
ततो ददर्श करुणाक्रन्दशुष्काधराननाम् ।
वृद्धाङ्गनां कुमारेण सान्त्वमानां मुहुर्मुहुः ॥८७०॥
पूर्णेन्दुसुन्दरमुखं कान्तिधूतदिगन्तरम् ।
स्फुरत्स्फीतफणारत्नपुञ्जपिञ्जरिताम्बरम् ॥८७१॥
आनन्दमिव कासारं संतोषमिव जङ्गम म् ।
तं वीक्ष्य तनयं वृद्धा ( विललापाश्रुगद्गदम् ॥८७२॥
हा पुत्र नयनानन्द सौन्दर्यामृतदीधिते ।
शङ्खपालमहावंशव्यक्तमुक्तामणीयित ) ॥८७३॥
हा शङ्खचूड लावण्यनिधानमिदमेव ते ।
यपुर्गरुडचञ्चवग्रवज्रपातासहं कथम् ॥८७४॥
भीतेन नागराजेन प्रेशितोऽसि गरुत्मते ।
सुकुमारशरीरेऽस्मिन्कस्ते त्राणं भविष्यति ॥८७५॥
इति पुत्रमुखाम्भोजमाघ्राय विललाप सा ।
जीमूतवाहनोऽभ्येत्य तामुवाच कृपाकुलः ॥८७६॥
मातः स्थितोऽस्मि ते पुत्रपरित्राणकृतक्षणः ।
परोपकारः संसारे निःसारे प्राप्यते कुतः ॥८७७॥
अयमेव सदापाये काये सारसमुच्चयः ।
यत्प्रयाति परायासत्राणसत्पुण्यपात्रताम् ॥८७८॥
इत्याकर्ण्य परित्रस्ता सुपर्णाशङ्किनी ततः ।
पुत्रमासाय साकम्पा सा पुरः प्रणनाम तम् ॥८७९॥
नाहं गुजङ्गधिपतिर्वितीर्य निजविग्रहम् ।
विद्याधरो रक्षिताहं त्वत्पुत्रस्येति सोऽय़्भ्यधात् ॥८८०॥
वृद्धावदत्तं त्वमथ(स्व्हङ्खचूडधिको मम ।
बहुकल्पशतं धन्यां रक्ष सौम्यामिमां तनुम् ॥८८१॥
इति तस्यां ब्रुवाणायां शङ्खचूडाधिको मम ।
तमभ्यधात्स्मितमुखो ललाटरचिताञ्जलिः ) ॥८८२॥
अभिनन्दितमेतत्ते दर्शनं सत्त्वशालिनः ।
पूर्णेन्दुरमृतोद्गारिकिरणः कस्य न प्रियः ॥८८३॥
अहो नु त्फ़्वं निजान्प्राणान्मदर्थं दातुमुद्यतः ।
सहामहे कथं नाम तृणार्थे रत्नविक्रयम् ॥८८४॥
कियन्तो न भवाम्भोधौ जाता याताश्च मद्विधाः ।
कौस्तुभस्येव भवतः क्क दृष्टः पुनरुद्भवः ॥८८५॥
सत्त्वोज्ज्वलं तवैवेतन्मुखेन्दौ शोभते वचः ।
अन्धकायस्य जगतामनास्थाने तु पातितम् ॥८८६॥
मद्वियोगाग्निविधुरा समाश्वास्या विभो त्वया ।
माता मे स्या अदृष्टोऽपि साधुः सुचिरबान्धवः ॥८८७॥
इति नागकुमारस्य वचः श्रुत्वा कुलोचितम् ।
जीमूतवाहनः प्राह बत चित्रं प्रभाषसे ॥८८८॥
वृद्धेयं त्वां विना पुत्रं कुलालंकरणं सखे ।
कथं जीवति दुःखं हि जननीनां सुदुःसहम् ॥८८९॥
एतां त्रातुं निजात्मानं रक्श त्वज्जीविता ह्यसौ ।
अस्याः प्राणपरित्यागे विद्वन्मा कारणं भवः ॥८९०॥
शरीरेण मदीयेन द्वयं पाहि महामते ।
इत्युक्त्वा शङ्खचूडस्य पादयोर्निपपात सः ॥८९१॥
फणिसूनुस्तमवदन्निर्बन्धकुलितस्ततः ।
श्रुत्वा विवेचितं नैव मादृशामीदृशं वचः ॥८९२॥
न नाम शङ्खधवलं शङ्खपालं महाकुलम् ।
मयापि शङ्खचूडेन सत्त्वभङ्गात्कलङ्क्यते ॥८९३॥
आसन्नो गारुडः कालः स्वस्ति गच्छाम्यहं विभो ।
वधशैले प्रणम्याशु गोकर्णं शशिशेखरम् ॥८९४॥
उक्त्वेति मात्रानुगते याते तस्मिन्क्षणादभूत् ।
उच्चण्डाकाण्डकल्पान्तवातव्याकुलितं जगत् ॥८९५॥
कालदोर्दण्डशङ्खाभाश्छटाघटितदिक्तटाः ।
उत्तस्थुर्मकरास्फारकरालाः सागरोर्मयः ॥८९६॥
ततश्चण्डांशुतप्तस्य सुमेरोरिव रश्मिमिः ।
अभूदौर्वानलेनेव पूरित्वं पिञ्जरं नभः ॥८९७॥
आगतं गरुडं ज्ञात्वा सूचितं पक्षमारुतैः ।
आरुरोह मदाबद्धः शिलां जीमूतवाहनः ॥८९८॥
रत्नांशुकेन संछन्नः स्थितस्तत्र व्यचिन्तयत् ।
सत्त्वोपकाराय पुनर्जन्म भूयान्ममेति सः ॥८९९॥
ततोऽदृश्यत दिग्दाहदारुणच्छविरम्बरे ।
प्रलयाग्निशिखालोलपक्षाक्षेपः खगेश्वरः ॥९००॥
तस्योरुवेगसंघट्टस्फूर्जद्धनघनारवैः ।
चुक्रोशाकालकल्पान्तसंत्रस्तेव जगत्त्रयी ॥९०१॥
ततः स तस्य धैर्याब्धिविद्याधरशिरोमणेः ।
जहार शिरसश्चूडं चूडारत्नेन मण्डितम् ॥९०२॥
ततः शरीरमादाय तस्य तुण्डेन खेचरः ।
गगने वलयाकारं चकार गतिविभ्रम म् ॥९०३॥
तच्चञ्चुक्रकचभ्रष्टं रत्कधारापुरःसरम् ।
अङ्के मलयवत्यास्तु चूडारत्नमथापत त् ॥९०४॥
तद्दृष्ट्वा वज्रसंरुग्णा शिरीषलतिकेव सा ।
जीमूतकेतवे तन्वी परित्रस्ता न्यवेदयत् ॥९०५॥
स्वविद्यया परिज्ञाय स्वसूनोर्जीवितव्ययम् ।
भार्यास्नुषाभ्यां सहितः सौपर्णीं तां शिलां ययौ ॥९०६॥
अत्रान्तरे शङ्खचूडस्तूर्णं तं देशमागतः ।
गोकर्णमर्णवतटे प्रणिपत्य मनोजवः ॥९०७॥
तत्रापश्यान्नखमुखोत्खातस्खलितशेखरम् ॥
विद्याधरेन्द्रमादाय तार्क्ष्यमुत्पतितं दिवि ॥९०८॥
तं वीक्ष्य साश्रुनयनो विनाघातं विदारितः ।
आत्मानं तद्वधे मत्वा कारणं विललाप सः ॥९०९॥
हा सत्त्वविपुलौदार्यधैर्यगाम्भीर्यसागर ।
हा पूर्णकरुणाकोश हा निष्कारणबान्धव ॥९१०॥
इति शोचन्स विपदमनुसर्तुं गरुत्मतः ।
जगाम जीवितत्यागदृढीकृतविनिश्चयः ॥९११॥
आस्वाद्यास्वाद्य तार्क्ष्योऽपि व्योमि जीमूतवाहनम् ।
क्षिप्रं स्थगितसंरम्भं प्रदध्यौ विस्मयाकुलः ॥९१२॥
अहो नु सत्त्ववानेष कोऽपि धैर्यमहोदधिः ।
भक्ष्यमाणस्य यङ्गास्ये जायन्ते पुलकाङ्कुराः ॥९१३॥
प्रसन्नवदनः क्षिप्रं जीवशेषोऽपि वर्तते ।
चिन्तयित्वेत्यपृच्छत्त्वं कोऽसीति विनतात्मजः ॥९१४॥
स तं प्राह किमेतेन तव भक्षय मामिति ।
अस्मिन्नवसरे शङ्खचूडोऽभ्येत्य तमब्रवीत् ॥९१५॥
हा हा मा मा कृथास्तार्क्ष्य साहसं किं न पश्यसि ।
अस्य विद्याधरेन्द्रस्य स्वस्तिकाङ्कमुरस्तटम् ॥।९१६॥
अहं स नागस्ते भक्ष्यं पश्य जिह्वालताद्वयम् ।  
विस्फूर्जद्विषफूत्कारं रत्नस्फीताः फणाश्च मे ॥९१७॥
इदानीमपि मे देहे मांसशोणितमस्ति भोः ।
न च पश्यामि ते तृप्तिं स त्वं दूरे स्थितः कुतः ॥९१८॥
इत्युक्त्वा विपुलं वक्षः प्रसार्योत्तानविग्रहः ।
तूर्णं मां भक्षयेत्याह स सुपर्णं पुनः पुनः ॥९१९॥
ततोऽस्थिशेषं तं त्यक्त्वा विषण्णे पन्नगेश्वरे ।
जीमूतवाहनवधूर्गुरुभ्यामाययौ सह ॥९२०॥
दृष्ट्वा मलयवत्यग्रे प्राणनाथं तथागतम् ।
मुमोहापूर्वशोकाग्निधूमेनेवान्धकारिता ॥९२१॥
जीमूतकेतुस्तनयं विलोक्य सह जायया ।
पपात मूलनिर्लून इव चन्दनपादपः ॥९२२॥
तार्क्ष्येणाश्वास्यमानेषु तेषु जीमूतवाहनम् ।
संस्पृश्य पाणिना माता शुशोच करुणस्वनम् ॥९२३॥
मुहूर्तोच्छेषजीवोऽपि सोऽब्रवीज्जननीं शनैः ।
मातर्विनश्वरस्यास्य किं शरीरस्य शोच्यते ॥९२४॥
भवेऽस्मिन्पवनोभ्द्रान्तवीचिविभ्रमभङ्गुरे ।
जायते पुण्ययोगेन परार्थे जीवितव्ययः ॥९२५॥
उक्त्वेति विसृजन्प्राणानविच्छायमुखच्छविः ।
स्फारेण शोकतमसा जगत्संपूरयन्निव ॥९२६॥
ततो मलयवत्यासीन्मरणे कृतनिश्चया ।
शोकस्तम्भेन संरुद्धां न चचाल पपात वा ॥९२७॥
अथ साक्षाद्भगवती गौरी तां भक्तवत्सला ।
समाश्वास सुधसारैस्तद्भर्तारमजीवयत् ॥९२८॥
चक्रवर्तिश्रियं चास्मै दत्त्वा क्षिप्रं तिरोदधे ।
ततो देवाः सगन्धर्वास्तस्य सत्त्वमपूजयन् ॥९२९॥
गरुडोऽप्यथ हृष्टात्मा वरदस्तेन याचितः ।
प्रददौ सर्वनागानां पुण्यमभयदक्षिणाम् ।
जीमूतवाहनो हृष्टः प्रययौ दयितासखः ॥९३०॥
कथयित्वेति वेतालः पप्रच्छ वसुधाधिपः ।
सत्त्ववाञ्शङ्खचूडोऽत्र किं वा जीमूतवाहनः ॥९३१॥
इति पृष्टो नृपः प्राह शङ्खचूडोऽत्र सत्त्वभूः ।
यो बालोऽपि निजौचित्यान्न चचाल महाशयः ॥९३२॥
जीमूतवाहनस्यैतदात्मदानं किमद्भुतम् ।
बोधिसत्वः स हि पुरा दत्तवान्बहुशस्तनुम् ॥९३३॥
तपस्तीव्रं यशः शुभ्रं श्लाघ्या श्रीः सत्त्वमद्भुतम् ।
निर्व्याजदानं च नृणां पूर्वाभ्यस्तं हि जायते ॥९३४॥
श्रुत्वेत्यलक्षितो गत्वा वेतालः शिंशपातरौ ।
तेनैव कण्ठपाशेन तथैवोल्लम्बितः स्थितः ॥९३५॥
इति षोडशो वेतालः ॥१८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-10-25T20:45:09.7100000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

haematological test

  • रुधिरशास्त्रीय चाचणी 
  • पु. परीक्षा 
RANDOM WORD

Did you know?

विवाहासाठीच्या मुहूर्तांची नांवे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site